०८ अनसि स्थापनम्

०८ अनसि स्थापनम् ...{Loading}...

५-६ त्रिष्टुप् २ एकपदा गायत्री ७ गायत्री १ अनुष्टुप् सोमऋषिः


भास्करोक्त-विनियोगः

सोमम् आदायोत्तिष्ठति।

विश्वास-प्रस्तुतिः ...{Loading}...

उद् आयु॑षा स्वा॒युषा॑+ +++(सोमरूपेण)+++
+उद् ओष॑धीनाँ॒ रसे॑न ।
+उत् प॒र्जन्य॑स्य॒ शुष्मे॑ण+++(=बलेन)++++
+उद् अ॑स्थाम्+++(=अतिष्ठम्)+++ अ॒मृताँ॒ अनु॑॥+++(5)+++

सर्वाष् टीकाः ...{Loading}...
Keith

Up with life, with fair life,
Up with the sap of plants,
Up with the force of Parjanya,
Up have I arisen along with the immortals.

मूलम् (संयुक्तम्)

उदायु॑षा स्वा॒युषोदोष॑धीनाँ॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृताँ॒ अनु॑।

मूलम्

उदायु॑षा स्वा॒युषा
उदोष॑धीनाँ॒ रसे॑न ।
उत्प॒र्जन्य॑स्य॒ शुष्मे॑ण
उद॑स्थाम॒मृताँ॒ अनु॑। +++(व्याख्यानानुरोधेन उच्छब्दादित्वेन पादविभागः प्रदर्शितः)+++

पद-पाठः

उदिति॑ । आयु॑षा । स्वा॒युषेति॑ सु-आ॒युषा॑ । उदिति॑ । ओष॑धीनाम् । रसे॑न । उदिति॑ । प॒र्जन्य॑स्य । शुष्मे॑ण । उदिति॑ । अ॒स्था॒म् । अ॒मृता॑न् । अनु॑ ॥

भट्टभास्कर-टीका

1सोममादायोत्तिष्ठति - उदित्यन[न्व?]वसानयानुष्टुभा ॥ उच्छब्दादयश्चत्वारोपि पादाः । अस्थामिति वक्ष्यते, तेनोदित्यस्य सम्बन्धः । आयुस्सोमः अयनीयत्वादायुषोन्नस्य वा हेतुत्वात्स एव विशेष्यते । स्वायुषा शोभनमायुर्देयमस्मिन्निति स्वायुः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । तादृशेन त्वया सहाहं उदस्थामुत्तिष्ठामि । छान्दसो लुङ् । ‘गातिस्था’ इति सिचो लुक् । तदिदमोषधीनां रसेन सारेणोदस्थाम्, पर्जन्यस्य शुष्मेण बलेनोदस्थाम्, तदुभयस्यापि तदधीनत्वात् ।
किञ्च, अमृतानमरणान् देवान् अनु लक्षीकृत्य उद्दिश्य वा त्वया सहोदस्थाम्, अमरणान् देवान् कर्तुमिति यावत् । उत्तरपदाद्युदात्तत्वे, पूर्ववद्रुत्वानुनासिकौ सांहितिकौ । ‘देवता एवान्वारभ्योत्तिष्ठति’ इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

सोमवाहनम् अनो ऽभिप्रैति।

उर्वन्तरिक्षम् ...{Loading}...

भास्करोक्त-विनियोगः

16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव ।

विश्वास-प्रस्तुतिः

उ॒र्व् अ᳙न्तरि॑क्ष॒म् अन्वि॑हि ।
+++(महान् पन्थाः, सुखेन गच्छेति भावः ॥)+++

Keith

Fare along the wide atmosphere.

