१८ यूपच्छेदनम्

०५ यूपच्छेदनम् ...{Loading}...

(अग्नीषोमपष्लभिधानाय पश्वङ्ग)यूपच्छेदनम् अग्नीषोमीयपशुसङ्गता मन्त्राः ५-११ अनुवाकाः

सोमऋषिः


भास्करोक्त-विनियोगः

यूपार्थं वृक्षम् उपतिष्ठते - अत्यन्यानिति-द्वादशाक्षर-त्रिपदया महाबृहत्या ।

विश्वास-प्रस्तुतिः ...{Loading}...

अत्य॒न्यान् अगा॒न्, नान्यान् उपा॑गाम् अ॒र्वाक्,
त्वा॒ परै॑र् अविदम् प॒रो ऽव॑रै॒स्,
तन् त्वा॑ जुषे वैष्ण॒वन् दे॑व-य॒ज्यायै॑ ।

सर्वाष् टीकाः ...{Loading}...
Keith

I have passed by some, I have not approached others.
I have found thee nearer than the farther, farther than the near.
So I welcome thee, that art of Visnu, for the sacrifice to the gods.

मूलम्

अत्य॒न्यानगा॒न्नान्यानुपा॑गाम॒र्वाक्
त्वा॒ परै॑रविदम्प॒रोऽव॑रै॒स्
तन्त्वा॑ जुषे वैष्ण॒वन्दे॑वय॒ज्यायै॑ ।

पद-पाठः

अतीति॑ । अ॒न्यान् । अगा॑म् । न । अ॒न्यान् । उपेति॑ । अ॒गा॒म् । अ॒र्वाक् । त्वा॒ । परैः॑ । अ॒वि॒द॒म् ।

प॒रः । अव॑रैः । तम् । त्वा॒ । जु॒षे॒ । वै॒ष्ण॒वम् । दे॒व॒य॒ज्याया॒ इति॑ देव-य॒ज्यायै॑ ।

भट्टभास्कर-टीका

1अतः परं पाशुकं काण्डं सोमार्षेयमेव । यूपार्थं वृक्षम् उपतिष्ठते - अत्यन्यानिति द्वादशाक्षर-त्रिपदया महाबृहत्या । ताण्डिन एतां सतोबृहतीमाहुः, ऊर्ध्वबृहर्तीं बह्वृचाः ॥

हे वृक्ष अन्यानितरान्कांश्चिद्वृक्षानहमत्यगाम् अतिक्रम्य गतोस्मि । के पुनस्ते? ये यूपार्हाः पलाशादयः ‘समे जातमशाखाजम्’ इत्यादिलक्षणहीनाः । तानुपगम्यैव वैगुण्यदर्शनेन अत्यजम् । अथान्यान्कांश्चिद्वृक्षान्नोपागां नैवोपगतोस्मि । के पुनस्ते? ये अयूपार्हा निम्बायय । सोहं युपार्हं लक्षाणवन्तं च त्वामेवाविदं लब्धवानस्मि । +++(लृदित्वादङ् 3-1-55पा.सू. इति पाठेन भाव्यमिति भाति । अत्र न स्पष्टम् । अर्थानुसारादेवं योजितम्)+++ ।
अस्य गुणवत्त्वमाह - परैरिति । परैरुत्कृष्टैस्समजातत्वादिभिर्लक्षणैरर्वाक् अविदूरे वर्तमानं सर्वलक्षणयुक्तमिति यावत् । अवरैर्निकृष्टैर्विषमजातत्वादिभिरसल्लक्षणैः परः परस्ताद्दूरे वर्तमानं असल्लक्षणैरस्पृष्टमित्यथाः । ‘विभाषा परावराभ्याम्’ इत्यतसुचि तकारस्य छान्दसो लोपः । यद्वा - पूर्वादिभ्यो विधीयमोसिप्रत्ययो बहुलवचनात्परशब्दादपि भवति, तत्र प्रत्ययस्वरेणान्तोदात्तत्वम्, परशब्दो हि ‘स्वाङ्गाशिटामदन्तानाम्’ इत्याद्युदात्तः, ‘शिडिति सर्वनामान्युच्यन्ते । ‘एकान्याभ्यां समर्थाभ्याम्’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते । तं ताडृ त्वा देवयज्यै देवयागार्थं जुषे सेवे गृह्णामीत्यर्थः । वैष्णवं विष्णुदेवत्यं,‘वैष्णवो वै देवतया यूपः’ इति । ‘छन्दसि निष्टर्क्य’ इत्यादिना देवयज्याशब्दो यप्रत्ययान्तो निपातितः । ‘अति ह्यन्यानेति नान्यानुपैति’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

2यूपमाज्येनानक्ति - देवस्त्वेति ॥

देवस् त्वा ...{Loading}...
विश्वास-प्रस्तुतिः

दे॒वस् त्वा॑ सवि॒ता मध्वा॑ऽनक्तु ।

Keith

Let the god Savitr anoint thee with honey.

