०१ अग्निष्टोमे यजमानस्य क्षौरादिसंस्काराः

०१ अग्निष्टोमे यजमानस्य क्षौरादिसंस्काराः ...{Loading}...

०१ अग्निष्टोमे यजमानस्य क्षौरादिसंंस्काराः

प्राचीनवंशशालाप्रवेशः, यजमानस्य क्षौर-स्नान-अनुलेपनादिसंंस्काराः (अप्सु दीक्षा) १ द्विपदा गायत्री ६ त्रिपदा विराट् ७ एकपदा विराट् १२-१४ गायत्री १६ अनुष्टुप् सोमऋषिः

भट्टभास्कर-टीका

अथ द्वितीयः प्रपाठकः
अतः परमग्निष्टोममन्त्राः, येषामाध्वरिका इत्याख्या । एषां च सोमः काण्डऋषिः ‘कृणुष्व पाजः’ इत्यतः प्राक्, अध्वरग्रहदाक्षिणानां सोमार्षेयत्वात् ॥


भास्करोक्त-विनियोगः

सोमः काण्डऋषिः। दीक्षिष्यमाणस्य यजमानस्य दक्षिणं गोदानम् उनत्ति।।

विश्वास-प्रस्तुतिः

आप॑ उन्दन्तु+++(=क्लेदयन्तु)+++ जी॒वसे॑ ।
दी॒र्घा॒यु॒त्वाय॒ वर्च॑से ॥

Keith

May I the waters wet (thee) for life, For length of days, for glory.

मूलम् (संयुक्तम्)

आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से

मूलम्

आप॑ उन्दन्तु जी॒वसे॑ ।
दी॒र्घा॒यु॒त्वाय॒ वर्च॑से ॥

पद-पाठः

आपः॑ । उ॒न्द॒न्तु॒ । जी॒वसे॑ । दी॒र्घा॒यु॒त्वायेति॑ दीर्घायु-त्वाय॑ । वर्च॑से ।

भट्टभास्कर-टीका

1तत्र दीक्षिष्यमाणस्य यजमानस्य दक्षिणं गोदानमुनत्ति आप इति द्विपदया गायत्र्या ॥ आपः उन्दन्तु क्लेदयन्तु आर्द्रीकुर्वन्तु । उन्दी क्लेदने, रौधादिकः, ‘श्नसोरल्लोपः’, ‘श्नान्नलोपः’ । जीवसे जीवयितुं इमं यजमानम् । जीवेर्ण्यन्तात् ‘तुमर्थे सेसेन्’ इत्यादिना असेप्रत्ययः, णिलोपः । किं दिवसमात्रं जीवयितुम् ? नेत्याह - दीर्घायुत्वाय । बहुव्रीहेर्भावप्रत्ययः । दीर्घमायुरस्य यथा स्यादित्येवमर्थम् । । ‘इणश्छन्दसि’ इत्युण्प्रत्ययः । किञ्च - वर्चसे तेजसे ॥


भास्करोक्त-विनियोगः

2ऊर्ध्वाग्रं बर्हिरनुच्छ्रयति - ओषध इति ॥

ओषधे ...{Loading}...
भास्करोक्त-विनियोगः

ऊर्ध्वाग्रं बार्हिर् अनूच्छ्रयति - ओषधे त्रायस्वैनमिति ॥

विश्वास-प्रस्तुतिः

ओष॑धे॒ त्राय॑स्वैनम्।

Keith

O plant, protect him.

मूलम् (संयुक्तम्)

ओष॑धे॒ त्राय॑स्वैनँ॒ स्वधि॑ते॒ मैनँ॑ हिँसीः

मूलम्

ओष॑धे॒ त्राय॑स्वैनम्।

पद-पाठः

ओष॑धे । त्राय॑स्व । ए॒न॒म् ।

भट्टभास्कर-टीका

2ऊर्ध्वाग्रं बर्हिरनुच्छ्रयति - ओषध इति ॥ हे ओषधे बर्हिरात्मिके । आमन्त्रिताद्युदात्तत्वम् । एनं यजमानं त्रायस्व रक्ष । स्वधितिव्यवधानमेव रक्षणं बर्हिषा ॥

