०४ वैसर्जनहोमः, अग्नीषोमप्रणयनम् ...{Loading}...
- अग्नीषोमीयपश्वभिधानायाग्नीषोमप्रणयनार्थं वैसर्जनहोमः १-५ गायत्री, ३ त्रिष्टुप् ४ अनुष्टुप् सोमऋषिः
भास्करोक्त-विनियोगः
1स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये वैसर्जनं जुहोति - त्वं सोमेति यजुरन्तया त्रिपदया गायत्र्या ॥
मूलम् (संयुक्तम्)
त्वँ सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्य उ॒रु य॒न्तासि॒ वरू॑थँ॒ स्वाहा॑
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं᳓ सोम तनू-कृ᳓द्भ्यो
द्वे᳓षोभ्यो+++(←द्वेषस्)+++ ऽन्य᳓-कृतेभ्यः ।
उरु᳓ यन्ता᳓सि व᳓रूथम् ॥
003 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सोमः
- ऋषिः - कृत्नुर्भार्गवः
- छन्दः - गायत्री
Thomson & Solcum
तुवं᳓ सोम तनूकृ᳓द्भ्यो
द्वे᳓षोभ्यो अन्य᳓कृतेभ्यः
उरु᳓ यन्ता᳓सि व᳓रूथम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
soma ← sóma- (nominal stem)
{case:VOC, gender:M, number:SG}
tanūkŕ̥dbhyaḥ ← tanūkŕ̥t- (nominal stem)
{case:DAT, gender:M, number:PL}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
anyákr̥tebhyaḥ ← anyákr̥ta- (nominal stem)
{case:DAT, gender:N, number:PL}
dvéṣobhyaḥ ← dvéṣas- (nominal stem)
{case:DAT, gender:N, number:PL}
asi ← √as- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
urú ← urú- (nominal stem)
{case:ACC, gender:N, number:SG}
várūtham ← várūtha- (nominal stem)
{case:NOM, gender:N, number:SG}
yantā́ ← yantár- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
त्वम् । सो॒म॒ । त॒नू॒कृत्ऽभ्यः॑ । द्वेषः॑ऽभ्यः । अ॒न्यऽकृ॑तेभ्यः ।
उ॒रु । य॒न्ता । अ॒सि॒ । वरू॑थम् ॥
पद-पाठः
त्वम् । सो॒म॒ । त॒नू॒कृद्भ्य॒ इति॑ तनू॒कृत्-भ्यः॒ । द्वेषो॑भ्य॒ इति॒ द्वेषः॑-भ्यः॒ । अ॒न्यकृ॑तेभ्य॒ इत्य॒न्य-कृ॒ते॒भ्यः॒ । उ॒रु । य॒न्ता । अ॒सि॒ । वरू॑थम् ।
Hellwig Grammar
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- soma
- [noun], vocative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- tanūkṛdbhyo ← tanū
- [noun], feminine
- “body; self; own(a); person; form.”
- tanūkṛdbhyo ← kṛdbhyaḥ ← kṛt
- [noun], dative, plural, masculine
- “causing; making; performing; promotive; producing; doing; acting; writing; transforming; effecting.”
- dveṣobhyo ← dveṣobhyaḥ ← dveṣas
- [noun], ablative, plural, neuter
- “hostility; enemy.”
- ’nyakṛtebhyaḥ ← anya
- [noun]
- “other; another(a); remaining; different; anya [word]; other than; more(a); fresh; any(a).”
- ’nyakṛtebhyaḥ ← kṛtebhyaḥ ← kṛ
- [verb noun], ablative, plural
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- uru
- [noun], accusative, singular, neuter
- “wide; broad; great; uru [word]; much(a); excellent.”
- yantāsi ← yam
- [verb], singular, periphrast. future
- “concentrate; grant; restrain; cause; control; offer; cover; raise.”
- varūtham ← varūtha
- [noun], accusative, singular, neuter
- “defense; protective covering.”
सायण-भाष्यम्
हे सोम त्वं तनूकृद्भ्यः कृशीकुर्वद्भ्यः । अथवाङ्गानां विच्छेदकेभ्यः अन्यकृतेभ्यः द्वेषोभ्यः शत्रुकृतेभ्यो ऽप्रियेभ्यः । कृत्याभ्य इत्यर्थः । वरूथं वरकं रक्षणम् उरु यन्तासि भवसि स्तोतॄणाम्। ‘अन्यकृतानि हि रक्षांसि ’ इति ब्राह्मणम् ॥
भट्टभास्कर-टीका
1 तनूश् शरीरम् । ‘कृषिचमि’ इत्यादिना ऊप्रत्ययः । तां कृन्तन्ति छिन्दन्तीति तनूकृन्ति । ‘क्विप्च’ इति क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् ।
द्विषन्तीति द्वेषांसि । अन्यैर् दुरात्मभिर् अभिचारादि-प्रवृत्तैः कृतान्यन्यकृतानि । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
यानि शरीरमपि नाशयन्ति तेभ्यो रक्षःप्रभृतिभ्यो यन्ता तत्पीडापगम-द्वारेण रक्षकः । हे सोम इर्दृशस् त्वमेव खलु नः उरु महत्वरूपं गृहं धनं वा, वरणीयत्वात् । ‘जॄवृञ्भ्यामूथन्’ इत्यूथन्प्रत्ययः । धनानि लिप्समानो हि स्तुत्यं तद्रूपेण स्तौति; तस्मान्महद्धर्नं मे देहीतिभावः । ‘उरुणस्कृधीति वावैतदाह’ `इति ब्राह्मणम् ।
ईदृशाय तुभ्यं स्वाहा सुहुतमिदमस्त्विति प्रदानार्थो निपातः ।
