१२ उत्तर-वेदी-संस्कारः ...{Loading}...
१२ उत्तर-वेदी-संस्कारः
सोमऋषिः
- मध्यमोपसद्-दिने स्वीकृत-षट्-त्रिशंत्-पद-परिमित-वेदि-प्रवेश-पूर्व-भाग उत्तर-वेद्य्-अभिधानम्
मानम्
भास्करोक्त-विनियोगः
शम्यया चात्वालं=उत्तरवेदीं परिमिमीते। प्राक् मिमीते।
विश्वास-प्रस्तुतिः
+++(हे भूमे!)+++ वि॒त्ताय॑नी मेऽसि।
Keith
Thou I art the abode of riches for me;
मूलम्
वि॒त्ताय॑नी मेऽसि।
पद-पाठः
वि॒त्ताय॒नीति॑ वित्त-अय॑नी । मे॒ । अ॒सि॒ ।
भट्टभास्कर-टीका
1शम्यया चात्वालं परिमिमीते - वित्तायनीति ॥ शम्यया परिमीयमाणा भूमिरुच्यते । वित्तं धनमग्निलक्षणम्, तस्यायनी प्रापणी त्वमसि । एतेः करणे ल्युट् । ममाग्निप्राप्तिहेतुस्त्वमसि ॥
भास्करोक्त-विनियोगः
दक्षिणतो मिमीते
विश्वास-प्रस्तुतिः
ति॒क्ताय॑नी+++(←तिज निशातने)+++ मे॒ऽसि ।
Keith
thou art the resort of the afflicted for me;
मूलम्
ति॒क्ताय॑नी मे॒ऽसि ।
पद-पाठः
ति॒क्ताय॒नीति॑ तिक्त-अय॑नी । मे॒ । अ॒सि॒ ।
भट्टभास्कर-टीका
2दक्षिणतो मिमीते - तिक्तायनीति ॥ तिक्तं तेजः । तिज निशातने । अग्निलक्षणस्य तेजसो मे प्रापण्यसि ॥
भास्करोक्त-विनियोगः
पश्चान्मिमीते
विश्वास-प्रस्तुतिः
अव॑तान् मा+++(मां→मम)+++ नाथि॒तम्+++(=याचितम्)+++ ।
Keith
protect me when in want;
मूलम्
अव॑तान्मा नाथि॒तम् ।
पद-पाठः
अव॑तात् । मा॒ । ना॒थि॒तम् ।
भट्टभास्कर-टीका
3पश्चान्मिमीते - अवतादिति ॥ अवतात् रक्षतात् तर्पयताद्वा । मां नाथितम् । कर्तरि निष्ठा । नाथमानमग्निं याचमानं तत्प्रदानेनावतात् ॥
भास्करोक्त-विनियोगः
उत्तरतो मिमीते
विश्वास-प्रस्तुतिः
अव॑तान्मा व्यथि॒तम् ।
Keith
protect me when afflicted.
मूलम्
अव॑तान्मा व्यथि॒तम् ।
पद-पाठः
अव॑तात् । मा॒ । व्य॒थि॒तम् ।
भट्टभास्कर-टीका
उत्तरतो मिमीते - अवतादिति ॥ अवताद्रक्षतात् मा व्यथितं भीतम्, किमत्राग्निर्लभ्यते उत न लभ्यत इति संशयेन भीतं चकितं वाग्निप्रदानेन रक्षतु ॥
स्फ्येन प्रहारः
भास्करोक्त-विनियोगः
चात्वाल-स्थे बर्हिषि स्फ्येन प्रहरति।।
विश्वास-प्रस्तुतिः
[वि॒देर् - अ॒ग्निर् नभो॒ +++(इति ते)+++ नाम॑+अग्ने॑ अङ्गिरो॒]
यो॑ ऽस्याम् [पृ॑थि॒व्याम् असि] ।
Keith
May Agni, named Nabhas, know (thee), Agni Angiras, thou who art in this earth.
