०२ उपरवनिर्माणादिकम् ...{Loading}...
हविर्धान(अभ्यन्तर)गतोपरवनिर्माणम्
सोमऋषिः
भास्करोक्त-विनियोगः
उपरवान् खनति पूर्वयोर् दक्षिणम् एवाग्रे - रक्षोहण इति ॥
विश्वास-प्रस्तुतिः
र॒क्षो॒-हणो॑ +++(अभिचार-हेतुक–निखात–)+++वल-ग॒–हनो॑ वैष्ण॒वान् ख॑नामि ।
Keith
I dig those which slay the Raksas, which slay the spell, which are of Visnu.
मूलम्
र॒क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑नामि ।
पद-पाठः
र॒क्षो॒हण॒ इति॑ रक्षः-हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग-हनः॑ । वै॒ष्ण॒वान् । ख॒ना॒मि॒ । 2B ।
भट्टभास्कर-टीका
उपरवान् खनति पूर्वयोर् दक्षिणम् एवाग्रे - रक्षोहण इति ॥ हन्तेः ‘बहुलं छन्दसि’ इति क्विप्, ‘एकाजुत्तरपदे णः’ इति णत्वम् । ‘सर्वे विधयस्छन्दसि विकल्प्यन्ते’ इत्युपधालोपो न क्रियते । कृदुत्तरपदप्रकृतिस्वरत्वम् ।
वलो नामासुरमुख्यः, तद्-गामिनस् तद्भृत्या वलगाः ।
यद्वा - वृणोतीति वलो मेघः । कपिलकादित्वाल् लत्वम् । स इव छादयन्तो ये गच्छन्ति ते वलगाः असुरविशेषाः ।
यद्वा - जीर्ण-कट-पटादि-खण्ड-सम्भृताः अस्थि-नख-रोम पाद-पांसु-प्रभृतयः प्राणिनां मारणार्थं ये भूमौ निखन्यन्ते ते वलगाः । ते हि प्राणिनां बाधकतया वल-गामिनो वलवल् लक्ष्या भवन्ति ।
‘अन्यत्रापि दृश्यते’ इति गमेर्डः ।
तेषां हन्तारो वलगहनः । इर्दृशान्विष्णुदेवत्यानुपरवान् खनामि । ‘वैष्णवा हि देवतयोपरवाः’ इति ब्राह्मणम् ।
देवानां नासिकादिप्रास्थानीया उपरवाः । ‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवाः’ इति ब्राह्मणम् । ते च खन्यमाना रक्षांसि वलगांश्च निघ्नन्तीति । ‘असुरा वै निर्यन्तः इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
2पांसूनुद्वपति - इदमहमिति ॥
मूलम् (संयुक्तम्)
इदम॒हन्तव्ँव॑ल॒गमुद्व॑पामि॒ यन्न॑स्समा॒नो यमस॑मानो निच॒खाने॒दमे॑न॒मध॑रङ्करोमि॒ यो न॑स्समा॒नो योऽस॑मानोऽराती॒यति॑ गाय॒त्रेण॒ छन्द॒सा
इदम् अहम् ...{Loading}...
मूलम् (संयुक्तम्)
इदम॒हन्तव्ँव॑ल॒गमुद्व॑पामि॒ यन्न॑स्समा॒नो यमस॑मानो निच॒खाने॒दमे॑न॒मध॑रङ्करोमि॒ यो न॑स्समा॒नो योऽस॑मानोऽराती॒यति॑
विश्वास-प्रस्तुतिः
इ॒दम् अ॒हन् तव्ँ व॑ल॒गम् उद्व॑पामि॒
यन् न॑स् समा॒नो
यम् अस॑मानो निच॒खान॑।
Keith
Here do I cast out the spell which an equal or an unequal hath buried against us.