मूलम्

उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि ।

पद-पाठः

उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ ।

भट्टभास्कर-टीका

18प्रत्यागच्छति - उर्विति गायत्र्यैकपदया ॥ उरु विस्तीर्णमन्तरिक्षं अन्विहि अनुगच्छ । महान् पन्थाः, सुखेन गच्छेति भावः ॥

भट्टभास्कर-टीका

16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव । हे वपे उत्खेदनविबाधिते अधुना महान्तमन्तरिक्षाख्यं पन्थानं अनुगच्छेति विशेषः । ‘क्रूरमिव वा एतत्करोति यद्वपामुत्खिदति’ इत्यादि ब्राह्मणम् ॥

भट्टभास्कर-टीका

2सोमवाहनमनोभिप्रैति - उर्विति गायत्र्यैकपदया ॥ विस्तीर्णमाकाशमनुगच्छ निर्बाधं गच्छेति । व्याख्याता चेयम् । ‘अन्तरिक्षदेवत्यो ह्येतर्हि सोमः’ इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

नीडे कृष्णाजिनमास्तृणाति।

अदित्यास् सदः ...{Loading}...
भास्करोक्त-विनियोगः

नीडे कृष्णाजिनमास्तृणाति।

विश्वास-प्रस्तुतिः

अदि॑त्या॒स् सदो॑ऽसि ।

Keith

Thou art the seat of Aditi.

मूलम्

अदि॑त्या॒स्सदो॑ऽसि ।

पद-पाठः

अदि॑त्याः । सदः॑ । अ॒सि॒ ।

भट्टभास्कर-टीका

3नीडे कृष्णाजिनमास्तृणाति - अदित्या इति ॥ अदित्याः देवमातुः सदः सदनं लोकलक्षणं त्वमसि ॥

भट्टभास्कर-टीका

6दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणाति - आदित्या इति ॥ अदितिर्देवमाता तस्यास्सदोस्यासनमसि । सीदन्त्यस्मिन्निति सदः ॥


भास्करोक्त-विनियोगः

तस्मिन् सोमं निदधाति।

अदित्यास् सद आसीद ...{Loading}...
भास्करोक्त-विनियोगः

तस्मिन् सोमं निदधाति।

विश्वास-प्रस्तुतिः

अदि॑त्या॒स् सद॒ आसीद ।

Keith

Sit on the seat of Aditi.

मूलम्

अदि॑त्या॒स् सद॒ आसीद ।

पद-पाठः

अदि॑त्याः । सदः॑ । एति॑ । सी॒द॒ ।

भट्टभास्कर-टीका

4तस्मिन्सोमं निदधाति - अदित्या इति ॥ अदित्यास्सदः सदन स्थानीयमेतत् कृष्णाजिनमासीद उपविश अस्मिन् ॥

7कृष्णाजिने राजानमासादयति - अदित्या इति ॥ अदित्यास्सदोभूतमेतत्कृष्णाजिनं हे सोम आसीद अधितिष्ठ । प्रागेव व्याख्यातमिदं मन्त्रद्वयम् ॥


भास्करोक्त-विनियोगः

5सोमम् उपतिष्ठते - अस्तभ्नादिति त्रिष्टुभा ॥

अस्तभ्नाद् द्याम् ...{Loading}...

अस्त॑भ्ना॒द् द्याम् ऋ॑ष॒भो+++(=वर्षिता)+++ अ॒न्तरि॑क्ष॒म्
अमि॑मीत वरि॒माण॑म्+++(=उरुत्वम्)+++ पृथि॒व्याः +++(सूर्यग्रहणेन?)+++।
आसी॑द॒द् विश्वा॒ भुव॑नानि स॒म्राड्+++(=सङ्गतदीप्तिः [सोमः])+++
विश्वेत् तानि॒ वरु॑णस्य+++(=वारकस्य)+++ व्र॒तानि॑॥

अस्तभ्नाद् द्याम् ...{Loading}...
Keith

The bull hath stablished the sky, the atmosphere;
Hath meted the breadth of the earth;
Hath set him in all worlds as king.
All these are Varuna’s ordinances.

