०८ पशु-विशसनादि ...{Loading}...
(उपाकृताग्नीषोमीय-पशु-विशसनम् )पशोः संज्ञपनम्
१२ त्रिष्टुप् १६ अनुष्टुप् सोमऋषिः
भास्करोक्त-विनियोगः
1अथ पशुरशनाम् आदत्ते - आ दद इति ॥
देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…
Keith
On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…
पद-पाठः
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।
भट्टभास्कर-टीका
सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं
‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥
सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥
तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां
विश्वास-प्रस्तुतिः
आ द॑दे ।
Keith
I grasp thee.
मूलम्
आ द॑दे ।
पद-पाठः
एति॑ । द॒दे॒ ।
भट्टभास्कर-टीका
1अथ पशुरशनाम् आदत्ते - आ दद इति ॥ गृह्नामीत्यर्थः । अस्य शेषभूतस्सावित्रो ‘देवस्य त्वा’ इत्यादिना व्याख्यात एव ॥
भास्करोक्त-विनियोगः
2तया अक्ष्णया पशुम् अभिनिदधाति - ऋतस्य त्वेति ॥
विश्वास-प्रस्तुतिः
ऋ॒तस्य॑ त्वा देव-हवि॒ᳶ! पाशे॒नाऽऽर॑भे ।
Keith
Offering to the gods, I seize thee with the noose of sacred order.
मूलम्
ऋ॒तस्य॑ त्वा देवहवि॒ᳶ पाशे॒नाऽऽर॑भे ।
पद-पाठः
ऋ॒तस्य॑ । त्वा॒ । दे॒व॒ह॒वि॒रिति॑ देव-ह॒विः॒ । पाशे॑न । एति॑ । र॒भे॒ ।
भट्टभास्कर-टीका
2तया अक्ष्णया पशुम् अभिनिदधाति - ऋतस्य त्वेति ॥ हे देवहविः देवानां हविर्भूत पशो, ऋतस्य सत्यस्य यज्ञस्य वा पाशेन बन्धिकयानया रशनया त्वामालभे बध्नामि । यद्वा - ऋतस्य यज्ञस्यार्थाय त्वां पाशेन बध्नामि । ‘सत्यं वा ऋतम्’ इत्यादि ब्राह्मणम्, ‘अक्ष्णया परि हरति’ इत्यादि च ॥
भास्करोक्त-विनियोगः
3तेन यूपे पशुं नियुनक्ति - धर्षा मानुषानिति ॥
विश्वास-प्रस्तुतिः
धर्षा॒ मानु॑षान् ।
Keith
Fear not men.
मूलम्
धर्षा॒ मानु॑षान् ।
पद-पाठः
धर्ष॑ । मानु॑षान् ।
भट्टभास्कर-टीका
3तेन यूपे पशुं नियुनक्ति - धर्षा मानुषानिति ॥ मनुष्येभ्य आगता उपद्रवा मानुषाः । अत्र ‘हलस्तद्धितस्य’ इति यलोपः, वृषादित्वादाद्युदात्तत्वम् । उत्सादिर्वा द्रष्टव्यः । तान् धर्ष अभिभव यागसाधनत्वेन देवत्वप्राप्त्या मानुषोपद्रवरहितो भवेत्यर्थः । धृष प्रसहने, चौरादिक उदात्तेदाधृषीयः । प्रसहनमभिभवः । ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् । यद्वा - मनुष्या एव मानुषाः । ‘मनोर्जातौ’ इत्यञ् । तान् धर्ष देवत्वप्राप्त्यैव ॥
भास्करोक्त-विनियोगः
4पशुं प्रोक्षति - अद्भ्यस्त्वेति ॥
मूलम् (संयुक्तम्)
अ॒द्भ्यस्त्वौष॑धीभ्य॒ᳶ प्रोक्षा॑मि ।
विश्वास-प्रस्तुतिः
अ॒द्भ्यस् त्वा॑
ओष॑धीभ्य॒ᳶ प्रोक्षा॑मि ।
Keith
For the waters thee, for the plants thee, I sprinkle.