मूलम्
इ॒दम॒हन्तव्ँव॑ल॒गमुद्व॑पामि॒
यन्न॑स्समा॒नो यमस॑मानो निच॒खान॑ …
पद-पाठः
इ॒दम् । अ॒हम् । तम् । व॒ल॒गमिति॑ वल-गम् । उदिति॑ । व॒पा॒मि॒ । यम् । नः॒ । स॒मा॒नः । यम् । अस॑मानः । नि॒च॒खानेति॑ नि-च॒खान॑ ।
भट्टभास्कर-टीका
2पांसूनुद्वपति - इदमहमिति ॥ इदमिति क्रियाविशेषणम् । तं वलगमहमिदमुद्वपामि उद्धृत्य बहिः प्रक्षिपामि । कमित्याह – नः अस्माकं समानस्तुल्यः यं वलगं निचखान । ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम् । उदात्तवता तिङा’ इति समासः । यश्चास्माकमसमानः अतुल्यः ऊनः उत्कृष्टो वा वलग निचखान, तमुद्वपामीति । ‘द्वौ वाव पुरुषौ यश्चैव समानो यश्चासमानः’ इत्यादि ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
इ॒दमे॑न॒म् अध॑रङ् करोमि॒
यो न॑स् समा॒नो
योऽस॑मानो ऽराती॒यति॑
…
Keith
Here do I overthrow him who equal or unequal is ill-disposed to us.
मूलम्
इ॒दमे॑न॒मध॑रङ्करोमि॒ यो न॑स्समा॒नो योऽस॑मानोऽराती॒यति॑ …
पद-पाठः
इ॒दम् । ए॒न॒म् । अध॑रम् । क॒रो॒मि॒ ।
यः । नः॒ । स॒मा॒नः ।
यः । अस॑मानः । अ॒रा॒ती॒यति॑ ।
भट्टभास्कर-टीका
किञ्च – एनमहमधरं अधोगतिं करोमि । इदमिति पूर्ववत्क्रियाविशेषणम् । कमित्याह - योस्माकं समानो यश्चासमानो जनः अरातीयति अरातिरिवाचरति । यद्वा - अस्मानरातीयति यस्समानोसमानो वा । ‘उपमानादाचारे’ इति क्यच् ।
प्रदीपसिंहः
अत्र विश्वासप्रस्तुतौ मूले पि वाक्यविभागे दोषः भाति। निचखानेदम् इदं पूर्ववाक्यम् समाप्तमासीत् । इदम् इति पदम् अग्रिमवाक्यान्वयि । किञ्च – एनमहमधरं अधोगतिं करोमि । इदमिति पूर्ववत्क्रियाविशेषणम् । इति टीका । अतः व्यत्यासः कृतः
विश्वास-प्रस्तुतिः
गाय॒त्रेण॒ छन्द॑सा ।
Keith
The spell is overcome by the Gayatri metre.
मूलम्
गाय॒त्रेण॒ छन्द॑सा ।
पद-पाठः
गा॒य॒त्रेण॑ । छन्द॑सा ।
भट्टभास्कर-टीका
गायत्रेण छन्दसा उद्वपामि । गायत्र्येव गायत्रम् । ‘छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानम्’ इत्यण्प्रत्ययः ।
एवं दक्षिणपूर्वमारभ्य सर्वेभ्य उद्वपति । त्रैष्टुभेन जागतेनानुष्टुभेनेति विशेषोन्यत्र ॥
विश्वास-प्रस्तुतिः
अव॑-बाढो+++(=बद्धो)+++ वल॒गः ।
मूलम्
अव॑बाढो वल॒गः ।
पद-पाठः
अव॑बाढ॒ इत्यव॑-बा॒ढः॒ । व॒ल॒ग इति॑ वल-गः ।
भट्टभास्कर-टीका
3यजमानस्याधस्तात्पदपांसूनुद्वपति - अवबाढ इति ॥ यजमानस्य पादयोर् अधस्तात् बाढो बद्धो वलगो ऽस्तु । बाहृ प्रयत्ने, ‘क्षुब्धस्वान्त’ इत्यत्र निपातितः, ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
4उपरवान् क्रमेणावमृशतो ऽध्वर्युयजमानौ । ते चाधस्तात् सतृण्णाः । ‘तस्मात्सतृण्णा अन्तरतः प्राणाः इति ब्राह्मणम् । बहिरसतृण्णाः । ‘न सम्भिनत्ति तस्मादसभिन्नाः प्राणाः’ इति ब्राह्मणम् । पूर्वयोर्दक्षिणमेवाध्वर्युरवमृशत्युत्तरं यजमानः ।
विश्वास-प्रस्तुतिः
+++(अध्वर्यो!)+++ किम् अत्र॑?