मूलम् (संयुक्तम्)

अस्त॑भ्ना॒द् द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माण॑म्पृथि॒व्या आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि

मूलम्

अस्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒म्
अमि॑मीत वरि॒माण॑म्पृथि॒व्याः ।
आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्
विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ।

पद-पाठः

अस्त॑भ्नात् । द्याम् । ऋ॒ष॒भः । अ॒न्तरि॑क्षम् । अमि॑मीत । व॒रि॒माण॑म् । पृ॒थि॒व्याः ।
एति॑ । अ॒सी॒द॒त् । विश्वा॑ । भुव॑नानि । स॒म्राडिति॑ सम्-राट् । विश्वा॑ । इत् । तानि॑ । वरु॑णस्य । व्र॒तानि॑ ।

भट्टभास्कर-टीका

अमिमीतेति द्वितीयस्य पादस्यादिः, अत एव न निहन्यते । अस्तभ्नात् स्तब्धां दृढामकरोत् द्यां द्युलोकम् । ऋषभो वर्षिता अन्तरिक्षममिमीत मितवान् निर्मितवान् । वरिमाणं पृथिव्याः वरिमाणं उरुत्वम् । ‘प्रियस्थिर’ इत्यादिना वरादेशः । यद्वा - वरिमाणं वारकत्वम् । ‘अन्येभ्योपि दृश्यन्ते’ इति मनिन्, उञ्छादिर्द्रष्टव्यः । आसीदत् व्याप्तवान् वर्षेण । विश्वा विश्वानि च भुवनानि भूतजातानि आसीदत् इत्येव । यद्वा - अन्तरिक्षममिमीत वरिमाणं च पृथिव्या अमिमीतेत्येव । विश्वानि भुवनानि आसीदत् इत्यन्तर्भावितण्यर्थो वा आसादयति विश्वानि भुवनानीति । ‘शेश्छन्दसि बहुऌअम्’ इति लुक् । सम्राट् सङ्गतदीप्तिः । ‘मो राजि समः क्वौ’ इति मकारः । यान्येवंविधानि तानि विश्वान्येव वरुणस्य वारकस्य सोमस्य व्रतानि वीर्याणि कर्माणि, त्वमेवेन्द्रो भूत्वा तथा तथा कृतवानित्यर्थः । ‘वारुण्यर्चा सादयति’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

सोमं वाससा वेष्टयति।+++(4)+++

विश्वास-प्रस्तुतिः ...{Loading}...

वने॑षु॒ व्य॑न्तरि॑क्षन् ततान॒
वाज॒म्+++(=वेगम्)+++ अर्व॑त्सु॒+++(=अश्वेषु)+++, पयो॑ अघ्नि॒यासु॑+++(=गोषु)+++ ।
हृ॒त्सु क्रतुव्ँ॒ वरु॑णो, वि॒क्ष्व्+++(=मर्त्येषु/ गृहेषु?)+++ अ॑ग्निं
दि॒वि सूर्य॑म् अदधा॒त् सोम॒म् अद्रौ॑ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

He hath stretched out the sky over the woods;
He hath placed strength in horses, milk in kine;
Varuna hath set skill in the heart [1], Agni in dwellings,
The sun in the sky, the Soma on the hill.

मूलम् (संयुक्तम्)

वने॑षु॒ व्य॑न्तरि॑क्षन्ततान॒ वाज॒मर्व॑त्सु॒ पयो॑ अघ्नि॒यासु॑ हृ॒त्सु [15]क्रतुव्ँ॒वरु॑णो वि॒क्ष्व॑ग्निन्दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ

मूलम्

वने॑षु॒ व्य॑न्तरि॑क्षन्ततान॒
वाज॒मर्व॑त्सु॒ पयो॑ अघ्नि॒यासु॑ ।
हृ॒त्सु क्रतुव्ँ॒वरु॑णो वि॒क्ष्व॑ग्निं
दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥

पद-पाठः

वने॑षु । वीति॑ । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । वाज॑म् । अर्व॒त्स्वित्यर्व॑त्-सु॒ । पयः॑ । अ॒घ्नि॒यासु॑ । हृ॒त्स्विति॑ हृत्-सु । [15]
क्रतु॑म् । वरु॑णः । वि॒क्षु । अ॒ग्निम् । दि॒वि । सूर्य॑म् । अ॒द॒धा॒त् । सोम॑म् । अद्रौ॑ ।