कथम् अत्र ‘तनूकृद् ध्य् एषः’ इति ब्राह्मणम् उपपद्यते? उच्यते - तनूकृतामपि रक्षःप्रभृतीनामेष हि तनूकृत्; तस्मात्किमनेन कर्तुं न शक्यत इति प्रतिपाद्यते । यद्वा - करोतेरेव क्विप् । तत्र हि बहवस् तनूकृतश् शरीरस्योत्पादयितारः । प्रजानाम् पिता रेतस्सिञ्चाति प्रजनने । सोमस्सिक्तं रेतो दधाति, यथा - ‘सोमो वै रेतोधाः’ इति । त्वष्टा वै रेतसास्सिक्तस्य रूपाणि विकरोतीति ।
अयमर्थः - हे सोम त्वं खलु तनूकृद्भ्योपि तनूकृतोनुप्रविश्य स्थितोसि । अत्र प्रासादात्प्रेक्षत इतिवल्ल्यब्लोपे कर्मणि पञ्चमी । त्वमपि तनूकृतां मध्ये कश्चिदेक इत्यर्थः । यद्वा - ‘सुपां सुपोभवन्ति’ इति सोर्भ्यसादेशः, यथा - ‘तनूकृध्येषः’ इति ब्राह्मणम् । यस्मादेवं तस्माद् अन्यैर्युष्मद्व्यतिरिक्तैः दुरात्मभिः कृतानि यानि द्वेषांसि युष्मत्कृततनूविरोधीति ज्यरादीनि व्यसनानि तेभ्यो यन्ता त्वमेवास्माकमुरु वरूथमिति । ‘सुवर्गाय वा एतानि लोकाय हूयन्ते यद्वैसर्जनानि’ इत्यादि ब्राह्मणम् ॥
Wilson
English translation:
“Soma, you offer us a wide shelter from the wasting enmities wrought by our foes.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Yantāsi = bhavasi;you the restraint (yanta) from enemies, etc., you are a wide shelter
Jamison Brereton
O Soma, for those who create your body [=soma-pressers] you hold out a broad defense
from the hateful things done by others.
Jamison Brereton Notes
By my interpr. (and Geldner’s), pādas ab contain a series of adjacent -bhyaḥ plural nominals, which by sense must be sorted into dative pl. tanūkṛ́dbhyaḥ (“for the body-makers”) and ablative pl. dvéṣobhyo anyákṛtebhyaḥ (“from hateful things done by others”). The pāda break assists in splitting up these formally identical forms.
A different interpr., going back to the MS (see Geldner’s n. 3a) and followed by Renou, however, takes tanūkṛ́d- in passive sense ‘done by oneself’ and contrastively parallel to anyákṛta- ‘done by others’; in this case, tanūkṛ́dbhyaḥ is also ablative. The deliberate contrast between the root noun -kṛ́t- in the first compound and the past passive participle -kṛta- in the second and the usual active, transitive sense of -kṛ́t- in compounds (including the other occurrence of tanūkṛ́t-) make this interpr. unlikely.
See Oldenberg for disc.; he opts for the active sense, but considers the tanū- in question to belong to the doers/makers referred to by -kṛ́t-: “(den Frommen), die tätig sind sich die eigne tanū́zu schaffen.” (Scarlatta weakly favors this.) This seems unnecessarily complex, though the usual polarity between tanū- ‘self’ and anyá- ‘other’ is an argument in its favor.
Griffith
Thou, Soma, givest wide defence against the hate of alien men,
Hatreds that waste and weaken us.
Keith
Thou, O Soma, art the giver of wide protection from hostility, brought about by ourselves or by others;
Geldner
Du, Soma, pflegst deinen leiblichen Erzeugern eine weite Schutzwehr gegen die von anderen angetanen Feindseligkeiten zu bieten.
Grassmann
Du, o Soma, reichest Schutzwehr vor den selbsterzeugten Leiden, Vor den anderwärts entstammten.
Elizarenkova
Ты, о Сома, тот, кто дает широкую защиту
От враждебных действий, вызванных самими,
(От враждебных действий), вызванных другими.
अधिमन्त्रम् (VC)
- सोमः
- कृत्नुर्भार्गवः
- विराट्गायत्री
- षड्जः
शिव शंकर शर्मा - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे परमेश्वर ! (तव+इत्) तुम्हारी ही (आशसा) आशा से (अहम्) मैं (हस्ते) हाथ में (दात्रं+चन) काटने के लिये हसुआ आदि लेता हूँ। (मघवन्) हे सर्वधनसम्पन्न ! (दिनस्य+वा) प्रतिदिन (सम्भृतस्य) एकत्रित (यवस्य) जौ आदि खाद्य पदार्थों के (कासिना) मुष्टि से हमारे घर को भरो ॥१०॥
शिव शंकर शर्मा - भावार्थः
भावार्थभाषाः - परमात्मा से हम मनुष्य उतने ही पदार्थ माँगें, जिनसे हम अपना निर्वाह अच्छी तरह कर सकें ॥१०॥
शिव शंकर शर्मा - पदार्थः
पदार्थान्वयभाषाः - हे इन्द्र=परमेश्वर ! तव+इत्=तवैव। आशसा=आशया। अहम्। हस्ते। दात्रं+चन=लवणसाधनं दात्रमपि। आददे=गृह्णामि। हे मघवन् ! दिनस्य वा संभृतस्य वा यवस्य कासिना मुष्टिना। पूर्धि=पूरय ॥१०॥
विश्वास-प्रस्तुतिः
स्वाहा॑ ।
Keith
hail!