मूलम्
अ॒द्भ्यस्त्वा॑
ओष॑धीभ्य॒ᳶ प्रोक्षा॑मि ।
पद-पाठः
अ॒द्भ्य इत्य॑त्-भ्यः । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ । प्रेति॑ । उ॒क्षा॒मि॒ ।
भट्टभास्कर-टीका
4पशुं प्रोक्षति - अद्भ्यस्त्वेति ॥ तादर्थ्ये चतुर्थी, आप ओषधयश्च भूयासुरित्येवमथर्म् ।
हे पशो त्वां प्रोक्षामि प्रकर्षेण सिञ्चामि । पशोरपामोषधीनां कार्यत्वात्कार्यकारणयोश्चाभिन्नत्वात् कार्यभूतपशुप्रोक्षणेन तत्कारणानां सिद्धिरिति भावः । ’ अद्भ्यो ह्येष ओषधीभ्यस्सम्भवति यत्पशुः’ ` इति च ब्राह्मणम् । यद्वा - अद्भ्य ओषधीभ्यश्च जातं त्वां प्रोक्षामि; कारणेन हि कार्याणां शुद्धिः । पवित्रेणोत्पूतत्वादोषधिसम्बन्धोप्यस्ति । ‘ऊडिदम्’ इत्यादिना अद्भ्यः परस्या विभक्तेरुदात्तत्वम् । ओषधिशब्दस्य दासीभारादित्वार्त्पूवपदप्रकृतिस्वरत्वम् । ओषशब्दो घञन्त आद्युदात्तः ॥
भास्करोक्त-विनियोगः
5पाययति - अपां पेरुरसीति ॥
विश्वास-प्रस्तुतिः
अ॒पाम् पे॒रुर्+++(=पाता)+++ अ॑सि ।
Keith
Thou art a drinker of the waters.
मूलम्
अ॒पाम्पे॒रुर॑सि ।
पद-पाठः
अ॒पाम् । पे॒रुः । अ॒सि॒ ।
भट्टभास्कर-टीका
5पाययति - अपां पेरुरसीति ॥ हे पशो अपां पेरु पातासि त्वं, ततः इमाः पिबेति गम्यते । यद्वा - असीति पञ्चमो लकारः, अपां पाता भव । पूर्ववदद्भ्योविभक्तेरुदात्तत्वम् । पा पाने, ‘मापो रुरिच्च’ इति पिबतेरुप्रत्ययः इकारश्च, पेरुः । ‘एष ह्यपां पाता’ इत्यादि ब्राह्मणं । पानेन चान्तश्शुद्धिः क्रियते । ‘पाययत्यन्तरत एवैनम्मेध्यं करोति’ ` इति च ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
6अधस्ताद् उपोक्षति - स्वात्तमिति द्विपदया गायत्र्या ॥
विश्वास-प्रस्तुतिः
स्वा॒त्तञ् चि॒त् सद् ए॑वँ ह॒व्यम्
आपो॑ देेवी॒स् स्वद॑तैनम् ।
Keith
Ye divine waters, make it palatable, a very palatable offering for the gods.
मूलम्
स्वा॒त्तञ्चि॒त् सदे॑वँ ह॒व्यम् ..
आपो॑ देेवी॒स्स्वद॑तैनम् ।
पद-पाठः
स्वा॒त्तम् । चि॒त् । सदे॑व॒मिति॒ स-दे॒व॒म् । ह॒व्यम् । आपः॑ । दे॒वीः॒ । स्वद॑त । ए॒न॒म् ।
भट्टभास्कर-टीका
6अधस्तादुपोक्षति - स्वात्तमिति द्विपदया गायत्र्या ॥
स्वात्तम् आस्वाद्यमानं स्वादुभूतमित्यर्थः । स्वाद आस्वादने । ‘आदितश्च’ इति चकारस्यानुक्तसमुच्चयार्थत्वादाश्वस्तादिवदिडाभावः । चिद् इत्य् अप्य् अर्थे, एवार्थे वा; पूर्वम् एव स्वादुं सन्तम् एनं हव्यं पशुं स्वदत आस्वादयत स्वादुतमं कुरुत । ष्वद स्वर्द आस्वादने अनुदात्तेत्, तस्मात् ण्यन्ताल्लोटि ‘बहुलं सज्ञाछन्दसोः’ इति णेर्लुक् । ‘अणावकर्मकात्’ इति परस्मैपदम्, स्वदमानस्य पशोश्चित्तवत्त्वात् । ‘स्वदयत्येवैनम्’ ` इति च ब्राह्मणम् ।