भट्टभास्कर-टीका

6सोमं वाससा वेष्टयति - वनेष्विति त्रिष्टुभा । वाजमिति द्वितीयस्यादिः । हृत्स्विति तृतीयस्य । दिवीति चतुर्थस्य ॥
वनेषु वुक्षेषु वृक्षषण्डेषु वा अन्तरिक्षं भूताकाशं विततान विस्तारितवान् । वाजं वेगमर्वत्सु अश्वेषु विततान । ‘अर्वणस्त्रसावनञः’ इति त्रादेशः । पयः क्षीरमघ्नियासु गोषु विततान । अहन्तव्या अघ्नियाः । ‘अघ्न्यादयश्च’ इति निपात्यते । हृत्सु हृदयेषु क्रतुं विज्ञानं विततान । वरुणो वरुणशब्दवाच्यस्सोमः विक्षु मर्त्येषु अग्निं विततान । दिवि सूर्यमदधात् स्थापितवान् । सोमं लतारूपमात्मानं अद्रावदधात् इत्येव । त्वमेव यथैतत्सवर्मकरोः तथा वाससा आत्मानं वेष्टयामीति ॥


भास्करोक्त-विनियोगः

सौर्यर्चा कृष्णाजिनं पुरस्तात् प्रत्यानह्यत्य् ऊर्ध्व-ग्रीवम्।
7सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यत्यूर्ध्वग्रीवम् - उदुत्यमिति गायत्र्या ॥

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓दु त्यं᳓ जात᳓वेदसं
देवं᳓ वहन्ति केत᳓वः+++(→रश्मयः)+++ ।
दृशे᳓ वि᳓श्वाय सू᳓र्यम् ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सूर्यः
  • ऋषिः - प्रस्कण्वः काण्वः
  • छन्दः - गायत्री
Thomson & Solcum

उ᳓द् उ त्यं᳓ जात᳓वेदसं
देवं᳓ वहन्ति केत᳓वः
दृशे᳓ वि᳓श्वाय सू᳓रियम्

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M


Morph
jātávedasam ← jātávedas- (nominal stem)
{case:ACC, gender:M, number:SG}

tyám ← syá- ~ tyá- (pronoun)
{case:ACC, gender:M, number:SG}

u ← u (invariable)

út ← út (invariable)

devám ← devá- (nominal stem)
{case:ACC, gender:M, number:SG}

ketávaḥ ← ketú- (nominal stem)
{case:NOM, gender:M, number:PL}

vahanti ← √vah- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

dr̥śé ← √dr̥ś- (root)
{case:DAT, number:SG}

sū́ryam ← sū́rya- (nominal stem)
{case:ACC, gender:M, number:SG}

víśvāya ← víśva- (nominal stem)
{case:DAT, gender:M, number:SG}

पद-पाठः

उत् । ऊं॒ इति॑ । त्यम् । जा॒तऽवे॑दसम् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ ।
दृ॒शे । विश्वा॑य । सूर्य॑म् ॥

Hellwig Grammar
  • ud
  • [adverb]
  • “up.”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

  • tyaṃtyamtya
  • [noun], accusative, singular, masculine
  • “that.”

  • jātavedasaṃjātavedasamjātavedas
  • [noun], accusative, singular, masculine
  • “Agni; fire.”

  • devaṃdevamdeva
  • [noun], accusative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • vahantivah
  • [verb], plural, Present indikative
  • “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”

  • ketavaḥketu
  • [noun], nominative, plural, masculine
  • “banner; ketu; sunbeam; enemy; sign; Premna spinosa Roxb.; comet; signal; signal; luminosity.”

  • dṛśedṛś
  • [verb noun]
  • “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”

  • viśvāyaviśva
  • [noun], dative, singular, neuter
  • “ginger; myrrh; universe.”