Keith
What is here?
मूलम्
किमत्र॑ ।
पद-पाठः
किम् । अत्र॑ ।
भट्टभास्कर-टीका
4उपरवान् क्रमेणावमृशतो ऽध्वर्युयजमानौ । ते चाधस्तात् सतृण्णाः । ‘तस्मात्सतृण्णा अन्तरतः प्राणाः इति ब्राह्मणम् । बहिरसतृण्णाः । ‘न सम्भिनत्ति तस्मादसभिन्नाः प्राणाः’ इति ब्राह्मणम् । पूर्वयोर्दक्षिणमेवाध्वर्युरवमृशत्युत्तरं यजमानः ।
अथ यजमानः पृच्छति - अध्वर्यो किमत्रेति ॥
विश्वास-प्रस्तुतिः
+++(भो यजमान!)+++ भ॒द्रम्।
Keith
Good.
मूलम्
भ॒द्रम्।
पद-पाठः
भ॒द्रम् ।
भट्टभास्कर-टीका
5इतर आह - भद्रमिति ॥ भद्रं भजनीयं कल्याणम् । भदि कल्याणे, रन्प्रत्ययः, उपधालोपश्च ॥
विश्वास-प्रस्तुतिः
+++(अध्वर्यो!)+++ तन् नौ॑ स॒ह ।
Keith
Let it be ours.
मूलम्
तन्नौ॑ स॒ह ।
पद-पाठः
तत् । नौ॒ । स॒ह ।
भट्टभास्कर-टीका
6यजमान आह - तन्नौ सहेति ॥ तद्भद्रमावयोस्सहैवास्तु । अथाध्वर्युः पृच्छति - यजमान किमत्रेति । भद्रमित्यादि यथायथम् । एवं सर्वत्र ॥
भास्करोक्त-विनियोगः
7-10उपरवान् अभिमृशति सर्वान् एवानुर्पूवं - विराडिति ॥
मूलम् (संयुक्तम्)
वि॒राड॑सि सपत्न॒हा स॒म्राड॑सि भ्रातृव्य॒हा स्व॒राड॑स्यभिमाति॒हा वि॑श्वा॒राड॑सि॒ विश्वा॑सान्ना॒ष्ट्राणाँ॑ ह॒न्ता [3]
विश्वास-प्रस्तुतिः
वि॒राड् अ॑सि सपत्न॒हा ।
Keith
Thou art Viraj, slaying our rivals;
मूलम्
वि॒राड॑सि सपत्न॒हा ।
पद-पाठः
वि॒राडिति॑ वि-राट् । अ॒सि॒ । स॒प॒त्न॒हेति॑ सपत्न-हा ।
भट्टभास्कर-टीका
7-10उपरवान् अभिमृशति सर्वान् एवानुर्पूवं - विराडिति ॥ विविधं राजतीति विराट् । ‘सत्सूद्विष’ इति क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । सपत्राश्शत्रवस्तेषां हन्ता । ‘बहुलं छन्दसि’ इति क्विप्। यस्मात्त्वं विविधं दीप्यसे तस्मात्सपत्नहा ।
विश्वास-प्रस्तुतिः
स॒म्राड् अ॑सि भ्रातृव्य॒हा ।
Keith
thou art Samraj, slaying our foes;
मूलम्
स॒म्राड॑सि भ्रातृव्य॒हा ।
पद-पाठः
स॒म्राडिति॑ सम्-राट् । अ॒सि॒ । भ्रा॒तृ॒व्य॒हेति॑ भ्रातृव्य-हा ।
भट्टभास्कर-टीका
सङ्गतं दीप्यत इति सम्राट् । ‘मो राजि समः क्वौ’ इति मस्य मः । यस्मादेवं तस्मात्त्वं भ्रातृव्यहा । भ्रातृव्यास्सपत्नाः । ‘व्यन् सपत्ने’ इति व्यन्प्रत्ययः । तेषां हन्ता बाह्याभ्यन्तरभेदेन नित्यानित्यभेदेन वा शत्रूणां पृथगभिधानम् ।