मूलम्
स्वाहा॑ ।
पद-पाठः
स्वाहा॑ ।
भास्करोक्त-विनियोगः
2अवान्तरदीक्षां विसृज्य स्रुवेणाप्तुं प्रस्कन्दयति - जुषाण इति विराजा यजुरन्तया एकपदया ॥
विश्वास-प्रस्तुतिः
जु॒षा॒णो अ॒प्तुर्+++(=बिन्दुः)+++ आज्य॑स्य वेतु।
स्वाहा॑ ।
Keith
May the active one gladly partake of the ghee.
मूलम्
जु॒षा॒णो अ॒प्तुराज्य॑स्य वेतु।
स्वाहा॑ ।
पद-पाठः
जु॒षा॒णः । अ॒प्तुः । आज्य॑स्य । वे॒तु॒ ।
स्वाहा॑ ।
भट्टभास्कर-टीका
2अवान्तरदीक्षां विसृज्य स्रुवेणाप्तुं प्रस्कन्दयति - जुषाण इति विराजा यजुरन्तया एकपदया ॥ अप्तुः बिन्दुः । विभक्तिव्यत्ययः । आज्यस्याप्तुं वेतु पिबतु । कः - जुषाणः प्रीयमाणः । ताच्छीलिकश्चानश्, ‘भहुलं छन्दसि’ इति शं बाबित्वा शपो लुक्, लसार्वधातुकानुदात्तत्वाभावात् ‘चितः इत्यन्तोदात्तत्वम् । यद्वा - आप्तव्योप्तुः । `आप्नोतेर्ह्रस्वश्च’ इत्याप्तोतेस्तुप्रत्ययः । आप्तव्योयं सोमः प्रीयमाण आज्यस्य वेतु पिबतु । ‘क्रियाग्रहणं कर्तव्यम्’ इत्याज्यस्य सम्प्रदानत्वम्, ‘चतुर्थ्यर्थे बहुलं छन्दसि’ इति षष्ठी । ‘देवान्वै सुवर्गं लोकं यतो रक्षांस्यजिघासन्’ इत्यादि ब्राह्मणम् ।
स्वाहेति पूर्ववत् ॥
- [ईदृशाय तुभ्यं स्वाहा सुहुतमिदमस्त्विति प्रदानार्थो निपातः ।]+++(कुतः??)+++
भास्करोक्त-विनियोगः
3पूर्वया द्वारा शालाया उपनिष्क्रामति- अयं न इति चतुष्पदया त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यन् नो॑ अ॒ग्निर् वरि॑वᳵ+++(=अवकशं)+++ कृणोत्व्
अ॒यम् मृधᳶ॑+++(=सङ्ग्रामस्य)+++ पु॒र ए॑तु प्रभि॒न्दन् ।
अ॒यँ शत्रू॑ञ् जयतु॒ जर्हृ॑षाणो॒ +++(←हृष् + यङ् + लुक्)+++
ऽयव्ँ वाज॑ञ् जयतु॒ वाज॑-सातौ+++(←सन् लाभे+क्तिन्)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
May Agni here make room for us;
May he go before us cleaving the foe;
Joyously may he conquer our foes;
May he win booty in the contest for booty.
भास्करोक्त-विनियोगः
3पूर्वया द्वारा शालाया उपनिष्क्रामति- अयं न इति चतुष्पदया त्रिष्टुभा ॥
भास्करोक्त-विनियोगः
4आह्वनीये स्रुवाहुतिं जुहोति - उरु विष्णो इति चतुष्पदयानुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒रु वि॑ष्णो॒ वि क्र॑मस्व
+उ॒रु क्षया॑य नᳵ कृधि ।
घृ॒तङ् घृ॑त-योने पिब॒
प्रप्र॑ य॒ज्ञ-प॑तिन् +++(प्र)+++तिर+++(=वर्धय)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Step widely, O Visnu;
Give us broad space for dwelling in;
Drink the ghee, thou whose birthplace is in the ghee;
Lengthen (the years) of the lord of the sacrifice.
भास्करोक्त-विनियोगः
4आह्वनीये स्रुवाहुतिं जुहोति - उरु विष्णो इति चतुष्पदयानुष्टुभा ॥
मूलम्
उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नᳵ कृधि ।
घृ॒तङ्घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिन्तिर ॥
पद-पाठः
उ॒रु । वि॒ष्णो॒ इति॑ । वीति॑ । क्र॒म॒स्व॒ । उ॒रु । क्षया॑य । नः॒ । कृ॒धि॒ ॥
घृ॒तम् । घृ॒त॒यो॒न॒ इति॑ घृत-यो॒ने॒ । पि॒ब॒ । प्रप्रेति॒ प्र-प्र॒ । य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ-प॒ति॒म् । ति॒र॒ ॥
भट्टभास्कर-टीका
हे अग्ने विष्णो व्यापक । ‘विषेः किच्च’ इति नुप्रत्ययः । उरु विक्र्मस्व महाविक्रमो भव सर्वत्राप्रतिहतो भव । ‘वृत्तिसर्गतायनेषु क्रमः’ इत्यात्मनेपदम् ।
किञ्च – नः अस्माकं क्षयाय निवासाय निवासस्य । ‘षष्ठ्यर्थे चतुर्थी वक्तव्या’, क्षयो निवासे’ इत्याद्युदात्तत्वम् । उरु कृधि बहुधनादिकं देहि, अरिक्तमस्माकं निवासं कुर्वित्यर्यः । ‘कः करत्करतिकृधिकृतेष्वनदितेः’ इति संहितायां नसस्सकारस्य सकारो व्यत्ययेन न प्रवर्तते । उक्तं च प्रातिशाख्ये ‘न सक्रघकारपरे’ इति ।
अपिच - हे घृतयोने अपां योने, ‘अग्नेरापः’ इति । इदं हूयमानं घृतम् आज्यं पिब ।
अपिच - यज्ञपतिं यजमानं प्रतिर वर्धय ।
प्रपूर्वस् तिरतिर् वृद्धिकर्मा । ‘प्रसमुपोदः पादपूरणे’ इति प्रशब्दस्य द्विर्वचनम्, ‘अनुदात्तं च’ इति द्वितीयः प्रशब्दोनुदात्तः ।
‘पत्यावैश्वर्ये’ इति प्रकृतिस्वरत्वेन यज्ञशबोन्तोदात्तः, ‘यजयाच’ इति नञ्प्रत्ययान्तत्वात् ॥
भास्करोक्त-विनियोगः
5ब्राह्मणो राजानम् आदाय पूर्वया द्वारा हविर्-धानं प्रपादयति - सोमो जिगतीति त्रिपदया गायत्र्या ॥
मूलम् (संयुक्तम्)
सोमो॑ जिगाति गातु॒विद् [6]दे॒वाना॑मेति निष्कृ॒तमृ॒तस्य॒ योनि॑मा॒सदम्
विश्वास-प्रस्तुतिः ...{Loading}...
