०६ लोष्ट-चितिः

०६ लोष्ट-चितिः ...{Loading}...

भट्टभास्कर-टीका

1अथ लोष्टचिन्मन्त्राः ।
तदर्थं विमते [विमिते] श्मशानायतने मध्ये
पालाशीं त्रिविष्टकां मेधीं निघ्नन्ति,
तस्या मूले अस्थीनि,
शतातृण्यां च कुम्भं निदधाति,
तस्य बिलं चर्मणा कुशैः परिणद्धं भवति,
तस्मिन् दधि वाजिन-मिश्रम् आनयति - वैश्वानर इति ॥
त्रिष्टुभस्सर्वाः ।

विश्वास-प्रस्तुतिः

वै॒श्वा॒न॒रे ह॒विरि॒दञ्जु॑होमि साह॒स्रमुत्सँ॑ श॒तधा॑रमे॒तम् ।
तस्मि॑न्ने॒ष पि॒तरं॑ पिताम॒हं प्रपि॑तामहं बिभर॒त्पिन्व॑माने ।

मूलम्

वै॒श्वा॒न॒रे ह॒विरि॒दञ्जु॑होमि साह॒स्रमुत्सँ॑ श॒तधा॑रमे॒तम् ।
तस्मि॑न्ने॒ष पि॒तरं॑ पिताम॒हं प्रपि॑तामहं बिभर॒त्पिन्व॑माने ।

भट्टभास्कर-टीका

वैश्वानरे पृथिव्यां ‘इयं वा अग्निवैश्वानरः’ इति पार्थिवे कुम्भे इदं हविर् वाजिनमिश्रं दधि जुहोमि साहस्रं सहस्रसङ्ख्यापरिमितम् उत्सं सिकतिले प्रदेशे कराभ्यामेव खात्वा यत्र पानीयं पीयते स उत्सस् तं शतधारं तत्र यथा बह्व्यो धाराः प्रभवन्ति तद्वद् बहुदुघम् एतम् एतद् उत्सम् । सामानाधिकरण्यात् पुंस्त्वम् । प्रसिद्धिमाह - यथाऽयं प्रसिद्ध उत्सो बहुमधुधुक् एवम् इदं हविरिति तस्मिन् वैश्वानरे हुत एष उत्सः नो ऽस्माकं पित्रादीन् बिभरद् बिभर्तु । पिन्वमाने । सप्तमी प्रथमार्थे । पिन्वमानः क्षरन् । पिन्वमाने तस्मिन् वैश्वानर इति वा ।।

भास्करोक्त-विनियोगः

2विक्षरन्तमभिमन्त्रयते - द्रप्स इति द्वाभ्याम् ॥

विश्वास-प्रस्तुतिः

द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
तृ॒तीय॒य्योंनि॒मनु॑ स॒ञ्चर॑न्तन्द्र॒प्सञ्जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ।

मूलम्

द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
तृ॒तीय॒य्योंनि॒मनु॑ स॒ञ्चर॑न्तन्द्र॒प्सञ्जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ।

भट्टभास्कर-टीका

द्रप्सः विप्रुषश् चस्कन्द स्कन्दति । पृथिवीमनु पृथिवीं प्रति द्याम् अन्तरिक्षं च प्रति इमं च योनिं स्थानं कुम्भम् अनु प्रति यश्च पूर्वो योनिर् दधिवाजिनयोरुत्पत्तिकाले तं च प्रति । अथ यदि तृतीयो योनिर् आस्ति तमप्य् अनुसञ्चरन्तं तमेवम्भूतं द्रप्सं जुहोमि । अनुस्सादृश्ये । यथा सप्तहोत्रा होत्रादय आग्नीध्रान्तास्सोमे विप्रुड्ढोमं कुर्वन्ति तद्वत् ॥

विश्वास-प्रस्तुतिः

इ॒मँ स॑मु॒द्रँ श॒तधा॑र॒मुत्स॑व्व्ँय॒च्यमा॑नं॒ भुव॑नस्य॒ मध्ये॑ ।
घृ॒तन्दुहा॑ना॒मदि॑ति॒ञ्जना॒याग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् ।

मूलम्

इ॒मँ स॑मु॒द्रँ श॒तधा॑र॒मुत्स॑व्व्ँय॒च्यमा॑नं॒ भुव॑नस्य॒ मध्ये॑ ।
घृ॒तन्दुहा॑ना॒मदि॑ति॒ञ्जना॒याग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् ।

