०७ सोमक्रयः

०७ सोमक्रयः ...{Loading}...

सोमऋषिः

हिरण्य-पणः


भास्करोक्त-विनियोगः

हिरण्येन पणते।

विश्वास-प्रस्तुतिः

सोम॑न् ते क्रीणा॒मि ।
ऊर्ज॑स्वन्त॒म् पय॑स्वन्तव्ँ वी॒र्या॑वन्तम् अभिमाति॒+++(=पाप्म)+++षाह॑म्
शु॒क्रन्+++(=शुद्धं)+++ ते॑ शु॒क्रेण॑ क्रीणामि,
च॒न्द्रञ्+++(=आह्लादकं)+++ च॒न्द्रेणा॒मृत॑म् अ॒मृते॑न,
स॒म्यत्+++(→यथा)+++ ते॒ गोः+++(=वाचः [यथा तथा क्रीणामि])+++ ।

Keith

I buy Soma from thee,
strong, rich in sap, full of force, overcoming the foe,
the pure with the pure I buy,
the bright with the bright, the immortal with the immortal,
to match thy cow.

मूलम् (संयुक्तम्)

सोम॑न्ते क्रीणा॒म्यूर्ज॑स्वन्त॒म्पय॑स्वन्तव्ँवी॒र्या॑वन्तमभिमाति॒षाहँ॑ शु॒क्रन्ते॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रञ्च॒न्द्रेणा॒मृत॑म॒मृते॑न स॒म्यत्ते॒ गोः

मूलम्

सोम॑न्ते क्रीणा॒मि ।

पद-पाठः

सोम॑म् । ते॒ । क्री॒णा॒मि॒ ।

भट्टभास्कर-टीका

1हिरण्येन पणते - सोमं त इति ॥ हे सोमविक्रयिन् ते तव सकाशात्सोमं क्रीणामि ।

मूलम्

ऊर्ज॑स्वन्त॒म्पय॑स्वन्तव्ँवी॒र्या॑वन्तमभिमाति॒षाह॑म्
शु॒क्रन्ते॑ शु॒क्रेण॑ क्रीणामि ।

पद-पाठः

ऊर्ज॑स्वन्तम् । पय॑स्वन्तम् । वी॒र्या॑वन्त॒मिति॑ वी॒र्य॑-व॒न्त॒म् । अ॒भि॒मा॒ति॒षाह॒मित्य॑भिमाति-साह॑म् ।

शु॒क्रम् । ते॒ । शु॒क्रेण॑ । क्री॒णा॒मि॒ ।

भट्टभास्कर-टीका

ऊर्जस्वन्तं रसवन्तं बलवन्तं वा । ऊर्जयतेरसुन्प्रत्ययः । पयस्वन्तं क्षीरवन्तं, उदकवन्तं वा तद्धेतुत्वात् । वीर्यावन्तं वीरकर्मवन्तम् । ‘अन्येषामपि दृश्यते’ इति दीर्घः । अभिमातिषाहं, अभिमातिः पाप्मा तस्याभिभवितारं नाशयितारम् । ‘छन्दसि सहः’ इति ण्विः, ‘सहेस्साढस्सः’ इति षत्वम् । शुक्रं शुद्धं सोमम् । ते इति पुनर्वचनमादरार्थम् । शुक्रेण हिरण्येन क्रीणामि । आख्यातावृत्तिरप्यादरार्थैव । यद्वा - क्रीत्यन्तरारम्भादुभयं पुनरुपादीयते मूल्यमपि हिरण्यप्रभृति निर्दिश्यते ।

मूलम्

च॒न्द्रञ्च॒न्द्रेणा॒मृत॑म॒मृते॑न ।

पद-पाठः

च॒न्द्रम् । च॒न्द्रेण॑ । अ॒मृत॑म् । अ॒मृते॑न ।

भट्टभास्कर-टीका

चन्द्रमाह्लादकरं सोमं चन्द्रेण तादृशेन हिरण्येन ।
अमृतं देवानां यजमानस्य वा अमरणहेतुं सोमं अमृतेन तथाविधेन हिरण्येन । मृतं मरणं यस्य सकाशे नास्तीत्यमृतम् । ‘नञो जरमरमित्रमृताः’ इत्युत्तरपदाद्युदात्तत्वम् । स्तुत्यर्थमनेकविशेषणोपादानम् ।