मूलम्
वि॒देर॒ग्निर्नभो॒ नामाग्ने॑ अङ्गिरो॒ यो॑ऽस्याम् पृ॑थि॒व्यामसि ।
पद-पाठः
वि॒देः । अ॒ग्निः । नभः॑ । नाम॑ । अग्ने॑ । अ॒ङ्गि॒रः॒ ।
यः । अ॒स्याम् । पृ॒थि॒व्याम् । असि॑ ।
भट्टभास्कर-टीका
5चात्वाल-स्थे बर्हिषि स्फ्येन प्रहरति - विदेर् इति ॥ हे अग्ने अङ्गिरः अङ्गनादि-गुण-युक्त । अङ्गेर् असुनि इरुर्-आगमः ।
यस् त्वम् अस्यां पृथिव्याम् असि =वर्तसे, स त्वं विदेः वेदितुम् अर्हसि । कथं? नभो नामाग्निर् अहम् इति ।
यद्वा - नभोनामाग्निस् त्वम् असि, एतद्वेदितुमर्हसि । वेत्तेर्लिङि विकरणव्यत्ययेन शः । एवंनामानम् अग्निं याग-सिद्ध्यर्थम् आदातुं स्फ्येन बर्हिषि प्रहरामि, तस्मात् तन्-नामाहम् इति यत् ते वेदनं प्रयोजनवद् एवेति - अवश्यं त्वम् एवं वेदितुम् अर्हसीत्य् अर्थः ।
नभनान् नभः । तत्र पुरीष-नद्धोग्निर् नभ इत्य् एके । लोक-त्रय-नद्धस् सूक्ष्मो ऽग्निर् इत्य् अपरे । पुरीषादाने पृथिवीस्थस्य तस्याग्नेर् आदानं भवतीति तदर्थं मया स्फ्येन बर्हिषि प्रहारः क्रियत इति ॥
भास्करोक्त-विनियोगः
पुरीषम् आदत्ते।
विश्वास-प्रस्तुतिः
आयु॑षा॒ नाम्नेहि॑ ।
Keith
come with the name of Ayus
मूलम्
आयु॑षा॒ नाम्नेहि॑।
पद-पाठः
आयु॑षा । नाम्ना॑ । एति॑ । इ॒हि॒ ।
भट्टभास्कर-टीका
6पुरीषमादत्ते - आयुषेति ॥ हे अग्ने (पार्थिव …)! आयुषा ऽस्मभ्यं देयस्यायुषस्साधनेन नाम्ना नभ इत्यनेन त्वया विदितेनोपलक्षितः एहि आगच्छ, त्वामहं ग्रहीतुमारभ इति ॥
भास्करोक्त-विनियोगः
उत्तरवेद्यां निवपति।
यत्ते ...{Loading}...
विश्वास-प्रस्तुतिः
यत् ते ऽना॑धृष्ट॒न् नाम॑ य॒ज्ञिय॒न् +++(नभ इत्यादि)+++ तेन॒ त्वा ऽऽद॑धे ।
Keith
Whatsoever unapproached, holy name is thine, [1] therewith I take thee up.
मूलम्
यत्तेऽना॑धृष्ट॒न्नाम॑ य॒ज्ञिय॒न्तेन॒ त्वाऽऽद॑धे ।
पद-पाठः
यत् । ते॒ । अना॑धृष्ट॒मित्यना॑-धृ॒ष्ट॒म् । नाम॑ । य॒ज्ञिय॑म् । तेन॑ । त्वा॒ । एति॑ । द॒धे॒ ।
भट्टभास्कर-टीका
7-9उत्तरवेद्यां निवपति - यत्त इति ॥ हे अग्ने यत्ते तव अनाधृष्टमनभिभूतं केनचिदपि राक्षसादिना, यज्ञियं यज्ञार्हं यज्ञसम्पादनसमर्थं नाम नभ इत्येतत् । तेन त्वामादधे स्थापयामि । उत्तरवेद्यामाहवनीयधारणार्थं पुरीषात्मना त्वयैवायं धारयितुं शक्यते न हि त्वदन्यस्तद्धारयितुं समर्थः । तस्मादेतन्नाम बिभ्रदुत्तरवेद्यामात्मनो महिमानम् आहवनीयं धारयितुं सन्निहितो भूत्वा यज्ञं सम्पादयेति भावः ।
भट्टभास्कर-टीका
एवं द्वितीयं तृतीयं च करोति ।
विदेरग्निर्नभो नामेत्यादिकं सर्वत्रानुवर्तते ।
भास्करोक्त-विनियोगः
चात्वाल-स्थे बर्हिषि स्फ्येन प्रहरति। ततः पूर्ववत् पुरिषादानम्, उत्तरवेद्यां च निवपनम्।
विश्वास-प्रस्तुतिः
[वि॒देर् - अ॒ग्निर् नभो॒ +++(इति ते)+++ नाम॑+] अग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यां [पृ॑थि॒व्याम् +++(अन्तरिक्षे)+++ असि ।
Keith
May Agni, named Nabhas, know (thee), Agni Angiras, thou who art in the second earth.
