०६ यूपस्य अवटे स्थापनम् ...{Loading}...
११ त्रिष्टुप् १२-१३ गायत्र्यौ सोमऋषिः
भास्करोक्त-विनियोगः
1-3यूपं पराञ्चं प्रोक्षति - पृथिव्यै त्वेति ॥
मूलम् (संयुक्तम्)
-पृ॒थि॒व्यै त्वा॒ऽन्तरि॑क्षाय त्वा दि॒वे त्वा ।
विश्वास-प्रस्तुतिः
पृ॒थि॒व्यै त्वा॑ +++(प्रोक्षामि)+++ ।
अ॒न्तरि॑क्षाय त्वा +++(प्रोक्षामि)+++ ।
दि॒वे त्वा॑ +++(प्रोक्षामि)+++ ।
Keith
To I earth thee! To atmosphere thee! To sky thee!
मूलम्
पृ॒थि॒व्यै त्वा॑ +++(प्रोक्षामि)+++ ।
अ॒न्तरि॑क्षाय त्वा +++(प्रोक्षामि)+++ ।
दि॒वे त्वा॑ +++(प्रोक्षामि)+++ ।
पद-पाठः
पृ॒थि॒व्यै । त्वा॒ ।
अ॒न्तरि॑क्षाय । त्वा॒ ।
दि॒वे । त्वा॒ ।
भट्टभास्कर-टीका
1-3यूपं पराञ्चं प्रोक्षति - पृथिव्यै त्वेति ॥ व्याख्यातम् ।
प्रोक्षामीति शेषः । पृथिव्यादीनां स्थित्यर्थं त्वां प्रोक्षामीति ॥
[यागनिर्वृत्तिद्वारेण द्युप्रभृतीनां लोकानां धारणार्थं प्रोक्षणं भवति । ‘ऊडिदम्’ (पा.सू. 6.1.171) इत्यादिना दिव इति विभक्तेरुदात्तत्वम् । पृथिव्या इत्यादौ ‘उदात्तयणो हल्पूर्वात्’ (पा.सू. 6.1.174) इति विभक्तेरुदात्तत्वम् ॥]
भास्करोक्त-विनियोगः
4अवटे+++(=गर्ते)+++ ऽपोऽवनयति - शुन्धतामिति ॥
शुन्धन्ताम् ...{Loading}...
विश्वास-प्रस्तुतिः
शुन्ध॑ताल्ँ लो॒कᳶ पि॑तृ॒-षद॑नः ।
Keith
Pure be the world where the Pitrs sit.
मूलम्
शुन्ध॑ताल्ँ लो॒कᳶ पि॑तृ॒षद॑नः ।
पद-पाठः
शुन्ध॑ताम् । लो॒कः । पि॒तृ॒षद॑न॒ इति॑ पितृ-सद॑नः ।
भट्टभास्कर-टीका
पितरस्सीदन्त्यस्मिन्निति पितृषदनः । अधिकरणे ल्युट्, कृदुत्तरपदप्रकृतिस्वरत्वम्, लित्स्वरेण सदनशब्द आद्युदात्तः, सुषामादित्वात्षत्वम् । ईदृशोयं लोकः अवटाख्योवकाशश्शुन्धताम् शुद्धो भवतु । व्यत्ययेनात्मनेपदम्, ‘अदुपदेशात्’ इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘क्रूरमिव वा एतत्करोति यत्खनत्यपोवनयति शान्त्यै’ `इति ब्राह्मणम् ॥
भट्टभास्कर-टीका
7अवटे अपोवनयति - शुन्धतामिति ॥
भट्टभास्कर-टीका
4अवटेऽपोऽवनयति - शुन्धतामिति ॥ व्याख्यातम् ॥
भास्करोक्त-विनियोगः
5यवान्प्रस्कन्दयति - यवोसीति ॥
यवोऽसि ...{Loading}...
विश्वास-प्रस्तुतिः
यवो॑ऽसि।
य॒वय॑+++(=अपनय)+++ +अ॒स्मद्-द्वेषः॑ ।
य॒वय॒ +अरा॑तीः ।
Keith
Thou art barley (yava);
bar (yavaya) from us foes,
bar evil spirits.
मूलम् (संयुक्तम्)
यवो॑ऽसि य॒वया॒स्मद्द्वेषः॑ [1] य॒वयारा॑तीः ।
मूलम्
यवो॑ऽसि।
य॒वया॒स्मद्द्वेषः॑ ।
य॒वयारा॑तीः ।
पद-पाठः
यवः॑ । अ॒सि॒ ।
य॒वय॑ । अ॒स्मत् । द्वेषः॑ । [1]
य॒वय॑ । अरा॑तीः ।
भट्टभास्कर-टीका
यावयति अपनयति क्षुधमिति यवः ।
यौतेः पृथग्भावकर्मणोन्तर्भावितण्यर्थात् ‘पुंसि संज्ञायां घः’, वृषादित्वादाद्युदात्तत्वम् । बहुलग्रहणाद्वा कर्तरि ‘ऋदोरप्’ इत्यप् । जात्याख्यायामेकवचनम् ।
ईदृशस् त्वम् अस्मत् अस्मत्तः द्वेषः द्वेष्यं रक्षःप्रभृति यवय अपनय विनाशय ।
यौतेर्णिचि ‘संज्ञापूर्वको विधिरनित्यः’ इति वृद्धिर्न क्रियते, तिङः परत्वान्न निहन्यते ।
यद्वा - द्विषेः ‘अन्येभ्योपि दृश्यते’ इति विच् । द्वेषः द्वेष्टॄन् विनाशय ।
किञ्च - अरातीः अदातॄन् शत्रूञ्श्च यवय । रातेः कर्तरि क्तिनि क्तिचि वा नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । अस्मदीयांश्च शत्रून्नाशयेत्यर्थः । अपदात्परत्वादिदमाख्यार्तं न निहन्यते । ‘ऊर्ग्वै यवः’ इत्यादि बाह्मणम् ॥
भट्टभास्कर-टीका
13तेषु यवान्प्रस्कन्दयति - यवोसीति ॥ व्याख्यातम् । ‘प्राणेष्वेवोर्जं दधाति’ `इति ब्राह्मणम् ॥
भट्टभास्कर-टीका
5यवान्प्रस्कन्दयति - यवोसीति ॥ व्याख्यातमेव । ‘ऊर्ग्वै यवो यजमानेन यूपस्सम्मितः’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
6बर्हिर्-हस्तं व्यतिषज्यावस्तृणाति - पितृणामिति ॥
पितृणाम् ...{Loading}...
विश्वास-प्रस्तुतिः
पि॒तृ॒णाँ+++(=पितॄणाम्)+++ सद॑नमसि।
+++(‘नामन्यतरस्याम्’ इति षष्ठीबहुवचनस्योदात्तत्वम्। )+++
Keith
Thou art the seat of the Pitrs.
