०९ पशु-प्राणाप्यायनादि ...{Loading}...
पशोः प्राणानामाप्यायनम्, वपायागः
संज्ञपितस्य पशोर् वपवोत्खिदनम्
सोमऋषिः
भास्करोक्त-विनियोगः
1पत्नी अनुपूर्वं पशोः प्राणान् आप्याययति। तत्र वाचम् आप्याययति - वाक्त इति ॥
विश्वास-प्रस्तुतिः
वाक्त॒ आ प्या॑यताम् ।
Keith
Let thy speech swell,
मूलम्
वाक्त॒ आ प्या॑यताम् ।
पद-पाठः
वाक् । ते॒ । एति॑ । प्या॒य॒ता॒म् ।
भट्टभास्कर-टीका
हे पशो त्वदीया वाक् वाक्स्थानं आप्यायतां शुध्यतु; बुद्धिहेतौ शुद्धौ प्यायतिर्लक्षणया वर्तते । यद्वा - जननान्तरे देवत्वं गतस्य वा तव वाक् वर्धताम् । ‘पशोर्वा आलब्धस्य प्राणान्’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
2प्राणान् आप्याययति - प्राणस्त इति ॥
विश्वास-प्रस्तुतिः
प्रा॒णस्त॒ आ प्या॑यताम्।
पद-पाठः
प्रा॒ण इति॑ प्र-अ॒नः । ते॒ । एति॑ । प्या॒य॒ता॒म् ।
Keith
let thy breath swell,
मूलम्
प्रा॒णस्त॒ आ प्या॑यताम्।
भट्टभास्कर-टीका
2प्राणान् आप्याययति - प्राणस्त इति ॥ स्पष्टम् । थाथादिस्वरेण प्राणशब्दोन्तोदात्तः ॥
भास्करोक्त-विनियोगः
3चक्षुराप्याययति - चक्षुुस्त इति ॥
विश्वास-प्रस्तुतिः
चक्षु॑स् त॒ आ प्या॑यताम् ।
Keith
let thine eye swell,
मूलम्
चक्षु॑स्त॒ आ प्या॑यताम् ।
पद-पाठः
चक्षुः॑ । ते॒ । एति॑ । प्या॒य॒ता॒म् ।
भट्टभास्कर-टीका
3चक्षुराप्याययति - चक्षुुस्त इति ॥ गतम् ॥
भास्करोक्त-विनियोगः
4श्नोत्रम् आप्याययति - श्रोत्रं त इति ॥
विश्वास-प्रस्तुतिः
श्रोत्र॑न्त॒ आ प्या॑यताम् ।
Keith
let thine ear swell.
मूलम्
श्रोत्र॑न्त॒ आ प्या॑यताम् ।
पद-पाठः
श्रोत्र॑म् । ते॒ । एति॑ । प्या॒य॒ता॒म् । 2B ।
भट्टभास्कर-टीका
4श्नोत्रम् आप्याययति - श्रोत्रं त इति ॥ सुबोधम् ॥
भास्करोक्त-विनियोगः
5पुनर् वागादीन् अभिमृशति - या ते प्राणानिति बृहत्या पञ्चपदया अष्टर्तुवसुषडष्टाक्षरया ॥
विश्वास-प्रस्तुतिः ...{Loading}...
या ते॑ प्रा॒णाञ् छुग् ज॒गाम
या चक्षु॒र्, या श्रोत्र॑म्
यत् ते॑ क्रू॒रय्ँ यद् आस्थि॑तम्
तत् त॒ आ प्या॑यताम्,
तत् त॑ ए॒तेन॑ शुन्धताम्।
सर्वाष् टीकाः ...{Loading}...
भास्करोक्त-विनियोगः
5पुनर् वागादीन् अभिमृशति - या ते प्राणानिति बृहत्या पञ्चपदया अष्टर्तुवसुषडष्टाक्षरया ॥
मूलम् (संयुक्तम्)
या ते॑ प्रा॒णाञ्छुग्ज॒गाम॒ या चक्षु॒र्या श्रोत्रय्ँ॒यत्ते॑ क्रू॒रय्ँयदास्थि॑त॒न्तत्त॒ आ प्या॑यता॒न्तत्त॑ ए॒तेन॑ शुन्धताम्
विश्वास-प्रस्तुतिः ...{Loading}...