मूलम् (संयुक्तम्)
-यत्तेऽना॑धृष्ट॒न्नाम॑ य॒ज्ञिय॒न्तेन॒ त्वाऽऽद॒धेऽग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यान्तृ॒तीय॑स्याम्पृथि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्ट॒न्नाम॑ [22]य॒ज्ञिय॒न्तेन॒ त्वाऽऽद॑धे
मूलम्
[ वि॒देर॒ग्निर्नभो॒ नाम] अग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यांपद-पाठः
अग्ने॑ । अ॒ङ्गि॒रः॒ । यः । द्वि॒तीय॑स्याम् । तृ॒तीय॑स्याम् । (पृ॒थि॒व्याम् । असि॑ ।)
भट्टभास्कर-टीका
अयं तु विशेषः, द्वितीयपर्याये ‘अग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामसि’ इति भवति । द्वितीया पृथिवी अन्तरिक्षम् ।
यत्ते ...{Loading}...
विश्वास-प्रस्तुतिः
यत् ते ऽना॑धृष्ट॒न् नाम॑ य॒ज्ञिय॒न् +++(नभ इत्यादि)+++ तेन॒ त्वा ऽऽद॑धे ।
Keith
Whatsoever unapproached, holy name is thine, [1] therewith I take thee up.
मूलम्
यत्तेऽना॑धृष्ट॒न्नाम॑ य॒ज्ञिय॒न्तेन॒ त्वाऽऽद॑धे ।
पद-पाठः
यत् । ते॒ । अना॑धृष्ट॒मित्यना॑-धृ॒ष्ट॒म् । नाम॑ । य॒ज्ञिय॑म् । तेन॑ । त्वा॒ । एति॑ । द॒धे॒ ।
भट्टभास्कर-टीका
7-9उत्तरवेद्यां निवपति - यत्त इति ॥ हे अग्ने यत्ते तव अनाधृष्टमनभिभूतं केनचिदपि राक्षसादिना, यज्ञियं यज्ञार्हं यज्ञसम्पादनसमर्थं नाम नभ इत्येतत् । तेन त्वामादधे स्थापयामि । उत्तरवेद्यामाहवनीयधारणार्थं पुरीषात्मना त्वयैवायं धारयितुं शक्यते न हि त्वदन्यस्तद्धारयितुं समर्थः । तस्मादेतन्नाम बिभ्रदुत्तरवेद्यामात्मनो महिमानम् आहवनीयं धारयितुं सन्निहितो भूत्वा यज्ञं सम्पादयेति भावः ।
भास्करोक्त-विनियोगः
चात्वाल-स्थे बर्हिषि स्फ्येन प्रहरति। ततः पूर्ववत् पुरिषादानम्, उत्तरवेद्यां च निवपनम्।
विश्वास-प्रस्तुतिः
[वि॒देर् - अ॒ग्निर् नभो॒ +++(इति ते)+++ नाम॑+] अग्ने॑ अङ्गिरो॒ यस् तृ॒तीय॑स्याम् [पृ॑थि॒व्याम् +++(दिव्य्)+++ असि ।
Keith
May Agni, named Nabhas, know (thee), Agni Angiras, thou who art in the third earth.
मूलम्
[ वि॒देर॒ग्निर्नभो॒ नाम अग्ने॑ अङ्गिरो॒ ] यस्तृ॒तीय॑स्याम् पृथि॒व्यामस्यायु॑षा॒ नाम्नेहि॑ । यत्तेऽना॑धृष्ट॒न्नाम॑ य॒ज्ञिय॒न्तेन॒ त्वाऽऽद॑धे ।
पद-पाठः
अग्ने॑ । अ॒ङ्गि॒रः॒ । यः । तृ॒तीय॑स्याम् । पृ॒थि॒व्याम् । असि॑ ।
आयु॑षा । नाम्ना॑ । एति॑ । इ॒हि॒ ।
यत् । ते॒ । अना॑धृष्ट॒मित्यना॑-धृ॒ष्ट॒म् । नाम॑ । [22] य॒ज्ञिय॑म् । तेन॑ । त्वा॒ । एति॑ । द॒धे॒ ।
भट्टभास्कर-टीका
तृतीये तु, ‘अग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामसि’ इति । तृतीया पृथिवी द्युलोकः पृथुत्वात्पृथिवी । समानमन्यत् । ‘विदेरग्निर्नभो नामाग्ने अङ्गिर इति त्रिर्हरति’ इति ब्राह्मणम् ॥
यत्ते ...{Loading}...