हे आपो देवीः देव्यः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । अत्र आप इति पादादित्वान्न निहन्यते, षाष्ठिकमामन्त्रिताद्युदात्तत्वं प्रवर्तते । ‘विभाषितं विशेषवचने बहुवचनम्’ इति तस्याविद्यमानत्वनिषेधाद्देवीरिति निहन्यते । ‘आमन्त्रितं पूर्वमविद्यमानवत्’ इति तयोर्द्वयोरप्यविद्यमानत्वेन पादादिभूतं स्वदतेति तिङन्तं न निहन्यते । एनादेशोनुदात्त एव ।
हव्यं पशुर्विशेष्यते - सदेवं देवसहितं देवाधिष्ठितम् । ‘तेन सहेति तुल्ययोगे’ इति बहुव्रीहिः, ‘वोपसर्जनस्य’ इति सभावः । सदेवत्वस्यानाशासनीयत्वात् तेन ‘प्रकृत्याशिष्यगोवत्सहल’ इति प्रकृतिभावाभावः । पुनश्च विशेष्यते - हव्यं हविर्भूतम् । जुहोतेः ‘अचो यत्’ इति यत्, उञ्छादिर्द्रष्टव्यः । यद्वा - हवमर्हतीति हव्यं । ‘छन्दसि च’ इति यत्प्रत्ययः ॥
भास्करोक्त-विनियोगः
7जुह्वा पशुं समनक्ति ललाटे ककुदि श्रोण्यां च – सन्ते प्राण इति पुरउष्णिहा त्रिपदया द्वादश-वस्व्-अष्टाक्षरया ॥ तत्र ललाटे समनक्ति - सन्ते प्राणो वायुना गच्छतामिति ।
मूलम् (संयुक्तम्)
सन्ते॑ प्रा॒णो वा॒युना॑ गच्छताँ॒ सय्ँयज॑त्रै॒रङ्गा॑नि॒ सय्ँ य॒ज्ञप॑तिरा॒शिषा॑
प्रदीपसिंहः
द्वादश १२, वसु ८, अष्ट ८ अक्षराणि इति भाष्ये । अत्र न्यूनाक्षराणि सन्ति।
विश्वास-प्रस्तुतिः
सन् ते॑ प्रा॒णो वा॒युना॑ गच्छताँ।
Keith
Let thy breath be united with the wind,
मूलम्
सन्ते॑ प्रा॒णो वा॒युना॑ गच्छताम् ।
पद-पाठः
समिति॑ । ते॒ । प्रा॒ण इति॑ प्र-अ॒नः । वा॒युना॑ । ग॒च्छ॒ता॒म् ।
भट्टभास्कर-टीका
7जुह्वा पशुं समनक्ति ललाटे ककुदि श्रोण्यां च – सन्ते प्राण इति पुरउष्णिहा त्रिपदया द्वादशवस्वष्टाक्षरया ॥ तत्र ललाटे समनक्ति - सन्ते प्राणो वायुना गच्छतामिति ।
हे पशो त्वदीयः प्राणो वायुः वायुना वरिष्ठेन भूतात्मना सह सङ्गच्छतामेकीभवतु । ‘समोगमृच्छि’ इत्यात्मनेपदम् । ‘वायुदेवत्यो वै’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
8ककुदि समनक्ति - सं यजत्रैरिति ॥
विश्वास-प्रस्तुतिः
सय्ँ यज॑त्रै॒र् अङ्गा॑नि +++(गच्छताम्)+++ ।
Keith
thy limbs with the sacrificial,
मूलम्
सय्ँयज॑त्रै॒रङ्गा॑नि +++(गच्छताम्)+++ ।
पद-पाठः
समिति॑ । यज॑त्रैः । अङ्गा॑नि ।
भट्टभास्कर-टीका
8ककुदि समनक्ति - सं यजत्रैरिति ॥ त्वदीयान्यङ्गानि हृदयादीनि यजत्रैर्यागैस्सङ्गच्छन्तां यागसाधनानि भवन्तु । यद्वा - यागसाधनैस्सङ्गच्छन्तां यागसाधनमध्ये वर्तन्ताम् । गच्छन्तामिति लौकिको वाक्यशेषः, अनुषङ्गस्याभावात् । ‘अमिनक्षियजिवधिपतिभ्योऽत्रन्’ इति यजेरत्रन्प्रत्ययः । ‘विश्वरूपो वै त्वाष्ट्र उपारिष्टात् पशुमभ्यवमीत्’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
9दक्षिणस्यां श्रोण्यां समनक्ति - सं यज्ञपतिरिति
विश्वास-प्रस्तुतिः
सय्ँ य॒ज्ञप॑तिर् आ॒शिषा॑ +++(गच्छताम्)+++ ।
Keith
the lord of the sacrifice with his prayer.