+++(अन्यत्र - )+++ 3ऊर्ध्वाग्रं बार्हिर् अनूच्छ्रयति - ओषधे त्रायस्वैनमिति ॥ हे ओषधे बर्हिरेनं यूपार्थं वृक्षं त्रायस्व रक्ष यागसाधनत्वापादनेन वृक्षत्वान्मोचयित्वा उत्तमां गतिं गमय ॥

भट्टभास्कर-टीका

10वपाग्रहणदेशे प्राचीनाग्रं बर्हिर्निदधाति - ओषधे त्रायस्वैनमिति ॥ व्याख्यातम् ॥


भास्करोक्त-विनियोगः

तस्मिन् बर्हिषि स्वधितिं तिर्यञ्चं निदधाति।

स्वधिते ...{Loading}...
भास्करोक्त-विनियोगः

4स्वधितिना तिर्यञ्चं प्रहरति

विश्वास-प्रस्तुतिः

स्वधि॑ते॒+++(=क्षुर)+++! मैनँ॑ हिँसीः ।+++(र४)+++

Keith

Axe, hurt him not.

मूलम्

स्वधि॑ते॒ मैनँ॑ हिँसीः ।

पद-पाठः

स्वधि॑त॒ इति॒ स्व-धि॒ते॒ । मा । ए॒न॒म् । हिँ॒सीः॒ ।

भट्टभास्कर-टीका

3तस्मिन् बर्हिषि स्वधितिं तिर्यञ्चं निदधाति - स्वधित इति ॥ स्वस्मिन् प्रयोजने धितिरवस्थानमस्येति स्वधितिः स्वकार्यसमर्थः । धाञः आकारस्येकारः, बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरत्वम्, इह त्वामन्त्रिताद्युदात्तत्वम् । हे स्वधिते क्षुर एनं यजमानं मा हिंसीः । हिंसाप्रतिषेधो वप्तुरप्रमादाय ॥

  • स्वधितिना तिर्यञ्चं प्रहरति - स्वधिते मैनं हिंसीरिति ॥ हे स्वधिते त्वमप्येनं मा हिंसीः उत्तमामेव गतिं गमय । व्याख्यातौ च प्रागेवेतौ मन्त्रौ । ‘अनक्षसङ्गं वृश्चेत्’ इत्यादि ब्राह्मणम् ॥
भट्टभास्कर-टीका

11स्वधितिं निदधाति - स्वधिते मैनं हिंसीरिति ॥ व्याख्यातमेव ॥


भास्करोक्त-विनियोगः

प्रवपति।

विश्वास-प्रस्तुतिः

दे॒व॒श्रूर्+++(=देवनापितः)+++ ए॒तानि॒ प्र व॑पे।
+++(‘केशश्मश्रु वपते’ इत्यादि ब्राह्मणम् ॥)+++

Keith

Obedient to the gods I shear these.

मूलम्

दे॒व॒श्रूरे॒तानि॒ प्र व॑पे।

पद-पाठः

दे॒व॒श्रूरिति॑ देव-श्रूः । ए॒तानि॑ । प्रेति॑ । व॒पे॒ ।

भट्टभास्कर-टीका

4प्रवपति - देवश्रूरिति ॥ देवश्रूर्नाम देवनापितः, देवेषु श्रूयते तत्र प्रसिद्धिं गच्छतीति कृत्वा । शृणोतेः ‘अन्येभ्योपि दृश्यन्ते’ इति कर्मणि विच्, दृशिग्रहणस्य विध्यन्तरोपसङ्ग्रहार्थत्वाद्दीर्घत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वम् । देवश्रूरेव भूत्वा अहमेतानि श्मश्नुप्रभृतीनि प्रवपे प्रकृष्टं वपे छिनद्मि । वपतिस्स्वरितेत् । ‘केशश्मश्रु वपते’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

उप्तदेशं यजमानोभिमृशति।

विश्वास-प्रस्तुतिः

स्व॒स्त्य् उत्त॑राण्य् +++(कर्माणि)+++ अशी॒य+++(=व्याप्नुयाम्)+++।+++(र४)+++

Keith

With success may I reach further days.