मूलम्
पि॒तृ॒णाँ सद॑नम् असि।
पद-पाठः
पि॒तृ॒णाम् । सद॑नम् । अ॒सि॒ ।
भट्टभास्कर-टीका
सीदन्त्यस्मिन्निति सदनं आसनम् । अधिकरणए ल्युट्, लित्स्वरेणाद्युदात्तत्वम् । पितॄणामासनमसि । ‘नामन्यतरस्याम्’ इति षष्ठीबहुवचनस्योदात्तत्वम्, ‘छन्दस्युभयथा’ इति ‘नामि’ इति दीर्घत्वं न क्रियते । ‘पितृदेवत्यं ह्येतत्’ इत्यादि ब्राह्मणम् ॥
भट्टभास्कर-टीका
6बर्हिर्हस्तं व्यतिषज्यावस्तृणाति - पितृणामिति ॥ व्याख्यातमेव । ‘यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्यो निखातस्स्यात्’ `इति ब्राह्मणम् ॥
भट्टभास्कर-टीका
6बर्हिर्हस्तं व्यतिषज्यावस्तृणाति - पितृणामिति ॥ व्याख्यातमेव । ‘यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्यो निखातस्स्यात्’ `इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
7यूप-शकलम् अवास्यति - स्वावेश इति ॥
मूलम् (संयुक्तम्)
स्वावे॒शो॑ऽस्यग्रे॒गा ने॑तृ॒णाव्ँवन॒स्पति॒रधि॑ त्वा स्थास्यति॒ तस्य॑ वित्तात्
विश्वास-प्रस्तुतिः
स्वा॒वे॒शो॑ ऽसि अग्रे॒गा ने॑तृ॒णाम् ।
वन॒स्पति॒र् अधि॑ त्वा स्थास्यति ।
तस्य॑ वित्तात्।
Keith
Thou art easy of approach,
first among leaders;
the tree will mount thee,
be aware of it.
मूलम्
स्वा॒वे॒शो॑ऽसि अग्रे॒गा ने॑तृ॒णाम् ।
वन॒स्पति॒रधि॑ त्वा स्थास्यति ।
तस्य॑ वित्तात्।
पद-पाठः
स्वा॒वे॒श इति॑ सु-आ॒वे॒शः । अ॒सि॒ । अ॒ग्रे॒गा इत्य॑ग्रे-गाः । ने॒तृ॒णाम् ।
वन॒स्पतिः॑ । अधीति॑ । त्वा॒ । स्था॒स्य॒ति॒ ।
तस्य॑ । वि॒त्ता॒त् ।
भट्टभास्कर-टीका
7यूपशकलम् अवास्यति - स्वावेश इति ॥ सुष्ठु आविश्यते स्थीयतेस्मिन्निति स्वावेशः । अधिकरणे घञ्, थाथादिसूत्रेणोत्तरपदान्तोदात्तत्वम् । यूपस्य सुखासनमसीत्यर्थः । नेतारो यागस्य निर्वोढारः यूपशकलाः । ‘छन्दस्युभयथा’ इति ‘नामि’ इति दीघाभावः । ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् । तेषां मध्ये अग्रेगास्त्वमसि अग्रे प्रथमं यूपात् गच्छति परापततीत्यग्रेगाः । ‘यः प्रथमश्शकलः परापतेत्तमप्याहरेत्’ इति गृहीतत्वात् । यद्वा - नेतृणामग्रे गच्छतीत्यग्रेगाः मुख्य इत्यर्थ प्रथमपतितत्वादेव । यद्वा - नेतॄणां मध्ये अग्रे गच्छति यागसाधनत्वं यूपादपि पूर्वमुपयुज्यमानत्वादवटप्रवेशेन । ‘जनसनखनक्रमगमो विट्’ इति विटप्रत्ययः, ’ विड्वनोरनुनासिकस्यात्’ इत्यात्वम्, ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक्, कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा - यूपस्य ये नेतारः परिष्कर्तारः प्रथमशकलस्स्वरुश्चषालमिति, तेषां मध्ये अग्रे प्रथमं यूपं गच्छतीति ।
किञ्च - वनस्पतिविकारो यूपः, विकृतौ प्रकृतिशब्दः । पारस्करप्रभृतित्वात्सुट्, ‘उभे वनस्पत्यादिषु युगपत्’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । स त्वामधि स्थास्यति त्वयि स्थास्यति, यूपस्यापि धारकोसीत्यर्थः । ‘अधिशीङ्स्थासां कर्म’, इत्याधारस्य कर्मसंज्ञा ।
तस्य वित्तात् तद्विजानानीहि तं ते महिमानमवगन्तुमर्हसीति । ‘क्रियाग्रहणं कर्तव्यम्’ इति सम्प्रदानत्वात् ‘चतुर्थ्यर्थे बहुलं छन्दसि’ इति चतुर्थ्यर्थे षष्ठी । ‘यूपशकलमवास्यति स तेजसमेवैनं मिनोति’ `इति ब्राह्मणम् । ‘स्वधितेर्वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परापतति’ इत्यादिब्राह्मणेन तस्य तेजस्त्वमवगन्तव्यम् ॥
भास्करोक्त-विनियोगः
8यूपस्याग्रम् अनक्ति - देवस्त्वेति ॥
देवस् त्वा ...{Loading}...
विश्वास-प्रस्तुतिः
दे॒वस् त्वा॑ सवि॒ता मध्वा॑ऽनक्तु ।
Keith
Let the god Savitr anoint thee with honey.
मूलम्
दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽनक्तु ।
पद-पाठः
दे॒वः । त्वा॒ । स॒वि॒ता । मध्वा॑ । अ॒न॒क्तु॒ ।
भट्टभास्कर-टीका
2यूपमाज्येनानक्ति - देवस्त्वेति ॥ हे वृक्ष देवस्सविता सर्वस्य प्रेरकस्त्वां मध्वा मदनीयेन मधुरेणाज्येन अनक्तु स्निग्धं करोतु । ‘फलिपाटिनमिमनिजनाङ्गुक्पाटिनाकिधतश्च’ इति मन्यतेरुप्रत्ययः, धकारश्चान्तादेशः, तत्र च उरित्यनुवर्तते । ‘जसादिषु वा वचनं छन्दसि प्राङ्णौ चड्युपधायाः’ इति नाभावाभावः । मधुशब्देन चाज्यमुच्यते, ‘तेजसैवैनमनक्ति’ इति ब्राह्मणदर्शनात् । `तेजो वा आज्यम्’ इति ॥
भट्टभास्कर-टीका
8यूपस्याग्रमनक्ति - देवस्त्वेति ॥ व्याख्यातम् ॥
भट्टभास्कर-टीका
8यूपस्याग्रमनक्ति - देवस्त्वेति ॥ व्याख्यातम् ॥
भास्करोक्त-विनियोगः
9चषालं प्रतिमुञ्चाति - सुपिप्पलाभ्य इति ॥
सुपिप्पलाः ...{Loading}...