मूलम्
सय्ँ य॒ज्ञप॑तिरा॒शिषा॑ +++(गच्छताम्)+++ ।
पद-पाठः
समिति॑ । य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ-प॒तिः॒ । आ॒शिषेत्या॑-शिषा॑ ।
भट्टभास्कर-टीका
9दक्षिणस्यां श्रोण्यां समनक्ति - सं यज्ञपतिरिति ॥ यज्ञपतिर्यजमान आशिषा प्रार्थनापदेन सङ्गच्छताम् । लौकिक एव वाक्यशेषः, लोकिकेन बहुवचनेन वैदिकस्य व्यवहितत्वात् । ‘पत्यावैश्वर्य’ इति यज्ञपतिशब्दे पूर्वपदस्य प्रकृतिस्वरत्वम् । आङ्पूर्वाच्छासेः क्विपि इत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
10स्वधितिं स्वरुं च जुह्वाम् अङ्क्त्वा ताभ्यां पशुं समनक्ति - घृतेनेति ॥
विश्वास-प्रस्तुतिः
घृ॒तेना॒क्तौ प॒शुन् त्रा॑येथाः ।
Keith
Anointed with ghee, do ye guard the beast.
मूलम्
घृ॒तेना॒क्तौ प॒शुन्त्रा॑येथाः ।
पद-पाठः
घृ॒तेन॑ । अ॒क्तौ । प॒शुम् । त्रा॒ये॒था॒म् ।
भट्टभास्कर-टीका
10स्वधितिं स्वरुं च जुह्वाम् अङ्क्त्वा ताभ्यां पशुं समनक्ति - घृतेनेति ॥ हे स्वरो स्वधिते घृतेन प्रयाजशेषेणानेन अक्तौ सन्तौ पशुं त्रायेथाम् समञ्जनेन रक्षतम् । ‘वज्रो वै स्वधितिर्वज्रो यूपशकलः’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
11पशुम् उदञ्चन् नीयमानम् अनुमन्त्रयते - रेवतीर् यज्ञपतिम् इति यजुर्-आदिकया, उरो अन्तरिक्षेति पञ्चपदया रुद्रेशवसुमुनिस्वराक्षरया ॥
मूलम् (संयुक्तम्)
रेव॑तीर्य॒ज्ञप॑तिम्प्रिय॒धाऽऽवि॑श॒तोरो॑ अन्तरिक्ष स॒जूर्दे॒वेन॑ [14]वाते॑ना॒ऽस्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒नुवा॑ भव॒ वर्षी॑यो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिन्धाः
विश्वास-प्रस्तुतिः
रे-व॑तीर् य॒ज्ञ-प॑तिम् प्रिय॒-धा ऽऽवि॑शत ।
Keith
Ye wealthy ones, do ye kindly resort to the lord of the sacrifice.