सो᳓मो जिगाति गातु+++(=मार्ग)+++-वि᳓द्
देवा᳓नाम् एति निष्कृत᳓म् ।
ऋत᳓स्य यो᳓निम् आस᳓दम् ॥
013 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सोमः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
सो᳓मो जिगाति गातुवि᳓द्
देवा᳓नाम् एति निष्कृत᳓म्
ऋत᳓स्य यो᳓निम् आस᳓दम्
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M
genre M
genre M
Morph
gātuvít ← gātuvíd- (nominal stem)
{case:NOM, gender:M, number:SG}
jigāti ← √gā- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
sómaḥ ← sóma- (nominal stem)
{case:NOM, gender:M, number:SG}
devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}
eti ← √i- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
niṣkr̥tám ← niṣkr̥tá- (nominal stem)
{case:NOM, gender:N, number:SG}
āsádam ← √sad- (root)
{case:ACC, number:SG}
r̥tásya ← r̥tá- (nominal stem)
{case:GEN, gender:M, number:SG}
yónim ← yóni- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
सोमः॑ । जि॒गा॒ति॒ । गा॒तु॒ऽवित् । दे॒वाना॑म् । ए॒ति॒ । निः॒ऽकृ॒तम् ।
ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥
पद-पाठः-तैत्तिरीयः
सोमः॑ । जि॒गा॒ति॒ । गा॒तु॒विदिति॑ गातु-वित् । दे॒वाना॑म् । ए॒ति॒ । नि॒ष्कृ॒तमिति॑ निः-कृ॒तम् । ऋ॒तस्य॑ । योनि॑म् । आ॒सद॒मित्या॑-सद॑म् ।
Hellwig Grammar
- somo ← somaḥ ← soma
- [noun], nominative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- jigāti ← gā
- [verb], singular, Present indikative
- “go; enter (a state); arrive.”
- gātuvid ← gātu
- [noun], masculine
- “path; way.”
- gātuvid ← vid
- [noun], nominative, singular, masculine
- “conversant(p); aware(p); enlightened; understanding.”
- devānām ← deva
- [noun], genitive, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- eti ← i
- [verb], singular, Present indikative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- niṣkṛtam ← niṣkṛta
- [noun], accusative, singular, neuter
- “place; rendezvous.”
- ṛtasya ← ṛta
- [noun], genitive, singular, neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- yonim ← yoni
- [noun], accusative, singular, feminine
- “vagina; vulva; uterus; beginning; origin; reincarnation; birthplace; family; production; cause; race; grain; raw material; birth; kind; caste; kinship; bed.”
- āsadam ← āsad ← √sad
- [verb noun]
- “approach; attack; sit down; approach; find; arrive.”
सायण-भाष्यम्
गातुवित्। गातुः वेदिमार्गः । तं जानानः सोमो जिगाति गच्छति । गन्तव्यं स्थानं दर्शयति । देवानां संबन्धि निष्कृतं संस्कृतम् आसदं सर्वैरासदनीयम् ऋतस्य यज्ञस्य योनिं स्थानं हविर्धानाख्यम् एति प्राप्नोति ॥ जिगाति । • गा स्तुतौ ’ । जुहोत्यादिः ॥
भट्टभास्कर-टीका
गातुर् मार्गः । गाङ् गतौ, ‘कमिमनिजनि’ इत्यादिना तुप्रत्ययः । गातुं वेत्ति विन्दतीति वा गातुवित् । क्विपि कृदुत्तरपदप्रकृतिस्वरत्वम् । ईदृशोयं सोमो जिगाति गच्छति । गा स्तुतौ छन्दसि इति जुहोत्यादिकः उदात्तेत्, ‘बहुलं छन्दसि’ इत्यभ्यासस्येत्वम् । इह त्व् अयं गतिकर्मा गतिकर्मसु हि जिगातीति निरुक्तकाराः पठन्ति ।
कं देशं गच्छतीत्याह - देवानामिति । देवानाम् आसदं, आ समन्तात् सीदन्त्य् अस्मिन्न् इत्य् आसदः । ‘घञर्थे कविधानम्’ इति कः, ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । निष्कृतम् अलङ्कृतम् । प्रबृद्धादेराकृतिगणत्वादुत्तरपदान्तोदात्तत्वम् । ऋतस्य सत्यस्य यज्ञस्य वा योनिम् उत्पत्तिस्थानं हविर्-धानम् एति प्रपद्यते । ‘सौम्यर्चा प्र पादयाति’ इत्यादि ब्राह्मणम् ॥
Wilson
English translation:
“Soma, knowing the right path, proceeds (by it); he goes to the excellent seat of the gods, the plural ce of sacrifice.”