  • sūryamsūrya
  • [noun], accusative, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

सायण-भाष्यम्

केतवः प्रज्ञापकाः सूर्याश्वाः यद्वा सूर्यरश्मयः सूर्यं सर्वस्य प्रेरकमादित्यम् उदु वहन्ति ऊर्ध्वं वहन्ति । उ इति पादपूरणः । उक्तं च - ‘ मिताक्षरेष्वनर्थकाः कमीमिद्विति’ (निरु. १. ९)। किमर्थम् । विश्वाय विश्वस्मै भुवनाय दृशे द्रष्टुम् । यथा सर्वे जनाः सूर्यं पश्यन्ति तथोर्ध्वं वहन्तीत्यर्थः । कीदृशं सूर्यम् । त्यं प्रसिद्धं जातवेदसं जातानां प्राणिनां वेदितारं जातप्रज्ञं जातधनं वा देवं द्योतमानम् । अत्र निरुक्तम् - उद्वहन्ति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्यम् ’ ( निरु. १२. १५) इति ॥ जातवेदसम् । जातानि वेत्तीति जातवेदाः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ’ इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । दृशे । ‘दृशे विख्ये च (पा. सू. ३. ४. ११ ) इति तुमर्थे निपातितः । सूर्यम् । ‘ राजसूयसूर्यं ’ इत्यादिना ‘षू प्रेरणे इत्यस्मात् क्यपि रुडागमसहितो निपातितः । अतः प्रत्ययस्य पित्त्वानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् ॥

भट्टभास्कर-टीका

त्यं तं जातवेदसं जातानां वेदितारम् । ‘गतिकारकयोरपि’ इत्यसुन्प्रत्ययः । जातप्रज्ञानं वा सूर्यं देवं देवनादिगुणयुक्तं उद्वहन्ति ऊर्ध्वं वहन्ति केतवो रश्मयः दृशे द्रष्टुम् । ‘दृशे विख्ये च’ इति निपात्यते । विश्वाय विश्वार्थं विश्वं लोको यथा एनं पश्येत् तदनुरूपमुद्वहन्ति । स्मैभावाभावश्छान्दंसः ।


त्यं तं इमं देवं जातवेदसं जातप्रज्ञं जातानां वेदितारं केतवो रश्मय उद्वहन्ति ऊर्ध्वं वहन्ति दृशे द्रष्टुं विश्वाय विश्वार्थं, विश्वो लोको यथैनं पश्येदिति ।


देवं सूर्यं जातवेदसं जातानां वेदितारं देवं केतवो रश्मयः उद्वहन्ति विस्वस्य लोकस्य दृशे दर्शनार्थमिति ॥

Wilson

English translation:

“His coursers bear on high the divine all-knowing Sun, that he may be seen by all (the worlds).”

Jamison Brereton

Up do the beacons convey this god Jātavedas,
the Sun, for all to see.

Griffith

HIS bright rays bear him up aloft, the God who knoweth all that lives,
Surya, that all may look on him.

Macdonell

Aloft his beams now bring the god Who knows all creatures that are born, That all may look upon the Sun.

Keith

Thee, all-knowing god, Thy rays bear upwards, The sun for all to see.


His rays bear up the god
Who knoweth all,
The sun for all to see.

Geldner

Dort fahren den Gott Jatavedas seine Strahlen herauf, auf daß die ganze Welt den Sonnengott schaue.

Grassmann

Den Wesenkenner führen schon empor die Strahlen, ihn, den Gott, Dass jedermann die Sonne schau.

Elizarenkova

Вот лучи везут вверх
Того бога, Джатаведаса,
Чтобы все (существа) увидели солнце.

अधिमन्त्रम् (VC)
  • सूर्यः
  • प्रस्कण्वः काण्वः
  • निचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

अब पचासवें सूक्त का आरम्भ है। उसके पहिले मंत्र में कैसे लक्षण वाला सूर्य है,इस विषय का उपदेश अगले मंत्र में किया है।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जैसे (केतवः) किरणें (विश्वाय) सबके (दृशे) दीखने (उ) और दिखलाने के योग्य व्यवहार के लिये (त्यम्) उस (जातवेदसम्) उत्पन्न किये हुए पदार्थों को प्राप्त करनेवाले (देवम्) प्रकाशमान (सूर्य्यम्) रविमंडल को (उद्वहन्ति) ऊपर वहती हैं वैसे ही गृहाश्रम का सुख देने के लिये सुशोभित स्त्रियों को विवाह विधि से प्राप्त होओ ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - धार्मिक माता पिता आदि विद्वान् लोग जैसे घोड़े रथ को और किरणें सूर्य्य को प्राप्त करती हैं ऐसे ही विद्या और धर्म के प्रकाशयुक्त अपने तुल्य स्त्रियों से सब पुरुषों का विवाह करावें ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: तत्रादिमे मंत्रे कीदृग्लक्षणः सूर्योऽस्तीत्युपदिश्यते।