मूलम्

स॒म्यत्ते॒ गोः +++(क्रीणामि)+++ ।

पद-पाठः

स॒म्यत् । ते॒ । गोः ।

भट्टभास्कर-टीका

किञ्च - हे सोमविक्रयिन् ते तव गोर्वाचः, सम्यत्संयतं सङ्गतं यथा तथा क्रीणामीति क्रियाविशेषणम् । संपूर्वाद्यमेः क्विप्, छान्दसे अनुनासिकलोपे तुक्, समो मकारस्य चानुस्वाराभावश्छान्दसः । यद्वा - तव गोस्सम्यत् तव वाचं सङ्गच्छते यथा तथा क्रीणामि । एतेर्लटश्शत्रादेशः । गोः कर्मणि षष्ठी, ‘न लोकाव्यय’ इति प्रतिषेधः व्यत्ययेन न प्रवर्तते । तव वाचा सङ्गच्छमानं क्रीणामीत्यर्थः । अथवा - सम्यगित्यस्यान्त्यविकारश्छान्दसः, तव वाचस्समीचीनमिति यावत् । ‘समस्समिः’ इति समिरादेशः । षमष्टम अवैकल्ये, व्यत्ययेन श्यन्, ‘छन्दस्युभयथा’ इति शतुरार्धधातुकत्वाददुपदेशाल्लसार्वधातुकानुदात्तत्वाभावः । तव वाचोऽविकलं क्रीणामीति ॥


भास्करोक्त-विनियोगः

यजमानाय प्रयच्छति हिरण्यं।

विश्वास-प्रस्तुतिः

अ॒स्मे+++(=अस्माकमेव)+++ च॒न्द्राणि॑+++(=हिरण्यानि [न सोमविक्रयिणः])+++ । +++(चन्द्रेण क्रीणामीति तु छलमात्रम् उक्तम् इति । अस्मान् एव हिरण्यं पुनः प्राप्नोत्व् इत्य् अर्थः । )+++

प्रदीपसिंहः

अ॒ । अत्र अस्मे इति विश्वासप्रस्तुतौ सन्नतरो नष्ट आसीत् । योजितः ।

Keith

With us be the gold.

मूलम् (संयुक्तम्)

- अस्मे च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒स्तस्या॑स्ते सहस्रपो॒षम्पुष्य॑न्त्याश्चर॒मेण॑ प॒शुना॑ क्रीणामि

मूलम्

अ॒स्मे च॒न्द्राणि॑ ।

पद-पाठः

अ॒स्मे इति॑ । च॒न्द्राणि॑ ।

भट्टभास्कर-टीका

2यजमानाय प्रयच्छति हिरण्यं - अस्मे इति ॥ अस्माकमेव चन्द्राणि हिरण्यानि, न सोमविक्रयिणः; चन्द्रेण क्रीणामीति तु छलमात्रमुक्तमिति । ‘सुपां सुलुक्’ इति षष्ठीबहुवचनस्य शे इत्यादेशः । अस्मानेव हिरण्यं पुनः प्राप्नोत्वित्यर्थः । ‘देवा वे येन हिरण्येन’ इत्यादि ब्राह्मणम् ॥

अजया क्रयणम्


भास्करोक्त-विनियोगः

अजया क्रीणाति।

विश्वास-प्रस्तुतिः

+++(अजे!)+++ तप॑सस् त॒नूर् अ॑सि प्र॒जाप॑ते॒र् वर्णः॑+++(=स्वरूपम्)+++।
तस्या॑स् ते सहस्रपो॒षम् पुष्य॑न्त्याश् चर॒मेण॑ प॒शुना॑ क्रीणामि।

Keith

Thou art the bodily form of penance, Prajapati’s kind,
I buy (Soma) with the last offspring of thee that hast a thousandfold prosperity.