मूलम्

स्व॒स्त्युत्त॑राण्यशी॒य।

पद-पाठः

स्व॒स्ति । उत्त॑रा॒णीत्युत्-त॒रा॒णि॒ । अ॒शी॒य॒ ।

भट्टभास्कर-टीका

5उप्तदेशं यजमानोभिमृशति - स्वस्तीति ॥ स्वस्ति अविघ्नेनोत्तराणि कर्माणि अशीय व्याप्नुयाम् । अश्नोतेर्लिङि ‘बहुलं छन्दसि’ इति शपो लुक् । सीयुडादि ॥


भास्करोक्त-विनियोगः

6यजमानमभिषिञ्चति - आपो अस्मानिति द्विपदया विराजा ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आपो॑ अ॒स्मान् मा॒तर॑श् शुन्धन्तु।+++(र४)+++
घृ॒तेन॑ नो घृत॒-पुवᳶ॑+++(→घृतपावकाः)+++ पुनन्तु ।

सर्वाष् टीकाः ...{Loading}...
Keith

Let the waters, the mothers, purify us, With ghee let those that purify our ghee purify us.

मूलम्

आपो॑ अ॒स्मान्मा॒तर॑श्शुन्धन्तु।
घृ॒तेन॑ नो घृत॒पुवᳶ॑ पुनन्तु ।

पद-पाठः

आपः॑ । अ॒स्मान् । मा॒तरः॑ । शु॒न्ध॒न्तु॒ । घृ॒तेन॑ । नः॒ । घृ॒त॒पुव॒ इति॑ घृत-पुवः॑ । पु॒न॒न्तु॒ । विश्व॑म् । अ॒स्मत् । प्रेति॑ । व॒ह॒न्तु॒ । रि॒प्रम् । उदिति॑ । आ॒भ्यः॒ । शुचिः॑ । एति॑ । पू॒तः । ए॒मि॒ ।

भट्टभास्कर-टीका

आपो मातरः मातृस्थानीयाः अस्मान् यजमानान् शुन्धन्तु शोधयन्तु ।
किञ्च - घृतेनोदकेन पुनन्तीति घृतपुवः । ‘तन्वादीनां छन्दसि बहुलम्’ इत्युवङादेशः, कृदुत्तरपदप्रकृतिस्वरत्वम् । पर्जन्यादय उच्यन्ते । ते चास्मान् घृतेनोदकेन पुनन्तु अपापान् कुर्वन्तु । घृ क्षरणे, घृतं क्षरणात् । ‘अप्सु दीक्षातपसी’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

सम्प्रधाव्य रजः प्लावयति।।

विश्वास-प्रस्तुतिः

विश्व॑म् अ॒स्मत् प्र व॑हन्तु रि॒प्रम्+++(=पापम्)+++ ।+++(र५)+++

Keith

Let them bear from us all pollution.

मूलम्

विश्व॑म॒स्मत्प्र व॑हन्तु रि॒प्रम् ।

भट्टभास्कर-टीका

7सम्प्रधाव्य रजः प्लावयति - विश्वमिति विराजैकपदया ॥अस्मत् अस्मभ्यं अस्मदीयेभ्यो यजमानेभ्यः विश्वं रिप्रं पापं इमा आपः प्रवहन्तु देशान्तरं प्रापयन्तु नाशयन्त्विति यावत् ॥


भास्करोक्त-विनियोगः

एति यजमानः।

विश्वास-प्रस्तुतिः

उद् +++(अद्भ्य)+++ आ॑भ्य॒श् शुचि॒र् आ पू॒त ए॑मि ।+++(र५)+++

Keith

Forth from these waters do I come bright, in purity.

मूलम्

उदा॑भ्य॒श्शुचि॒रा पू॒त ए॑मि ।

भट्टभास्कर-टीका

8एति यजमानः - उदाभ्य इति विराजैकपदया ॥ शुचिः स्नानेन बाह्यतश्शुद्धः । पूतः आचमनेनान्तश्शुद्धः । ‘अपोश्नात्यन्तरत एव मेध्यो भवति’ इति ब्राह्मणम् । एवंभूतस्सन्नहं आभ्योद्भ्य उत्तीर्य एमि गच्छामि । आभ्य इति ‘इदमोन्वादेशेऽशनुदात्तस्तृतीयादौ’ इत्येकादेशोनुदात्तः ॥


भास्करोक्त-विनियोगः

वासः परिधत्ते।

विश्वास-प्रस्तुतिः

सोम॑स्य त॒नूर् अ॑सि ।
+++(‘सौम्यं वै क्षौमं देवतया’ इति च ब्राह्मणम् । )+++
त॒नुव॑म् मे पाहि।+++(र४)+++

Keith

Thou art the body of Soma, guard my body.