दयानन्द-सरस्वती (हि) - विषयः

(उत्) ऊर्ध्वार्थे (उ) वितर्के (त्यम्) अमुम् (जातवेदसम्) यो जातान् पदार्थान् विंदति तम् (देवम्) देदीप्यमानम् (वहन्ति) प्राप्नुवन्ति (केतवः) किरणाः (दृशे) द्रष्टुं दर्शयितुं वा। इदं #केन्प्रत्ययान्तं निपातनम् (विश्वाय) सर्वेषां दशनव्यवहाराय (सूर्य्यम्) सवितृलोकम्। यास्कमुनिरिमं मंत्रमेवं व्याख्यातवान्। उद्वहन्ति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्य्यम्। निरु० १२।१५। ॥१॥ #[‘दृशे विख्येच’ अ० ३।४।११। इत्यनने सूत्रेण। सं०।]

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्या ! यूयं यथा केतवो रश्मयो विश्वाय दृश उदुत्यं जातवेदसं देवं सूर्य्यमुद्वहन्ति तथा गृहाश्रमसुखदर्शनाय सुशोभनाः स्त्रिय उद्वहत ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - धार्मिका जना यथाश्वा रथं किरणाश्च सूर्यं वहंत्येवं विद्याधर्मप्रकाशयुक्ताः स्वसदृशाः स्त्रियः सर्वान्पुरुषानुद्वाहयेयुः ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात परमेश्वर व अग्नीच्या कार्यकारण दृष्टान्ताद्वारे राजाचे गुणवर्णन केल्याने या सूक्तार्थाची पूर्वसूक्तार्थाबरोबर संगती जाणली पाहिजे.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - धार्मिक माता पिता इत्यादी विद्वान लोकांनी जसे घोडे रथाला व किरणे सूर्याला वहन करतात तसेच विद्या व धर्माने प्रकाशित असलेल्या त्यांच्या सारख्याच स्त्रियांशी पुरुषांचा विवाह करवावा. ॥ १ ॥

मूलम्

उदु॒त्यञ्जा॒तवे॑दसन्दे॒वव्ँव॑हन्ति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥

पद-पाठः

उदिति॑ । उ॒ । त्यम् । जा॒तवे॑दस॒मिति॑ जा॒त-वे॒द॒स॒म् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ ॥
दृ॒शे । विश्वा॑य । सूर्य॑म् ॥

भट्टभास्कर-टीका

क्रियमाणेन का सङ्गतिः? उच्यते - एतस्य कर्मणस्सामर्थ्यादेतदेवं भवतीति ॥


भास्करोक्त-विनियोगः

सोम-वाहनाव् आनीयमानौ प्रतिमन्त्रयते।

विश्वास-प्रस्तुतिः

उस्रा॒व्+++(=बलीवर्दौ)+++! एत॑न् धूर्षाहाव्
अन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ ।

Keith

Come hither, ye oxen, strong to bear the yoke, Tearless, slaying not man, furthering the prayer.

मूलम् (संयुक्तम्)

उस्रा॒वेत॑न्धूर्षाहावन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नमसि॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ॥ [16]

मूलम्

उस्रा॒वेत॑न्धूर्षाहावन॒श्रू …. +++(विराड्-गायत्री)+++
अवी॑रहणौ ब्रह्म॒चोद॑नौ । +++(यजुः)+++

पद-पाठः

उस्रौ॑ । एति॑ । इ॒त॒म् । धू॒र्षा॒हा॒विति॑ धूः-सा॒हौ॒ । अ॒न॒श्रू इति॑ ।
अवी॑रहणा॒वित्यवी॑र-ह॒नौ॒ । ब्र॒ह्म॒चोद॑ना॒विति॑ ब्रह्म-चोद॑नौ ।