विश्वास-प्रस्तुतिः
स्व॒राड् अ॑स्य् अभिमाति॒हा।
Keith
thou art Svaraj, slaying the enemy;
मूलम्
स्व॒राड॑स्यभिमाति॒हा।
पद-पाठः
स्व॒राडिति॑ स्व-राट् । अ॒सि॒ । अ॒भि॒मा॒ति॒हेत्य॑भिमाति-हा ।
भट्टभास्कर-टीका
स्वायत्तं दीप्यस इति स्वराट् । यस्मादेवं तस्मात्त्वं अभिमातिहा । अभिमातिः पाप्मा । मन्यतेः क्तिनि नित्यमप्यनुनासिकलोपं बाधित्वा व्यत्ययेन ‘अनुनासिकस्य क्विझलोः’ इति दीर्घत्वम् । ततः ‘अनुदात्तोपदेश’ इत्यादिनानुनासिकलोपः । तया हन्ता । महाबलेन हि पाप्मा निहन्तुं शक्यते ।
विश्वास-प्रस्तुतिः
वि॒श्वा॒राड् अ॑सि॒ विश्वा॑सान् ना॒ष्ट्राणाँ॑ ह॒न्ता ।
Keith
thou art Viśvaraj, slayer of all destructive things [1].
मूलम्
वि॒श्वा॒राड॑सि॒ विश्वा॑सान्ना॒ष्ट्राणाँ॑ ह॒न्ता ।
पद-पाठः
वि॒श्वा॒राडिति॑ विश्व-राट् । अ॒सि॒ । विश्वा॑साम् । ना॒ष्ट्राणा॑म् । ह॒न्ता । [3]
भट्टभास्कर-टीका
विश्वेषु लोकेषु राजतीति विश्वाराट् । ‘विश्वस्य वसुराटोः’ इति दीर्घः ।
यस्मादेवं तस्माद् विश्वासां नाष्ट्राणां नाशयितॄणां दैवादि-प्रवृत्तीनां हन्ता नाशयिता त्वमसि । नशेर्ण्यन्तात् ‘दादिभ्यश्छन्दसि’ इति त्रन्प्रत्ययः ‘तितुत्रतथ’ इतीट्प्रतिषेधः, णिलोपे उदात्तनिवृत्तिस्वरेण त्रन उदात्तत्वम्, ‘व्रश्च’ इत्यादिना षत्वम् ॥
भास्करोक्त-विनियोगः
11उपरवान्प्रोक्षति - रक्षोहण इति ॥
विश्वास-प्रस्तुतिः
र॒क्षो॒-हणो॑ वलग॒-हन॒ᳶ प्रोक्षा॑मि वैष्ण॒वान्।
Keith
I sprinkle those which slay the Raksas, which slay the spell, and which are of Visnu.
मूलम्
र॒क्षो॒हणो॑ वलग॒हन॒ᳶ प्रोक्षा॑मि वैष्ण॒वान्।
पद-पाठः
क्षो॒हण॒ इति॑ रक्षः-हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग-हनः॑ । प्रेति॑ । उ॒क्षा॒मि॒ । वै॒ष्ण॒वान् ।
भट्टभास्कर-टीका
11उपरवान्प्रोक्षति - रक्षोहण इति ॥ युष्मान् प्रोक्षामीति सम्बन्धः ॥
विश्वास-प्रस्तुतिः
र॒क्षो॒हणो॑ वलग॒-हनोऽव॑ नयामि वैष्ण॒वान्।
Keith
I pour down those which slay the Raksas, which slay the spell, and which are of Visnu.