मूलम् (संयुक्तम्)

- सोम॑स्य त॒नूर॑सि त॒नुव॑म्मे पाहि

मूलम्

सोम॑स्य त॒नूर॑सि ।
त॒नुव॑म्मे पाहि।

पद-पाठः

सोम॑स्य । त॒नूः । अ॒सि॒ ।
त॒नुव॑म् । मे॒ । पा॒हि॒ ।

भट्टभास्कर-टीका

9वासः परिधत्ते - सोमस्येति ॥ सोमस्य तनूः शरीरमसि शरीरमिव प्रियतममसि तद्देवत्यत्वाद्वाससः । ‘सौम्यं वै क्षौमं देवतया’ इति च ब्राह्मणम् ।
ईदृशं त्वं मे मम तनुवं शरीरं पाहि पालय । ‘कृषिचमितमि’ इत्यादिना तनोतेरुप्रत्ययः, ‘तन्वादीनां छन्दसि बहुलम्’ इत्युवङादेशः । ‘अग्नेस्तूषाधानम्’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

नवनीतेन मुखमभ्यङ्क्ते।

विश्वास-प्रस्तुतिः

म॒ही॒नाम् +++(गवाम्)+++ पयो॑ऽसि ।
व॒र्चो॒धा अ॑सि ।
वर्चो॒ मयि॑ धेहि।+++(र४)+++

Keith

Thou art the milk of the great ones,
thou art the giver of splendour;
splendour [1] place in me.

मूलम् (संयुक्तम्)

- मही॒नाम्पयो॑ऽसि वर्चो॒धा अ॑सि॒ वर्चः॑ [1]मयि॑ धेहि

मूलम्

म॒ही॒नाम्पयो॑ऽसि ।
व॒र्चो॒धा अ॑सि ।
वर्चो॒ मयि॑ धेहि।

पद-पाठः

म॒ही॒नाम् । पयः॑ । अ॒सि॒ ।
व॒र्चो॒धा इति॑ वर्चः-धाः । अ॒सि॒ ।
वर्चः॑ । [1] मयि॑ । धे॒हि॒ ।

भट्टभास्कर-टीका

10 नवनीतेन मुखमभ्यङ्क्ते - महीनामिति ॥ महीनां गवाम् । ‘नामन्यतरस्याम्’ इति विभक्तेरुदात्तत्वम् । पयोसि । पयोजातत्वात्पय इत्युच्यते । तत्कार्यत्वात् ताच्छब्द्यम् । किञ्च - वर्चसो दीप्तेः धाः धारकं चासि । लिङ्गव्यत्ययेन पुल्लिङ्गत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘ईदृशं त्वं मयि वर्चो धेहि । ‘घृतं देवानाम्मस्तु पितृणाम्’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

अञ्जनेनाङ्क्ते।

विश्वास-प्रस्तुतिः

वृ॒त्रस्य॑ क॒नीनि॑का+++(=अक्षिस्थकृष्ण-मण्डलम्)+++ ऽसि ।
च॒क्षु॒ष्पा अ॑सि ।
चक्षु॑र् मे पाहि ।+++(र५)+++

Keith

Thou art the pupil of Vrtra’s eye,
thou art the guardian of the eye,
guard my eye.

मूलम् (संयुक्तम्)

वृ॒त्रस्य॑ क॒नीनि॑काऽसि चक्षु॒ष्पा अ॑सि॒ चक्षु॑र्मे पाहि

मूलम्

वृ॒त्रस्य॑ क॒नीनि॑काऽसि ।
च॒क्षु॒ष्पा अ॑सि ।
चक्षु॑र्मे पाहि ।

पद-पाठः

वृ॒त्रस्य॑ । क॒नीनि॑का । अ॒सि॒ ।
च॒क्षु॒ष्पा इति॑ चक्षुः-पाः । अ॒सि॒ ।
चक्षुः॑ । मे॒ । पा॒हि॒ ।

भट्टभास्कर-टीका

11अञ्जनेनाङ्क्ते - वृत्रस्येति ॥ वृत्रस्य असुरस्य कनीनिका अक्षिस्थकृष्णमण्डलमसि । ‘इन्द्रो वृत्रमहन् तस्य कनीनिका परापतत्’ इत्यादि ब्राह्मणम् ।
किञ्च - चक्षुष्पाः चक्षुषः पालयितृ त्वमसि । पातेर्विचि पूर्ववल्लिङ्गव्यत्ययस्स्वरश्च, ‘नित्यं समासेनुत्तरपदस्थस्य’ इति विसर्जनीयस्य सत्वम्, ‘आदेशप्रत्यययोः’ इति षत्वम् । ईदृशस्त्वं मम चक्षुः पाहि पालनं कुरु दोषरहितं कुरु ॥