मूलम्

दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽनक्तु ।

पद-पाठः

दे॒वः । त्वा॒ । स॒वि॒ता । मध्वा॑ । अ॒न॒क्तु॒ ।

भट्टभास्कर-टीका

2यूपमाज्येनानक्ति - देवस्त्वेति ॥ हे वृक्ष देवस्सविता सर्वस्य प्रेरकस्त्वां मध्वा मदनीयेन मधुरेणाज्येन अनक्तु स्निग्धं करोतु । ‘फलिपाटिनमिमनिजनाङ्गुक्पाटिनाकिधतश्च’ इति मन्यतेरुप्रत्ययः, धकारश्चान्तादेशः, तत्र च उरित्यनुवर्तते । ‘जसादिषु वा वचनं छन्दसि प्राङ्णौ चड्युपधायाः’ इति नाभावाभावः । मधुशब्देन चाज्यमुच्यते, ‘तेजसैवैनमनक्ति’ इति ब्राह्मणदर्शनात् । `तेजो वा आज्यम्’ इति ॥

भट्टभास्कर-टीका

8यूपस्याग्रमनक्ति - देवस्त्वेति ॥ व्याख्यातम् ॥


भास्करोक्त-विनियोगः

ऊर्ध्वाग्रं बार्हिर् अनूच्छ्रयति - ओषधे त्रायस्वैनमिति ॥

ओषधे ...{Loading}...
भास्करोक्त-विनियोगः

ऊर्ध्वाग्रं बार्हिर् अनूच्छ्रयति - ओषधे त्रायस्वैनमिति ॥

विश्वास-प्रस्तुतिः

ओष॑धे॒ त्राय॑स्वैनम्।

Keith

O plant, protect him.

मूलम् (संयुक्तम्)

ओष॑धे॒ त्राय॑स्वैनँ॒ स्वधि॑ते॒ मैनँ॑ हिँसीः

मूलम्

ओष॑धे॒ त्राय॑स्वैनम्।

पद-पाठः

ओष॑धे । त्राय॑स्व । ए॒न॒म् ।

भट्टभास्कर-टीका

2ऊर्ध्वाग्रं बर्हिरनुच्छ्रयति - ओषध इति ॥ हे ओषधे बर्हिरात्मिके । आमन्त्रिताद्युदात्तत्वम् । एनं यजमानं त्रायस्व रक्ष । स्वधितिव्यवधानमेव रक्षणं बर्हिषा ॥

+++(अन्यत्र - )+++ 3ऊर्ध्वाग्रं बार्हिर् अनूच्छ्रयति - ओषधे त्रायस्वैनमिति ॥ हे ओषधे बर्हिरेनं यूपार्थं वृक्षं त्रायस्व रक्ष यागसाधनत्वापादनेन वृक्षत्वान्मोचयित्वा उत्तमां गतिं गमय ॥

भट्टभास्कर-टीका

10वपाग्रहणदेशे प्राचीनाग्रं बर्हिर्निदधाति - ओषधे त्रायस्वैनमिति ॥ व्याख्यातम् ॥


भास्करोक्त-विनियोगः

4स्वधितिना तिर्यञ्चं प्रहरति

विश्वास-प्रस्तुतिः

स्वधि॑ते॒ मैनँ॑ हिँसीः।

स्वधिते ...{Loading}...
भास्करोक्त-विनियोगः

4स्वधितिना तिर्यञ्चं प्रहरति

विश्वास-प्रस्तुतिः

स्वधि॑ते॒+++(=क्षुर)+++! मैनँ॑ हिँसीः ।+++(र४)+++

Keith

Axe, hurt him not.

मूलम्

स्वधि॑ते॒ मैनँ॑ हिँसीः ।

पद-पाठः

स्वधि॑त॒ इति॒ स्व-धि॒ते॒ । मा । ए॒न॒म् । हिँ॒सीः॒ ।

भट्टभास्कर-टीका

3तस्मिन् बर्हिषि स्वधितिं तिर्यञ्चं निदधाति - स्वधित इति ॥ स्वस्मिन् प्रयोजने धितिरवस्थानमस्येति स्वधितिः स्वकार्यसमर्थः । धाञः आकारस्येकारः, बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरत्वम्, इह त्वामन्त्रिताद्युदात्तत्वम् । हे स्वधिते क्षुर एनं यजमानं मा हिंसीः । हिंसाप्रतिषेधो वप्तुरप्रमादाय ॥