या ते॑ प्रा॒णाञ् छुग् ज॒गाम
या चक्षु॒र्, या श्रोत्र॑म्
यत् ते॑ क्रू॒रय्ँ यद् आस्थि॑तम्
तत् त॒ आ प्या॑यताम्,
तत् त॑ ए॒तेन॑ शुन्धताम्।
Keith
The pain that hath reached thy vital airs,
that (hath reached) thine eye,
that (hath reached) thine ear,
what is harsh in thee,
what is in its place,
–let that swell,
let that hereby be pure.
मूलम्
या ते॑ प्रा॒णाञ्छुग्ज॒गाम +++(८ अष्टाक्षराणि च)+++
या चक्षु॒र्या श्रोत्र॑म् +++(ऋतु ६ अक्षराणि)+++
यत्ते॑ क्रू॒रय्ँयदास्थि॑तम् +++(वसु ८ अक्षराणि)+++
तत्त॒ आ प्या॑यताम् +++(षट् ६ अक्षराणि)+++
तत्त॑ ए॒तेन॑ शुन्धताम् +++(अष्ट ८ अक्षराणि)+++ ॥
पद-पाठः
या । ते॒ । प्रा॒णानिति॑ प्र-अ॒नान् । शुक् । ज॒गाम॑ ।
या । चक्षुः॑ । या । श्रोत्र॑म् ।
यत् । ते॒ । क्रू॒रम् । यत् । आस्थि॑त॒मित्या-स्थि॒त॒म् ।
तत् । ते॒ । एति॑ । प्या॒य॒ता॒म् ।
तत् । ते॒ । ए॒तेन॑ । शु॒न्ध॒ता॒म् ।
भट्टभास्कर-टीका
5पुनर् वागादीन् अभिमृशति - या ते प्राणानिति बृहत्या पञ्चपदया अष्टर्तुवसुषडष्टाक्षरया ॥ हे पशो त्वदीयान्प्राणान् या शुक् जगाम प्राप या चक्षुर्जगाम या च श्रोत्रं जगाम, यच्च ते क्रूरमस्माभिः कृतम् । किं पुनस्तत्? निकर्तनमेव । यच्चान्यद्रक्षःप्रभृति मांसलोभेन त्वामास्थितं आश्रित्य स्थितम् । ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् । तत्ततः । ‘सुपां सुलुक्’ इति पञ्चम्या लुक् । ततश्शुचः क्रूरादास्थातुश्च त्वदीय प्राणादिकं सर्वमाप्यायतां तस्मादनिष्टरूपान्निर्मुक्तं वर्धताम् । किञ्च – तस्मादेव निर्मुक्तमेतेन प्रक्षालनेन शुन्धतां शुद्धं भवतु । व्यत्ययेनात्मनेपदम् ॥
भास्करोक्त-विनियोगः
6नाभिं सम्मृशति - नाभिस्त इति ॥
विश्वास-प्रस्तुतिः
नाभि॑स् त॒ आ प्या॑यताम् ।
Keith
Let thy navel swell.