भास्करोक्त-विनियोगः
9चषालं प्रतिमुञ्चाति - सुपिप्पलाभ्य इति ॥
विश्वास-प्रस्तुतिः
सु॒पि॒प्प॒लाभ्य॑स्+++(=सुफलेभ्यः)+++ त्वौष॑धीभ्यः +++(कण्डूये)+++।+++(र४)+++
Keith
For the plants with good berries thee!
मूलम्
सु॒पि॒प्प॒लाभ्य॑स्त्वौष॑धीभ्यः ।
पद-पाठः
पद-पाठः
सु॒पि॒प्प॒लाभ्य॒ इति॑ सु-पि॒प्प॒लाभ्यः॑ । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ ।
भट्टभास्कर-टीका
यास्सुपिप्पलाः शोभनफलाः शोभनकरणिका ओषधयः, तदर्थं त्वां कण्डूये इति शेषः । पूर्ववत्स्वरः । ओषधिशब्दे तु दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । ‘ओषधेश्च विभक्तावप्रथमायाम्’ इति दीर्घः । ‘यद्धस्तेन कण्डूयत’ इत्यादि ब्राह्मणम् ॥
भट्टभास्कर-टीका
9चषालं प्रतिमुञ्चाति - सुपिप्पलाभ्य इति ॥ व्याख्यातमेव । शोभनफलानामोषधीनामर्थाय त्वां चषालं यूपस्याग्रे प्रतिमुञ्चामीति शेषः । ‘तस्माच्छीर्षत ओषधयः फलं गृह्णन्ति’ `इति ब्राह्मणम् ॥
भट्टभास्कर-टीका
9चषालं प्रतिमुञ्चाति - सुपिप्पलाभ्य इति ॥ व्याख्यातमेव । शोभनफलानामोषधीनामर्थाय त्वां चषालं यूपस्याग्रे प्रतिमुञ्चामीति शेषः । ‘तस्माच्छीर्षत ओषधयः फलं गृह्णन्ति’ `इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
10यूपम् उच्छ्रयति - उद्दिवमिति ॥
मूलम् (संयुक्तम्)
उद्दिवँ॑ स्तभा॒नान्तरि॑क्षम्पृण पृथि॒वीमुप॑रेण दृँह
विश्वास-प्रस्तुतिः
उद् दिवँ॑ स्तभान ।
आ +अ॒न्तरि॑क्षम् पृण+++(=पूरय)+++ ।
पृ॒थि॒वीम् उप॑रेण दृँह ।+++(5)+++
Keith
Support the sky, fill the atmosphere, with thy base make firm the earth.
मूलम्
उद्दिवँ॑ स्तभान ।
अ॒न्तरि॑क्षम्पृण ।
पृ॒थि॒वीमुप॑रेण दृँह ।
पद-पाठः
उदिति॑ । दिव॑म् । स्त॒भा॒न॒ । एति॑ । अ॒न्तरि॑क्षम् । पृ॒ण॒ । पृ॒थि॒वीम् । उप॑रेण । दृँ॒ह॒ ।
भट्टभास्कर-टीका
10यूपमुच्छ्रयति - उद्दिवमिति ॥ व्याख्यातम् ।
- [ औदुम्बरीमुच्छ्रयति - उद्दिवमिति ॥ हे औदुम्बरि दिर्वं दिविष्ठानुत्तभान उत्तम्भय धारय । स्तन्भुस्सौत्रो धातुः, ‘स्तन्भु स्तुन्भु’ इति श्नाप्रत्ययः । ‘हलश्श्नश्शानज्झौ’ इति शानजादेशः । तथा अन्तरिक्षमन्तरिक्षस्थान् पृण प्रीणय । पृण प्रीणने इति तौदादिकः ।]
अतष्टः प्रदेश उपरः, ‘मूलतोऽतष्टमुपरम्’ इति । उपरमते तक्षणमस्मिन्निति । ‘उपसर्गे च संज्ञायाम्’ इति जनेर्विधीयमानो डप्रत्ययः बहुलवचनाद्रमेरपि भवति, कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा अव्ययपूवर्पदप्रकृतिस्वरत्वम्, व्युत्पत्त्यनवधारणाच्च नावगृह्यते । तेन पृथिवी दृंह दृढां कुरु ॥
- [ दृह दृहि वृद्धौ । पृथिवीशब्दो ङीषन्तोन्तोदात्तः ॥]
प्रदीपसिंहः
एतन्मन्त्रभागः अन्यत्रापि वर्तते । vAjasaneyam/mAdhyandinam/saMhitA/sarvASh_TIkAH/05/27_uddivaM_stabhAnAntarixam.md
भास्करोक्त-विनियोगः
11यूपं वैष्णवीभ्यामृग्भ्यां कल्प्यति स्थापयति - ते ते धामानि … विष्णोः कर्माणि पश्यतेति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ते ते॒ धामा॑न्य् उश्मसि+++(=इच्छामो)+++ ग॒मध्ये॒+++(=गन्तुं)+++
गावो॒+++(→रश्मयः)+++ यत्र॒ भूरि॑-शृङ्गा अ॒यासः॑+++(=गमनशीलाः)+++ ।
अत्राह॒ तद्-उ॑रुगा॒यस्य॒ विष्णोः॑
पर॒मम् प॒दम् अव॑ भाति॒ भूरेः॑ ॥
सर्वाष् टीकाः ...{Loading}...
भास्करोक्त-विनियोगः
11यूपं वैष्णवीभ्यामृग्भ्यां कल्प्यति स्थापयति - ते ते धामानि … विष्णोः कर्माणि पश्यतेति ॥
Keith
To these dwellings of thine are we fain+++(=apt)+++ to go,
Where are the many-horned active kine;
There is resplendent the highest step
Of the wide-stepping Visnu, the mighty!
विश्वास-प्रस्तुतिः ...{Loading}...