मूलम्
र॒क्षो॒हणो॑ वलग॒हनोऽव॑ नयामि वैष्ण॒वान्।
पद-पाठः
र॒क्षो॒हण॒ इति॑ रक्षः-हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग-हनः॑ । अवेति॑ । न॒या॒मि॒ । वै॒ष्ण॒वान् ।
भट्टभास्कर-टीका
12उपरवेष्व् अपोवनयति - रक्षोहण इति ॥ एवंविधान् युष्मान्, अधस्तादपोवनयामि प्रापयामि आद्भिस्संयोजयामि । अवनयतिस्वभावादद्भिरेव गम्यते । नयतेश्च द्विकर्मकत्वाद्युष्मानपोवनयामीति भवति, युष्मास्वपोवनयामीति यावत्; यथा - ‘अजां नयति ग्रामम्’ इति । ‘तस्मादार्द्रा अन्तरतः प्राणाः’ `इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
13तेषु यवान्प्रस्कन्दयति - यवोसीति ॥
मूलम् (संयुक्तम्)
यवो॑ऽसि य॒वया॒स्मद्द्वेषो॑ य॒वयारा॑तीः
यवोऽसि ...{Loading}...
विश्वास-प्रस्तुतिः
यवो॑ऽसि।
य॒वय॑+++(=अपनय)+++ +अ॒स्मद्-द्वेषः॑ ।
य॒वय॒ +अरा॑तीः ।
Keith
Thou art barley (yava);
bar (yavaya) from us foes,
bar evil spirits.
मूलम् (संयुक्तम्)
यवो॑ऽसि य॒वया॒स्मद्द्वेषः॑ [1] य॒वयारा॑तीः ।
मूलम्
यवो॑ऽसि।
य॒वया॒स्मद्द्वेषः॑ ।
य॒वयारा॑तीः ।
पद-पाठः
यवः॑ । अ॒सि॒ ।
य॒वय॑ । अ॒स्मत् । द्वेषः॑ । [1]
य॒वय॑ । अरा॑तीः ।
भट्टभास्कर-टीका
यावयति अपनयति क्षुधमिति यवः ।
यौतेः पृथग्भावकर्मणोन्तर्भावितण्यर्थात् ‘पुंसि संज्ञायां घः’, वृषादित्वादाद्युदात्तत्वम् । बहुलग्रहणाद्वा कर्तरि ‘ऋदोरप्’ इत्यप् । जात्याख्यायामेकवचनम् ।
ईदृशस् त्वम् अस्मत् अस्मत्तः द्वेषः द्वेष्यं रक्षःप्रभृति यवय अपनय विनाशय ।
यौतेर्णिचि ‘संज्ञापूर्वको विधिरनित्यः’ इति वृद्धिर्न क्रियते, तिङः परत्वान्न निहन्यते ।
यद्वा - द्विषेः ‘अन्येभ्योपि दृश्यते’ इति विच् । द्वेषः द्वेष्टॄन् विनाशय ।
किञ्च - अरातीः अदातॄन् शत्रूञ्श्च यवय । रातेः कर्तरि क्तिनि क्तिचि वा नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । अस्मदीयांश्च शत्रून्नाशयेत्यर्थः । अपदात्परत्वादिदमाख्यार्तं न निहन्यते । ‘ऊर्ग्वै यवः’ इत्यादि बाह्मणम् ॥
भट्टभास्कर-टीका
13तेषु यवान्प्रस्कन्दयति - यवोसीति ॥ व्याख्यातम् । ‘प्राणेष्वेवोर्जं दधाति’ `इति ब्राह्मणम् ॥
भट्टभास्कर-टीका
13तेषु यवान्प्रस्कन्दयति - यवोसीति ॥ व्याख्यातम् । ‘प्राणेष्वेवोर्जं दधाति’ `इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
14उपरवान् बर्हिषा ऽवस्तृणाति - रक्षोहण इति ॥
मूलम् (संयुक्तम्)
रक्षो॒हणो॑ वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान्र॑क्षो॒हणो॑ वलग॒हनो॒ऽभि जु॑होमि वैष्ण॒वान्र॑क्षो॒हणौ॑ वलग॒हना॒वुप॑ दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी बृ॒हन्न॑सि बृ॒हद्ग्रा॑वा बृह॒तीमिन्द्रा॑य॒ वाचव्ँ॑वद ॥ [4]
विश्वास-प्रस्तुतिः
र॒क्षो॒हणो॑ वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान् ।
Keith
I bestrew those which slay the Raksas, which slay the spell, and which are of Visnu.
