०३ धिष्णियाः ...{Loading}...
(आग्नीधसदःप्रभृतिषु स्थानेषु ) धिष्णियाः
सोमऋषिः
भास्करोक्त-विनियोगः
1अथ धिष्ण्यनिवपनमन्त्राः ।
विश्वास-प्रस्तुतिः
वि॒भूर् अ॑सि प्र॒वाह॑णः।
मूलम्
वि॒भूर॑सि प्र॒वाह॑णः।
पद-पाठः
वि॒भूरिति॑ वि-भूः । अ॒सि॒ । प्र॒वाह॑ण॒ इति॑ प्र-वाह॑नः ।
भट्टभास्कर-टीका
1अथ धिष्ण्यनिवपनमन्त्राः । ‘चात्वालाद्धिष्णियानुपवपति’ इत्यादि ब्राह्मणम् । तत्राग्नीध्रीयादयोष्टौ न्युप्यन्ते । आहवनीयादयोष्टावनुदिश्यन्ते । ‘न्यन्ये धिष्णिया उप्यन्ते नान्ये` इत्यादि ब्राह्मणम् । तत्राग्नीध्रीयं निवपति चात्वालात्पुरीषं सिकता इति गृहीत्वा परिमण्डलं धिष्ण्यं करोति - विभूरिति ॥ ‘रौद्रेणानीकेन’ इत्यादि सर्वत्रानुषज्यते । आधेयाग्निधर्मा आधारेषूपचर्यन्ते । विविधं भवितासीति विभूः । ‘आग्नीध्राद्धिष्णियान्विहरति’ इति सर्वधिष्ण्यादित्वाद्विभूरित्युच्यते । ‘भुवस्सज्ञान्तरयोः’ इति क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । यत एवंविधासि तस्मात्प्रवाहणस्त्वं प्रकर्षेण हविषां वाहयिता स्वात्मनान्यैश्च धिष्ण्याधारैरग्निभिः । वहतेर्ण्यन्ताद्बहुलवचनात्कर्तरि करणे वा ल्युट्, कृदुत्तरपदप्रकृतिस्वरत्वम्, ‘लिति’ इति प्रत्ययात्पूर्वस्योदात्तत्वम्, ‘कृत्यचः’ इति णत्वम् । यद्वा - वाहृ प्रयत्ने, तस्माल्ल्युट् । यज्ञार्थं प्रकर्षेण व्याप्रियमाण इति यावत् ।
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
2होतुर् धिष्ण्यं निवपति - वह्निरसीति ॥
विश्वास-प्रस्तुतिः
वह्नि॑रसि हव्य॒-वाह॑नः ।
Keith
Thou art the bearer which carrieth the offering.
मूलम्
वह्नि॑रसि हव्य॒वाह॑नः ।
पद-पाठः
वह्निः॑ । अ॒सि॒ । ह॒व्य॒वाह॑न॒ इति॑ हव्य-वाह॑नः ।
भट्टभास्कर-टीका
2होतुर्धिष्ण्यं निवपति - वह्निरसीति ॥ वहतिरावाहने वर्तते । ‘वहिश्नि’ इत्यादिना निप्रत्ययः; तत्र हि निदित्युच्यते । वह्निरसि देवानामावाहकोसि, आह्वातासीति यावत् । आहूय तेभ्यो हव्यानां हविषां वोढा प्रापयिता चासि । ‘हव्येऽनन्तः पादम्’ इति ञ्युट्, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
3मैत्रावरुणस्य धिष्ण्यं निवपति - श्वात्रोसीति ॥
विश्वास-प्रस्तुतिः
श्वा॒त्रो॑+++(=आशु त्राता)+++ ऽसि॒ प्र-चे॑ताः।
Keith
Thou art the savoury, the wise.