मूलम्
नाभि॑स्त॒ आ प्या॑यताम् ।
पद-पाठः
नाभिः॑ । ते॒ । एति॑ । प्या॒य॒ता॒म् ।
भट्टभास्कर-टीका
6नाभिं सम्मृशति - नाभिस्त इति ॥ गतम् ॥
भास्करोक्त-विनियोगः
7पायुं +++(जलेन)+++ सम्मृशति - पायुस्त इति ॥
विश्वास-प्रस्तुतिः
पा॒युस् त॒ आ प्या॑यताम् ।
Keith
let thine anus swell
मूलम्
पा॒युस्त॒ आ प्या॑यताम् ।
पद-पाठः
पा॒युः । ते॒ । एति॑ । प्या॒य॒ता॒म् ।
भट्टभास्कर-टीका
7पायुं सम्मृशति - पायुस्त इति ॥ गतमेव ॥
भास्करोक्त-विनियोगः
8सम्प्रगृह्य पदः प्रक्षालयति सहैव - शुद्धा इति ॥
मूलम् (संयुक्तम्)
शु॒द्धाश्च॒रित्रा॒श्शम॒द्भ्यः [16]शमोष॑धीभ्य॒श्शम्पृ॑थि॒व्यै
विश्वास-प्रस्तुतिः
शु॒द्धाश् च॒रित्राः॑ ।
शम् अ॒द्भ्यः ।
शमोष॑धीभ्यः ।
शम्पृ॑थि॒व्यै ।
Keith
Be thy feet pure.
Hail to the waters [1]!
Hail to the plants!
Hail to earth!
मूलम्
शु॒द्धाश् च॒रित्राः॑ ।
शम् अ॒द्भ्यः ।
शम् ओष॑धीभ्यः ।
शम् पृ॑थि॒व्यै ।
पद-पाठः
शु॒द्धाः । च॒रित्राः॑ ।
शम् । अ॒द्भ्य इत्य॑त्-भ्यः । [16]
शम् । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ ।
शम् । पृ॒थि॒व्यै ।
भट्टभास्कर-टीका
8सम्प्रगृह्य पदः प्रक्षालयति सहैव - शुद्धा इति ॥
चरित्राश्चरणाः । ‘आर्तिलूधूसूखनसहचर इत्रः’ इतीत्रप्रत्ययः । ते शुद्धाः अनेन क्षालनेन भवन्त्विति शेषः ।
शं सुखं शान्तिर्वा । शाम्यतेर्विच् । अद्भ्य ओषधीभ्यः पृथिव्याश्च हेतुभ्यः, अस्य पशोश्शं भवत्विति शेषः । तादर्थ्ये वा चतुर्थी, अबाद्यर्थं शमस्त्विति । ‘ऊडिदम्’ इत्यादिना अद्भ्यो विभक्तेरुदात्तत्वम् ।
ओषधिशब्दो दासीभारादिः, ‘ओषधेश्च विभक्तावप्रथमायाम्’ इति दीर्घः । ‘उदात्तयणो हर्ल्पूवात्’ इति पृथिव्या विभक्तेरुदात्तत्वम् ॥
भास्करोक्त-विनियोगः
9अवशिष्टा दक्षिणतो ऽनुपृष्ठम् अपो निनयति - शमहोभ्यामिति ॥
विश्वास-प्रस्तुतिः
शम् अहो॑भ्याम् ।
Keith
Hail to night and day!
मूलम्
शमहो॑भ्याम् ।
पद-पाठः
शम् । अहो॑भ्या॒मित्यहः॑-भ्या॒म् ।
भट्टभास्कर-टीका
9अवशिष्टा दक्षिणतो ऽनुपृष्ठम् अपो निनयति - शमहोभ्यामिति ॥ अहोभ्याम् अह्ना रात्र्या च हेतुभ्यां पृथिव्याश्शं भवतु । कुत एतत्? तस्या अनन्तरप्रकृतत्वात् । ‘अहोरात्राभ्यामेव पृथिव्यै शुचं शमयति’ ` इति च ब्राह्मणम् । अहस्सहचरिता रात्रिरप्यहरित्युच्यते, तत एकशेषः । यद्वा - व्यत्ययेन विरूपयोरप्येकशेषः प्रवर्तते । ‘सा प्राणेभ्योधि पृथिवीम्’ इत्यादि बाह्मणम् ॥
भास्करोक्त-विनियोगः
10वपाग्रहणदेशे प्राचीनाग्रं बर्हिर्निदधाति - ओषधे त्रायस्वैनमिति ॥ व्याख्यातम् ॥
ओषधे ...{Loading}...