भट्टभास्कर-टीका

3इममिति ॥ समुद्रसामानाधिकरण्यात् पुंस्त्वम् । इमं हविः समुद्रवद् अक्षीयमाणं शतधारम् उत्सं तदात्मकं तद्वदुपजीव्यं भुवनवद्विस्तीर्णस्यास्य स्थानस्य मध्ये व्यच्यमानम् । अचतिर्गतिकर्मा, ‘व्युक्षत् क्रूरमुदचन्त्वापः’ इत्यादौ दर्शनात् । विगम्यमानं विषिच्यमानम् । उत्तरपादो लुप्तोपमः । यथा जनाय भुवनोदरवर्तिने घृतम् उदकं वृष्टिलक्षणं दुहाना क्षरन्त्य् अदितिर् देवमाता द्यौर्वा उपकरोति तादृशम् इदं हविर् हे अग्ने ! परमे व्योमान् उत्कृष्ट स्थाने गतम् । मा मा हिंसीर् अविच्छिन्नं कुरु ॥

मार्जनम्

भास्करोक्त-विनियोगः

4हरिण्या पलाशशाखया शमीशाखया वा श्मशानायतनं सम्मार्ष्टि - अपेतेति ॥

विश्वास-प्रस्तुतिः

अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अहो॑भिर॒द्भिर॒क्तुभि॒ र्व्य॑क्तय्ँय॒मो द॑दात्वव॒सान॑मस्मै ।

मूलम्

अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अहो॑भिर॒द्भिर॒क्तुभि॒ र्व्य॑क्तय्ँय॒मो द॑दात्वव॒सान॑मस्मै ।

भट्टभास्कर-टीका

अत्र प्रदेशे ये पुराणास्स्थ पिशाचाश्चिरकालवासिनः ये च नूतना अभिनवाः स्थ उभयेऽपि यूयम् इतः प्रदेशाद् अपेत अपगच्छत । वीत विशेषेण दूरतरं गच्छत विसर्पत विविधं नाना गच्छत । कस्मादपगच्छाम इत्युच्यते - अहोभिर् दिवसैर् अद्भिश्च अक्तुभिः शुद्धिहेतुभिः रात्रिभिर् व्यक्तं शोधितम् । अवसानं यमो ऽस्मै प्रेताय अस्य दहनार्थं ददातु ददाति । तथैव वह्वृचाः । यम एव अवसानम् अस्मै ददात्य् अतः यूयम् अपगच्छत ॥

कर्षणादि

भास्करोक्त-विनियोगः

5अथ तस्य आयतनस्य कर्षणार्थं सीरं युनक्ति - सवितैतानीति ॥

विश्वास-प्रस्तुतिः

स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे ।
तेभि॑र्युज्यन्तामघ्नि॒याः ।
(14)

मूलम्

स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे ।
तेभि॑र्युज्यन्तामघ्नि॒याः ।
(14)

भट्टभास्कर-टीका

सविता आदित्य एतानि इमानि शरीराणि पृथिव्या मातुः सर्वस्य मातृस्थानीयाया उपस्थे अङ्के आदधे आधत्तां स्थापयतु । तेभिस् तैः शरीरैर् हेतुभिस् तत्संस्कारार्थं युज्यन्ताम् । सीरे अघ्निया गावः बलीवर्दाः ॥

भास्करोक्त-विनियोगः

6-7उत्तराभ्यां त्रिष्टुब्गायत्रीभ्यां कर्षति - शुनमिति ॥

विश्वास-प्रस्तुतिः

शु॒नव्ँ वा॒हाश्शु॒नन्ना॒राश्शु॒नङ्कृ॑षतु॒ लाङ्ग॑लम् ।
शु॒नव्ँव॑र॒त्रा ब॑द्ध्यन्ताँ शु॒नमष्ट्रा॒मुदि॑ङ्गय॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् ।

मूलम्

शु॒नव्ँ वा॒हाश्शु॒नन्ना॒राश्शु॒नङ्कृ॑षतु॒ लाङ्ग॑लम् ।
शु॒नव्ँव॑र॒त्रा ब॑द्ध्यन्ताँ शु॒नमष्ट्रा॒मुदि॑ङ्गय॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् ।

भट्टभास्कर-टीका

वाहा बलीवर्दाः शुनं यथा तथा कर्षन्त्विति, वक्ष्यमाणं विपरिणम्यते । नारा नराश्च शुनं कर्षन्तु । लाङ्गलं च शुनं कर्षतु । करणस्य कर्तृत्वविवक्षा । वरत्रा वध्राः शुनं बध्यन्ताम् । अष्ट्रा दंष्ट्रा इह तु तदाकारं फालं ताम् उदिङ्गय उत्क्षिप । कर्षकं प्रत्य् एतत् शुनः वायुः सीर आदित्यः हे शुनासीरौ! युवां शुनं सुखम् अस्मासु युक्तं स्थापयतम् । अस्माकं धत्तम् ।

