०४ अस्थि-सञ्चयादि

०४ अस्थि-सञ्चयादि ...{Loading}...

अवोक्षणम्

भास्करोक्त-विनियोगः

1अस्थिसञ्चयने क्षीरमिश्रोदकेन
उदुम्बर-शाखया
अस्थीन्य् अवोक्षति - यं त इति पञ्चभिः ॥

विश्वास-प्रस्तुतिः

यन्ते॑ अ॒ग्निमम॑न्थाम वृष॒भाये॑व॒ पक्त॑वे ।
इ॒मन्तँ श॑मयामसि क्षी॒रेण॑ चोद॒केन॑ च ।

मूलम्

यन्ते॑ अ॒ग्निमम॑न्थाम वृष॒भाये॑व॒ पक्त॑वे ।
इ॒मन्तँ श॑मयामसि क्षी॒रेण॑ चोद॒केन॑ च ।

भट्टभास्कर-टीका

हे प्रेत! यम् अग्निं ते त्वदर्थम् अमन्थाम आधानकाले मथितवन्तः वयं वृषभायेव । द्वितीयार्थे चतुर्थी । वृषभमिव पक्तवे । तुमर्थे तवेप्रत्ययः । यथा आतिथ्यादौ वृषभं पक्तुमग्निं मन्थति तद्वत् त्वदर्थमग्निम् अमन्थाम तमिमम् अग्निं शमयामसि शमयामः केन ? क्षीरेण चोदकेन च मिश्रितेन ॥

विश्वास-प्रस्तुतिः

यन्त्वम॑ग्ने स॒मद॑ह॒स्त्वमु॒ निर्वा॑पया॒ पुनः॑ ।
क्या॒म्बूरत्र॑ जायतां पाकदू॒र्वा व्य॑ल्कशा ।

मूलम्

यन्त्वम॑ग्ने स॒मद॑ह॒स्त्वमु॒ निर्वा॑पया॒ पुनः॑ ।
क्या॒म्बूरत्र॑ जायतां पाकदू॒र्वा व्य॑ल्कशा ।

भट्टभास्कर-टीका

2यं त्वमिति ॥ हे अग्ने! त्वं यं समदहः सम्यग्दग्धवानसि त्वमु तमु । छन्दसो वकारोपजनः । तथैव बह्वृचाः पठन्ति । तमेव पुनर्निर्वापय शान्तं कुरु । किञ्च - अत्र श्मशाने क्याम्बू: शैवालविशेषः कियद् अम्बु उत्पत्तिस्थानमस्येति सः । अत्र प्रदेशे जायताम् एवन्नामायं देशः सिक्तोऽस्तु यथा शैवालमपि जायते तथा पाकदूर्वा बालाऽपि दूर्वा, व्यल्कशा विविधाङ्कुरा जायताम् ॥

विश्वास-प्रस्तुतिः

शीति॑के॒ शीति॑कावति॒ ह्लादु॑के॒ ह्लादु॑कावति ।
म॒ण्डू॒क्या॑ सुसङ्ग॒मये॒मँ स्व॑ग्निँ श॒मय॑ ।

मूलम्

शीति॑के॒ शीति॑कावति॒ ह्लादु॑के॒ ह्लादु॑कावति ।
म॒ण्डू॒क्या॑ सुसङ्ग॒मये॒मँ स्व॑ग्निँ श॒मय॑ ।

भट्टभास्कर-टीका

3शीतिके इति ॥ कुम्भोदकं वृष्टिरूपेण रूप्यते शीतिका वृष्टिः । शीताधिदेवतेत्यन्ये । हे शीतिके! शीतिकावति! शीतिका कम्पकरव्याधिरतिशैत्येन समुत्पद्यते । तद्वति! अत्यन्तशैत्यवति! । ह्लादुके! सर्वस्य ह्लादयित्रि! ह्लादुकावति ! अत्यन्तह्लादनवति ! त्वमिमं प्रदेशं मण्डूक्या मण्डूकस्त्रिया सुसङ्गमय । इमं चाग्निं सुष्ठु शमय । इममग्निं शमयित्वा प्रदेशमिमं तथा शीतं कृत्वा यथा न कदाचिदपि स्थानमिदं मण्डूकी जहाति ॥

विश्वास-प्रस्तुतिः

शन्ते॑ धन्व॒न्या आप॒श्शमु॑ ते सन्त्वनू॒क्याः॑ ।
शन्ते॑ समु॒द्रिया॒ आप॒श्शमु॑ ते सन्तु॒ वर्ष्याः॑ ।

मूलम्

शन्ते॑ धन्व॒न्या आप॒श्शमु॑ ते सन्त्वनू॒क्याः॑ ।
शन्ते॑ समु॒द्रिया॒ आप॒श्शमु॑ ते सन्तु॒ वर्ष्याः॑ ।

भट्टभास्कर-टीका

4शं त इति ॥ हे प्रेत ! धन्वन्या मरुभूमिधन्वा तत्र भवा आपः धन्वन्यास् तव शं भवन्तु । अनूक्या अनुदको देश अनूकः । दकारलोपश् छान्दसः । तत्र भवा अनूक्यास् ता अप्यापः शं ते सन्तु भवन्तु । उकारः पादपूरणः । समुद्रे अन्तरिक्षे भवाः समुद्रिया वर्ष्याः ॥

विश्वास-प्रस्तुतिः

शन्ते॒ स्रव॑न्तीस्त॒नुवे॒ शमु॑ ते सन्तु॒ कूप्याः॑ ।
शन्ते॑ नीहा॒रो व॑र्षतु॒ शमु॒ पृष्वाऽव॑शीयताम् ।
(9)