  • स्वधितिना तिर्यञ्चं प्रहरति - स्वधिते मैनं हिंसीरिति ॥ हे स्वधिते त्वमप्येनं मा हिंसीः उत्तमामेव गतिं गमय । व्याख्यातौ च प्रागेवेतौ मन्त्रौ । ‘अनक्षसङ्गं वृश्चेत्’ इत्यादि ब्राह्मणम् ॥
भट्टभास्कर-टीका

11स्वधितिं निदधाति - स्वधिते मैनं हिंसीरिति ॥ व्याख्यातमेव ॥


भास्करोक्त-विनियोगः

5पतन्तमनुमन्त्रयते - दिवमग्रेणेति ॥

मूलम् (संयुक्तम्)

दिव॒मग्रे॑ण॒ मा ले॑खीर॒न्तरि॑क्ष॒म्मध्ये॑न॒ मा हिँ॑सीᳶ पृथि॒व्या सम्भ॑व।

विश्वास-प्रस्तुतिः

दिव॒म् अग्रे॑ण॒ मा ले॑खीः ।
अ॒न्तरि॑क्ष॒म् मध्ये॑न॒ मा हिँ॑सीः ।
पृ॒थि॒व्या सम्भ॑व।+++(5)+++

Keith

With thy top graze not the sky,
with thy middle harm not the atmosphere,
with earth be united.

मूलम्

दिव॒मग्रे॑ण॒ मा ले॑खीः ।
अ॒न्तरि॑क्ष॒म्मध्ये॑न॒ मा हिँ॑सीः ।
पृ॒थि॒व्या सम्भ॑व।

पद-पाठः

दिव॑म् । अग्रे॑ण । मा । ले॒खीः॒ ।
अ॒न्तरि॑क्षम् । मध्ये॑न । मा । हिँ॒सीः॒ ।
पृ॒थि॒व्या । समिति॑ । भ॒व॒ ।

भट्टभास्कर-टीका

5पतन्तमनुमन्त्रयते - दिवमग्रेणेति ॥ आत्मीयेनाग्रेण दिवं मा लेखीः मा विदारीः । ‘नेटि’ इति वृद्धिप्रतिषेधः । तथात्मीयेन मदेनान्तरिक्षं मा हिंसीः । पृथिव्या च सम्भव संयुजस्व पृथिवीमपि मा प्रहासीः; प्रमाणानतिरेकस्सम्भवः; पृथिवीमतिक्रम्य मा गाः । यथा - त्वदीयैरग्रमध्यमूलैर्विदारणाभिघातविपाटनकारिभिः लोकत्रयं न नश्यति तथा पतेत्यर्थः । पृथिवीशब्दो ङीषन्तोन्तोदात्तः, तेन ‘उदात्तयणो हल्पूर्वात्’ । इति विभक्तेरुदात्तत्वम् । ‘इमे वै लोकाः’ इत्यादि बाह्मणम् ॥


भास्करोक्त-विनियोगः

6आव्रश्चने हिरण्यं निधाय सम्परिस्तीर्याभिजुहोति - वनस्पत इति त्रैष्टुभैकपदया ॥

विश्वास-प्रस्तुतिः

वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह ।

Keith

O tree, grow with a hundred shoots; may we grow with a thousand shoots.

मूलम्

वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह ।

पद-पाठः

वन॑स्पते । श॒तव॑ल्‌श॒ इति॑ श॒त-व॒ल्‌शः॒ । वीति॑ । रो॒ह॒ ।

भट्टभास्कर-टीका

6आव्रश्चने हिरण्यं निधाय सम्परिस्तीर्याभिजुहोति - वनस्पत इति त्रैष्टुभैकपदया ॥ बर्हिराच्छेदनाभिमर्शनेन व्याख्यातप्रायमिदम् । पारस्करादिर्वनस्पतिशब्दः । ‘तस्मादाव्रश्चनात्’ `इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

7आत्मानं प्रत्यभिमृशति - सहसवल्शा इति त्रिष्टुभैकपदया ॥

सहस्र-वल्शाः ...{Loading}...
विश्वास-प्रस्तुतिः

स॒हस्र॑-वल्शाः॒+++(=प्ररोहाः)+++ वि व॒यँ रु॑हेम ।

Keith

Let us rise with a thousand shoots.