भास्करोक्त-विनियोगः
ऊर्ध्वाग्रं बार्हिर् अनूच्छ्रयति - ओषधे त्रायस्वैनमिति ॥
विश्वास-प्रस्तुतिः
ओष॑धे॒ त्राय॑स्वैनम्।
Keith
O plant, protect him.
मूलम् (संयुक्तम्)
ओष॑धे॒ त्राय॑स्वैनँ॒ स्वधि॑ते॒ मैनँ॑ हिँसीः
मूलम्
ओष॑धे॒ त्राय॑स्वैनम्।
पद-पाठः
ओष॑धे । त्राय॑स्व । ए॒न॒म् ।
भट्टभास्कर-टीका
2ऊर्ध्वाग्रं बर्हिरनुच्छ्रयति - ओषध इति ॥ हे ओषधे बर्हिरात्मिके । आमन्त्रिताद्युदात्तत्वम् । एनं यजमानं त्रायस्व रक्ष । स्वधितिव्यवधानमेव रक्षणं बर्हिषा ॥
+++(अन्यत्र - )+++ 3ऊर्ध्वाग्रं बार्हिर् अनूच्छ्रयति - ओषधे त्रायस्वैनमिति ॥ हे ओषधे बर्हिरेनं यूपार्थं वृक्षं त्रायस्व रक्ष यागसाधनत्वापादनेन वृक्षत्वान्मोचयित्वा उत्तमां गतिं गमय ॥
भट्टभास्कर-टीका
10वपाग्रहणदेशे प्राचीनाग्रं बर्हिर्निदधाति - ओषधे त्रायस्वैनमिति ॥ व्याख्यातम् ॥
भट्टभास्कर-टीका
10वपाग्रहणदेशे प्राचीनाग्रं बर्हिर्निदधाति - ओषधे त्रायस्वैनमिति ॥ व्याख्यातम् ॥
भास्करोक्त-विनियोगः
11स्वधितिं निदधाति - स्वधिते मैनं हिंसीरिति ॥ व्याख्यातमेव ॥
स्वधिते ...{Loading}...
भास्करोक्त-विनियोगः
4स्वधितिना तिर्यञ्चं प्रहरति
विश्वास-प्रस्तुतिः
स्वधि॑ते॒+++(=क्षुर)+++! मैनँ॑ हिँसीः ।+++(र४)+++
Keith
Axe, hurt him not.
मूलम्
स्वधि॑ते॒ मैनँ॑ हिँसीः ।
पद-पाठः
स्वधि॑त॒ इति॒ स्व-धि॒ते॒ । मा । ए॒न॒म् । हिँ॒सीः॒ ।
भट्टभास्कर-टीका
3तस्मिन् बर्हिषि स्वधितिं तिर्यञ्चं निदधाति - स्वधित इति ॥ स्वस्मिन् प्रयोजने धितिरवस्थानमस्येति स्वधितिः स्वकार्यसमर्थः । धाञः आकारस्येकारः, बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरत्वम्, इह त्वामन्त्रिताद्युदात्तत्वम् । हे स्वधिते क्षुर एनं यजमानं मा हिंसीः । हिंसाप्रतिषेधो वप्तुरप्रमादाय ॥
- स्वधितिना तिर्यञ्चं प्रहरति - स्वधिते मैनं हिंसीरिति ॥ हे स्वधिते त्वमप्येनं मा हिंसीः उत्तमामेव गतिं गमय । व्याख्यातौ च प्रागेवेतौ मन्त्रौ । ‘अनक्षसङ्गं वृश्चेत्’ इत्यादि ब्राह्मणम् ॥
भट्टभास्कर-टीका
11स्वधितिं निदधाति - स्वधिते मैनं हिंसीरिति ॥ व्याख्यातमेव ॥
भट्टभास्कर-टीका
11स्वधितिं निदधाति - स्वधिते मैनं हिंसीरिति ॥ व्याख्यातमेव ॥
भास्करोक्त-विनियोगः
12उपाकरणबर्हिषोर् मूलं लोहितेनाङ्क्त्वा इमां दिशं निरस्यति - रक्षसां भागोसीति ॥
मूलम् (संयुक्तम्)
रक्ष॑साम्भा॒गो॑ऽसी॒दम॒हँ रक्षो॑ऽध॒मन्तमो॑ नयामि
विश्वास-प्रस्तुतिः
रक्ष॑साम् भा॒गो॑ ऽसि ।
इ॒दम् अ॒हँ रक्षो॑ ऽध॒मन् तमो॑ नयामि।
Keith
Thou art the share of the Raksases.