मूलम्
श्वा॒त्रो॑ऽसि॒ प्रचे॑ताः।
पद-पाठः
श्वा॒त्रः । अ॒सि॒ । प्रचे॑ता॒ इति॒ प्र-चे॒ताः॒ ।
भट्टभास्कर-टीका
3मैत्रावरुणस्य धिष्ण्यं निवपति - श्वात्रोसीति ॥ आशुशब्दस्य पूर्वापरवर्णविपर्ययः; आशु त्राता श्वात्रः । मित्रमेव तथा करोति । ‘आतोनुपसर्गे कः’ इति कः क्रियाविएशषणानामपि कर्मत्वात्, थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् ।
यद्वा - आशु सर्वदा गच्छतीति श्वात्रः । मित्रमेव तथा करोति । सर्वथा व्युत्पत्यनवधारणान्नावगृह्यते । अत सातत्यगमने, ‘दादिभ्यश्छन्दसि’ इति त्रन्प्रत्ययः, ‘त्रिचक्रादीनामन्तः’ इत्यन्तोदात्तत्वम्, ‘तित्रुत’ इतीट्प्रतिषेधः । प्रकृष्टश्चेतयतीति प्रचेताः । चिती संज्ञाने, ‘गतितकारकयोः पूर्वपदप्रकृतिस्वरत्वं च’ इति तस्मादसुन्प्रत्ययः, पूर्वपदप्रकृतिस्वरत्वं च । प्रचेता वरुणः । एवं मित्रावरुणसम्बन्धिनो मैत्रावरुणस्य धिष्ण्यं ताम्यामभेदेन स्तूयते ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
4ब्राह्मणाच्छंसिनो धिष्ण्यं निवपति - तुथोसीति ॥
विश्वास-प्रस्तुतिः
तु॒थो॑ऽसि वि॒श्ववे॑दाः।
+++(‘तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा विभजति’ इति ब्राह्मणे। )+++
Keith
Thou art Tutha, the all-knower.
मूलम्
तु॒थो॑ऽसि वि॒श्ववे॑दाः।
पद-पाठः
तु॒थः । अ॒सि॒ । वि॒श्ववे॑दा॒ इति॑ वि॒श्व-वे॒दाः॒ ।
भट्टभास्कर-टीका
4ब्राह्मणाच्छंसिनो धिष्ण्यं निवपति - तुथोसीति ॥ तुथोनामाग्निः दक्षिणा-विभाग-कृत् । ‘तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा विभजति’ इति ब्राह्मणे तुथः प्रसिद्धः । स एव त्वमसीति स्तूयते विभागसामर्थ्यं प्रकटयितुम् । अयमपि आह ब्राह्मणानि विभज्य शंसति । तु इति सौत्रो धातुः वृद्धिकर्मा, ‘पातॄतुदि’ इत्यात्दिना पिबत्यादिभ्यो विधीयमानः स्थक्प्रत्ययो बहुलवचनादस्मादपि भवति । महानित्यर्थः । यद्वा - स्तौतेस्स्थक्याद्यवर्णलोपः; यथोक्तम् - ‘द्वौ चापरौ वर्णविकारनाशौ’ इति । स्तुत्य इत्यथरः । विश्वं वेत्ति विन्दतीति वा विश्ववेदा । ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च’ इति कारकपूर्वादसुन्प्रत्ययः, तत्र पूर्वपदप्रकृतिस्वरग्रहणस्य बहुव्रीहिस्वरस्योपलक्षणत्वात् ‘बहुव्रीहौ विश्वं संज्ञायाम्’ इति पूर्वपदान्तोदात्तत्वमू । सर्वधनो वा ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
5पोतुर् धिष्ण्यं निवपति - उशिगसीति ॥
विश्वास-प्रस्तुतिः
उ॒शिग्+++(←वश कान्तौ)+++ अ॑सि क॒विः।
Keith
Thou art Uśij, the wise.
मूलम्
उ॒शिग॑सि क॒विः।
पद-पाठः
उ॒शिक् । अ॒सि॒ । क॒विः ।
भट्टभास्कर-टीका
5पोतुर्धिष्ण्यं निवपति - उशिगसीति ॥ पोतारौ देवकवी । यथा - ‘मन्द्रा पोतारा कवी प्रचेतसा’ इति । अतोस्यापि तद्रूपेण स्तुतिः । उशिक् कमनीयः स्पृहणीयः । वश कान्तौ, ‘वशः किच्च’ इतीजिप्रत्ययः । कविः क्रान्तदर्शनः सूक्तिमार्गाणां द्रष्टा । कु शब्दे, ‘अच इः’ इतीप्रत्ययः ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
6नेष्टुर् धिष्ण्यं निवपति - अङ्घारिरिति ॥
विश्वास-प्रस्तुतिः
अङ्घा॑रिर्+++(=अङ्घमानाश् च्यवमाना अरयो यस्य)+++ असि॒ बम्भा॑रिः+++(=बम्भ्रम्यमाणारिः)+++ ।
Keith
Thou art Anghari, Bamhhari.