Jamison Brereton
Soma proceeds, finding the way; he goes to a rendezvous with the gods, to sit in the womb of truth.
Griffith
Soma who gives success goes forth, goes to the gathering place of Gods,
To seat him at the seat of Law.
Keith
Soma goeth, who knoweth the way;
He approacheth the place of the gods,
To sit on the birthplace of Order .
Geldner
Soma kommt seinen Weg findend, er gelangt in die Gesellschaft der Götter, um sich in den Schoß des rechten Brauches zu setzen.
Grassmann
Der Soma geht, des Wegs bewusst, zum Ort der Götter dringt er hin, Zu sitzen auf des Opfers Schooss.
Elizarenkova
Движется Сома, находя путь.
Он идет на свидание с богами,
Чтобы осесть в лоне закона.
अधिमन्त्रम् (VC)
- सोमः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (गातुवित्) प्रशंसा जाननेवाले (सोमः) ऐश्वर्य्य से युक्त (देवानाम्) विद्वानों और (ऋतस्य) सत्य के (निष्कृतम्) निरन्तर जाने गए (आसदम्) और जिसमें सब वर्त्तमान होते हैं उस (योनिम्) कारण की (जिगाति) स्तुति करता है, वह अपेक्षित सुख को (एति) प्राप्त होता है ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् इस अनेक प्रकार के स्वरूपवाले संसार के कारण अव्यक्त को जानता है और इस संसार के रचनेवाले परमात्मा की प्रशंसा करता है, वही ऐश्वर्य्य से युक्त होता है ॥१३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यो गातुवित्सोमो देवानामृतस्य निष्कृतमासदं योनिं जिगाति सोऽभीष्टसुखमेति ॥१३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सोमः) ऐश्वर्य्ययुक्तः (जिगाति) स्तौति (गातुवित्) प्रशंसावित् (देवानाम्) विदुषाम् (एति) प्राप्नोति (निष्कृतम्) नितरां विज्ञातम् (ऋतस्य) सत्यस्य (योनिम्) कारणम् (आसदम्) आसीदन्ति सर्वे यस्मिंस्तम् ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यो विद्वानस्य विविधाकृतेर्विश्वस्य कारणमव्यक्तं जानाति एतन्निर्मातारं परमात्मानं प्रशंसति स एवैश्वर्यसम्पन्नो भवति ॥१३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे विद्वान अनेक प्रकारचे स्वरूप असलेल्या संसाराचे अव्यक्त कारण जाणतात व संसार निर्माण करणाऱ्या परमात्म्याची प्रशंसा करतात, तेच ऐश्वर्ययुक्त होतात. ॥ १३ ॥
भास्करोक्त-विनियोगः
नीडे कृष्णाजिनमास्तृणाति।
अदित्यास् सदः ...{Loading}...
भास्करोक्त-विनियोगः
नीडे कृष्णाजिनमास्तृणाति।
विश्वास-प्रस्तुतिः
अदि॑त्या॒स् सदो॑ऽसि ।
Keith
Thou art the seat of Aditi.
मूलम्
अदि॑त्या॒स्सदो॑ऽसि ।
पद-पाठः
अदि॑त्याः । सदः॑ । अ॒सि॒ ।
भट्टभास्कर-टीका
3नीडे कृष्णाजिनमास्तृणाति - अदित्या इति ॥ अदित्याः देवमातुः सदः सदनं लोकलक्षणं त्वमसि ॥
भट्टभास्कर-टीका
6दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणाति - आदित्या इति ॥ अदितिर्देवमाता तस्यास्सदोस्यासनमसि । सीदन्त्यस्मिन्निति सदः ॥
भट्टभास्कर-टीका
6दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणाति - आदित्या इति ॥ अदितिर्देवमाता तस्यास्सदोस्यासनमसि । सीदन्त्यस्मिन्निति सदः ॥
भास्करोक्त-विनियोगः
तस्मिन् सोमं निदधाति।
अदित्यास् सद आसीद ...{Loading}...
भास्करोक्त-विनियोगः
तस्मिन् सोमं निदधाति।
विश्वास-प्रस्तुतिः
अदि॑त्या॒स् सद॒ आसीद ।
Keith
Sit on the seat of Aditi.
मूलम्
अदि॑त्या॒स् सद॒ आसीद ।
पद-पाठः
अदि॑त्याः । सदः॑ । एति॑ । सी॒द॒ ।
भट्टभास्कर-टीका
4तस्मिन्सोमं निदधाति - अदित्या इति ॥ अदित्यास्सदः सदन स्थानीयमेतत् कृष्णाजिनमासीद उपविश अस्मिन् ॥
7कृष्णाजिने राजानमासादयति - अदित्या इति ॥ अदित्यास्सदोभूतमेतत्कृष्णाजिनं हे सोम आसीद अधितिष्ठ । प्रागेव व्याख्यातमिदं मन्त्रद्वयम् ॥
भट्टभास्कर-टीका
7कृष्णाजिने राजानमासादयति - अदित्या इति ॥ अदित्यास्सदोभूतमेतत्कृष्णाजिनं हे सोम आसीद अधितिष्ठ । प्रागेव व्याख्यातमिदं मन्त्रद्वयम् ॥
भास्करोक्त-विनियोगः
8राजानं देवताभ्यस्सम्प्रयच्छति - एष इति ॥
विश्वास-प्रस्तुतिः
ए॒ष वो॑ देव सवित॒स् सोमः!