भास्करोक्त-विनियोगः

12-14दर्भपुञ्जीलैर्यजमानं पवयति - चित्पतिरित्यादिभिः त्रिपदाभिर्गायत्रीभिः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

चि॒त्-पति॑स् त्वा पुनातु ।
+++(‘मनो वै चित्पतिः’ इति ब्राह्मणम् ।)+++
[अच्छि॑द्रेण प॒वित्रे॑ण॒
वसो॒स्सूर्य॑स्य र॒श्मिभिः॑।]

सर्वाष् टीकाः ...{Loading}...
Keith

Let the lord of thought purify thee, let the lord of speech purify thee, let the god Savitr purify thee
With the flawless purifier,
With the rays of the bright sun.

मूलम् (संयुक्तम्)

चि॒त्पति॑स्त्वा पुनातु वा॒क्पति॑स्त्वा पुनातु दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः

मूलम्

चि॒त्पति॑स्त्वा पुनातु ।
[अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑।]

पद-पाठः

चि॒त्पति॒रिति॑ चित्-पतिः॑ । त्वा॒ । पु॒ना॒तु॒ ।
दे॒वः । त्वा॒ । स॒वि॒ता । पु॒ना॒तु॒ । अच्छि॑द्रेण । प॒वित्रे॑ण । वसोः॑ । सूर्य॑स्य । र॒श्मिभि॒रिति॑ र॒श्मि-भिः॒ । ()

भट्टभास्कर-टीका

अच्छिद्रेणेति सर्वत्रानुषज्यते । चित् चैतन्यं ज्ञानम् । चेतयतेः ‘अन्येभ्योपि दृश्यन्ते’ इति क्विप् । तस्य पतिरुत्पादकः पालकः चित्पतिः मनइन्द्रियमुच्यते । ‘मनो वै चित्पतिः’ इति ब्राह्मणम् । स त्वां पुनातु मानसा दोषा यथा न स्युस्तथा करोतु ।

अच्छिद्रेण …{Loading}…

अच्छिद्रेण पवित्रेण जगतां पावनेन आदित्यात्मनानेन;
छिन्नं छिद्रम्, अतोन्यद् अच्छिद्रं अविच्छेदेन वर्तमानं । अव्यय-पूर्व-पद-प्रकृति-स्वरत्वं । ‘पुवस्संज्ञायाम्’ (पा.सू. 3.2.185) इति पुनातेरित्रप्रत्ययः । ‘असौ वा आदित्योच्छिद्रं पवित्रम्’ (तै.ब्रा. 3.2.5) इत्यादि ब्राह्मणम् ।

वसोर् जगतां वासहेतोः सूर्यस्य मण्डलात्मनो रश्मिभिः जगतां शुद्धि-हेतुभिः उत्पुनातु । वसेः करणे उप्रत्ययः, (उ.सू. 10) स च नित् ।

विश्वास-प्रस्तुतिः ...{Loading}...

+++(‘यद्धि मनसा ध्यायति तद्वाचा वदति’ इति ब्राह्मणम् ।)+++
वा॒क्-पति॑स्त्वा पुनातु ।
[अच्छि॑द्रेण प॒वित्रे॑ण॒ +++(सूर्येण)+++ ।
वसो॒स्+++(=वासहेतोः)+++ सूर्य॑स्य र॒श्मिभिः॑ ॥]

सर्वाष् टीकाः ...{Loading}...
Keith

let the lord of speech purify thee
With the flawless purifier,
With the rays of the bright sun.