मूलम्
अङ्घा॑रिरसि॒ बम्भा॑रिः ।
पद-पाठः
अङ्घा॑रिः । अ॒सि॒ । बम्भा॑रिः ।
भट्टभास्कर-टीका
6नेष्टुर् धिष्ण्यं निवपति - अङ्घारिरिति ॥ द्वाव् एताव् अग्निविशेशौ । यथा - ‘स्वान भ्राजाङ्घारे बम्भारे’ इति । तावत्र स्तूयेते ।
अङ्घमानाः स्वमार्गप्रच्युता अरयो यस्य सो ऽङ्घारिः । अङ्घमानारिरङ्घारिः, शानचो लोपः । यद्वा - पचाद्यजन्तस्समस्यते ।
एवं बम्भ्रम्यमाणारिर् बम्भारिः । भ्रमेर्यङ्लुगन्तात्पचाद्यच्, रेफमकारयोर्लोपः । विनष्टैश्वर्यतया व्याकुलत्वं बम्भ्रम्यमाणत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं, ‘अदुपदेशात्’ इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । अस्मिन्पक्षे वृषादित्वात्पूर्वपदस्याद्युदात्तत्वं द्रष्टव्यम् । यद्वा - बम्भ्रमदरिर्बम्भारिः इति शत्रन्तस्समस्यते स च ‘अभ्यस्तानामादिः’ इति आद्युदातः ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
7अच्छावाकस्य धिष्ण्यं निवपति - अवस्युरिति ॥
विश्वास-प्रस्तुतिः
+++(वातेषु)+++ अ॒व॒स्युर्+++(←अव्)+++ अ॑सि॒ दुव॑स्वान्+++(=←दुवस्यतिः परिचारकर्मा)+++ ।
Keith
Thou art the seeker of aid, the worshipper.
मूलम्
अ॒व॒स्युर॑सि॒ दुव॑स्वान् ।
पद-पाठः
अ॒व॒स्युः । अ॒सि॒ । दुव॑स्वान् ।
भट्टभास्कर-टीका
7अच्छावाकस्य धिष्ण्यं निवपति - अवस्युरिति ॥ वात-विशेष-वचनाव् एतौ । यथा ‘अवस्यवे त्वा वाताय स्वाहा । दुवस्वते त्वा वाताय स्वाहा’ इति । तत्सम्बन्धित्वेनास्य स्तुतिः ।
अव रक्षणे, अवतेरसुन्प्रत्ययः, तदिच्छति सर्वेषामिति ‘छन्दसि परेच्छायामपि’ इति क्यचि ‘क्याच्छन्दसि’ इत्युप्रत्ययः ।
दुवस्यतिः परिचारकर्मा । कण्ड्वादिः, प्रातिपदिकत्वपक्षे ‘तदस्यास्त्यस्मिन्’ इति मतुप् । परिचरणवान् सर्वैः परिचर्य इत्यर्थः । वृषादित्वादाद्युदात्तत्वम् । निपातो वायं द्रष्टव्यः ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
8मार्जालीयं निवपति - शुन्ध्यूरिति ॥
विश्वास-प्रस्तुतिः
शु॒न्ध्यूर्+++(=शोधयिता)+++ अ॑सि मार्जा॒लीयः॑+++(=मृज्यन्ते पात्राणीति)+++।
Keith
Thou art the bright, the Marjaliya.
मूलम्
शु॒न्ध्यूर॑सि मार्जा॒लीयः॑।
पद-पाठः
शु॒न्ध्यूः । अ॒सि॒ । मा॒र्जा॒लीयः॑ ।
भट्टभास्कर-टीका
8मार्जालीयं निवपति - शुन्ध्यूरिति ॥ शुन्ध्यूः शोधयिता, पात्रप्रक्षालळनस्थानत्वात् । ‘यजिमनिशुन्धि’ इत्यादिना युच्प्रत्ययः । वार्णव्यत्ययेन दीर्घत्वम् । मृज्यन्ते पात्राणीति मार्जालीयः । ‘स्थाचतिमृजेरालज्वालयालीयचः’ इत्यालीयच्प्रत्ययः, ‘उपोत्तमं रिति’ इत्युपोत्तमस्योदात्तत्वम् । त्वयि कृतमार्जनानां पात्राणां शोधयितासीत्यर्थः । एवमष्टौ न्युप्यन्ते ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
9अथाष्टावनुदिश्यन्तेनुक्रमेण सङ्कीर्त्यन्ते उपतिष्ठमानेन । आहवनीयमुपतिष्ठते - सम्राडिति ॥
विश्वास-प्रस्तुतिः
स॒म्राड् अ॑सि कृ॒शानुः॑+++(←कृशा अनवः=प्राणिनः यस्य)+++ ।
Keith
Thou art the king, Kr̥śanu.