ते ते॒ धामा॑न्य् उश्मसि+++(=इच्छामो)+++ ग॒मध्ये॒+++(=गन्तुं)+++
गावो॒+++(→रश्मयः)+++ यत्र॒ भूरि॑-शृङ्गा अ॒यासः॑+++(=गमनशीलाः)+++ ।
अत्राह॒ तद्-उ॑रुगा॒यस्य॒ विष्णोः॑
पर॒मम् प॒दम् अव॑ भाति॒ भूरेः॑ ॥
मूलम्
ते ते॒ धामा॑न्युश्मसि [10] ग॒मध्ये॒ गावो॒ यत्र॒ भूरि॑शृङ्गा अ॒यासः॑ ।
अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णोः॑ पर॒मम्प॒दमव॑ भाति॒ भूरेः॑ ॥
पद-पाठः
ते । ते॒ । धामा॑नि । उ॒श्म॒सि॒ । [10]1 । ग॒मध्ये॑ । गावः॑ । यत्र॑ । भूरि॑शृङ्गा॒ इति॒ भूरि॑-शृ॒ङ्गाः॒ । अ॒यासः॑ ॥ अत्र॑ । अह॑ । तत् । उ॒रु॒गा॒यस्येत्यु॑रु-गा॒यस्य॑ । विष्णोः॑ । प॒र॒मम् । प॒दम् । अवेति॑ । भा॒ति॒ । भूरेः॑ ॥
भट्टभास्कर-टीका
11यूपं वैष्णवीभ्यामृग्भ्यां कल्प्यति स्थापयति - ते ते धामानि … विष्णोः कर्माणि पश्यतेति ॥
तत्र प्रथमा चतुष्पदा त्रिष्टुप् । द्वितीया त्रिपदा गायत्री ।
‘वैष्णव्यर्चा कल्पयति वैष्णवो वै देवतया’ इत्यादि ब्राह्मणम् । ‘द्वाभ्यां कल्पयति’ इत्यादि च ।
वैष्णवत्वाद्यूपो विष्णुरूपेण स्तूयते । त इति द्वितीयाबहुवचनस्य ‘सुपां सुलुक्’ इति शे आदेशः, प्रगृह्यत्वाभावो व्यत्ययेन, लिङ्गविभक्तिव्यत्ययेन वा ।
हे विष्णो तव तानि धामानि स्थानानि गमध्ये गन्तुं यजमानो गच्छेदिति यावत् । तुमर्थे अध्येन्प्रत्ययः, अध्यैप्रत्ययस्य वा वर्णव्यत्ययेन एकारः । तव तानि धामानि गन्तुं उश्मसि उश्मः कामयामहे । वष्ठेर्ग्रहिज्यादिना सम्प्रसारणम्, ‘इदन्तो मसिः’, ‘अन्येषामपि दृश्यते’ इति तस्य संहितायां दीर्घः ।
कानीत्याह – यत्र येषु धामसु गावो रश्मयः भूरिशृङ्गाः बह्वग्राः, अयासः गमनशीलाः । एतेः पचाद्यच्, ‘आज्जसेरसुक्’ । यत्र बहुमुखा रश्मयो विसर्पन्तीति । यद्वा - यत्र गावो गन्तारो जनाः । ‘गमेर्डो’ इति डोप्रत्ययः । भूरिशृङ्गाः महादीप्तयो भवन्तीति । दीप्तिनामसु हि शृङ्गाणीत्यध्यायान्ते पठ्यते ।
पुनश्च विशेष्यन्ते - अयासः अनपायाः अप्रच्यूताः । यातेरसुनि याः, नञ्बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ।
धामानि पुनर्विशेष्यन्ते - अत्राह अत्रैव । अहेत्यवधारणे । येष्वेव धामसु उरुगायस्य उरुभिर्महात्माभिर्गीयत इत्युरिगायः । गायतेः कर्मणि घञ्, थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । भूरेः महतो महाबलस्य विष्णोः विश्वं व्याप्नुवतः । ‘विशेः किच्च’ इति नुप्रत्ययः, तत्र हि निदिति वर्तते । यस्त्वं महाबलो महात्मभिस्स्तूयमानो विश्वं व्याप्नुवन्नभूः ‘विचक्रमाणस्त्रेधोरुगायः’ इति मन्त्रप्रसिद्धः तस्य तव तत्तादृशविक्रमकृत् परममुत्तमं पदंम् तदप्येष्वेव धामसु अवभाति दीप्यते, तस्मात्तानि धामानि गन्तुमुश्म इति । एवं प्रत्यक्षकृतोयं मन्त्रः । द्वितीयस्तेशब्दोस्मिन्पक्षे युष्मदादेशः । यद्वा - परोक्षकृत एवायम् । ते ते इति वीप्सा । तानि तानि धामानि गन्तुमुश्मः । ‘नित्यवीप्सयोः’ इति शेप्रत्ययान्तस्य द्विर्व- चनम्, ’ अनुदात्तं च` इति द्वितीयस्यानुदात्तत्वम् । स्पष्टमन्यत् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
वि᳓ष्णोः क᳓र्माणि पश्यत
य᳓तो व्रता᳓नि पस्पशे᳓+++(←स्पश बाधनस्पर्शनयोः)+++ ।
इ᳓न्द्रस्य यु᳓ज्यः स᳓खा ॥
019 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
वि᳓ष्णोः क᳓र्माणि पश्यत
य᳓तो व्रता᳓नि पस्पशे᳓
इ᳓न्द्रस्य यु᳓जियः स᳓खा
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
kármāṇi ← kárman- (nominal stem)
{case:ACC, gender:N, number:PL}
paśyata ← √paś- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
víṣṇoḥ ← víṣṇu- (nominal stem)
{case:GEN, gender:M, number:SG}
paspaśé ← √spaś- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
vratā́ni ← vratá- (nominal stem)
{case:NOM, gender:N, number:PL}
yátas ← yátas (invariable)
índrasya ← índra- (nominal stem)
{case:GEN, gender:M, number:SG}
sákhā ← sákhi- (nominal stem)
{case:NOM, gender:M, number:SG}
yújyaḥ ← yújya- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
विष्णोः॑ । कर्मा॑णि । प॒श्य॒त॒ । यतः॑ । व्र॒तानि॑ । प॒स्प॒शे ।
इन्द्र॑स्य । युज्यः॑ । सखा॑ ॥
पद-पाठः-तैत्तिरीयः
विष्णोः॑ । कर्मा॑णि । प॒श्य॒त॒ । यतः॑ । व्र॒तानि॑ । प॒स्प॒शे ॥ इन्द्र॑स्य । युज्यः॑ । सखा॑ ॥
Hellwig Grammar
- viṣṇoḥ ← viṣṇu
- [noun], genitive, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- karmāṇi ← karman
- [noun], accusative, plural, neuter
- “action; saṃskāra; ritual; procedure; karman; treatment; object; function; production; job; operation; karman [word]; act; job; passive voice; activity; consequence; function; yajña; pañcakarman; cooking; occupation; profession; construction; duty; method; natural process; duty; therapy.”
- paśyata ← paś
- [verb], plural, Present imperative
- “see; view; watch; meet; observe; think of; look; examine; behold; visit; understand.”
- yato ← yatas
- [adverb]
- “from which; whence; wherein.”
- vratāni ← vrata
- [noun], accusative, plural, neuter
- “vrata (vote); commandment; law; oath; command; rule; custom; vrata [word]; rule; behavior.”
- paspaśe ← paś
- [verb], singular, Perfect indicative
- “see; view; watch; meet; observe; think of; look; examine; behold; visit; understand.”