मूलम्
र॒क्षो॒हणो॑ वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान् ।
पद-पाठः
र॒क्षो॒हण॒ इति॑ रक्षः-हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग-हनः॑ । अवेति॑ । स्तृ॒णा॒मि॒ । वै॒ष्ण॒वान् ।
भट्टभास्कर-टीका
14उपरवान् बर्हिषा ऽवस्तृणाति - रक्षोहण इति ॥ युष्मानवस्तृणामीत्यधस्ताच्छादयामीत्यर्थः । शिष्टं स्पष्टम् । ‘तस्माल्लोमशा अन्तरतः प्राणाः’ `इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
15हिरण्यम् अन्तर्धाय स्रुवाहुत्या उपरवान् अभिजुहोति - रक्षोहण इति ॥
विश्वास-प्रस्तुतिः
र॒क्षो॒-हणो॑ वलग॒हनो॒ऽभि जु॑होमि वैष्ण॒वान् ।
Keith
I pour the libation over those which slay the Raksas, which slay the spell, and which are of Visnu. </details>
मूलम्
र॒क्षो॒हणो॑ वलग॒हनो॒ऽभि जु॑होमि वैष्ण॒वान् ।
पद-पाठः
र॒क्षो॒हण॒ इति॑ रक्षः-हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग-हनः॑ । अ॒भीति॑ । जु॒हो॒मि॒ । वै॒ष्ण॒वान् ।
भट्टभास्कर-टीका
15हिरण्यम् अन्तर्धाय स्रुवाहुत्या उपरवान् अभिजुहोति - रक्षोहण इति ॥ युष्मानभिजुहोमीति युष्मानाज्येन व्याघारयामीति । ‘प्राणेष्वेव तेजो दधाति’ `इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
16अधिषवणफलके उपदधाति - रक्षोहणाविति ॥
विश्वास-प्रस्तुतिः
र॒क्षो॒हणौ॑ वलग॒हना॒व् उप॑ दधामि वैष्ण॒वी ।
Keith
I lay down the two Which slay the Raksas, which slay the spell, and which are of Visnu.
मूलम्
र॒क्षो॒हणौ॑ वलग॒हना॒वुप॑ दधामि वैष्ण॒वी ।
पद-पाठः
र॒क्षो॒हणा॒विति॑ रक्षः-हनौ॑ । व॒ल॒ग॒हना॒विति॑ वलग-हनौ॑ । उपेति॑ । द॒धा॒मि॒ । वै॒ष्ण॒वी इति॑ ।
भट्टभास्कर-टीका
16अधिषवणफलके उपदधाति - रक्षोहणाविति ॥ एवंगुणे युवामुपदधामीति । वैष्णवी वैष्णव्यौ । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । ‘हनू वा एते यज्ञस्य यदधिषवणे’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
17अधिषवणफलके प्रदक्षिणं पुरीषेण पर्यूहति - रक्षोहणाविति ॥
विश्वास-प्रस्तुतिः
र॒क्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी ।
Keith
I surround the two which slay the Raksas, which slay the spell, and which are of Visnu.
मूलम्
र॒क्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी ।
पद-पाठः
र॒क्षो॒हणा॒विति॑ रक्षः-हनौ॑ । व॒ल॒ग॒हना॒विति॑ वलग-हनौ॑ । परीति॑ । ऊ॒हा॒मि॒ । वै॒ष्ण॒वी इति॑ ।
भट्टभास्कर-टीका
17अधिषवणफलके प्रदक्षिणं पुरीषेण पर्यूहति - रक्षोहणाविति ॥ युवां पर्यूहामीति पुरीषेण परितः पूरयित्वा द्रढयामीति । ‘उपसर्गादस्यत्यूह्योर्वा वचनम्’ इति परस्मैपदम् ॥
भास्करोक्त-विनियोगः
18एते बर्हिषा परिस्तृणाति - रक्षोहणाविति ॥
विश्वास-प्रस्तुतिः
र॒क्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि वैष्ण॒वी ।
Keith
I bestrew the two which slay the Raksas, which slay the spell, and which are of Visnu.