भट्टभास्कर-टीका

8सोमवाहनावानीयमानौ प्रतिमन्त्रयते - उस्राविति विराजैकपदया यजुरन्तया ॥ हे उस्रौ बलीवर्दौ एतमागच्छतं धूर्षाहौ धूर्वाहौ धुरस्सोढारौ धुरं वोढुं समर्थौ । ‘छन्दसि सहः’ इति ण्विः, पूर्ववत् षत्वम् । अनश्रू अश्रुवर्जितौ अखिन्नौ सन्तावागच्छतम् । ‘नञ्सुभ्यां’ इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - अनसि शकटे वोढृत्वेन श्रुतौ विख्यातौ । क्विपि तुगभावश्छान्दसः । अनो वोढृत्वेन श्रितौ वा । श्रयतेः क्विपि वर्णव्यत्ययः । तुगभावश्छान्दसः ।
अवीरहणौ अहिंसकौ दान्तौ सन्तौ । यजुरादित्वान्न निहन्यते । ब्रह्मचोदनौ ब्रह्म अन्नं, तत्साधनत्वादिह सोम उच्यते; तस्य चोदनौ प्रस्थापयितारौ सन्तौ । कर्तरि करणे वा ल्युटि कृदुत्तरपदप्रकृतिस्वरत्वम् ॥


भास्करोक्त-विनियोगः

दक्षिणं युनक्ति।

वरुणस्य स्कम्भनम् ...{Loading}...
विश्वास-प्रस्तुतिः

वरु॑णस्य॒ +++(सोमस्य च)+++ स्कम्भ॑नम्+++(=धारयिता)+++ असि ।

Keith

Thou art the pillar of Varuna.

मूलम्

वरु॑णस्य॒ स्कम्भ॑नमसि ।

पद-पाठः

वरु॑णस्य । स्कम्भ॑नम् । अ॒सि॒ ।

भट्टभास्कर-टीका

वरुणस्य स्कम्भनं स्तम्भनमुत्पादयिता त्वमसि यागद्वारेण । यद्वा - वरुणस्य वरणीयस्य वारयितुर्वा सोमस्य स्कम्भनं धारायिता असि ॥

भट्टभास्कर-टीका

9दक्षिणं युनक्ति - वरुणस्येति ॥


भास्करोक्त-विनियोगः

शम्याम् अवगूहति ।

वरुणस्य स्कम्भनम् ...{Loading}...
विश्वास-प्रस्तुतिः

वरु॑णस्य॒ +++(सोमस्य च)+++ स्कम्भ॑नम्+++(=धारयिता)+++ असि ।

Keith

Thou art the pillar of Varuna.

मूलम्

वरु॑णस्य॒ स्कम्भ॑नमसि ।

पद-पाठः

वरु॑णस्य । स्कम्भ॑नम् । अ॒सि॒ ।

भट्टभास्कर-टीका

वरुणस्य स्कम्भनं स्तम्भनमुत्पादयिता त्वमसि यागद्वारेण । यद्वा - वरुणस्य वरणीयस्य वारयितुर्वा सोमस्य स्कम्भनं धारायिता असि ॥

भट्टभास्कर-टीका

10शम्यामवगूहति - वरुणस्येति ॥


भास्करोक्त-विनियोगः

योक्त्रेण बध्नाति।

विश्वास-प्रस्तुतिः

प्रत्य॑स्तो॒+++(=उत्क्षिप्तः)+++ वरु॑णस्य॒ पाशः॑ ॥ [16]

Keith

Varuna’s noose is tied.

मूलम्

प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ॥ [16]

पद-पाठः

प्रत्य॑स्त॒ इति॒ प्रति॑-अ॒स्तः॒ । वरु॑णस्य । पाशः॑ ॥ [16]

भट्टभास्कर-टीका

11योक्त्रेण बध्नाति - प्रत्यस्त इति ॥ प्रत्यस्तः उत्क्षिप्तः वरुणस्य पाशस्त्वमसि । यद्वा - त्वया बन्धने कृते वरुणस्य पाशः प्रत्यस्तः ॥

इति द्वितीये अष्टमोनुवाकः