मूलम्
रेव॑तीर्य॒ज्ञप॑तिम्प्रिय॒धाऽऽवि॑शत ।
पद-पाठः
रेव॑तीः । य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ-प॒ति॒म् । प्रि॒य॒धेति॑ प्रिय-धा । एति॑ । वि॒श॒त॒ ।
भट्टभास्कर-टीका
11पशुम् उदञ्चन् नीयमानम् अनुमन्त्रयते - रेवतीर् यज्ञपतिम् इति यजुरादिकया, उरो अन्तरिक्षेति पञ्चपदया रुद्रेशवसुमुनिस्वराक्षरया ॥
क्षीरादिरयिमन्तः पशवो रेवतिशब्देनोच्यन्ते । ‘पशवो वै रेवतीः’ ` इति च ब्राह्मणम् । ‘रयेर्मतौ बहुलम्’ इति सम्प्रसारणम्, ‘संज्ञायाम्’ इति मतुपो वत्वम्, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम्, आमन्त्रिताद्युदात्तत्वम् । अवयवेषु समुदायशब्दस्तद्धर्मश्चोपचर्यते ।
हे रेवतीः रयिमन्तः पश्ववयवाः, यज्ञपतिं यजमानं, प्रियधा प्रियं धारयन्त्य आविशत यजमानस्य यागसिद्ध्यर्थं अवदानात्मना प्रीतिपूर्वकं तिष्ठत । प्रियं दधातीति दधातेः ‘आतेनुपसर्गे कः’ इति कः, टाप्, कृदुत्तरपदप्रकृतिस्वरत्वम्, ‘सुपां सुलुक्’ इति जसो लुक् । यद्वा - प्रियधा प्रियस्य धारणेन आविशत प्रियं धारयित्वैव यजमाने तिष्ठत । प्रियस्य धानं प्रियधा । तृतीयैकवचने आतो लोपे उदात्तनिवृत्तिस्वरत्वम् ।
यद्वा - व्यत्ययेन असङ्ख्याया अपि विधार्थे धाप्रत्ययः । प्रियप्रकारेणेत्यर्थः । यज्ञदेवता वा यज्ञपतिस्तां प्रीतिर्पूवकं भक्ष्यत्वेन सयुग्भावेन वा आविशत ।
यद्वा - सर्वे पशव उच्यन्ते - वयमस्माकमेको हन्तुं नीयत इति उद्वेगं मा कार्ष्ट । यजमानस्योपभोगाय प्रीतिपूर्वकं तस्मिन्वर्तध्वम् ।
विश्वास-प्रस्तुतिः ...{Loading}...
उरो॑ अन्तरिक्ष!
स॒जूर् दे॒वेन॑ वाते॑ना॒
ऽस्य ह॒विष॒स् त्मना॑+++(=जीवेन)+++ यज।
सम् अ॑स्य त॒नुवा॑ भव।
सर्वाष् टीकाः ...{Loading}...
Keith
O broad atmosphere,
in unison with the god [1] wind,
sacrifice with the life of this offering;
be united with its body
मूलम्
उरो॑ अन्तरिक्ष स॒जूर्दे॒वेन॑ +++(रुद्र -११ अक्षराणि)+++ । वाते॑ना॒ऽस्य ह॒विष॒स्त्मना॑ यज +++( ईश- ११ अक्षराणि)+++
सम॑स्य त॒नुवा॑ भव +++(वसु ८ अक्षराणि)+++ ।
पद-पाठः
उरो॒ इति॑ । अ॒न्त॒रि॒क्ष॒ । स॒जूरिति॑ स-जूः । दे॒वेन॑ । [14]1 । वाते॑न । अ॒स्य । ह॒विषः॑ । त्मना॑ । य॒ज॒ । समिति॑ । अ॒स्य॒ । त॒नुवा॑ । भ॒व॒ ।
भट्टभास्कर-टीका
अन्तरिक्षशब्देन पशोस्सुषिराणि श्रोत्रादीनीन्द्रियाण्युच्यन्ते; समुदायापेक्षमेकवचनम् । हे उरो विस्तीर्ण अन्तरिक्ष श्रोत्रादीन्द्रियसमुदाय त्वं सजूः समानप्रीतिर्भूत्वा । ‘समानस्य छन्दसि’ इति सभावः, ‘ससजुषोः’ इति रुत्वम्, ‘त्रिचक्रादीनामन्तः’ इत्युत्तरपदान्तोदात्तत्वम् । केन सजूः? देवेन दीप्तिमता वातेन पशुप्रायेन ।
किञ्च – त्मना आत्मना पशुक्षेत्रज्ञेन च सजूः । ‘मन्त्रेष्वाङ्यादेरात्मनः’ इत्याकारलोपः । एवमाभ्यामपि सह त्वं समानप्रीतिर्भूत्वास्य हविषो यज इदं पश्वात्मकं हविर्देहि यागार्थमिदानीं सर्वेपि यूयमनुजानीतेत्यर्थः । ‘क्रियाग्रहणं कर्तव्यम्’ इति कर्मणस्सम्प्रदानत्वात् ‘चतुर्थ्यर्थे बहुलम् छन्दसि’ इति षष्ठी । यजतिर्दानकर्मा ।
उरो इति पादादित्वान्निघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । ‘नामन्त्रिते समानाधिकरणे’ इति तस्याविद्यमानवत्त्वनिषेधात्परमामन्त्रितं निहन्यते ।
किञ्च - अस्य पशोस्तन्वा शरीरेण सम्भव संयुजस्व । देवभूयस्याप्यस्य पशोश्शरीरं मा हिंसीः ।
विश्वास-प्रस्तुतिः
वर्षी॑यो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिन्धाः ।
Keith
extending more broadly,
make the sacrifice of the lord of the sacrifice most successful.