This Raksas here I lead to the lowest darkness.
मूलम्
रक्ष॑साम्भा॒गो॑ऽसि।
इ॒दम॒हँ रक्षो॑ऽध॒मन्तमो॑ नयामि ।
पद-पाठः
रक्ष॑साम् । भा॒गः । अ॒सि॒ ।
इ॒दम् । अ॒हम् । रक्षः॑ । अ॒ध॒मम् । तमः॑ । न॒या॒मि॒ ।
भट्टभास्कर-टीका
12उपाकरणबर्हिषोर् मूलं लोहितेनाङ्क्त्वा इमां दिशं निरस्यति - रक्षसां भागोसीति ॥
रक्षसां भागस्त्वमसि । भागशब्दः ‘कर्षात्वतः’ इत्यन्तोदात्तः । यत्पुनरिह लोहितभक्षणे व्यापृतं रक्षस्तदिदमधमं निकृष्टं तमो नरकं अहमध्वर्युर्नयामि प्रापयामि ।
विश्वास-प्रस्तुतिः
यो॑ ऽस्मान् द्वेष्टि॒
यञ् च॑ व॒यन् द्वि॒ष्म
इ॒दम् ए॑नम्
अध॒मन् तमो॑ नयामि ।
Keith
Him who hateth us and whom we hate,
here him I lead to the lowest darkness.
मूलम्
यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इ॒दमे॑नमध॒मन्तमो॑ नयामि ।
पद-पाठः
यः । अ॒स्मान् । द्वेष्टि॑ ।
यम् । च॒ । व॒यम् । द्वि॒ष्मः ।
इ॒दम् । ए॒न॒म् । अ॒ध॒मम् । तमः॑ । न॒या॒मि॒ ।
भट्टभास्कर-टीका
किञ्च - योस्मान्द्वेष्टि यं च वयं द्विष्मस्तमप्येनं द्वेष्टारं द्वेष्यं च इदमेव प्रसिद्धं अधमं तमो नरकाख्यं नयामि । ‘द्वौ वाव पुरुषौ’ इत्यादि ब्राह्मणम् ॥
(संज्ञपितस्य पशोर्वपोत्खेदनम् )वपायागः
भास्करोक्त-विनियोगः
13वपाम् उत्खिदति+++(=निष्कासयति)+++ - इषे त्वेति ॥
विश्वास-प्रस्तुतिः
इ॒षे त्वा॑ +++(उत्खिदामि)+++।
Keith
For food thee!
मूलम्
इ॒षे त्वा॑ ।
पद-पाठः
इ॒षे । त्वा॒ ।
भट्टभास्कर-टीका
13वपामुत्खिदति - इषे त्वेति ॥ इट् अन्नं, यजमानस्यैषणीयत्वात् । ‘इच्छत इव ह्येष यो यजते’ इत्यादि ब्राह्मणम् ॥
यद्वा - कर्मसिद्धं स्वर्गादिकं कर्मनिर्वृत्तिं वा इच्छतीतीट् यजमानः, तदर्थं तस्याभिमतसिद्ध्यर्थं त्वामुत्खिदामीति शेषः ॥
भास्करोक्त-विनियोगः
14वपया वपाश्रपण्यौ प्रोर्णोति - घृतेनेति ॥
विश्वास-प्रस्तुतिः
घृ॒तेन॑ द्यावा-पृथिवी॒ प्रोर्ण्वा॑थाम् ।
Keith
In ghee, O sky and earth, be covered.