मूलम्

वा॒क्पति॑स्त्वा पुनातु ।
[अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑।]

पद-पाठः

वा॒क्पति॒रिति॑ वाक्-पतिः॑ । त्वा॒ । पु॒ना॒तु॒ ।
(दे॒वः । त्वा॒ । स॒वि॒ता । पु॒ना॒तु॒ । अच्छि॑द्रेण । प॒वित्रे॑ण । वसोः॑ । सूर्य॑स्य । र॒श्मिभि॒रिति॑ र॒श्मि-भिः॒ । )

भट्टभास्कर-टीका

किञ्च - वाचः शब्दस्य पतिरुत्पादकः वाक्पतिर्वागिन्द्रियमुच्यते, मनसोनन्तरं यस्य प्रवृत्तिः । ‘यद्धि मनसा ध्यायति तद्वाचा वदति’ इति ब्राह्मणम् । स च त्वां पुनातु वाचिकेभ्यो दोषेभ्यो निवृत्तिं करोतु । ‘वाचैवैनं पवयति’ इति ब्राह्मणम् । अत्र ‘न भूवाक्चिद्दिधिषु’ इत्युत्तरपदलक्षणे पूर्वपदप्रकृतिस्वरे निषिद्धे ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् ।

अच्छिद्रेण …{Loading}…

अच्छिद्रेण पवित्रेण जगतां पावनेन आदित्यात्मनानेन;
छिन्नं छिद्रम्, अतोन्यद् अच्छिद्रं अविच्छेदेन वर्तमानं । अव्यय-पूर्व-पद-प्रकृति-स्वरत्वं । ‘पुवस्संज्ञायाम्’ (पा.सू. 3.2.185) इति पुनातेरित्रप्रत्ययः । ‘असौ वा आदित्योच्छिद्रं पवित्रम्’ (तै.ब्रा. 3.2.5) इत्यादि ब्राह्मणम् ।

वसोर् जगतां वासहेतोः सूर्यस्य मण्डलात्मनो रश्मिभिः जगतां शुद्धि-हेतुभिः उत्पुनातु । वसेः करणे उप्रत्ययः, (उ.सू. 10) स च नित् ।

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वस् त्वा॑ सवि॒ता पु॑ना॒त्व्
अच्छि॑द्रेण प॒वित्रे॑ण॒ +++(सूर्येण)+++ ।
वसो॒स्+++(=वासहेतोः)+++ सूर्य॑स्य र॒श्मिभिः॑ ।+++(र४)+++

सर्वाष् टीकाः ...{Loading}...
Keith

let the god Savitr purify thee
With the flawless purifier,
With the rays of the bright sun.

मूलम्

दे॒वस्त्वा॑ सवि॒ता पु॑नातु।
अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ।

पद-पाठः

दे॒वः । त्वा॒ । स॒वि॒ता । पु॒ना॒तु॒ । अच्छि॑द्रेण । प॒वित्रे॑ण । वसोः॑ । सूर्य॑स्य । र॒श्मिभि॒रिति॑ र॒श्मि-भिः॒ ।

भट्टभास्कर-टीका

किञ्च - देवस्सविता सर्वस्य प्रेरकः मनःप्रभृतेश्च प्रेरकः, स च त्वां पुनातु । अच्छिद्रेणेति व्याख्यातं ‘देवो वस्सवितोत्पुनातु’ इत्यत्र । ‘इन्द्रो वृत्रमहन् सोपोभ्यम्रियत’ इति ब्राह्मणम् ॥

अच्छिद्रेण …{Loading}…

अच्छिद्रेण पवित्रेण जगतां पावनेन आदित्यात्मनानेन;
छिन्नं छिद्रम्, अतोन्यद् अच्छिद्रं अविच्छेदेन वर्तमानं । अव्यय-पूर्व-पद-प्रकृति-स्वरत्वं । ‘पुवस्संज्ञायाम्’ (पा.सू. 3.2.185) इति पुनातेरित्रप्रत्ययः । ‘असौ वा आदित्योच्छिद्रं पवित्रम्’ (तै.ब्रा. 3.2.5) इत्यादि ब्राह्मणम् ।

वसोर् जगतां वासहेतोः सूर्यस्य मण्डलात्मनो रश्मिभिः जगतां शुद्धि-हेतुभिः उत्पुनातु । वसेः करणे उप्रत्ययः, (उ.सू. 10) स च नित् ।


भास्करोक्त-विनियोगः

15’यजमानं वाचयति, स च ब्रूते - तस्य त इति ॥

विश्वास-प्रस्तुतिः

तस्य॑ ते पवित्र-पते प॒वित्रे॑ण॒ +++(रश्मिलक्षणेन)+++ यस्मै॒ +++(प्रयोजनाय)+++ कम्+++(=आत्मानम्)+++ पु॒ने, +++(कर्म)+++ तच् छ॑केयम् ।+++(र४)+++

Keith

O lord of the purifier, with thy purifier for whatsoever I purify myself, that may I have strength to accomplish.