तँ र॑क्षध्व॒म् ।
मा वो॑ दभत्+++(=हिंसीत्)+++ ॥
Keith
This, god Savitr, is the Soma of you (gods); guard it; let it escape you not.
मूलम्
ए॒ष वो॑ देव सवित॒स्सोम॒स्तँ र॑क्षध्व॒म् ।
मा वो॑ दभत् ॥
पद-पाठः
ए॒षः । वः॒ । दे॒व॒ । स॒वि॒तः॒ । सोमः॑ । तम् । र॒क्ष॒ध्व॒म् ।
मा । वः॒ । द॒भ॒त् ।
भट्टभास्कर-टीका
8राजानं देवताभ्यस्सम्प्रयच्छति - एष इति ॥ हे देव सवितः सर्वस्य प्रेरक, एष सोमः वः युष्मभ्यं देवेभ्यो न्यासभूतः परिधीयते । यद्वा - युष्माकमेष सोमः, युष्मत्पानार्थत्वात्; अतो युष्मभ्यमेव परिधीयत इति भावः । सवितुः प्राधान्यात्तन्मुखेन देवेभ्यः परिधीयते । तं च सोमं हे सवितः यस्त्वं ये चान्ये देवाः ते यूयं रक्षध्वम् । व्यत्ययेनात्मनेपदम् । रक्षतश्च युष्मान् कश्चिदपि हिंस्री मा दभत् मा हिंसीत् । दम्भेर्लुङि व्यत्ययेन च्लेरङ् । ‘यजमानो वा एतस्य पुरा गोप्ता भवति’ इन्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
9राजानमुपतिष्ठते - एतत्त्वमिति ॥
मूलम् (संयुक्तम्)
ए॒तत्त्वँ सो॑म दे॒वो दे॒वानुपा॑गा इ॒दम॒हम्म॑नु॒ष्यो॑ मनु॒ष्या॑न्त्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण।
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒तत् त्वम् सो॑म दे॒वो दे॒वान् उपा॑गाः,
इ॒दम् अ॒हम् म॑नु॒ष्यो॑ मनु॒ष्या॑न् +++(उपागाम्)+++।
स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण॥
सर्वाष् टीकाः ...{Loading}...
Keith
So, O Soma, god to the gods, hast thou gone, and I here man to man, with offspring, with increase of wealth.
मूलम्
ए॒तत्त्वम् सो॑म दे॒वो दे॒वानुपा॑गाः ।
इ॒दम॒हम्म॑नु॒ष्यो॑ मनु॒ष्या॑न् +++(उपागाम्)+++
स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण।
पद-पाठः
ए॒तत् । त्वम् । सो॒म॒ । दे॒वः । दे॒वान् । उपेति॑ । अ॒गाः॒ ।
इ॒दम् । अ॒हम् । म॒नु॒ष्यः॑ । म॒नु॒ष्या॑न् ।
स॒ह । प्र॒जयेति॑ प्र-जया॑ । स॒ह । रा॒यः । पोषे॑ण ।
भट्टभास्कर-टीका
9राजानमुपतिष्ठते - एतत्त्वमिति ॥ एतत् एतस्मिन्काले । इदमित्यपि तथा । उभयत्र ‘सुपाम् सुलुक्’ इति सप्तम्या लुक् । हे सोम एतस्मिन्काले देवस्त्वं देवानुपागाः उपसंप्राप्तोसि । अस्मिन्कालेहमपि मनुष्यो मनुष्यानुपागाम् । क्रियाविशेषणं चोभयम् । सर्वत्र प्रायेणास्मद्विषय इदं शब्दः, युष्मद्विषय एतच्छब्दः, यथा - ‘एषा सा त्वयि’ ‘इयं सा मयि’ इति । उपागामित्यत्र ‘गातिस्था’ इति सिचो लुक् । ‘देवो ह्येष सन्’ इत्यादि ब्राह्मणम् ।
किं केवलं एव मनुष्यानुपैति । नेत्याह - प्रजया सह रायो धनस्य पोषेण च सह मनुष्यानुपागामिति । ‘यदेतद्यजुर्न ब्रूयादप्रजा अपशुर्यजमानस्यात्’ इत्यादि ब्राह्मणम् । प्रजाशब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः, ‘उपसर्गे च संज्ञायाम्’ इति डप्रत्ययः । ‘ऊडिदम्’ इत्यादिना रैशब्दात् षष्ठ्या उदात्तत्वम् ॥
भास्करोक्त-विनियोगः
10प्राञ्चमञ्जलिं करोति - नमो देवेभ्य इति ॥
विश्वास-प्रस्तुतिः
नमो॑ दे॒वेभ्यः॑ ।
Keith
Honour to the gods
मूलम्
नमो॑ दे॒वेभ्यः॑ ।
पद-पाठः
नमः॑ । दे॒वेभ्यः॑ ।
भट्टभास्कर-टीका
10प्राञ्चमञ्जलिं करोति - नमो देवेभ्य इति ॥ अस्त्विति शेषः । ‘नमस्कारो हि देवानाम्’ `इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
11अञ्जलिं दक्षिणां न्यञ्चति - स्वधा पितृभ्य इति ॥
विश्वास-प्रस्तुतिः
स्व॒धा पि॒तृभ्यः॑ ।
Keith
Homage to the Pitrs!