- indrasya ← indra
- [noun], genitive, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- yujyaḥ ← yujya
- [noun], nominative, singular, masculine
- “adequate to(p); appropriate; united; allied.”
- sakhā ← sakhi
- [noun], nominative, singular
- “friend; companion; sakhi [word].”
सायण-भाष्यम्
हे ऋत्विगादयः विष्णोः कर्माणि पालनादीनि पश्यत । यतः यैः कर्मभिः व्रतानि अग्निहोत्रादीनि पस्पशे सर्वो यजमानः स्पृष्टवान् विष्णोरनुग्रहात् अनुतिष्ठति इत्यर्थः । तादृशो विष्णुः इन्द्रस्य युज्यः योज्यः अनुकूलः सखा भवति । विष्णोः इन्द्रानुकूल्यं त्वष्टा हतपुत्रः’ इत्यनुवाके ‘अथ वै तर्हि विष्णुः ’ ( तै. सं. २. ४. १२. २ ) इत्यादिना प्रपञ्चेन तैत्तिरीया आमनन्ति ॥ पस्पशे । ’ स्पश बाधनस्पर्शनयोः । लिट् । द्विर्भावे ‘शर्पूर्वाः खयः’ ( पा. सू. ७. ४. ६१ ) इति पकारः शिष्यते सकारो लुप्यते । यद्वृत्तयोगादनिघातः । युज्यः । युजेः बाहुलकात् क्यप् । कित्त्वाद्गुणाभावः । क्यपः पित्त्वादनुदात्तत्वम् । धातुस्वरः ॥
भट्टभास्कर-टीका
12अथ द्वितीया ॥ विष्णोः कर्माणि चरितानि पश्यत हे जनाः । कीदृशानीत्याह - यतः यैः । ‘इतराभ्योपि दृश्यन्ते’ इति तृतीयान्तात्तसिः । व्रतानि युष्मदीयानि कर्माणि यैः कर्मभिः पस्पशे स्पृशति बध्नातीति वा युष्मासु । स्पश बाधनादौ स्वरितेत्, ‘छन्दसि लुङ्लङ्लिटः’ इति लिट् । शर्पूर्वाः खयश्शिष्यन्ते इति पकारशेषः । पुनश्च विशेष्यते - इन्द्रस्य युज्यः योग्यस्सखा । योगो युक् । सम्पदादित्वाद्युजेः क्विप् । युजि साधुर्युज्यः । ‘तत्र साधुः’ इति यत्, ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । यद्वा - युञ्जाना युजः योगिनः । ‘सत्सूद्विष’ इत्यादिना क्विप् । तत्र भवः । दिगादिर्द्रष्टव्यः । तादृशस्यास्य तादृशानि कर्माणि पश्यतेति ॥
Wilson
English translation:
“Behold the deeds of Viṣṇu, through which (the worshipper) has accomplished (pious) vows; he is the worthy friend of Indra.”
Jamison Brereton
Behold the deeds of Viṣṇu: from (the place) where he watches over the commandments,
the partner in yoke with Indra,
Griffith
Look ye on Visnu’s works, whereby the Friend of Indra, close-allied,
Hath let his holy ways be seen.
Keith
Behold the deeds of Visnu
Wherein he displayed his laws,
Indra’s true friend.
Geldner
Schaut die Werke des Vishnu, von wo aus er auf seine Gebote acht gibt, des Indra treuer Freund!
Grassmann
Des Vischnu Thaten schauet an, durch die die Ordnungen er sah, Des Indra eng verbundner Freund.
Elizarenkova
Взгляните на деяния Вишну,
Откуда он следит за обетами,
Близкий друг Индры.
अधिमन्त्रम् (VC)
- विष्णुः
- मेधातिथिः काण्वः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर व्यापक परमेश्वर के किये हुए कर्म मनुष्य नित्य देखें, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! तुम जो (इन्द्रस्य) जीव का (युज्यः) अर्थात् जो अपनी व्याप्ति से पदार्थों में संयोग करनेवाले दिशा, काल और आकाश हैं, उनमें व्यापक होके रमने वा (सखा) सर्व सुखों के सम्पादन करने से मित्र है (यतः) जिससे जीव (व्रतानि) सत्य बोलने और न्याय करने आदि उत्तम कर्मों को (पस्पशे) प्राप्त होता है उस (विष्णोः) सर्वत्र व्यापक शुद्ध और स्वभावसिद्ध अनन्त सामर्थ्यवाले परमेश्वर के (कर्माणि) जो कि जगत् की रचना पालना न्याय और प्रयत्न करना आदि कर्म हैं, उनको तुम लोग (पश्यत) अच्छे प्रकार विदित करो॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस कारण सब के मित्र जगदीश्वर ने पृथिवी आदि लोक तथा जीवों के साधनसहित शरीर रचे हैं, इसी से सब प्राणी अपने-अपने कार्यों के करने को समर्थ होते हैं॥१९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यूयं य इन्द्रस्य युज्यः सखास्ति, यतो जीवो व्रतानि पस्पशे स्पृशति, तस्य विष्णोः कर्माणि पश्यत॥१९॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तत्कृतानि कर्म्माणि मनुष्येण नित्यं द्रष्टव्यानीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (विष्णोः) सर्वत्र व्यापकस्य शुद्धस्य स्वाभाविकानन्तसामर्थ्यस्येश्वरस्य (कर्माणि) जगद्रचनपालनन्यायकरणप्रलयत्वादीनि (पश्यत) सम्यग्विजानीत (यतः) कर्मबोधस्य सकाशात् (व्रतानि) सत्यभाषणन्यायकरणादीनि (पस्पशे) स्पृशति कर्त्तुं शक्नोति। अत्र लडर्थे लिट्। (इन्द्रस्य) जीवस्य (युज्यः) युञ्जन्ति व्याप्त्या सर्वान् पदार्थान् ते युजो दिक्कालाकाशादयस्तत्र भवः (सखा) सर्वस्य मित्रः सर्वसुखसम्पादकत्वात्॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यस्मात् सर्वमित्रेण जगदीश्वरेण जीवानां पृथिव्यादीनि ससाधनानि शरीराणि रचितानि तस्मादेवं सर्वे प्राणिनः स्वानि स्वानि कर्माणि कर्त्तुं शक्नुवन्तीति॥१९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ज्या कारणांपासून (प्रकृतीपासून) सर्वांचा मित्र असलेल्या जगदीश्वराने पृथ्वी इत्यादी लोक तसेच जीवांच्या साधनांसह शरीरे उत्पन्न केलेली आहेत, त्याद्वारे सर्व प्राणी आपापले कार्य करण्यास समर्थ होतात. ॥ १९ ॥
भास्करोक्त-विनियोगः
13चषालमीक्षते - तद्विष्णोरिति त्रिपदया गायत्र्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
त᳓द्वि᳓ष्णोः परमं᳓ पदं᳓
स᳓दा पश्यन्ति सूर᳓यः ।
दिवी᳙व च᳓क्षुर्+++(→सूर्यः|श्रोणाः)+++ आ᳓ततम् ॥
020 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
त᳓द् वि᳓ष्णोः परम᳓म् पदं᳓
स᳓दा पश्यन्ति सूर᳓यः
दिवी᳓व च᳓क्षुर् आ᳓ततम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
padám ← padá- (nominal stem)
{case:ACC, gender:N, number:SG}
paramám ← paramá- (nominal stem)
{case:ACC, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:SG}
víṣṇoḥ ← víṣṇu- (nominal stem)
{case:GEN, gender:M, number:SG}
paśyanti ← √paś- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
sádā ← sádā (invariable)
sūráyaḥ ← sūrí- (nominal stem)
{case:NOM, gender:M, number:PL}
ā́tatam ← √tan- (root)
{case:NOM, gender:N, number:SG, non-finite:PPP}
cákṣuḥ ← cákṣus- (nominal stem)
{case:NOM, gender:N, number:SG}
diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}
iva ← iva (invariable)
पद-पाठः
तत् । विष्णोः॑ । प॒र॒मम् । प॒दम् । सदा॑ । प॒श्य॒न्ति॒ । सू॒रयः॑ ।
दि॒विऽइ॑व । चक्षुः॑ । आऽत॑तम् ॥
पद-पाठः-तैत्तिरीयः
तत् । विष्णोः॑ । प॒र॒मम् । प॒दम् । सदा॑ । प॒श्य॒न्ति॒ । सू॒रयः॑ ॥ दि॒वि । इ॒व॒ । चक्षुः॑ । आत॑त॒मित्या-त॒त॒म् ॥
Hellwig Grammar
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- viṣṇoḥ ← viṣṇu
- [noun], genitive, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- paramam ← parama
- [noun], accusative, singular, neuter
- “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”
- padaṃ ← padam ← pada
- [noun], accusative, singular, neuter
- “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
- sadā
- [adverb]
- “always; continually; always; perpetually.”