मूलम्

तप॑सस्त॒नूर॑सि ।
प्र॒जाप॑ते॒र्वर्णः॑ +++(असि)+++ ।
तस्या॑स्ते सहस्रपो॒षम्पुष्य॑न्त्याश्चर॒मेण॑ प॒शुना॑ क्रीणामि ।

पद-पाठः

तप॑सः । त॒नूः । अ॒सि॒ ।
प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । वर्णः॑ ।
तस्याः॑ । ते॒ । स॒ह॒स्र॒पो॒षमिति॑ सहस्र-पो॒षम् । पुष्य॑न्त्याः । च॒र॒मेण॑ । प॒शुना॑ । क्री॒णा॒मि॒ ।

भट्टभास्कर-टीका

3अजया क्रीणाति - तपस इति ॥ अजा जातिरुच्यते । तपसो यज्ञस्य तनूः शरीरं त्वमसि यागसाधनानां प्रधानभूतासीत्यर्थः । ऊप्रत्ययान्तस्तनूशब्दः ।
किञ्च - प्रजापतेर्वर्णः स्वरूपं त्वमसि । प्रजापतेस्सर्वदेवतात्मकत्वात् सर्वेषां देवानां रूपं त्वमसीत्युक्तं भवति । अस्याश्च सर्वदेवत्यत्वात् सर्वदेवस्वरूपता । यथोक्तं ‘सा वा एषा सर्वदेवत्या यदजा’ इति । ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
तस्यास्तादृश्यास्ते तव सहस्रपोषं सहस्रस्य पुष्टिं, बह्वीं वा पुष्टिं, पुष्यन्त्याः पुष्कलमुत्पादयन्त्याः कुर्वन्त्या वा सम्बन्धी यश्चरमः पशुर्व्यक्तिरूपेण पश्चाज्जातः तेन सोमं क्रीणामि । तव कलामात्रेण क्रीणामीति महिमातिशयप्रतिपादनार्थं चरमग्रहणम् । यथा - ‘पशुभ्य एव तदध्वर्युर्निह्नुते’ त्यादि ब्राह्मणम् ।


भास्करोक्त-विनियोगः

यजमानम् ईक्षते।

विश्वास-प्रस्तुतिः

अ॒स्मे+++(=वयं)+++ ते॒ बन्धुः॑+++(=बन्धवः)+++ ।

Keith

With us be union with thee.

मूलम् (संयुक्तम्)

- अस्मे ते॒ बन्धुः॒ मयि॑ ते॒ राय॑श्श्रयन्ताम्

मूलम्

अ॒स्मे ते॒ बन्धुः॑ ।

पद-पाठः

अ॒स्मे इति॑ । ते॒ । बन्धुः॑ ।

भट्टभास्कर-टीका

4यजमानमीक्षते - अस्मे त इति ॥ प्रथमाबहुवचनस्य शे इत्यादेशः । हे यजमान वय तव बन्धवः । बध्यतेस्मिन्कर्मणि बन्धुरध्वर्युरुच्यते । तेनैव सूत्रेण जसस्स्वादेशः । यद्वा - अस्म इति व्यत्ययेन बहुवचनम्; अहं तव बन्धुरित्यर्थः ॥


भास्करोक्त-विनियोगः

आत्मानमीक्षते।

विश्वास-प्रस्तुतिः

मयि॑ ते॒ राय॑श् श्रयन्ताम् ।

Keith

with me let thy wealth abide.

मूलम्

मयि॑ ते॒ राय॑श्श्रयन्ताम् ।

पद-पाठः

मयि॑ । ते॒ । रायः॑ । श्र॒य॒न्ता॒म् ।

भट्टभास्कर-टीका

5आत्मानमीक्षते - मयीति ॥ मयि तव रायः अपत्यलक्षणानि धनानि श्रयन्ताम् वर्तन्ताम् ममैव याज्या भवन्त्विति यावत् । त इति वचनार्त्पूवशेषत्वं युक्तमिव लक्ष्यते ॥


भास्करोक्त-विनियोगः

यजमानं शुक्लोर्णुकया क्षिपति।

विश्वास-प्रस्तुतिः

अ॒स्मे+++(=अस्माकम्)+++ ज्योतिः॑ ।

प्रदीपसिंहः

अ॒ सन्नतरः नष्ट आसीत् ।

Keith

With us be light.