मूलम्

स॒हस्र॑वल्शाः॒ [2] विव॒यँ रु॑हेम ।

पद-पाठः

स॒हस्र॑वल्‌शा॒ इति॑ स॒हस्र॑-व॒ल्‌शाः॒ । वीति॑ । व॒यम् । रु॒हे॒म॒ ।

भट्टभास्कर-टीका

9आत्मानं प्रत्यभिमृशति - सहस्रवल्शा इति त्रिष्टुभैकपदया ॥
वयमपि सहस्रवल्शाः पुत्रपौत्राद्यनेकप्ररोहवन्तो विरुहेम विरूढा भूयास्म । ‘लिङ्याशिष्यङ्’ (पा.सू. 3.1.86) इत्यङ्प्रत्ययः । यासुडादि (पा.सू. 3.4.103) । ‘छन्दस्युभयथा’ (पा.सू. 3.4.117) इति सार्वधातुकत्वादिय् । यस्य लोपः (पा.सू. 6.1.66) ॥

भट्टभास्कर-टीका

7आत्मानं प्रत्यभिमृशति - सहसवल्शा इति त्रिष्टुभैकपदया ॥ इदमपि प्रागेव व्याख्यतम् ॥


भास्करोक्त-विनियोगः

8 अन्वग्रं शाखाः प्रसूयति - यं त्वेति द्विपदया त्रिष्टुभा ॥

विश्वास-प्रस्तुतिः

+++(तादृशस् त्वं)+++ यन् त्वा॒ऽयँ स्वधि॑ति॒स् तेति॑जानᳶ प्रणि॒नाय॑ मह॒ते सौभ॑गाय ।

Keith

Thou, whom this sharp axe hath brought forward for great good fortune,

मूलम्

यन्त्वा॒ऽयँ स्वधि॑ति॒स्तेति॑जानᳶ प्रणि॒नाय॑ मह॒ते सौभ॑गाय ।

पद-पाठः

यम् । त्वा॒ । अ॒यम् । स्वधि॑ति॒रिति॒ स्व-धि॒तिः॒ । तेति॑जानः । प्र॒णि॒नायेति॑ प्र-नि॒नाय॑ । म॒ह॒ते । सौभ॑गाय ।

भट्टभास्कर-टीका

8 अन्वग्रं शाखाः प्रसूयति - यं त्वेति द्विपदया त्रिष्टुभा ॥ तेतिजानो नीशितधारोयं स्वधितिः । तिज निशातने, यङ्क्लुगन्ताल्लटो व्यत्ययेनात्मनेपदं शानच् । ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । यं त्वां यूपार्थं वृक्षं प्राणिनाय प्रकर्षेण नयति शाखा प्रसाध्य विशिष्टं रूपं प्रापयति । ‘छन्दसि लुङ्लङ्लिटः’ इति लिट् । किमर्थं? महते सौभगाय सुभगत्वाय सुश्रीकत्वाय । उद्गात्रादिषु ’ सुभगं मन्त्रे’ इति पाठात् भावे अञ्प्रत्ययः । स खलु त्वमसीति शेषः । सत्वमस्मद्यज्ञं साधयेति वा ॥


भास्करोक्त-विनियोगः

9चतुरङ्गुलमग्रं चषालाय+++(=यूप-कटकाय)+++ प्रच्छेदयति - अच्छिन्न इति ॥

अच्छिन्नः ...{Loading}...
भास्करोक्त-विनियोगः

15अधस्ताद् वपरं परिवासयति - अच्छिन्न इति ॥

विश्वास-प्रस्तुतिः

अच्छि॑न्नो॒ राय॑स् सु॒वीरः॑ ॥ [9]

Keith

uncut, with wealth of heroes, (give us) riches.

मूलम्

अच्छि॑न्नो॒ राय॑स्सु॒वीरः॑ ॥ [9]

पद-पाठः

अच्छि॑न्नः । रायः॑ । सु॒वीर॒ इति॑ सु-वीरः॑ ॥ [9]

भट्टभास्कर-टीका

9चतुरङ्गुलमग्रं चषालाय+++(=यूप-कटकाय)+++ प्रच्छेदयति - अच्छिन्न इति ॥ अच्छिन्नः । अद्व्ययपूर्वपदप्रकृतिस्वरत्यम् । रायः धनानि देहीति शेषः । यद्वा - अच्छिन्नो धनस्य सुवीरश्च भवेत्यध्याहारः । ‘ऊडिदं’ इत्यादिना तृतीयादेर्विभक्तेरुदात्तत्वं व्यत्ययेन न क्रियते । ईदृशस्त्वमेव नो रायः । शोभना वीराः पुत्रपौत्रादयोस्य यजमानस्य येन भवन्ति स सुवीरः । ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युतात्त्वन् । यस्मात्त्वया यजमानस्य आयुष्मन्तः पूत्रादय उत्पद्यन्ते, तस्मात्तेषामभिवृद्ध्यर्थं अविच्छेदेन धनानि देहीति ॥

इति तृतीये पञ्चमोनुवाकः ॥