मूलम्
घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑थाम् ।
पद-पाठः
घृ॒तेन॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा-पृ॒थि॒वी॒ । प्रेति॑ । ऊ॒र्ण्वा॒था॒म् ।
भट्टभास्कर-टीका
14वपया वपाश्रपण्यौ प्रोर्णोति - घृतेनेति ॥ हे द्यावापृथिवी द्यावापृथिव्यौ द्यावम्पृथिव्यात्मके वपाश्रपण्यौ । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । द्यावापृथिव्यात्मना वपाश्रपण्यौ स्तूयेते । यद्वा - द्योतनात् द्यौः । दिवेर्डिविप्रत्ययः । पृथुत्वात्पृथिवी । प्रथेष्षिवन्प्रत्ययः । हे इड्र्श्यौ वपाश्रपण्यौ घृतेन स्निग्धत्वाद्घृततुल्यया वपयात्मानं प्रोर्ण्वाथां प्रकर्षेणाच्छादयतम् । यद्वा - घृतेन सलिलेन सर्वं जगत्प्रोर्ण्वाथाम् । अथवा - द्यावापृथिव्यावेवोच्येते । हे द्यावापृथिव्यौ घृतस्थानीयया वपया वपाश्रपण्यौ प्रोर्ण्वाथाम् । एवं वा - हे द्यावापृथिव्यौ घृतेन सलिलेन विश्वं प्रोर्ण्वाथाम् । अनेन वपाश्रपण्याच्छादनेन आत्मानमेव प्रोर्ण्वाथाम् । ‘द्यावाष्टथिवी एव रसेनानक्ति’ `इति ब्राह्मणम् ॥ ‘दिवो द्यावा’ इति द्यावादेशः ॥
भास्करोक्त-विनियोगः
15अधस्ताद् वपरं परिवासयति - अच्छिन्न इति ॥
अच्छिन्नः ...{Loading}...
भास्करोक्त-विनियोगः
15अधस्ताद् वपरं परिवासयति - अच्छिन्न इति ॥
विश्वास-प्रस्तुतिः
अच्छि॑न्नो॒ राय॑स् सु॒वीरः॑ ॥ [9]
Keith
uncut, with wealth of heroes, (give us) riches.
मूलम्
अच्छि॑न्नो॒ राय॑स्सु॒वीरः॑ ॥ [9]
पद-पाठः
अच्छि॑न्नः । रायः॑ । सु॒वीर॒ इति॑ सु-वीरः॑ ॥ [9]
भट्टभास्कर-टीका
9चतुरङ्गुलमग्रं चषालाय+++(=यूप-कटकाय)+++ प्रच्छेदयति - अच्छिन्न इति ॥ अच्छिन्नः । अद्व्ययपूर्वपदप्रकृतिस्वरत्यम् । रायः धनानि देहीति शेषः । यद्वा - अच्छिन्नो धनस्य सुवीरश्च भवेत्यध्याहारः । ‘ऊडिदं’ इत्यादिना तृतीयादेर्विभक्तेरुदात्तत्वं व्यत्ययेन न क्रियते । ईदृशस्त्वमेव नो रायः । शोभना वीराः पुत्रपौत्रादयोस्य यजमानस्य येन भवन्ति स सुवीरः । ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युतात्त्वन् । यस्मात्त्वया यजमानस्य आयुष्मन्तः पूत्रादय उत्पद्यन्ते, तस्मात्तेषामभिवृद्ध्यर्थं अविच्छेदेन धनानि देहीति ॥
भट्टभास्कर-टीका
15अधस्ताद्वपरं परिवासयति - अच्छिन्न इति ॥ व्याख्यातम् ॥
भास्करोक्त-विनियोगः
16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव ।
उर्वन्तरिक्षम् ...{Loading}...