मूलम्
वर्षी॑यो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिन्धाः ।
पद-पाठः
वर्षी॑यः । वर्षी॑यसि । य॒ज्ञे । य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ-प॒ति॒म् । धाः॒ ।
भट्टभास्कर-टीका
अपि च - हे वर्षीयः प्रवृद्धतरश्रोत्रादीन्द्रियसमुदाय वर्षीयसि प्रवृद्धतरे यज्ञे यज्ञपतिं यजमानं धाः धारय अविघ्नेन स्थापय । हविष्यमस्य अनुभावय शीघ्रं यज्ञं निर्वर्तय । यद्वा - यज्ञफले स्थापय यागसाधनद्वारेण यनमानं यज्ञफलभाजं कुरु ।
अथवा - अस्य हविषो यजेति पूर्वं हविषः प्रार्थना कृता, अधुना तदेव हविरुच्यते - हे हविः अस्य पशोस्तन्वा सम्भव पौष्कल्येन सम्पद्यस्व । पुनरपि तदेवामन्त्र्यते - हे वर्षीयो हविः वर्षीयसि यज्ञे यागसाधनद्वारेण यज्ञपतिमविघ्नेन स्थापय । धा इति दधाटेर्लेटि, ‘बहुलं छन्दसि’ इति शपो लुक्, ‘इतश्च लोपः परस्मैपदेषु’ इतीकारलोपः । तनुवेति ‘तन्वादीनां छन्दसि बहुलम्’ इत्युवङादेशः । यज्ञपतिशब्द उक्तस्वरः ॥
भास्करोक्त-विनियोगः
12 पशुनिहननस्थाने निहन्यमानाय बर्हिर् उपास्यति - पृथिव्या इति ॥
विश्वास-प्रस्तुतिः
पृ॒थि॒व्यास् स॒म्पृचᳶ॑ पाहि ।
पृथिव्याः ...{Loading}...
विश्वास-प्रस्तुतिः
पृ॒थि॒व्यास् स॒म्पृच॑ᳶ पाहि ।
Keith
Guard from the contact of earth.
मूलम्
पृ॒थि॒व्यास् स॒म्पृच॑ᳶ पाहि ।
पद-पाठः
पृ॒थि॒व्याः । स॒म्पृच॒ इति॑ सम्-पृचः॑ । पा॒हि॒ ।
भट्टभास्कर-टीका
ङीष उदात्तत्वात् ‘उदात्तयणो हल्पूर्वात्’ (पा.सू. 6.1.174) इति विभक्तेरुदात्तत्वम् । संपृचन्तीति संपृचः । ‘क्विप्च’ (पा.सू. 3.2.76) इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) । नित्यसमासत्वाद्विभक्तिस्वराभावः । पृथिवीसम्पृक्तानस्मान्पाहि । दिविष्ठस्त्वम्, उपरि निधानात् ॥
मूलम्
पृ॒थि॒व्यास्स॒म्पृचᳶ॑ पाहि ।
भट्टभास्कर-टीका
12 पशुनिहननस्थाने निहन्यमानाय बर्हिरुपास्यति - पृथिव्या इति ॥ प्रस्तरनिधाने व्याख्यातम् । अत्रैवं वा - पृथिवीसम्पर्कदोषात्पशुं रक्षेति । ‘पृथिव्यास्सम्पृचः पाहीति बर्हिरुपास्यत्यस्कन्दायास्कन्नँहि तद्यद्बर्हिषि स्कन्दति’ ` इति च ब्राह्मणम् । यद्वा - पृथिवीसाम्पर्कादन्यान्पशून्रक्षेति ॥
भास्करोक्त-विनियोगः
13पत्नीम् आदित्यम् उदीक्षयति - नमस्त आतानेति ॥
विश्वास-प्रस्तुतिः
नम॑स् त आतान ।
Keith
Homage to thee, O extended one.