विश्वास-प्रस्तुतिः
यत् ते ऽना॑धृष्ट॒न् नाम॑ य॒ज्ञिय॒न् +++(नभ इत्यादि)+++ तेन॒ त्वा ऽऽद॑धे ।
Keith
Whatsoever unapproached, holy name is thine, [1] therewith I take thee up.
मूलम्
यत्तेऽना॑धृष्ट॒न्नाम॑ य॒ज्ञिय॒न्तेन॒ त्वाऽऽद॑धे ।
पद-पाठः
यत् । ते॒ । अना॑धृष्ट॒मित्यना॑-धृ॒ष्ट॒म् । नाम॑ । य॒ज्ञिय॑म् । तेन॑ । त्वा॒ । एति॑ । द॒धे॒ ।
भट्टभास्कर-टीका
7-9उत्तरवेद्यां निवपति - यत्त इति ॥ हे अग्ने यत्ते तव अनाधृष्टमनभिभूतं केनचिदपि राक्षसादिना, यज्ञियं यज्ञार्हं यज्ञसम्पादनसमर्थं नाम नभ इत्येतत् । तेन त्वामादधे स्थापयामि । उत्तरवेद्यामाहवनीयधारणार्थं पुरीषात्मना त्वयैवायं धारयितुं शक्यते न हि त्वदन्यस्तद्धारयितुं समर्थः । तस्मादेतन्नाम बिभ्रदुत्तरवेद्यामात्मनो महिमानम् आहवनीयं धारयितुं सन्निहितो भूत्वा यज्ञं सम्पादयेति भावः ।
भास्करोक्त-विनियोगः
पुरीषं सम्प्रयौति।
विश्वास-प्रस्तुतिः
+++(हे उत्तरवेदे!)+++ सिँ॒हीर् अ॑सि ।
म॒हि॒षीर् अ॑सि ।
Keith
Thou art a lioness;
thou art a buffalo.
मूलम् (संयुक्तम्)
सिँ॒हीर॑सि महि॒षीर॑सि
मूलम्
सिँ॒हीर॑सि ।
म॒हि॒षीर॑सि ।
पद-पाठः
सिँ॒हीः । अ॒सि॒ ।
म॒हि॒षीः । अ॒सि॒ ।
भट्टभास्कर-टीका
10पुरीषं सम्प्रयौति - सिंहीरिति ॥ हे उत्तरवेदे सिंहीरसि सहनात्सिंही शत्रूणामभिभवित्रीति । हिनस्तेर्वाद्यन्तविपर्ययः । सिंहीरूपं कृत्वा वा सिंही । ब्राह्मणं च भवति - ‘तेभ्य उत्तरवेदिस्सिंहीरूपं कृत्वा’ इत्यादि । व्यत्ययेन ‘हल्ङ्याभ्यः’ इति सुलोपो न प्रवर्तते ।
किञ्च - महिषीरसि महती महनीया वा । ‘अविमह्योष्टिषच्’ । महति वा यागे सीदतीति महिषी । पृषोदरादिः, पूर्ववत्सुलोपाभावः । यस्मादीदृशी त्वमसि, तस्मात्त्रिलोकाग्निभिः पुरीषरूपैस्त्वां सम्प्रयौमीति ॥
भास्करोक्त-विनियोगः
प्रथयति।
उरु ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒रु प्र॑थस्व ।
उ॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथताम् ।
Keith
Be extended wide, let the lord of the sacrifice be extended wide.
मूलम् (संयुक्तम्)
उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथताम्
मूलम्
उ॒रु प्र॑थस्व ।
उ॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथताम् ।
पद-पाठः
उ॒रु । प्र॒थ॒स्व॒ ।
उ॒रु । ते॒ । य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ-प॒तिः॒ । प्र॒थ॒ता॒म् ।
पद-पाठः
उ॒रु । प्र॒थ॒स्व॒ । उ॒रु । ते॒ । य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ-प॒तिः॒ । प्र॒थ॒ता॒म् ।
भट्टभास्कर-टीका
9प्रथयति - उर्विति ॥ उरु यथा भवति तथा प्रथस्व । यज्ञपतिः यजमानः अनेन तवोरुप्रथनेन उरु प्रथतां पश्वादिभिः । ‘पत्यावैश्वर्ये’ (पा.सू. 6.2.18) इति पूर्वपदप्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
स्फ्येन दृढीकरोति।।
विश्वास-प्रस्तुतिः
ध्रुवाऽसि॑ ।
Keith
Thou art firm.