मूलम्
स्व॒धा पि॒तृभ्यः॑ ।
पद-पाठः
स्व॒धेति॑ स्व-धा । पि॒तृभ्य॒ इति॑ पि॒तृ-भ्यः॒ ।
भट्टभास्कर-टीका
11अञ्जलिं दक्षिणां न्यञ्चति - स्वधा पितृभ्य इति ॥ स्वमात्मानं दधातीति स्वधा । ‘आतोनुपसर्गे कः, ‘थाथादिस्वरेणान्तोदात्तत्वम् । अन्नमुच्यते । स्वधा पितृभ्योस्तु । ‘स्वधाकारो हि पितृणाम्’ `इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
12 उपनिष्क्रामति - इदमिति ॥
विश्वास-प्रस्तुतिः
इ॒दम् अ॒हन् निर्वरु॑णस्य॒ पाशा॑त् ।
Keith
Here (may) I (be free) from Varuna’s noose
मूलम्
इ॒दम॒हन्निर्वरु॑णस्य॒ पाशा॑त् ।
पद-पाठः
इ॒दम् । अ॒हम् । निरिति॑ । वरु॑णस्य । पाशा॑त् ।
भट्टभास्कर-टीका
12 उपनिष्क्रामति - इदमिति ॥ क्रियाविशेषणम् । निरित्युपसर्गसामर्थ्यात् गच्छामीति योग्यं क्रियापदमध्याह्रियते । अहं वरुणस्य पाशादिदं निर्गच्छामि । वरुणस्य पाशादिव ममेदं निर्गमनम् । शालायां बद्ध इव [बद्धस्येव] स्थितस्य इदानीं निर्गमादेवमुच्यते । ‘वरुणपाशादेव निर्मुच्यते’ `इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
13 आहवनीयमीक्षते - सुवरिति ॥
सुवर् अभि ...{Loading}...
विश्वास-प्रस्तुतिः
सुव॑र् अ॒भि वि ख्ये॑षव्ँ+++(=अपश्यं)+++ वैश्वान॒रञ् ज्योतिः॑ ।
Keith
May I behold the light, the radiance for all men.
मूलम्
सुव॑र॒भि वि ख्ये॑षव्ँ वैश्वान॒रञ्ज्योतिः॑ ।
पद-पाठः
सुवः॑ । अ॒भि । वीति॑ । ख्ये॒ष॒म् । वै॒श्वा॒न॒रम् । ज्योतिः॑ ।
भट्टभास्कर-टीका
13आहवनीयमन्वीक्षते - सुवरिति ॥ सुष्ठु श्रेयांसि गमयतीति सुवः । अन्तर्भावितण्यर्थात् ‘अन्येभ्योपि दृश्यते’ (पा.सू. 3.2.75) इति विच् । ‘इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलम्’ (पा.सू. 6.4.77 वा 1) इत्युवङादेशः । ‘न्यङ्स्वरौ स्वरितौ’ (फि.सू. 74) इति वस्स्वरितत्वम् । एवंविधं वैश्वानरं विश्वेषां नराणां स्वामित्वेन सम्बन्धिनं ज्योतिर्द्योतनशीलं आहवनीयं अभिविख्येषं आभिमुख्येन पश्यामि । ‘अभिरभागे’ (पा.सू. 1.4.91) इति लक्षणे कर्मप्रवचनीयत्वेन गतित्वाभावात् ‘गतिर्गतौ’ (पा.सू. 8.1.70) इति निघाताभावः । लिङ्याशिष्यङ् (पा.सू. 3.1.86), यासुट् (पा.सू. 3.4.103), अतो येयः (पा.सू. 7.2.80) । ‘नरे संज्ञायाम्’ (पा.सू. 6.3.129) इति विश्वशब्दस्य दीर्घः, ‘तस्येदम्’ (पा.सू. 4.3.120) इत्यण् । अन्तोदात्तो वैश्वानरशब्दः । ‘तमसीव वा एषोन्तश्चरति’ (तै.ब्रा. 3.2.4) इति ब्राह्मणम् ॥
भट्टभास्कर-टीका
13 आहवनीयमीक्षते - सुवरिति ॥ स्वर्गसाधनत्वेन स्तुतिः । विश्वेषां नराणां ज्योतिष्ट्वं नयतीति वैश्वानरं द्योतमानमाहवनीयमाभिमुख्येन पश्यामीति । व्याख्यातम् । ख्यातेराशिषि लिङि, ‘लिङ्यशिष्यङ्’ ‘अतो येयः’ ॥
भट्टभास्कर-टीका
13 आहवनीयमीक्षते - सुवरिति ॥ स्वर्गसाधनत्वेन स्तुतिः । विश्वेषां नराणां ज्योतिष्ट्वं नयतीति वैश्वानरं द्योतमानमाहवनीयमाभिमुख्येन पश्यामीति । व्याख्यातम् । ख्यातेराशिषि लिङि, ‘लिङ्यशिष्यङ्’ ‘अतो येयः’ ॥
अवान्तरदीक्षाविसर्गः
भास्करोक्त-विनियोगः
14यजमानमवान्तरदीक्षां विसर्जयति - अग्ने व्रतपत इति ॥
विश्वास-प्रस्तुतिः
अग्ने॑ व्रतपते॒ त्वव्ँ व्र॒तानाव्ँ॑ व्र॒तप॑तिर् असि ।
या मम॑ त॒नूस् त्वय्य् अभू॑द्, इ॒यँ सा मयि॑ ।
या तव॑ त॒नूर् मय्य् अभू॑द् ए॒षा सा त्वयि॑ ।
य॒था॒य॒थन् नौ॑ व्रतपते व्र॒तिनो॑र् व्र॒तानि॑ ।+++(5)+++
Keith
Agni, lord of vows, thou art the vow-lord of vows.