भास्करोक्त-विनियोगः
16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव ।
विश्वास-प्रस्तुतिः
उ॒र्व् अ᳙न्तरि॑क्ष॒म् अन्वि॑हि ।
+++(महान् पन्थाः, सुखेन गच्छेति भावः ॥)+++
Keith
Fare along the wide atmosphere.
मूलम्
उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि ।
पद-पाठः
उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ ।
भट्टभास्कर-टीका
18प्रत्यागच्छति - उर्विति गायत्र्यैकपदया ॥ उरु विस्तीर्णमन्तरिक्षं अन्विहि अनुगच्छ । महान् पन्थाः, सुखेन गच्छेति भावः ॥
भट्टभास्कर-टीका
16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव । हे वपे उत्खेदनविबाधिते अधुना महान्तमन्तरिक्षाख्यं पन्थानं अनुगच्छेति विशेषः । ‘क्रूरमिव वा एतत्करोति यद्वपामुत्खिदति’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
17आहवनीयस्यान्तिमेष्व् अङ्गारेषु वपायै प्रतितप्यमानायै अधस्ताद् बर्हिषो ऽग्रम् उपास्यति - वायविति ॥
विश्वास-प्रस्तुतिः
वायो॒ वीहि॑ स्तो॒काना॑म् ।
Keith
O Vayu, taste the drops.
मूलम्
वायो॒ वीहि॑ स्तो॒काना॑म् ।
पद-पाठः
वायो॒ इति॑ । वीति॑ । इ॒हि॒ । स्तो॒काना॑म् ।
भट्टभास्कर-टीका
17आहवनीयस्यान्तिमेष्व् अङ्गारेषु वपायै प्रतितप्यमानायै अधस्ताद् बर्हिषो ऽग्रम् उपास्यति - वायविति ॥
हे वायो स्तोकानां वीहि स्तोकान्वीहि । ‘क्रियाग्रहणं कर्तव्यम्’ इति सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । वीहि विविधं गच्छ पृथक्पृथक्सर्वान्स्तोकान्विभजेति यावत् । ‘तस्माद्विभक्ता स्तोका अव पद्यन्ते’ `इति ब्राह्मणम् । प्रथमं स्तोकान्गृह्णाति, ततो वृष्टिरूपेण विसृजति, ततो महाजलेन विभ्राजति, ततस्तोकात्मना अवपद्यन्ते पृथिव्यामाप इति । एवं बर्हिरग्रदहनजन्मा वायुरामन्त्र्यते ‘अग्नं वा एतत्पशूनां यद्वपाग्रम्’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
18वपाश्रपण्यौ प्रहरति - स्वाहेति ॥
विश्वास-प्रस्तुतिः
स्वाहो॒र्ध्व-न॑भसम् मारु॒तङ् ग॑च्छतम् ॥ [17]
Keith
Hail! go to Urdhva-nabhas, offspring of the Maruts.
मूलम्
स्वाहो॒र्ध्वन॑भसम् मारु॒तङ्ग॑च्छतम् ॥ [17]
पद-पाठः
स्वाहा॑ । ऊ॒र्ध्वन॑भस॒मित्यू॒र्ध्व-न॒भ॒स॒म् । मा॒रु॒तम् । ग॒च्छ॒त॒म् ॥ [17]
भट्टभास्कर-टीका
18वपाश्रपण्यौ प्रहरति - स्वाहेति ॥ हे वपाश्रपण्यौ युवां स्वाहा स्वाहुते भूत्वा ऊर्ध्वनभसं ऊर्ध्वनभस्संज्ञं मारुतं गच्छतं, यथा तेनैव प्रहृते स्याताम् । ऊर्ध्वं नभत इत्यूर्ध्वनभाः । णभ हिंसायां, अत्र तु गतिकर्मा, तस्मात् ‘गतिकारकयोरपि पूर्वप दप्रकृतिस्वरत्वं च’ इत्यसुन्प्रत्ययः । ‘ऊर्ध्वनभा ह स्म वै मारुतो देवानाम्’ इत्यादि ब्राह्मणम् ॥
इति तृतीये नवमोनुवाकः ॥