- paśyanti ← paś
- [verb], plural, Present indikative
- “see; view; watch; meet; observe; think of; look; examine; behold; visit; understand.”
- sūrayaḥ ← sūri
- [noun], nominative, plural, masculine
- “guru.”
- divīva ← divi ← div
- [noun], locative, singular
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- divīva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- cakṣur ← cakṣuḥ ← cakṣus
- [noun], accusative, singular, neuter
- “eye; look; visual perception; cakṣus [word]; sight.”
- ātatam ← ātan ← √tan
- [verb noun], accusative, singular
- “expand; prolong; chant; inflate.”
सायण-भाष्यम्
सूरयः विद्वांस ऋत्विगादयः विष्णोः संबन्धि परमम् उत्कृष्टं तत् शास्त्रप्रसिद्धं पदं स्वर्गस्थानं शास्त्रदृष्ट्या सर्वदा पश्यन्ति । तत्र दृष्टान्तः । दिवीव । आकाशे यथा आततं सर्वतः प्रसृतं चक्षुः निरोधाभावेन विशदं पश्यति तद्वत् ॥ सदा । ‘सर्वैकान्य ’ ( पा. सू. ५. ३. १५) इति दाप्रत्ययः । सर्वस्य सोऽन्यतरस्यां दि ’ ( पा. सू. ५. ३. ६ ) इति सर्वशब्दस्य सभावः । व्यत्ययेनाद्युदात्तत्वम् । दिवि । ’ उडिदम्’ इत्यादिना विभक्तेरुदात्तत्वम् । ‘इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ’ इति तदेव शिष्यते । चक्षुः । ‘नब्विषयस्य° ’ इत्याद्युदात्तत्वम् । आततम् । तनोतेः कर्मणि क्तः ।’ यस्य विभाषा ’ इति इट्प्रतिषेधः । अनुदात्तोपदेश’ इत्यादिना नलोपः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिरनन्तरः’ इति गतेरुदात्तत्वम् ॥
भट्टभास्कर-टीका
13चषालमीक्षते - तद्विष्णोरिति त्रिपदया गायत्र्या ॥ ‘विष्णोः परमं पदमवभाति भूरेः’ इति यत्पूर्वोक्तं तदेव हि विष्णोः परमं पदं सदा सर्वदा सूरयः मेधाविनः पश्यन्तीति । कीदृशं? दिवि चक्षुरिवाततम् । सर्वेषां चक्शुस्स्थानीयं सूर्यमण्डलमिह चक्षुरुच्यते । आततं समन्ताद्विस्तारितप्रकाशं, सवत्र प्रकाशत्वात् । ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् । दिवि सूर्यमण्डलमिव यदात्मप्रकाशस्वरूपं तत्सूरयस्सदा हृदि पश्यन्ति । तस्मात्त्वमपि विष्णोः परमपदस्थानीयं चषालं पश्येति ॥
Wilson
English translation:
“The wise ever contemplate that supreme station of Viṣṇu, as the eye ranges over the sky.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
paramam padam = supreme degree or station, svarga
Jamison Brereton
That is the highest footstep of Viṣṇu. The patrons always
behold it
stretched out like the eye [=sun] in heaven.
Jamison Brereton Notes
The image in pāda c needs a little unpacking. The “eye in heaven” is of course the sun; the incongruity is that it is depicted as “stretched out,” which might suggest an elongated ovoid sun, not a happy picture. The concentrated expression of pāda c rests on the common formula of the sun stretching (through space) with its rays (raśmí-), as in VII.47.4 yā́ḥ sū́ryo raśmíbhir ātatā́na “towards which [=waters] the sun has stretched with its rays.” Note that sūráyaḥ ‘patrons’ ending b phonologically evokes the absent sū́r i ya- in c.
Griffith
The princes evermore behold that loftiest place where Visnu is,
Laid as it were an eye in heaven.
Keith
That highest step of Visnu
The singers ever gaze upon
Like an eye stretched in the sky.
Geldner
Immerdar schauen die freigebigen Patrone diese höchste Fußtapfe des Vishnu, die wie das Auge am Himmel weithin reicht.
Grassmann
Auf ihn, des Vischnu höchsten Tritt; der wie des Himmels Auge glänzt, Schaun fort und fort die Weisen hin.
Elizarenkova
На этот высший след Вишну
Всегда глядят приносящие жертву,
Как на глаз, разверстый в небе.