विश्वास-प्रस्तुतिः

शुना॑सीरा वि॒माव्ँ वाचय्ँ॒यद्दि॒वि च॑क्र॒थुः पयः॑ ।
तेने॒मामुप॑ सिञ्चतम् ।

मूलम्

शुना॑सीरा वि॒माव्ँ वाचय्ँ॒यद्दि॒वि च॑क्र॒थुः पयः॑ ।
तेने॒मामुप॑ सिञ्चतम् ।

भट्टभास्कर-टीका

हे शुनासीरौ! इमां वाचं
स्तनयित्नुघोषलक्षणां यद् यदा दिव्य् अन्तरिक्षे चक्रथुः पयस् तेन तत्कालभवेन पयसा उदकेन इमां भूमिम् उपसिञ्चतम् ॥

भास्करोक्त-विनियोगः

8सीतां प्रत्यवेक्षते - सीते इति ॥

विश्वास-प्रस्तुतिः

सीते॒ वन्दा॑महे त्वा॒ऽर्वाची॑ सुभगे भव ।
यथा॑ नस्सु॒भगा स॑सि॒ यथा॑ नस्सु॒फला स॑सि ।

मूलम्

सीते॒ वन्दा॑महे त्वा॒ऽर्वाची॑ सुभगे भव ।
यथा॑ नस्सु॒भगा स॑सि॒ यथा॑ नस्सु॒फला स॑सि ।

भट्टभास्कर-टीका

सीता लाङ्गलपद्धतिर् हे सीते! त्वां वयं वन्दामहे नमस्यामः स्तुमो वा । हे सुभगे! सौभाग्यस्य हेतुभूते ! त्वम् अर्वाच्य् अस्मदभिमुखी भव । यथा नो ऽस्मभ्यं सुभगा ससि । अस्तेः पञ्चमो लकारः । सुभगा स्याः । तथा अर्वाची भव इति ॥

भास्करोक्त-विनियोगः

9मध्ये कृष्टस्य अस्थिकुम्भं निदधाति - सवितेति गता ॥

विश्वास-प्रस्तुतिः

स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे ।
तेभि॑रदिते॒ शं भव ।

मूलम्

स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे ।
तेभि॑रदिते॒ शं भव ।

भट्टभास्कर-टीका

तेभिस् तैर् अस्थिभिर् अदिते! अखण्डिते! वा द्यावापृथिवी शम्भव । सकारस्य शकारः । सम्भव सङ्गच्छस्व ॥

भास्करोक्त-विनियोगः

10 दक्षिणेंसे बलीवर्दान् विमुञ्चति - विमुच्यध्वम् इति ॥

विश्वास-प्रस्तुतिः

विमु॑च्यध्वमघ्नि॒या दे॑व॒याना॒ अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य ।
ज्योति॑रापाम॒ सुव॑रगन्म ।
(15)

मूलम्

विमु॑च्यध्वमघ्नि॒या दे॑व॒याना॒ अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य ।
ज्योति॑रापाम॒ सुव॑रगन्म ।
(15)

भट्टभास्कर-टीका

हे अघ्नियाः! बलीवर्दाः! यूयं विमुक्ता भवथ । देवा यैर् यान्ति ते देवयाना अन्या वयम् अस्य तमसः पारम् अतारिष्म प्राप्तास्म तज् ज्योतिरापाम प्राप्नुयाम सुवरगन्म स्वर्गं गच्छेम ॥

भास्करोक्त-विनियोगः

11उदपात्रेण उदुम्बरशाखयाऽवोक्षति - प्रवाता इति ।

विश्वास-प्रस्तुतिः

प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धीर्जिहते॒ पिन्व॑ते॒ सुवः॑ ।
इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीँ रेत॒साऽव॑ति ।

मूलम्

प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धीर्जिहते॒ पिन्व॑ते॒ सुवः॑ ।
इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीँ रेत॒साऽव॑ति ।

भट्टभास्कर-टीका

अवोक्षणबिन्दवः पर्जन्यरूपेण स्तूयन्ते - यद् यदा पर्जन्यः पृथिवीं रेतसा उदकेन अवति सन्तर्पयति तदा वाताः प्रवान्ति । विद्युतः पतयन्ति पतन्त इव द्योतन्ते । ओषधीर् ओषधय उज्जिहते उद्गच्छन्ति । सुवो ऽन्तरिक्षं पिन्वते क्षरन्ति । विश्वस्मै भुवनाय भूतजाताय अन्नं जायते ॥