May my body that bath been in thee be here in me;
may thy body that hath been in me be there in thee.
Be aright the vows, O vow-lord, of both of us votaries.
मूलम् (संयुक्तम्)
अग्ने॑ व्रतपते॒ त्वव्व्ँर॒ताना॑व्व्ँर॒तप॑तिरसि॒ या मम॑ त॒नूस्त्वय्यभू॑दि॒यँ सा मयि॒ या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॑ यथाय॒थन्नौ॑ व्रतपते व्र॒तिनो॑र्व्र॒तानि॑ ॥ [8]
मूलम्
अग्ने॑ व्रतपते॒ त्वव्ँ व्र॒तानाव्ँ॑ व्र॒तप॑तिर् असि ।
या मम॑ त॒नूस्त्वय्य् अभू॑दि॒यँ सा मयि॑ ।
या तव॑ त॒नूर्मय्य् अभू॑दे॒षा सा त्वयि॑ ।
य॒था॒य॒थन् नौ॑ व्रतपते व्र॒तिनो॑र् व्र॒तानि॑ ।
पद-पाठः
अग्ने॑ । व्र॒त॒प॒त॒ इति॑ व्रत-प॒ते॒ । त्वम् । व्र॒ताना॑म् ।
व्र॒तप॑ति॒रिति॑ व्र॒त-प॒तिः॒ । अ॒सि॒ ।
या । मम॑ । त॒नूः । त्वयि॑ । अभू॑त् । ़
इ॒यम् । सा । मयि॑ ।
या । तव॑ । त॒नूः । मयि॑ । अभू॑त् ।
ए॒षा । सा । त्वयि॑ ।
य॒था॒य॒थमिति॑ यथा-य॒थम् । नौ॒ । व्र॒त॒प॒त॒ इति॑ व्रत-प॒ते॒ । व्र॒तिनोः॑ । व्र॒तानि॑ ॥ [8]
भट्टभास्कर-टीका
हे अग्ने व्रतपते त्वं हि सर्वेषां व्रतानां सम्बन्धी व्रतपतिरसि । व्याख्यातं चेदं पूर्वम् । अतस्त्वत्प्रसादादेवाहं व्रती सपन्नः ।
- [यजमानमवान्तरदीक्षामुपनयति- अग्न इति । हे अग्ने व्रतपते व्रतानां पते त्वं व्रतानां सर्वेषां सम्बन्धिनां व्रतपतिरसि; न पुनरेकस्य व्रतस्य पतित्वाद्व्रतपतिरुच्यते । समासे सङ्ख्याविशेषस्याप्रतिपत्तेः बहुत्वप्रतिपादनाय व्रतानामित्युक्तम् । नित्यसम्बन्धाविप्रतिपत्त्यर्थं वृत्तिश्च कृता । पतिः पालयिता स्वामी वा । सर्वेषां व्रतानां सर्वदा सर्वात्मना च पतिस्त्वमसि ।
- यस्मादेवं, तस्मात् हे व्रतपते अग्ने नौ आवयोर्व्रतिनोर्व्रतानि अतः परं सह भवन्ति, न परस्परव्यावृत्तानि, यन्मया कृतं तत्त्वयापि कृतं भवतीति । ‘आत्मानमेव दीक्षया पाति’ `इति ब्राह्मणम् ॥ ]
इदानीं तु विसृष्टिदीक्षे मयि या मम ततूः पूर्वं त्वय्यभूत् सेयमिदानीं मय्येवास्तु । या च तव तनूः पूर्वं मय्यभूत्सैषेदानीं त्वय्येवास्तु । ‘युष्मदस्मदोर्ङसि’ इति तवममशब्दावाद्युदात्तौ ।
पूर्वं +++(द्वितीयप्रपाठके)+++ हि ‘या मम तनूरेषा सा त्वयि या तव तनूरियं सा मयि’ इत्याभ्यां तन्वोर्विनिमयः कृतः । इदानीं तु यथायथं गृह्यते ।
- [ या मम यजमानस्य तनूश्शररिं सा त्वयि मया निवेशिता । एषा इत्यङ्गुल्या अग्नेस्तनूं दर्शयति । या तव तनूः सा मयि त्वया निवेशिता इयमित्यात्मशरीरमङ्गुल्या दर्शयति । प्रत्यक्पराग्रूपसन्निहितविषयत्वादिदमेतदादीनामेवमुक्तम् ।]
एवं गृहीतस्वस्वतन्वोरावयोर्व्रतिनोः व्रतानि कर्माणि यथायथं भवन्तु । ‘यथास्वे यथायथम्’ इति निपात्यते । मदीयानि ममैव सन्तु, त्वदीयानि तथा तवैव च सन्त्वित्यर्थः ।
पूर्वं हि ‘सह नौ व्रतपते व्रतिनोर्व्रतानि’ इति परस्परकृतत्वं व्रतानामभ्युपगतं, यन्मया कृतं तत्त्वयापि कृतम्, यत्त्वया कृतं तन्मयापीति । इदानीं तु यथायथं व्यवस्थाप्यन्ते । ‘अग्ने व्रतपत आत्मनः पूर्वा तनूरादेयेत्याहुः’ `इति ब्राह्मणम् ॥
इति तृतीये चतुर्थोनुवाकः ॥