मूलम्

तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम्पु॒ने तच्छ॑केयम् ।

पद-पाठः

तस्य॑ । ते॒ । प॒वि॒त्र॒प॒त॒ इति॑ पवित्र-प॒ते॒ । प॒वित्रे॑ण । यस्मै॑ । कम् । पु॒ने । तत् । श॒के॒य॒म् ।

भट्टभास्कर-टीका

हे पवित्रपते, अच्छिद्रपवित्रात्मका आदित्यस्य रश्मय इत्युक्ताः, तेषां पते तस्य जगत्पालयितृत्वगुणविशिष्टस्य पवित्रेण रश्मिलक्षणेन यस्मै प्रयोजनाय कमात्मानमहं पुने शोधयामि । श्नाप्रत्ययस्योदात्तत्वे शेषस्य चानुदात्तत्वे ‘श्नाभ्यस्तयोरातः’ इत्याकारलोपे उदात्तनिवृत्तिस्वरेणोत्तमैकवचनस्योदात्तत्वम् । यद्वा - ‘सतिशिष्टस्वरो बलीयानन्यत्र विकरणेभ्यः’ इति श्नास्वरं बाधित्वा लसार्वधातुकस्वर एव प्रवर्तते । तदहं त्वत्प्रसादाच्छकेयं निर्वर्तयितुं शक्तो भवेयम् । शकेराशिषि लिङि ‘लिङ्याशिष्यङ्’ इत्यण् । ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात्सलोपः ॥


भास्करोक्त-विनियोगः

शालां यजमानम् आनयति।

विश्वास-प्रस्तुतिः ...{Loading}...

आ वो॑ देवास ईमहे॒
सत्य॑-धर्माणो अध्व॒रे ।
यद् वो॑ देवास आगु॒रे+++(←गुर् उद्यमने)+++
यज्ञि॑यासो॒ हवा॑महे+++(=आह्वयामहे)+++ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

We approach you, O gods,
Ye that have true ordinances at the sacrifice
What O gods ye can assent to,
For that we ask you, O holy ones.

मूलम् (संयुक्तम्)

आ वो॑ देवास ईमहे॒ सत्य॑धर्माणो अध्व॒रे यद्वो॑ देवास आगु॒रे यज्ञि॑यासो॒ हवा॑महे

पद-पाठः

एति॑ । वः॒ । दे॒वा॒सः॒ । ई॒म॒हे॒ । सत्य॑धर्माण॒ इति॒ सत्य॑-ध॒र्मा॒णः॒ । अ॒ध्व॒रे । यत् । वः॒ । दे॒वा॒सः॒ । आ॒गु॒र इत्या॑-गु॒रे । यज्ञि॑यासः । हवा॑महे ।

मूलम्

आ वो॑ देवास ईमहे॒ सत्य॑धर्माणो अध्व॒रे ।
यद्वो॑ देवास आगु॒रे यज्ञि॑यासो॒ हवा॑महे ॥

भट्टभास्कर-टीका

16शालां यजमानमानयति - आव इति चतुष्पदयानुष्टुभा ।
हे देवासः । ‘आज्जसेरसुक्’ । वः युष्मान् आभिमुख्येन ईमहे याचामहे । ईङ् गतौ भौवादिकः छन्दसि याच्ञाकर्मा, ‘बहुलम् छन्दसि’ इति शपो लुक् । यद्वा - भजामहे । सत्यधर्माणः सदा सत्यशीलाः । ‘धर्मादनिच्केवलात्’ इति समासान्तः । किमर्थमित्यत आह - अध्वरे यज्ञे निमित्तभूते । ‘निमित्तात्कर्मसंयोगे सप्तमी’ । ‘अध्वरसिद्ध्यर्थमीमहे । बहुव्रीहौ ‘नञ् सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ।
एवं देवान् याचित्वा इदानीं तस्याध्वरस्य प्रस्थानं देवेभ्यो निवेदयति - हे देवासः यज्ञियासः यज्ञार्हाः । ‘यज्ञर्त्विग्भ्यां घखञौ’ इति घप्रत्ययः, उभयत्रापि पूर्ववदसुक् । आगुरे उद्योगे यज्ञमारब्धुम् । गुरी उद्यमने, ‘घञर्थे कविधानम्’ इति कः, थाथादिस्वरेणान्तोदात्तत्वम् । यद्वा - क्विपि छान्दसं विभक्त्युदात्तत्वम्, चतुर्थी[परा?]द्युदात्तत्वम् । यद्यस्मात् वो युष्मान् हवामहे आह्वयामः । ‘बहुळं छन्दसि’ इति सम्प्रसारणम् । पूर्वस्यामन्त्रितस्याविद्यमानत्वान्निघाताभावः । ‘अदुपदेशात्’ इति लसार्वधातुकानुदात्तत्वम् । यस्मादेवं तस्मादस्माभिः प्रस्तूयतेध्वरः । अतस्तत्सिध्यर्थं याचामह इति ॥