मूलम्
स॒म्राड॑सि कृ॒शानुः॑ ।
पद-पाठः
स॒म्राडिति॑ सम्-राट् । अ॒सि॒ । कृ॒शानु॒रिति॑ कृ॒श-अ॒नुः॒ ।
भट्टभास्कर-टीका
9अथाष्टावनुदिश्यन्तेनुक्रमेण सङ्कीर्त्यन्ते उपतिष्ठमानेन । आहवनीयमुपतिष्ठते - सम्राडिति ॥
सम्यग्राजतीति सम्राट् । ‘सत्सूद्विष’ इत्यादिना क्विप्, ‘मो राजि समः क्वौ’ इति मकारः, कृदुत्तरपदप्रकृतिस्वरत्वम् । कृशा अल्पा अनवः प्राणिनो यस्मिन् स कृशानुः, यस्मिन् सम्यग् राजति सर्वे प्राणिनः स्वल्पवीर्यशरीरैश्वर्या भवन्ति तादृशोसीत्यर्थः । कृश अल्पीभावे, इगुपधलक्षणः कः । भृमृशीप्रभृतिभ्यो विधीयमान उप्रत्ययो बहुलवचनादनितेरपि भवति ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
10आस्तावम् उपतिष्ठते - परिषद्योसीति ॥
विश्वास-प्रस्तुतिः
परि॒षद्यो॑ऽसि॒ पव॑मानः ।
Keith
Thou art the purifying, around which men must sit.
मूलम्
परि॒षद्यो॑ऽसि॒ पव॑मानः ।
पद-पाठः
प॒रि॒षद्य॒ इति॑ परि-सद्यः॑ । अ॒सि॒ । पव॑मानः ।
भट्टभास्कर-टीका
10आस्तावम् उपतिष्ठते - परिषद्योसीति ॥ परितस्सीदन्त्यस्मिन्निति परिपद्यः । ‘शकि सहोश्च’ इति चकारस्यानुक्तसमुच्चयार्थत्वात् ‘कृत्यल्युटो बहुलम्’ इति बहुलवचनाद्वा अधिकरणे यत्प्रत्ययः, ‘सदिरप्रतेः’ इति षत्वं, कृदुत्तरपदप्रकृतिस्वरत्वं, ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । पवमानश्शोधनं कुर्वन् । ‘पूङ्यजोश्शानन्’ इति शानन्प्रत्ययः, पूङ् पवने भौवादिकः । बहिष्पवमानसम्बन्धाद्वा पवमान इत्युच्यते ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
11चात्वालम् उपतिष्ठते - प्रतक्वेति ॥
विश्वास-प्रस्तुतिः
प्र॒तक्वा॑+++(←तकतिर् गतिकर्मा)+++ ऽसि॒ नभ॑स्वान् ।
Keith
Thou art the impetuous, the cloudy.
मूलम्
प्र॒तक्वा॑ऽसि॒ नभ॑स्वान् ।
पद-पाठः
प्र॒तक्वेति॑ प्र-तक्वा॑ । अ॒सि॒ । नभ॑स्वान् ।
भट्टभास्कर-टीका
11चात्वालमुपतिष्ठते - प्रतक्वेति ॥ तकतिर् गतिकर्मा । प्रकृष्टं गतिर्गमनं प्रतक् । तत्र हि ऋत्विग्यजमाना बहिर्मार्जनार्थं गच्छन्ति । तदस्यास्तीति प्रतक्वा । ‘छन्दसीवनिपौ’ इति वनिप् प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा - प्रकर्षेण गच्छन्ति ऋत्विग्यजमाना इति प्रतक्वा । ‘अन्येभ्योपि दृश्यन्ते’ इति वनिप्प्रत्ययः । नभस्वान् उद्धृतपुरीषत्वेनावकाशवान् ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
12पशुश्रपणमुपतिष्ठते - असम्मृष्ट इति ॥
विश्वास-प्रस्तुतिः
अस॑म्मृष्टोऽसि हव्य॒सूदः॑ ।
Keith
Thou art the untouched, the preparer of the offering.