अधिमन्त्रम् (VC)
- विष्णुः
- मेधातिथिः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
वह ब्रह्म कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सूरयः) धार्मिक बुद्धिमान् पुरुषार्थी विद्वान् लोग (दिवि) सूर्य आदि के प्रकाश में (आततम्) फैले हुए (चक्षुरिव) नेत्रों के समान जो (विष्णोः) व्यापक आनन्दस्वरूप परमेश्वर का विस्तृत (परमम्) उत्तम से उत्तम (पदम्) चाहने जानने और प्राप्त होने योग्य उक्त वा वक्ष्यमाण पद हैं (तत्) उस को (सदा) सब काल में विमल शुद्ध ज्ञान के द्वारा अपने आत्मा में (पश्यन्ति) देखते हैं॥२०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे प्राणी सूर्य्य के प्रकाश में शुद्ध नेत्रों से मूर्त्तिमान् पदार्थों को देखते हैं, वैसे ही विद्वान् लोग निर्मल विज्ञान से विद्या वा श्रेष्ठ विचारयुक्त शुद्ध अपने आत्मा में जगदीश्वर को सब आनन्दों से युक्त और प्राप्त होने योग्य मोक्ष पद को देखकर प्राप्त होते हैं। इस की प्राप्ति के विना कोई मनुष्य सब सुखों को प्राप्त होने में समर्थ नहीं हो सकता। इस से इसकी प्राप्ति के निमित्त सब मनुष्यों को निरन्तर यत्न करना चाहिये। इस मन्त्र में परमम् पदम् इन पदों के अर्थ में यूरोपियन विलसन साहब ने कहा है कि इन का अर्थ स्वर्ग नहीं हो सकता, यह उनकी भ्रान्ति है, क्योंकि परमपद का अर्थ स्वर्ग ही है॥२०॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: सूरयो विद्वांसो दिव्याततं चक्षुरिव यद्विष्णोराततं परमं पदमस्ति तत् स्वात्मनि सदा पश्यन्ति॥२०॥
दयानन्द-सरस्वती (हि) - विषयः
तद् ब्रह्म कीदृशमित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तत्) उक्तं वक्ष्यमाणं वा (विष्णोः) व्यापकस्यानन्दस्वरूपस्य (परमम्) सर्वोत्कृष्टम् (पदम्) अन्वेष्यं ज्ञातव्यं प्राप्तव्यं वा (सदा) सर्वस्मिन् काले (पश्यन्ति) सम्प्रेक्षन्ते (सूरयः) धार्मिका मेधाविनः पुरुषार्थयुक्ता विद्वांसः। सूरिरिति स्तोतृनामसु पठितम्। (निघं०३.१६) अत्र सूङः क्रिः। (उणा०४.६४) अनेन ‘सूङ’ धातोः क्रिः प्रत्ययः। (दिवीव) यथा सूर्यादिप्रकाशे विमलेन ज्ञानेन। स्वात्मनि वा (चक्षुः) चष्टे येन तन्नेत्रम्। चक्षेः शिच्च। (उणा०२.११५) अनेन ‘चक्षे’ रुसिप्रत्ययः शिच्च। (आततम्) समन्तात् ततं विस्तृतम्॥२०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा प्राणिनः सूर्यप्रकाशे शुद्धेन चक्षुषा मूर्त्तद्रव्याणि पश्यन्ति, तथैव विद्वांसो विमलेन ज्ञानेन विद्यासुविचारयुक्ते शुद्धे स्वात्मनि जगदीश्वरस्य सर्वानन्दयुक्तं प्राप्तुमर्हं मोक्षाख्यं पदं दृष्ट्वा प्राप्नुवन्ति। नैतत्प्राप्त्या विना कश्चित्सर्वाणि सुखानि प्राप्तुमर्हति तस्मादेतत्प्राप्तौ सर्वैः सर्वदा प्रयत्नोऽनुविधेय इति। विलसनाख्येन ‘परमं पदम्’ इत्यस्यार्थो हि स्वर्गो भवितुमशक्य इति भ्रान्त्योक्तत्वान्मिथ्यार्थोऽस्ति, कुतः’ परमस्य पदस्य स्वर्गवाचकत्वादिति॥२०॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे प्राणी सूर्यप्रकाशात शुद्ध नेत्रांनी मूर्तिमान पदार्थ पाहतात तसेच विद्वान लोक शुद्ध ज्ञानाने, विद्येने किंवा श्रेष्ठ विचाराने शुद्ध झालेल्या आत्म्यात जगदीश्वराला पाहतात व आनंद देणाऱ्या मोक्षाला प्राप्त करतात. त्याच्या प्राप्तीखेरीज कोणताही माणूस सर्व सुख प्राप्त करण्यास समर्थ बनू शकत नाही. त्यामुळे त्याच्या प्राप्तीसाठी सर्व माणसांनी निरंतर प्रयत्न केले पाहिजेत. ॥ २० ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: या मंत्रात ‘परमम्’ पदम् या पदाचा अर्थ युरोपियन विल्सन साहेबांनी स्वर्ग होऊ शकत नाही, असे म्हटले आहे. हा त्यांचा भ्रम आहे. कारण परमपदाचा अर्थ स्वर्गच आहे. ॥ २० ॥
भास्करोक्त-विनियोगः
14प्रदक्षिणं पुरीषेण पर्यूहति - ब्रह्मवनिमिति ॥
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वनि॑न्त्वा क्षत्त्र॒वनिँ॑ सुप्रजा॒वनिँ॑ रायस्पोष॒वनि॒म्पर्यू॑हामि ।
ब्रह्म-वनिम् ...{Loading}...
भास्करोक्त-विनियोगः
14प्रदक्षिणं पुरीषेण पर्यूहति - ब्रह्मवनिमिति ॥
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒-वनि॑न् त्वा क्षत्र॒-वनिँ॑ सुप्रजा॒-वनिँ॑ रायस्-पोष॒-वनि॒म् पर्यू॑हामि।
Keith
Thee that art winner of Brahmans, winner of nobles, winner of fair offspring, winner of increase of wealth, I close in.
मूलम्
ब्र॒ह्म॒वनि॑न्त्वा क्षत्र॒वनिँ॑ सुप्रजा॒वनिँ॑ रायस्पोष॒वनि॒म्पर्यू॑हामि।
पद-पाठः
ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म-वनि॑म् । त्वा॒ ।
क्ष॒त्र॒वनि॒मिति॑ क्षत्र-वनि॑म् ।
सु॒प्र॒जा॒वनि॒मिति॑ सुप्रजा-वनि॑म् ।
रा॒य॒स्पो॒ष॒वनि॒मिति॑ रायस्पोष-वनि॑म् । परीति॑ । ऊ॒हा॒मि॒ ।
भट्टभास्कर-टीका
ब्रह्म ब्राह्मणान्वनति सम्भजत इति ब्रह्मवनिः । ‘छन्दसि वनसनरक्षिमथाम्’ इतीन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् । एवं क्षत्रवनिं सप्रजावनिं रायस्पोषवनिमिति । ‘षष्ठ्या आक्रोशे’ इत्यनाक्रोशेपि बहुलवचनात् षष्ठ्या अलुक्, ‘षष्ठ्याः पतिपुत्र’ इति विसर्जनीयस्य सत्वम् । एवंगुणां त्वामौदुम्बरीं परितस्सर्वत ऊहामि स्थापयामि, पुरीषेणावटं पूरयित्वा स्थिरां करोमीत्यर्थः । ‘उपसर्गादस्यत्यूह्योर्वा वचनम्’ इति परस्मैपदम् ॥
भट्टभास्कर-टीका
14प्रदक्षिणं पुरीषेण पर्यूहति - ब्रह्मवनिमिति ॥ व्याख्यातम् ॥
भट्टभास्कर-टीका
14प्रदक्षिणं पुरीषेण पर्यूहति - ब्रह्मवनिमिति ॥ व्याख्यातम् ॥
भास्करोक्त-विनियोगः
15मैत्रावरुणदण्डेन संहन्ति - ब्रह्म दृंहेति ॥
ब्रह्म द्रुंह ...{Loading}...