मूलम्
ध्रुवाऽसि॑ ।
पद-पाठः
ध्रु॒वा । अ॒सि॒ ।
भट्टभास्कर-टीका
12स्फ्येन दृढीकरोति - ध्रुवाऽसीति ॥ ध्रुवा निश्चलासि भवेत्यर्थः । लेटि लोपाभावे रूपम् ॥
अवोक्षणादिकम्
भास्करोक्त-विनियोगः
अद्भिर् अवोक्षति।
विश्वास-प्रस्तुतिः
दे॒वेभ्य॑श् शुन्धस्व ।
Keith
Be pure for the gods.
मूलम्
दे॒वेभ्य॑श्शुन्धस्व ।
पद-पाठः
दे॒वेभ्यः॑ । शु॒न्ध॒स्व॒ ।
भट्टभास्कर-टीका
13अद्भिरवोक्षति - देवेभ्य इति ॥ देवार्थं शुन्धस्व शुद्धा भव । शुन्ध शौचकर्मणि, चुरादिराधृषीयः ॥
भास्करोक्त-विनियोगः
सिकताभिर् अनुप्रकिरति।
विश्वास-प्रस्तुतिः
दे॒वेभ्य॑श् शुम्भस्व+++(←शुभ शुम्भ शोभनार्थे)+++ ।
Keith
be bright for the gods.
मूलम्
दे॒वेभ्य॑श्शुम्भस्व ।
पद-पाठः
दे॒वेभ्यः॑ । शु॒म्भ॒स्व॒ ।
भट्टभास्कर-टीका
14सिकताभिरनुप्रकिरति - देवेभ्य इति ॥ देवार्थं शुम्भस्व शोभस्व उज्ज्वला भव । शुभ शुम्भ शोभनार्थे ॥
भास्करोक्त-विनियोगः
उत्तरवेदेः प्राग्भागं प्रोक्षति।।
विश्वास-प्रस्तुतिः
+++(स्तनयित्नुः)+++ इ॒न्द्र॒-घो॒षस् त्वा॒ वसु॑भिᳶ +++(सह)+++ पु॒रस्ता॑त् पातु ।
Keith
May the cry of Indra guard thee in front with the Vasus;
मूलम्
इ॒न्द्र॒घो॒षस्त्वा॒ वसु॑भिᳶ पु॒रस्ता॑त्पातु ।
पद-पाठः
इ॒न्द्र॒घो॒ष इती॑न्द्र-घो॒षः । त्वा॒ । वसु॑भि॒रिति॒ वसु॑-भिः॒ । पु॒रस्ता॑त् । पा॒तु॒ ।
भट्टभास्कर-टीका
15उत्तरवेदेः प्राग्भागं प्रोक्षति - इन्द्रघोष इति ॥ इन्द्रस्य घोष इन्द्रघोषः स्तनयित्नुः स वसुभिस्सह त्वां पुरस्तात्पूर्वस्यां दिशि पातु रक्षतु । अनेन प्रोक्षणेन हे उत्तरवेदे त्वदीयं पूर्वभागं पातु ॥
भास्करोक्त-विनियोगः
दक्षिणभागं प्रोक्षति।
विश्वास-प्रस्तुतिः
+++(यमः)+++ मनो॑जवास् त्वा पि॒तृभि॑र् +++(सह)+++ दक्षिण॒तᳶ पा॑तु ।
Keith
may the swift of mind guard thee on the right with the Pitrs;
मूलम्
मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तᳶ पा॑तु ।
पद-पाठः
मनो॑जवा॒ इति॒ मनः॑-ज॒वाः॒ । त्वा॒ । पि॒तृभि॒रिति॑ पि॒तृ-भिः॒ । द॒क्षि॒ण॒तः । पा॒तु॒ ।
भट्टभास्कर-टीका
16दक्षिणभागं प्रोक्षति- मनोजवा इति ॥ मनसो जव इव जवो वेगो यस्य स मनोजवाः यमः । तस्य हि मनस इव जवो भवति । जवतेरसुनि जवः । स पितृभिस्सह त्वां दक्षिणतः पातु त्वदीयं दक्षिणभागं पातु ॥
भास्करोक्त-विनियोगः
पश्चिमभागं प्रोक्षति।
विश्वास-प्रस्तुतिः
प्रचे॑तास् त्वा रु॒द्रैᳶ +++(सह)+++ प॒श्वात्पा॑तु ।
Keith
may the wise one guard thee behind with the Rudras;
मूलम्
प्रचे॑तास्त्वा रु॒द्रैᳶ प॒श्वात्पा॑तु ।
पद-पाठः
प्रचे॑ता॒ इति॒ प्र-चे॒ताः॒ । त्वा॒ । रु॒द्रैः । प॒श्चात् । पा॒तु॒ ।
भट्टभास्कर-टीका
17पश्चिमभागं प्रोक्षति - प्रचेता इति ॥ प्रकृष्टचेताः प्रकृष्टविज्ञानो वरुणः । स रुद्रैस्सह त्वां पश्चात्पातु पश्चाद्भागं पातु ॥
भास्करोक्त-विनियोगः
उत्तरभागं प्रोक्षति।
विश्वास-प्रस्तुतिः
+++(त्वष्टा)+++ वि॒श्वक॑र्मा त्वा ऽऽदि॒त्यैर् +++(सह)+++ उ॑त्तर॒तᳶ पा॑तु ।
Keith
may Viçvakarman guard thee on the left with the Adityas.