मूलम्
अस॑म्मृष्टोऽसि हव्य॒सूदः॑ ।
पद-पाठः
अस॑म्मृष्ट॒ इत्यस॑म्-मृ॒ष्टः॒ । अ॒सि॒ । ह॒व्य॒सूद॒ इति॑ हव्य-सूदः॑ ।
भट्टभास्कर-टीका
12पशुश्रपणमुपतिष्ठते - असम्मृष्ट इति ॥ असम्मृष्टः अविनाशितः । मृश आमर्शने, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । रक्षः प्रभृतिभिरपरामृष्टोसीति यावत् । हव्यानां हृदयादीनां सूदः पाचकः । षूद क्षरणे, पाकविशेषः क्षरणम्, कर्मण्यण्, ‘कूलसूदस्थलकर्षास्संज्ञायां’ इत्युत्तरपदाद्युदात्तत्वम् ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
13सदसो द्वारि तिष्ठन्नौदुम्बरीमुपतिष्ठते - ऋतधामेति ॥
विश्वास-प्रस्तुतिः
ऋ॒तधा॑माऽसि॒ सुव॑र्ज्योतिः ।
पद-पाठः
ऋ॒तधा॒मेत्यृ॒त-धा॒मा॒ । अ॒सि॒ । सुव॑र्ज्योति॒रिति॒ सुवः॑-ज्यो॒तिः॒ ।
Keith
Thou art be whose home is right, whose light is the heaven.
मूलम्
ऋ॒तधा॑माऽसि॒ सुव॑र्ज्योतिः ।
भट्टभास्कर-टीका
13सदसो द्वारि तिष्ठन्नौदुम्बरीमुपतिष्ठते - ऋतधामेति ॥ ऋतं सत्यं यज्ञो वा तत् धाम स्थानं यस्यास्सा ऋतधामा । यद्वा - ऋतं साम तद्धाम यस्थाः, तन्मूले हि साम गीयते, ‘औदुम्बरीं स्पृष्ट्वोद्गायेत्’ इति । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ऋतशब्दो निष्ठान्तोन्तोदात्तः । सुवः स्वर्ग आदित्यो वा । तत्रस्थं ज्योतिर्दीप्तिः यस्यास्सा सुवर्ज्योतिः, उच्छ्रितत्वात् । ‘सप्तम्युपमानर्पूवपदस्य वहुव्रीहिर्वाच्यो वाचोत्तरपदलोपश्च’ इति समासः । न्यङ्खरौ स्वरितौ’ इति स्वश्शब्दस्स्वर्यते ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
14ब्रह्मसदनमुपतिष्टते - ब्रह्मज्योतिरिति ॥
विश्वास-प्रस्तुतिः
ब्रह्म॑ज्योतिरसि॒ सुव॑र्धामा ।
Keith
Thou art be whose light is the Brahman, whose home is the heaven.