मूलम्
र॒क्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि वैष्ण॒वी ।
पद-पाठः
क्षो॒हणा॒विति॑ रक्षः-हनौ॑ । व॒ल॒ग॒हना॒विति॑ वलग-हनौ॑ । परीति॑ । स्तृ॒णा॒मि॒ । वै॒ष्ण॒वी इति॑ ।
भट्टभास्कर-टीका
18एते बर्हिषा परिस्तृणाति - रक्षोहणाविति ॥ युवां परिस्तृणामीति ॥
भास्करोक्त-विनियोगः
19एते अभिमृशति
विश्वास-प्रस्तुतिः
र॒क्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी ।
Keith
The two which slay the Raksas, which slay the spell, and which are of Visnu.
मूलम्
र॒क्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी ।
पद-पाठः
र॒क्षो॒हणा॒विति॑ रक्षः-हनौ॑ । व॒ल॒ग॒हना॒विति॑ वलग-हनौ॑ । वै॒ष्ण॒वी इति॑ ।
भट्टभास्कर-टीका
19एते अभिमृशति - रक्षोहणौ वलगहनौ वैष्णवी इति ॥
भास्करोक्त-विनियोगः
20फलके ग्राव्णोद्वादयति - बृहन्निति ॥
विश्वास-प्रस्तुतिः
बृ॒हन्न् अ॑सि बृ॒हद्-ग्रा॑वा ।
बृह॒तीम् इन्द्रा॑य॒ वाचव्ँ॑ वद ॥ [4]
Keith
Thou art great, with a great pressing stone;
call forth to Indra with a great voice.
मूलम्
बृ॒हन्न॑सि बृ॒हद्ग्रा॑वा ।
बृह॒तीमिन्द्रा॑य॒ वाचव्ँ॑वद ॥ [4]
पद-पाठः
बृ॒हन् । अ॒सि॒ । बृ॒हद्ग्रा॒वेति॑ बृ॒हत्-ग्रा॒वा॒ ।
बृ॒ह॒तीम् । इन्द्रा॑य । वाच॑म् । व॒द॒ ॥ [4]
भट्टभास्कर-टीका
20फलके ग्राव्णोद्वादयति - बृहन्निति ॥ हे ग्रावन् बृहन्महानसि वीर्येण । शतृवद्भावात् ‘उगिदचाम्’ इति नुम् । न परं वीर्येण, अपि तु शरीरेणापि बृहन्नसीत्याह - बृहद्ग्रावा महापाषाणः । अवयवभूता ग्रावाणोपि गृह्यन्ते । यद्वा - गृणन्तीति ग्रावाणः शब्दकारिणोवयवाः, बृहन्तो ग्रावाणो यस्य । गॄ निगरणे, क्वनिप्, आडागमः ।
यस्मादेवं तस्मादिन्द्रार्थं बृहतीं वाचं वद, यथेन्द्र इमां वाचं श्रुत्वा आगच्छति । शतृवद्भावात् ‘उगितश्च’ इति ङीप् । ‘बृहन्महतोरुपसङ्ख्यानम्’ इति नद्या उदात्तत्वम् । ‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ताः’ इत्यादि ब्राह्मणम् ।
एतदुक्तं भवति - शिरस्स्थानीये हविर्धाने प्राणस्थानीयेषूपरवेषु हनूस्थानीयाभ्यामधिषवणफलकाभ्यां परिगृहीते जिह्वास्थानीये चर्मणि दन्तस्थानीयैः ग्रावभिः खादनस्थानीयमभिषवं कृत्वा मुखस्थानीये आहवनीये हुत्वा प्रत्यग्गत्वा उदरस्थानीये सदसि भक्षयन्तीति । ‘यो वै विराजो यज्ञमुखे’ इत्यादि च ॥
इति तृतीये द्वितीयोनुवाकः ॥