मूलम्

अ॒स्मे ज्योतिः॑ ।

पद-पाठः

अ॒स्मे इति॑ । ज्योतिः॑ ।

भट्टभास्कर-टीका

6यजमानं शुक्लोर्णुकया क्षिपति - अस्मे ज्योतिरिति ॥ अस्माकमेव प्रकाशः । पूर्ववदामश्शे इत्यादेशः ॥


भास्करोक्त-विनियोगः

कृष्णोर्णया सोम-विक्रयिणं विध्यति।

विश्वास-प्रस्तुतिः

सोमविक्र॒यिणि॒ तमः॑ ।

Keith

darkness be on the Soma-seller.

मूलम्

सोमविक्र॒यिणि॒ तमः॑ ।

पद-पाठः

सो॒म॒वि॒क्र॒यिणीति॑ सोम-वि॒क्र॒यिणि॑ । तमः॑ ।

भट्टभास्कर-टीका

7कृष्णोर्णया सोमविक्रयिणं विध्यति ॥ सोमविक्रयिणि तमोस्तु । ‘कर्मणीनिर्विक्रियः’ इतीनिप्रत्ययः ॥

सोमग्रहणम्


भास्करोक्त-विनियोगः

सोमविक्रयिणस् सोमम् आदत्ते।

विश्वास-प्रस्तुतिः

मि॒त्रो न॒ एहि॒ सुमि॑त्रधाः ।

Keith

Come as a friend to us, creating firm friendships.

मूलम्

मि॒त्रो न॒ एहि॒ सुमि॑त्रधाः ।

पद-पाठः

मि॒त्रः । नः॒ । एति॑ । इ॒हि॒ । सुमि॑त्रधा॒ इति॒ सुमि॑त्र-धाः॒ ।

भट्टभास्कर-टीका

8सोमविक्रयिणस्सोममादत्ते - मित्र इति ॥ हे सोम सुमित्रधाः शोभनानां मित्राणां यजमानानां धारयिता त्वं अस्मान् मित्रोभूत्वा एहि आगच्छ । व्यत्ययेन कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा - मित्राणां सुधारयिता सुमित्रधाः । सुमित्रधा इति प्रादिसमासे गतित्वाभावादव्ययादिस्वरत्वम् । ‘आतो मनिन्’ इति विच् । ‘वारुणो वै क्रीतस्सोम उपनद्धः’ इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

यजमानस्य दक्षिण ऊराव् आसादयति।

विश्वास-प्रस्तुतिः

इन्द्र॑स्यो॒रुम् आ वि॑श॒ दक्षि॑णम्, उ॒शन्न् उ॒शन्त॑म्+++(=कामयमानं)+++, स्यो॒नस्+++(=सुखस्)+++ स्यो॒नम्।
+++(‘देवा वै यँ सोमं’ इत्यादि ब्राह्मणम् ॥)+++

Keith

Enter the right thigh of Indra, glad the glad, tender the tender.

मूलम्

इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑णम्, उ॒शन्नु॒शन्त॑म्, स्यो॒नस्स्यो॒नम्।

पद-पाठः

इन्द्र॑स्य । ऊ॒रुम् । एति॑ । वि॒श॒ । दक्षि॑णम् ।
उ॒शन् । उ॒शन्त॑म् ।
स्यो॒नः । स्यो॒नम् ।

भट्टभास्कर-टीका

9यजमानस्य दक्षिण ऊरावासादयति - इन्द्रस्येति ॥ इन्द्रस्येश्वरस्य यजमानस्य ऊरुं दक्षिणमुशन्तं त्वामेव कामयमानं त्वमेव कामयमानस्त्वं स्योनः सुखस्त्वं स्योनं तादृशं तमाविश । स्यमु स्वन ध्वन शब्दे, ‘शमेश्च’ इति नप्रत्ययः । ‘ग्रहिज्या’ इत्यादिना वष्टेस्सम्प्रसारणम् । ‘देवा वै यँ सोमं’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