मूलम्
नम॑स्त आतान ।
पद-पाठः
नमः॑ । ते॒ । आ॒ता॒नेत्या॑-ता॒न॒ ।
भट्टभास्कर-टीका
13पत्नीम् आदित्यम् उदीक्षयति - नमस्त आतानेति ॥ हे आतान आदिव्य तुभ्यं नम इदमस्तु । आतन्वन्ति विस्तारयान्ति विश्वं जगदित्यातानाः आदित्यरश्मयः । ‘आदित्यस्य वै रश्मय आतानास्तेभ्य एव नमस्करोति’ `इति ब्राह्मणम् । ‘पश्चाल्लोका वा एषा प्राच्युदानयिते यत्पत्नी’ इति च । तनोतेराङ्पूर्वात्पचाद्यच् । यद्वा - आतन्यन्ते विस्तार्यन्ते भास्करेणेत्यातानाः रश्मयः । कर्मणि घञ्, थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । अत्र तु तद्वानादित्य एवातान इत्युच्यते ॥
भास्करोक्त-विनियोगः
14प्राचीम् उदानयन् वाचयति - अनर्वा प्रेहीति ॥
विश्वास-प्रस्तुतिः
अ॒न॒र्वा प्रेहि॑
घृ॒तस्य॑ कु॒ल्याम् अनु॑
स॒ह प्र॒जया॑
स॒ह रा॒यस्पोषे॑ण ।
Keith
Come forward, irresistible,
along the stream of ghee,
with offspring,
with increase of wealth.
मूलम्
अ॒न॒र्वा प्रेहि॑
घृ॒तस्य॑ कु॒ल्यामनु॑
स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण ।
पद-पाठः
अ॒न॒र्वा । प्रेति॑ । इ॒हि॒ ।
घृ॒तस्य॑ । कु॒ल्याम् । अन्विति॑ ।
स॒ह । प्र॒जयेति॑ प्र-जया॑ । स॒ह । रा॒यः । पोषे॑ण ।
भट्टभास्कर-टीका
14प्राचीम् उदानयन् वाचयति - अनर्वा प्रेहीति ॥ कुत्सितमरणं गमनमर्वा; ‘भ्रातृव्यो वा अर्वा’ ` इति च ब्राह्मणम् । ‘अवद्यावमाधमार्वरेफाः कुत्सिते’ इत्यर्तेः कनिन् प्रययोर्वादेशश्च निपात्यते तद्रहित अनर्वा । बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । यस्मात्त्वमनर्वा अनवद्या सदा भर्तुर्वशंगता तस्मात्प्रेहि प्राचीं गच्छ, प्राच्यां हि स्वर्गो लोकः । प्रशब्देन प्राक्त्वं द्योत्यते, यथा ‘प्रेयमगात्’ इति ।
अधुना परमसुखस्वरूपस्वर्गप्राप्तिहेतुत्वं गमनस्याह - घृतस्य कुल्यामन्विति । घृतकुल्योपलक्षितस्वर्गाख्यस्थानविशेषो घृतकुल्याशब्देनोच्यते, तामनुगच्छ तत्र गच्छेत्यर्थः । अनोर्लक्षणे कर्मप्रवचनीयत्वम् ।
किमेकाकिनी सती? । नेत्याह - सह प्रजया सह रायस्पोषेण गच्छ । यद्वा - किं केवलं घृतकुल्योपलक्षितं स्थानमेव प्राप्यते? नेत्याह – सह प्रजया सह रायस्पोषेण प्रजां धनपोषं च प्राप्नुहीति । प्रजाशब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः ॥ ‘ऊडिदम्’ इति रैशब्दात्परस्या विभक्तेरुदात्तत्वम् ॥
भास्करोक्त-विनियोगः
15अपोवेक्षमाणां पत्नीं वाचयति - आपो देवीरिति चतुष्पदयानुष्टुभा विद्युन्मालया ॥
विश्वास-प्रस्तुतिः ...{Loading}...
आपो॑ देवीश् शुद्धायुवश्
शु॒द्धा यू॒यन् दे॒वाँ ऊ॑ड्ढ्वम् ।
शु॒द्धा व॒यम् +++(भवतीभिः)+++ परि॑विष्टाᳶ
+++(युष्मत्-)+++परिवे॒ष्टारो॑ वो भूयास्म ॥ [15]
सर्वाष् टीकाः ...{Loading}...
Keith
O ye waters, goddesses, purifying and pure, do ye bring the gods;
may we, pure and served (by you), be servers upon you.