मूलम्
ब्रह्म॑ज्योतिरसि॒ सुव॑र्धामा ।
पद-पाठः
ब्रह्म॑ज्योति॒रिति॒ ब्रह्म॑-ज्यो॒तिः॒ । अ॒सि॒ । सुव॑र्धा॒मेति॒ सुवः॑-धा॒मा॒ ।
भट्टभास्कर-टीका
14ब्रह्मसदनमुपतिष्टते - ब्रह्मज्योतिरिति ॥ ब्रह्म ज्योतिर्दीप्तिर्यस्य स ब्रह्मज्योतिः धिष्ण्यः । ’ बृम्हेर्नलोपश्च1 इति मन्प्रत्ययान्तो ब्रह्मशब्दः । यद्वा - द्योतत इति ज्योतिः । ‘द्युतेरिसिन्नादेश्च जः’ इतीसिन्प्रत्ययः । द्योतमानो ब्रह्मा यत्र स ब्रह्मज्योतिर्द्योतमानब्रह्मेति यावत् । आहिताग्न्यादित्वात्परनिपातः । ब्रह्मसदने हि बह्मा द्योतते । स्वर्गावस्थानमिवावस्थानं यस्मिन् स सुवर्धामा । उपमानपुर्वपदस्य बहुव्रीहिसमासः । यद्वा - सुष्ठु अर्यते गम्यत इति स्वः । अर्तेर्विचि गतिसमासः । सुखमुच्यते, सुखनामसु हि ‘सुवः सुखम्’ इति निरुक्तकाराः पठन्ति । सुखं धाम स्थानं यत्र तादृशं, तत्र हि ब्रह्मा सुखमास्ते ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
15 अत्रैव तिष्ठन् गार्हपत्यमुपतिष्ठते - अजोसीति ॥
विश्वास-प्रस्तुतिः
अ॒जो॑ऽस्य् एक॑-पात् ।
+++(पूर्वप्रोष्ठपद-नक्षत्र-दैवतम्। ३५००BCE इति समये सूर्यस्य +उत्तरायणारम्भस्थानम्। )+++
Keith
Thou art the goat with one foot.
मूलम्
अ॒जो॑ऽस्येक॑पात् ।
पद-पाठः
अ॒जः । अ॒सि॒ । एक॑पा॒दित्येक॑-पा॒त् ।
भट्टभास्कर-टीका
15 अत्रैव तिष्ठन् गार्हपत्यमुपतिष्ठते - अजोसीति ॥ जायन्ते उत्पद्यन्तेस्मादाहवनीयादय इत्यजः । ‘जनेर्डश्च’ इति जनेर्डप्रत्ययः, टिलोपः, धातोश्चाडागमः । यद्वा - न जायत इत्यजः, नित्य इति यावत् । ‘अन्येष्वपि दृश्यते’ इति डः, न ञ्युपपदत्वात्कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा - अजन्ति गच्छन्त्यस्मादाहवनीयादय इत्यजः । अज गतिक्षेपणयोः, ‘घञर्थे कविधानम्’ इति कः, बहुलवचनाद्विभावाभावः । ण्यन्ताद्वा पचाद्यच्, ‘बहुलं सज्ञाच्छन्दसोः’ इति णीलुक् । आहवनीयादीनां गमयिता अजः । एकः पादोस्येत्येकपात् । ‘सङ्ख्यासुपूर्वस्य’ इत्यन्तलोपस्समासान्तः, पूर्वपदप्रकृतिस्वरत्वं, ‘इण्भीकापा’ इत्यादिना कन्प्रत्ययान्त एकशब्दः । एको ह्यस्य पादो देवानां यष्टा देवयण्णामा, यथोक्तम् - ‘आ देवयजं वह’ इति । पद्यते प्रतिपद्यते हवींषीति पादः । ‘पदरुजविशस्पृशो घञ्’ इति घञ् । अग्नेरंशाः पादाः ‘अपाग्नेग्निमामादं जहि निष्क्रव्यादं सेधा देवयजं वह’ इत्यंशान्तरनिवारणात् हव्यानां वोडुरेकपात्त्वम् ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
भास्करोक्त-विनियोगः
16पुराणगार्हपत्यम् उपतिष्ठते, यं प्रहास्यन्तो भवन्ति - अहिरसीति ॥
विश्वास-प्रस्तुतिः
अहि॑र् असि बु॒ध्नियः॑ ।
+++(उत्तरप्रोष्ठपदानां देवो ऽहिर् बुध्नियः।)+++
Keith
Thou art the dragon of the deep.