मूलम्
वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तᳶ पा॑तु ।
पद-पाठः
वि॒श्वक॒र्मेति॑ वि॒श्व-क॒र्मा॒ । त्वा॒ । आ॒दि॒त्यैः । उ॒त्त॒र॒त इत्यु॑त्-त॒र॒तः । पा॒तु॒ ।
भट्टभास्कर-टीका
18उत्तरभागं प्रोक्षति - विश्वकर्मेति ॥ विश्वानि कर्माण्यस्मिन्निति विश्वकर्मा त्वष्टा, लोकपालाधिकाराद्वैश्रवणो वा । ‘बहुव्रीहौ विश्वं संज्ञायाम्’ इति पूर्वपदान्तोदात्तत्वम् । स आदित्यैस्सह त्वामुत्तरतः पातु तवोत्तरभागं पातु । ‘असुरा वज्रमुद्यत्य देवानभ्यायन्त’ इत्यादि ब्राह्मणम् ॥
व्याघारादिकम्
भास्करोक्त-विनियोगः
उत्तरवेदिम् अक्ष्णया=?? व्याघारयति।
विश्वास-प्रस्तुतिः
सिँ॒हीर् अ॑सि, सपत्न-सा॒ही स्वाहा॑ ।
Keith
Thou art a lioness, overcoming rivals; hail!
मूलम्
सिँ॒हीर॑सि सपत्नसा॒ही स्वाहा॑ ।
पद-पाठः
सिँ॒हीः । अ॒सि॒ ।
स॒प॒त्न॒सा॒हीति॑ सपत्न-सा॒ही । स्वाहा॑ ।
भट्टभास्कर-टीका
19उत्तरवेदिमक्ष्णया व्याघारयति - सिंहीरिति पञ्चभिः ॥ तत्र दक्षिणेंसे सिंहीस्त्वमसि । सपत्नसाही सपत्नानां शत्रूणामभिभवित्री । स्वाहा सुहुतं तवेदमस्तु ॥
भास्करोक्त-विनियोगः
उत्तरस्यां श्रोण्यां।
विश्वास-प्रस्तुतिः
सिँ॒हीर् अ॑सि, सुप्रजा॒-वनि॒स्+++(=काङ्क्षा)+++ स्वाहा॑ ।
Keith
Thou art a lioness, bestowing fair offspring; hail!
मूलम्
सिँ॒हीर॑सि सुप्रजा॒वनि॒स्स्वाहा॑ ।
पद-पाठः
सिँ॒हीः । अ॒सि॒ ।
सु॒प्र॒जा॒वनि॒रिति॑ सुप्रजा-वनिः॑ । स्वाहा॑ ।
भट्टभास्कर-टीका
20उत्तरस्यां श्रोण्यां - सिंहीस्त्वमसि सुप्रजावनिः शोभनानामपत्यानां सम्भक्त्री त्वमसि । ‘छन्दसि वनसन’ इतीन् ॥
भास्करोक्त-विनियोगः
दक्षिणस्यां श्रोण्यां।
विश्वास-प्रस्तुतिः
सिँ॒हीर् अ॑सि, रायस्+++(←छान्दसष् षष्ठ्या अलुक्)+++-पोष॒-वनि॒स्+++(=काङ्क्षा)+++ स्वाहा॑ ।
Keith
Thou art a lioness, [2] bestowing increase of wealth; hail!