मूलम् (संयुक्तम्)
ब्रह्म॑ दृँह क्ष॒त्रन्दृँ॑ह प्र॒जान्दृँ॑ह रा॒यस्पोष॑न्दृँह
विश्वास-प्रस्तुतिः
ब्रह्म॑ दृँह ।
क्ष॒त्रन् दृँ॑ह ।
प्र॒जान् दृँ॑ह।
रा॒यस्-पोष॑न् दृँह ।
Keith
Strengthen the Brahmans,
strengthen the nobles,
strengthen offspring,
strengthen increase of wealth.
मूलम्
ब्रह्म॑ दृँह ।
क्ष॒त्रन्दृँ॑ह ।
प्र॒जान्दृँ॑ह।
रा॒यस्पोष॑न्दृँह ।
पद-पाठः
ब्रह्म॑ । दृँ॒ह॒ ।
क्ष॒त्रम् । दृँ॒ह॒ ।
प्र॒जामिति॑ प्र-जाम् । दृँ॒ह॒ ।
रा॒यः । पोष॑म् । दृँ॒ह॒ ।
भट्टभास्कर-टीका
हे मैत्रावरुणदण्ड ब्राह्मणादीन् दृंह वर्धय । प्रजाशब्दः कृदुत्तरपदप्रकृतिस्वेरणान्तोदात्तः । रैशब्दात्परस्याः षष्ठ्याः ‘ऊडिदम्’ इत्यादिनोदात्तत्वम् ॥
भट्टभास्कर-टीका
15मैत्रावरुणदण्डेन संहन्ति - ब्रह्म दृंहेति ॥ व्याख्यातमेव ॥
भट्टभास्कर-टीका
15मैत्रावरुणदण्डेन संहन्ति - ब्रह्म दृंहेति ॥ व्याख्यातमेव ॥
भास्करोक्त-विनियोगः
16रशनया त्रिः प्रदक्षिणं परिव्ययति - परिवीरसीति ॥
मूलम् (संयुक्तम्)
परि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्ता॒म्परी॒मँ रा॒यस्पोषो॒ यज॑मानम्मनु॒ष्याः॑
विश्वास-प्रस्तुतिः
प॒रि॒-वीर् अ॑सि ।
+++(परिवीयमान!)+++ परि॑ त्वा॒ दैवी॒र् विशो॑ व्ययन्ताम्,
परी॒मँ रा॒यस्-पोषो॒ यज॑मानम् मनु॒ष्याः॑ ।
Keith
Thou art invested;
let the clans of the gods invest thee;
let increase of wealth, let (the clans) of men invest the sacrificer here.
मूलम्
प॒रि॒वीर॑सि ।
परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्ताम्
परी॒मँ रा॒यस्पोषो॒ यज॑मानम्मनु॒ष्याः॑ ।
पद-पाठः
प॒रि॒वीरिति॑ परि-वीः । अ॒सि॒ ।
परीति॑ । त्वा॒ । दैवीः॑ । विशः॑ । व्य॒य॒न्ता॒म् ।
परीति॑ । इ॒मम् । रा॒यः । पोषः॑ । यज॑मानम् । म॒नु॒ष्याः॑ ।
भट्टभास्कर-टीका
16रशनया त्रिः प्रदक्षिणं परिव्ययति - परिवीरसीति ॥ परिवीयत इति परिवीः । ‘अन्येभ्योपि दृश्यते’ इति कर्मणि क्विप्, यजादित्वात्सम्प्रसारणम्, ‘हलः’ इति दीर्घः, कृदुत्तरपदप्रकृतिस्वरत्वम् । परितो रशनया वेष्टनीयोसि हे यूप ।
अतस् त्वां दैवीः दैव्यो विशः देवानां स्वभूताः प्रजाः मरुदादयः, ‘मरुतो वै देवानां विशः’ इति । ‘देवाद्यञञौ’ इति देवशब्दादञ्, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । परिव्ययन्तां सर्वतोऽनया रशनया वेष्टयन्तु ।
इमं च यजमानं रायो धनस्य पोषः मनुष्याश्च परिवेष्टयन्तु, आढ्यः प्रजानामुपजीव्यश्च भवत्वित्यर्थः । ‘ऊडिदम्’ इत्यादिना रैशब्दात् षष्ठ्या उदात्तत्वम्, ‘षष्ठ्याः पतिपुत्र’ इति विसर्जनीयस्य सत्वम्, ‘अदुपदेशात्’ इति लसार्वधातुकानुदात्तत्वे धातुस्वरेण यजमानशब्द आद्युदात्तः । ‘ऊर्ग्वै रशना’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
17मध्यमे रशनागुणे स्वरुमवगूहति - अन्तरिक्षस्य त्वेति ॥
विश्वास-प्रस्तुतिः
अ॒न्तरि॑क्षस्य त्वा॒ साना॒व् अव॑ गूहामि ॥ [11]
Keith
On the slope of the atmosphere I conceal thee.
मूलम्
अ॒न्तरि॑क्षस्य त्वा॒ साना॒वव॑ गूहामि ॥ [11]
पद-पाठः
अ॒न्तरि॑क्षस्य । त्वा॒ । सानौ॑ । अवेति॑ । गू॒हा॒मि॒ ॥ [11]
भट्टभास्कर-टीका
17मध्यमे रशनागुणे स्वरुमवगूहति - अन्तरिक्षस्य त्वेति ॥ मध्यमत्वसाधर्म्यात् अन्तरिक्षस्थानीयस्य मध्यमस्य रशनागुणस्य स्थाने त्वामवगूहामि सुगुप्तं स्थापयामि हे स्वरो । कीदृशे स्थाने? सानौ समुन्नते स्वस्थानत्वादेव समुच्छ्रिते । यद्वा - सननीयः सानुः मध्यमेन गुणेन सम्भक्ते प्रदेशे ‘दॄसनिजनि’ इत्यादिना सनो ञुण्प्रत्ययः । ‘ऊदुपधाया गोहः’ इत्यूकारः ॥
इति तृतीये षष्ठोनुवाकः ॥