भास्करोक्त-विनियोगः

12पात्र्यां सर्वौषधीस्सन्न्युप्य वपति - यथेति ॥

विश्वास-प्रस्तुतिः

यथा॑ य॒माय॑ हा॒र्म्यमव॑प॒न्पञ्च॑ मान॒वाः ।
ए॒वव्ँव॑पामि हा॒र्म्यय्ँयथासा॑म जीवलो॒के भूर॑यः ।

मूलम्

यथा॑ य॒माय॑ हा॒र्म्यमव॑प॒न्पञ्च॑ मान॒वाः ।
ए॒वव्ँव॑पामि हा॒र्म्यय्ँयथासा॑म जीवलो॒के भूर॑यः ।

भट्टभास्कर-टीका

यथा यमाय निषादपञ्चमाश्चत्वारो वर्णाः । हार्म्यं हर्म्ये भवं ब्रीह्याद्योषधिसङ्घातं पूर्वम् अवपन् उप्तवन्तः । एवम् अहमपि हार्म्यं वपामि । यथा असाम भवामः । पुत्राद्यपेक्षं बहुवचनम् । यथा वयम् अस्मिन् लोके भूरयः प्रभूता भवामस् तथा वपामीति ॥

भास्करोक्त-विनियोगः

13अपरिमिताभिः शर्कराभिः परिश्रयति - चित इति ॥

विश्वास-प्रस्तुतिः

चित॑स्स्थ परि॒चित॑ ऊर्ध्व॒चितश्श्रयध्वं पि॒तरो॑ दे॒वता॑ ।
प्र॒जाप॑तिर्वस्सादयतु॒ तया॑ दे॒वत॑या ।

मूलम्

चित॑स्स्थ परि॒चित॑ ऊर्ध्व॒चितश्श्रयध्वं पि॒तरो॑ दे॒वता॑ ।
प्र॒जाप॑तिर्वस्सादयतु॒ तया॑ दे॒वत॑या ।

भट्टभास्कर-टीका

हे शर्कराः! यूयं चितस्स्थ चयनाकारभूतास्स्थ । परिचितस्स्थ परिः सर्वतोभावे । अन्यत् समानम् । ऊर्ध्वं याभिश् चीयते ता ऊर्ध्वचितस्स्थ एवम्भूता यूयं श्रयध्वम् । इमं देशं युष्माकं च पितरो देवता । प्रजापतिस् त्वा सादयतु तया देवतया प्रजापत्याख्यया देवतया सहसाकाङ्क्षत्वात् ‘अङ्गिरस्वद्ध्रुवा सीद’ इति सर्वत्र अनुषजतीति पूर्वमुक्तत्वाच्चापेक्षते । बहुवचनेन चोहः - ध्रुवास्सीदतेति । अङ्गिरस्वद् यथा पूर्वम् अङ्गिरस ऋषेर् अस्मिन् कर्मणि ध्रुवा यूयं सीदत तथेहापि सीदतेति ॥

भास्करोक्त-विनियोगः

14सिकताभिर्व्यूहति - आ प्यायस्वेति गायत्र्या ब्राह्मणस्य ॥

मूलम् - प्रतीकम्

आप्या॑यस्व॒

भट्टभास्कर-टीका

श्वैत्ययोगात् सिकतासमूहस्सोमेत्यामन्त्र्यते - हे सोम! आप्यायस्व वर्धस्व ते तुभ्यं विश्वतः सर्वतः वृष्णियं बलं समेत्व् आगच्छतु वाजस्य सङ्गथे सङ्गमे भव वाजेन च सङ्गतो भव ।।

भास्करोक्त-विनियोगः

15त्रिष्टुभा राजन्यस्य - सं त इति ॥

मूलम् - प्रतीकम्

सन्ते॑ ॥ (16)

भट्टभास्कर-टीका

हे सोम! ते पयांसि संयन्तु समागच्छन्तु वाजाश्च । उकारः पादपूरणः । यूयं तु वृष्णियानि बलानि च शरीराणि वा सेनालक्षणानि संयन्तु । अभिमातयः शत्रवस् तान् सहते अभिभवतीत्य् अभिमातिषाद तस्य ते एवमाप्यायमानो वर्धमानस्त्वम् अमृताय अमरणाय दिवि स्वर्गे लोके अवांस्य् अन्नान्य् उत्तमान्य् उत्कृष्टानि धिष्व प्रेतमिममभिनवं कुरु ॥
इत्यारण्के चतुर्थे षष्ठोऽनुवाकः ॥