मूलम् (संयुक्तम्)
सिँ॒हीः [23]अ॒सि॒ रा॒य॒स्पो॒ष॒वनि॒स्स्वाहा॑ ।
मूलम्
सिँ॒हीर॑सि रायस्पोष॒वनि॒स्स्वाहा॑ ।
पद-पाठः
सिँ॒हीः । [23] अ॒सि॒ ।
रा॒य॒स्पो॒ष॒वनि॒रिति॑ रायस्पोष-वनिः॑ । स्वाहा॑ ।
भट्टभास्कर-टीका
21दक्षिणस्यां श्रोण्यां - सिंहीस्त्वमसि रायस्पोषस्य धनपुष्टेस्सम्भक्त्री । छान्दसष्षष्ठ्या अलुक् । ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् ॥
भास्करोक्त-विनियोगः
उत्तरे ऽंसे।
विश्वास-प्रस्तुतिः
सिँ॒हीर् अ॑स्य्, आदित्य॒-वनि॒स्+++(=काङ्क्षा)+++ स्वाहा॑ ।
Keith
Thou art a lioness, winning (the favour of) the Adityas hail!
मूलम्
सिँ॒हीर॑स्यादित्य॒वनि॒स्स्वाहा॑ ।
पद-पाठः
सिँ॒हीः । अ॒सि॒ ।
आ॒दि॒त्य॒वनि॒रित्या॑दित्य-वनिः॑ । स्वाहा॑ ।
भट्टभास्कर-टीका
22उत्तरेंसे - सिंहीस्त्वमसि आदित्यवनिः अदितिपुत्राणां सम्भक्त्री ॥
भास्करोक्त-विनियोगः
मध्ये।
विश्वास-प्रस्तुतिः
सिँ॒हीर् अ॑सि । आ व॑ह दे॒वान् , देवय॒ते+++(=देवान् कामयमानाय, ‘शतुरनुमः’ इति चतुर्थ्या उदात्तत्वम्)+++ यज॑मानाय॒ स्वाहा॑ ।
Keith
Thou art a lioness; bring the gods to the pious sacrificer; hail!
मूलम् (संयुक्तम्)
सिँ॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते यज॑मानाय॒ स्वाहा॑
मूलम्
सिँ॒हीर॑सि ।
आ व॑ह दे॒वान् , देवय॒ते यज॑मानाय॒ स्वाहा॑ ।
पद-पाठः
सिँ॒हीः । अ॒सि॒ ।
एति॑ । व॒ह॒ । दे॒वान् । दे॒व॒य॒त इति॑ देव-य॒ते । यज॑मानाय । स्वाहा॑ ।
भट्टभास्कर-टीका
23मध्ये - सिंहीस्त्वमसि, सा त्वमावह देवान्, यजमानाय यजमानार्थम् । कीदृशाय? देवयते देवान् कामयमानाय । देवानात्मन इच्छतीति क्यच् । ‘न छन्दस्यपुत्रस्य’ इतित्वाभावो दीर्घश्च निषिध्यते । ‘शतुरनुमः’ इति चतुर्थ्या उदात्तत्वम् । ‘सोत्तरवेदिरब्रवीत्’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
स्रुचम् उद्-गृह्णाति।
विश्वास-प्रस्तुतिः
भू॒तेभ्य॑स् त्वा +++(उद्गृह्णामि)+++।
Keith
To beings thee!