10स्वानादिभ्यः सोमक्रयणान्परिददाति - स्वानेत्यादिना ॥

विश्वास-प्रस्तुतिः

+++(सोमस्य रक्षितारः देवाः!)+++ स्वान॒+++(=शब्दयितः)+++ भ्राज +अङ्घा॑रे॒ बम्भा॑रे॒+++(=बंभ्रम्यमाणारे)+++ हस्त॒ सुह॑स्त॒ कृशा॑नो
ए॒ते व॑स् सोम॒-क्रय॑णा॒स् +++(गवादयः)+++ - तान् र॑क्षध्वम् ।
मा वो॑ दभन्+++(=वञ्चयेयुः)+++ ॥

Keith

O Svana, Bhraja, Anghari, Bambhari, Hasta, Suhasta, and Krçanu,
here are your wages for Soma; guard them,
let them not fail you.

मूलम् (संयुक्तम्)

- स्वान॒ भ्राजाङ्घा॑रे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते व॑स्सोम॒क्रय॑णा॒स्तान्र॑क्षध्व॒म्मा वो॑ दभन् ॥ [14]

मूलम्

स्वान॒ भ्राजाङ्घा॑रे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नो …
ए॒ते व॑स्सोम॒क्रय॑णा॒स्तान् र॑क्षध्वम् ।
मा वो॑ दभन् ॥

पद-पाठः

स्वान॑ । भ्राज॑ । अङ्घा॑रे । बम्भा॑रे । हस्त॑ । सुह॒स्तेति॒ सु-ह॒स्त॒ । कृशा॑न॒विति॒ कृश॑-अ॒नो॒ ।
ए॒ते । वः॒ । सो॒म॒क्रय॑णा॒ इति॑ सोम-क्रय॑णाः ।
तान् । र॒क्ष॒ध्व॒म् ।
मा । वः॒ । द॒भ॒न्न् ॥ [14]

भट्टभास्कर-टीका

स्वानादयः सोमस्य रक्षितारः देवाः । स्वानः शब्दयिता । स्वनेर्ण्यन्तात्पचाद्यच् । भ्राजत इति भ्राजः दीप्तिमान् । स एवाच् । अंहसामरिः अङ्घारिः । ‘अङ्घभावश्छान्दसः’ । यद्वा - अधिगत्याक्षेपे, अङ्घमाना अरयो यस्येत्यङ्घारिः पलायमानशत्रुः । बंभारिः बंभ्रम्यमाणारिः । तस्मिन्नेवाचि पृषोदरादित्वाद्रूपसिद्धिः । हस्तः हसनशीलः अनादृतशत्रुवीर्यः । सहेर्वा आद्यन्तविपर्ययः, अभिभविता शत्रूणाम् । सुहस्तः कल्याणपाणिः, शोभनहस्तकृत्यो वा । कृशानुः नाशयिता शत्रूणाम् । कृश तनूकरणे, तस्मादानुक्प्रत्ययः । यद्वा - कृशाननयति जीवयतीति अन्तर्भावितण्यर्थात् अनितेरुण्प्रत्ययः । यद्वा - कृशाः स्वल्पवीर्याः अनवः प्राणिनो यस्मिन् तादृशः । सर्वत्र चात्र षाष्ठिकमामन्त्रिताद्युदात्तत्वम्, ‘आमन्त्रितं पूर्वमविद्यमानवत्’ इति पूर्वपूर्वाविद्यमानता ।

हे स्वानादयः एते सोमक्रयणाः सोमः क्रीयते यैस्ते गवादयः वः युष्मभ्यं समर्पिताः रक्षार्थम् । अतस्तान् यूयं रक्षध्वम् । युष्माभिरेते रक्षणीयाः, ये यूयं सोमं रक्षध्वम् । व्यत्ययेनात्मनेपदम् ।

मा वो युष्मान् सोमक्रयणान् रक्षतः केचिदपि दभन्न् हिंसिषुः । दम्भेश्छान्दसः च्लेरङादेशः । ‘एते वामुष्मिन् लोके साममरक्षन्’ इत्यादि ब्राह्मणम् ॥

इति द्वितीये प्रपाठके सप्तमोनुवाकः