मूलम्
अहि॑रसि बु॒ध्नियः॑ ।
पद-पाठः
अहिः॑ । अ॒सि॒ । बु॒ध्नियः॑ ।
भट्टभास्कर-टीका
16पुराणगार्हपत्यमुपतिष्ठते, यं प्रहास्यन्तो भवन्ति - अहिरसीति ॥ आगत्य हन्तीत्यहिः, अयं खल्वग्निस्स्वकार्यं प्रत्यागत्य तद्विरोधिनमामादं हन्ति । यथा ‘अपाग्नेग्निमामादं जहि’ इति । ’ आङि श्रिहनिभ्यां ह्रस्वश्च’ इतीञ्प्रत्ययः, स च डित्, ‘उदात्तश्च’ इत्यनुवृत्तेः कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा आङ उदात्तत्वं ह्रस्वत्वं च । अहिरसि यजमानस्याभिमतसम्पादनाय तावदागच्छसि, तद्विरोधिनश्च हन्सीत्यर्थः । यद्वा - न हन्तीत्यहिः, अहिंसकोसीत्यर्थः । केवलादेव हन्तेर्बहुलवचनादयमिञ्प्रत्ययः डिच्च । अहिरहन्ता । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बुध्नं मूलकारणं सर्वकर्मणाम् । स्वार्थे यत्, छान्दस इकारोपजनः । यद्वा - बुद्धिर्बुध्नं, तत्र भवो बुध्न्यः सर्वदा श्रद्धावतां हृद्गतोसीत्यर्थः । ‘भवे छन्दसि’ इति यत्, ‘यतोऽनावः’ इत्याद्युदात्तत्वं बाधित्वा व्यत्ययेन । ‘तित्स्वरितम्’ इति स्वरितत्वम् ।
रौद्रेणेत्यादि व्याख्यातं सर्वत्रानुषज्यते ॥
रौद्रेण ...{Loading}...
विश्वास-प्रस्तुतिः
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने।
पिपृ॒हि मा॑।
मा मा॑ हिँसीः।
Keith
With thy dread countenance guard me, Agni;
content me;
hurt me not.
मूलम्
रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः
पद-पाठः
रौद्रे॑ण । अनी॑केन । पा॒हि । मा॒ । अ॒ग्ने॒ ।
पि॒पृ॒हि । मा॒ ।
मा । मा॒ । हिँ॒सीः॒ ॥ [5]
भट्टभास्कर-टीका
रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् । ‘संज्ञायां च’ इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, ‘अज्ञायामुपमानम्’ इत्याद्युदात्तत्वम् । ‘स्फिगन्तस्योपमेयनामधेयस्य’ इति वा ।
हे अग्ने अग्न्याधार मां पाहि रक्ष, पिष्टहि +++(पिपृहि इति स्यात्)+++ पूरय च मां कामैः । पॄ पालनपूरणयोः अनुदात उदात्तेत् जुहोत्यादिकः, ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - पिष्टहि +++(पिपृहि इति स्यात्)+++ तृप्य अस्मासु सानुग्रहो भव । पृ प्रीतौ भौ[सौ ?]वादिकः उदात्तेत्, ‘बहुळम् छन्दसि’ इति शपश्श्लुः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् ।
मा च मा हिंसीः । अत्र ’ चादिलोपे विभाषा’ इति प्रथमा तिङ्वभक्तिर्न निहन्यते, अपदात्परत्वाद्द्वितीया न निहन्यते, तृतीया तु निहन्यत एव ॥
विश्वास-टिप्पनी
अत्र धिष्णियास्व् अन्तिमौ मन्त्रगुच्छौ -
अ॒जो॑ऽस्येक॑पात् … अहि॑रसि बु॒ध्नियः॑ । …
इमे तु प्रोष्ठपदनक्षत्रदेवते। व्यक्तो हि कश्चन ज्योतिस्सम्बन्धः।
सु॒प॒र्णोऽसि ग॒रुत्मा॑न्। … धिष्णि॑याः श॒फाः। … ग॒रुत्मा॒न् दिवं॑ गच्छ। सुवः॑ पत ।
इत्य् आम्नातम्। ननु प्रोष्ठ-पदानां / भाद्र-पदानां (गो-)शफत्वेन कल्पनम् अस्मासु प्रसिद्धम् (प्रोष्ठ-शब्दप्रयोगात्)! अथ तार्क्ष्यवत् pegasus-रूपेण +आर्यपुत्रान्तरेषु यवनादिषु। यज्ञं हि ख-गत-तार्क्ष्य-रूपेणात्र +उपासयाञ् चक्रिरे?
(इतोऽपि कस् सम्बन्ध इति कश्चिद् आविष्कृत्य प्रपञ्चयतु?? 🙏 यावद् अवगतं तूक्तम्। ३५००BCE इति कालस्य परिसरे तत्रावर्तत +उत्तरायणारम्भ इत्य् एतावज् ज्ञातम्।)
इति तृतीये तृतीयोनुवाकः ॥