मूलम्
आपो॑ देवीश्शुद्धायुवश्शु॒द्धा यू॒यन्दे॒वाँ ऊ॑ड्ढ्वम् ।
शु॒द्धा व॒यम्परि॑विष्टाᳶ परिवे॒ष्टारो॑ वो भूयास्म ॥ [15]
पद-पाठः
आपः॑ । दे॒वीः॒ । शु॒द्धा॒यु॒व॒ इति॑ शुद्ध-यु॒वः॒ । शु॒द्धाः । यू॒यम् । दे॒वान् । ऊ॒ढ्व॒म् ।
शु॒द्धाः । व॒यम् । परि॑विष्टा॒ इति॒ परि॑-वि॒ष्टाः॒ । प॒रि॒वे॒ष्टार॒ इति॑ परि-वे॒ष्टारः॑ । वः॒ । भू॒या॒स्म॒ ॥ [15]
प्रदीपसिंहः
अत्र विद्युन्माला इति व्याख्याने- मो मो गो गो इति तल्लक्षणम् । अत्र तल्लक्षणं न स्पष्टम् ।श्रद्धा युवम् इत्यत्र यू इति दीर्धेण भवितव्यमिति भाति । द्वितीयार्धे लक्षणं कथम् ?-विचारणीयोयं भागः
भट्टभास्कर-टीका
15अपोवेक्षमाणां पत्नीं वाचयति - आपो देवीरिति चतुष्पदयानुष्टुभा विद्युन्मालया ॥ हे आपो देवीः देव्यः । ‘वा छन्दसि’ इति ‘पूर्वसवर्णदीर्घत्वम् । शुद्धायुवः शुद्धा आपः शुद्धान् देशकालादीनिच्छन्ति आत्मनः परेषां वा । ‘छन्दसि परेच्छायामपि’ इति क्यच्, ‘नच्छन्दस्यपुत्रस्य’ इतीत्वप्रतिषेधे ‘अकृत्सार्वधातुकयोः’ इति दीर्घः, ‘क्याच्छन्दसि’ इत्युप्रत्ययः, ‘जसादिषु वा वचनं प्राङ्णौ चङ्युपधाया’ इति ‘जसि च’ इति गुणो न क्रियते ।
अथवा - अब्जातेश्शुद्धायुरिति संज्ञा, व्युत्पत्तिमात्रं तु क्रियते । तत्र ‘अप्राणिजातेश्चारज्ज्वादीनाम्’ इत्यूङ्प्रत्ययः, ‘तन्वादीनां छन्दसि’ इत्युवङ्, ‘विभाषितं विशेषवचने बहुवचनम्’ इति आप इत्यस्यामन्त्रितस्याविद्यमानत्त्वनिषेधात्परमामन्त्रितद्वयं निहन्यते । शुद्धास्स्वयमपि सर्वदा शुद्धाः यूयं देवान् पशोर्वागादीनीन्द्रियाणि ऊढ्वं प्रापयध्वं स्वकारणस्थानं प्रापयत ।
यद्वा - इमं पशुं देवान् ऊढ्वं वाघयत प्रापयत, यथा देवा भूजन्ते तथा कुरुत । वहतिस्स्वरितेत्, तस्माण्ण्यन्ताल्लेटि ‘बहुलं संज्ञाछन्दसोः’ इति णिलुक्, ‘बहुलं छन्दसि’ इति शपो लुक्, ङित्यपि बहुलवचनात् वच्यादिना सम्प्रसारणम्, ढत्वादि, ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः’ इति दीर्घत्वम् ।
यद्वा - ऊहतेरनुदात्तेतः प्राप्तिकर्मणो लोटि पूर्ववच्छपो लुक् । यद्वा - देवान्प्राति ऊढ्वं यथेमं पशुं देवा भुञ्जते तथा ऊढ्वं यतध्वमिति यावत् । अत्र देवानित्यत्र नकारस्य संहितायां ‘आतोऽटि नित्यं’ इति रुत्वम्, ‘अत्रानुनासिकः पूर्वस्य तु वा’ इत्यनुनासिकः, ‘अनुनासिकात्परोनुस्वारः’ । वयमपि युष्माभिः परिविष्टास्सर्वतोनुप्रविष्टाः अत एव शुद्धाः युष्मदवेक्षणादियोग्याः वः युष्माकं परिवेष्टारः सर्वतः परिवेष्टारो भूयास्म अवेक्षणादिना । ‘गतिरनन्तरः’ इति परिशब्दे पूर्वपदप्रकृतिस्वरत्वम् । परिवेष्टृशब्दे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
इति तृतीये अष्टमोनुवाकः ॥