मूलम्
भू॒तेभ्य॑स्त्वा ।
पद-पाठः
भू॒तेभ्यः॑ । त्वा॒ ।
भट्टभास्कर-टीका
24स्रुचमुद्गृह्णाति - भूतेभ्य इति ॥ सर्वभूतार्थं त्वामुद्गृह्णामि । यागसाधनद्वारेण सर्वभूतार्थतोद्ग्रहणस्य । ‘य एव देवा भूताः’ इत्यादि ब्राह्मणम् ॥
परिधिस्थापनादिकम्
भास्करोक्त-विनियोगः
पौतुद्रवान् = देवदारुभवान् परिधीन् परिदधाति। तत्र मध्यमं परिदधाति।।
विश्वास-प्रस्तुतिः
+++(मध्यमपरिधि!)+++ वि॒श्वायु॑र् असि। पृथि॒वीन् दृँ॑ह+++(=दृढीकुरु)+++ ।
Keith
Thou containest all life, strengthen the earth;
मूलम्
वि॒श्वायु॑रसि पृथि॒वीन्दृँ॑ह ।
पद-पाठः
वि॒श्वायु॒रिति॑ वि॒श्व-आ॒युः॒ । अ॒सि॒ । पृ॒थि॒वीम् । दृँ॒ह॒ ।
भट्टभास्कर-टीका
25पौतुद्रवान् परिधीन् परिदधाति - ‘अग्नेस्त्रयो ज्यायांसो भ्रातर असन्’ इत्यादि ब्राह्मणम् ।
तत्र मध्यमं परिदधाति - विश्वायुरिति ॥
विश्वम् आयुर् जीवनम् अन्नं वा अस्मिन्न् इति यागसाधन द्वारेण तादृशोसि, स त्वं पृथिवीं दृंह दृढम् अग्निधारणसमर्थां कुरु ॥
भास्करोक्त-विनियोगः
दक्षिणं परिदधाति
विश्वास-प्रस्तुतिः
+++(दक्षिणपरिधि!)+++ ध्रुव॒-क्षिद्+++(=वास्तव्या)+++ असि । अ॒न्तरि॑क्षन् दृँह ।
Keith
thou restest firm, strengthen the atmosphere;
मूलम् (संयुक्तम्)
ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षन्दृँह
मूलम्
ध्रुव॒क्षिद॑सि ।
अ॒न्तरि॑क्षन्दृँह ।
पद-पाठः
ध्रु॒व॒क्षिदिति॑ ध्रुव-क्षित् । अ॒सि॒ ।
अ॒न्तरि॑क्षम् । दृँ॒ह॒ ।
भट्टभास्कर-टीका
26दक्षिणं परिदधाति - ध्रुवक्षिदिति ॥ ध्रुवे निश्चलेन्तरिक्षे क्षियतीति ध्रुवक्षित् तादृशोसि । स त्वमन्तरिक्षे वसन् अन्तरिक्षं दृंह ॥
भास्करोक्त-विनियोगः
उत्तरं परिदधाति
विश्वास-प्रस्तुतिः
+++(उत्तर-परिधि!)+++ अच्युत॒-क्षिद् अ॑सि । दिव॑न् दृँह।
Keith
thou restest inviolable, strengthen the heaven.
मूलम् (संयुक्तम्)
अच्युत॒क्षिद॑सि॒ दिव॑न्दृँह।
मूलम्
अच्युत॒क्षिद॑सि ।
दिव॑न्दृँह।
पद-पाठः
अ॒च्यु॒त॒क्षिदित्य॑च्युत-क्षित् । अ॒सि॒ ।
दिव॑म् । दृँ॒ह॒ ।
भट्टभास्कर-टीका
27उत्तरं परिदधाति - अच्युतक्षिदिति । अच्युतेऽविनष्टे दिवि क्षियतीत्यच्युतक्षित् । स त्वं दिवं दृंह ॥
भास्करोक्त-विनियोगः
सम्भारान् निवपति।
विश्वास-प्रस्तुतिः
अ॒ग्नेर् +++(भस भर्त्सनदीप्त्योः→)+++भस्मा॑सि । अ॒ग्नेᳶ +++(भस्मवद् दीप्तिसाधनं)+++ पुरी॑षम् असि ॥
Keith
Thou art the ashes of Agni; thou art the rubble of Agni.
मूलम् (संयुक्तम्)
अ॒ग्नेर्भस्मा॑स्य॒ग्नेᳶ पुरी॑षमसि ॥ [24]
मूलम्
अग्नेर्भस्मा॑सि ।
अ॒ग्नेᳶ पुरी॑षमसि ॥
पद-पाठः
अ॒ग्नेः । भस्म॑ । अ॒सि॒ ।
अ॒ग्नेः । पुरी॑षम् । अ॒सि॒ ॥ [24]
भट्टभास्कर-टीका
28सम्भारान्निवपति - अग्नेरिति ॥ अग्नेर्भस्म दीप्तिसाधनं त्वमसि । भस भर्त्सनदीप्त्योः ।
अग्नेः पुरीषं पूरणं प्रीणनं वा त्वमसि । तस्मादग्निं भासय पूरय प्रीणय वा । ‘यदेतान्सम्भारान्सम्भरति’ इति ब्राह्मणम् ॥