भास्करोक्त-विनियोगः

शालां यजमानं प्रवेशयति।

विश्वास-प्रस्तुतिः

इन्द्रा॑ग्नी॒ द्यावा॑पृथिवी॒ आप॑ ओषधीः +++(अनुमन्यध्वम्!)+++।+++(र४)+++

Keith

Indra and Agni, heaven and earth, waters, plants.

मूलम्

इन्द्रा॑ग्नी॒ द्यावा॑पृथिवी॒ आप॑ ओषधीः ।

पद-पाठः

इन्द्रा॑ग्नी॒ इतीन्द्र॑-अ॒ग्नी॒ । द्यावा॑पृथिवी॒ इति॒ द्यावा॑-पृ॒थि॒वी॒ । आपः॑ । ओ॒ष॒धीः॒ ।

भट्टभास्कर-टीका

17 शालां यजमानं प्रवेशयति - इन्द्राग्नी इति ॥ हे इन्द्राग्नी । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । हे द्यावापृथिवी द्यावापृथिव्यौ । ‘दिवो द्यावा’ इति द्यावादेशः, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम्, पूर्वस्याविद्यमानत्वादिदमप्याद्युदात्तमेव । हे आपः । पूर्ववत्स्वरः, द्वयोरप्यविद्यमानत्वात् । हे ओषधीरोषध्यः । ‘कृदिकारादक्तिनः’ इति ङीष्, पूर्वसवर्णदीर्घत्वं पूर्ववत् । ओषधिशब्देनोषधिकारणभूता आप उच्यन्ते । तेन सामानाधिकरण्यात् ‘विभाषितं विशेषवचने बहुलवचनम्’ इति पूर्वस्य विद्यमानत्वात् ओषधीरित्यामन्त्रितं निहन्यते । अयं यजमानश्शालां प्रविशति एनमनुजानीतेति भावः । ‘बहिः पवयित्वान्तः प्रपादयति’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

आहवनीयम् अन्वीक्षयति।

विश्वास-प्रस्तुतिः

त्वन् दी॒क्षाणा॒म् अधि॑पतिर् असि ।+++(र४)+++

Keith

Thou art the lord of consecrations

मूलम् (संयुक्तम्)

त्वन्दी॒क्षाणा॒मधि॑पतिरसी॒ह मा॒ सन्त॑म्पाहि ॥ [2]

मूलम्

त्वन्दी॒क्षाणा॒मधि॑पतिरसि ।

पद-पाठः

त्वम् । दी॒क्षाणा॑म् । अधि॑पति॒रित्यधि॑-प॒तिः॒ । अ॒सि॒ ।

भट्टभास्कर-टीका

18आहवनीयमन्वीक्षयति - त्वमिति ॥ हे आहवनीय त्वं दीक्षाणामधिपतिः स्वाम्यसि । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अतो मामपि दीक्षितं कुर्विति भावः ॥


भास्करोक्त-विनियोगः

यजमान आत्मानमीक्षते।

विश्वास-प्रस्तुतिः

इ॒ह मा॒ सन्त॑म् पाहि ॥

पद-पाठः

इ॒ह । मा॒ । सन्त॑म् । पा॒हि॒ ॥ [2]

Keith

Guard me that am here.

मूलम्

इ॒ह मा॒ सन्त॑म्पाहि ॥

भट्टभास्कर-टीका

19यजमान आत्मानमीक्षते - इहेति ॥ इह एतस्यां दीक्षायां सन्तं वर्तमानं मा मां पाहि ॥

इति प्रथमस्य काण्डस्य द्वितीयप्रपाठके प्रथमोनुवाकः ॥