मूलम्

शन्ते॒ स्रव॑न्तीस्त॒नुवे॒ शमु॑ ते सन्तु॒ कूप्याः॑ ।
शन्ते॑ नीहा॒रो व॑र्षतु॒ शमु॒ पृष्वाऽव॑शीयताम् ।
(9)

भट्टभास्कर-टीका

5शं ते स्रवन्तीर् नद्यादिषु स्रवन्त्य आपस् ते तनुवे तन्वै शरीराय शं भवन्तु । कूपे भवाः कूप्याः । नीहारो हिमानी स च ते शं वर्षतु सुखवृष्टिं करोतु । पृष्वा अवश्यायोदकं साऽपि शं भूत्वा अवशीयताम् अवपततु ॥

स्रुवाहुतयः

भास्करोक्त-विनियोगः

6अतएव श्मशानाग्नेर् दक्षिणतोऽङ्गारान्निर्वृत्य तिस्रस्स्रुवाहुतीर्जुहोति - अवसृजेति तिसृभिः ॥

विश्वास-प्रस्तुतिः

अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ ।
आयु॒र्वसा॑न॒ उप॑ यातु॒ शेषँ॒ सङ्ग॑च्छतान्त॒नुवा॑ जातवेदः ।

मूलम्

अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ ।
आयु॒र्वसा॑न॒ उप॑ यातु॒ शेषँ॒ सङ्ग॑च्छतान्त॒नुवा॑ जातवेदः ।

भट्टभास्कर-टीका

हे अग्ने ! त्वमिमं प्रेतं पितृभ्यः पुनरवसृज । वीप्सालोपोऽत्र द्रष्टव्यः - पुनःपुनरवसृज देहि युष्माभिरयं समानो जात इति पुनरुक्त्वा समर्पयेत्यर्थः । यः प्रेतस् ते तुभ्यम् आहुतः संस्कारार्थं त्वयि क्षिप्तस्सन् चरति । लुप्तसनर्थमेतत् । पितॄन् प्रति जिगमिषति । केन हेतुना - स्वधाभिर् अन्नैः पितृभ्यः पुत्रादिभिर् दातव्यैर् हेतुभूतैः । आयुर् जीवितं वसान आच्छादयन् जीवेनाधिष्ठितस्सन् शेषं भुक्तावशिष्टं कर्मफलम् उपयातु उपभुङ्क्ताम् । तदर्थं च तनुवा तन्वा सूक्ष्मशरीरेण सङ्गच्छतां हे जातवेदः! सङ्गच्छस्व ॥

विश्वास-प्रस्तुतिः

सङ्ग॑च्छस्व पि॒तृभि॒स्सँ स्व॒धाभि॒स्समि॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् ।
यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ।

मूलम्

सङ्ग॑च्छस्व पि॒तृभि॒स्सँ स्व॒धाभि॒स्समि॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् ।
यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ।

भट्टभास्कर-टीका

7हे प्रेत! पितृभिस्सङ्गच्छस्व पितृगणैरन्तर्भव । ततः स्वधाभिर् अपि सङ्गच्छस्व इष्टापूर्तफलेन च सङ्गच्छस्व! क्व परमे व्योमन् विशिष्टस्थाने स्वर्गाख्ये । पश्चाच्च भूम्यै भूम्यास्सम्बन्धिनि यत्र प्रदेशे वृणसे जन्म प्रार्थयसे तत्र प्रदेशे गच्छ तत्र त्वा देवः सविता दधातु उत्पादयतु ॥

विश्वास-प्रस्तुतिः

यत्ते॑ कृ॒ष्णश्श॑कु॒न आ॑तु॒तोद॑ पिपी॒लस्स॒र्प उ॒त वा॒ श्वाप॑दः ।
अ॒ग्निष्टद्विश्वा॑दनृ॒णङ्कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णमा॑वि॒वेश॑ ।

मूलम्

यत्ते॑ कृ॒ष्णश्श॑कु॒न आ॑तु॒तोद॑ पिपी॒लस्स॒र्प उ॒त वा॒ श्वाप॑दः ।
अ॒ग्निष्टद्विश्वा॑दनृ॒णङ्कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णमा॑वि॒वेश॑ ।

भट्टभास्कर-टीका

8यत्त इति ॥ कृष्णः शकुनः यत् तव अङ्गम् आतुतोद आपीडयत् पिपीलः पिपीलिका सर्प उत वा श्वापदः सृगालादिस् तत् सर्वम् अयम् अग्निर् विश्वाद् विश्वमत्तीति विश्वात् कृत्स्नभक्षयिता अनृणम् अवश्यप्रतिकर्तव्यत्वादृणशब्देन गदो रोगो लक्ष्यते । अगदम् । तथैव बह्वृचाः पठन्ति - ‘अनिष्टद्विश्वादगदं’ इति । कृणोतु करोतु । सोमश्च अनृणं करोतु यस्सोमो ब्राह्मणम् । जातावेकवचनम् । ब्राह्मणान् । तथैव ब्रह्वृचाः । आविवेश आविशत्य् आविश्य तिष्ठति ‘अग्नीषोमीयो हि ब्राह्मणः’ इति ॥

सञ्चयनम्

भास्करोक्त-विनियोगः

9अयुजः स्त्रियस्सञ्चिन्वन्ति, तत्र प्रथमाया मन्त्रः - उत्तिष्ठति ॥

विश्वास-प्रस्तुतिः

उत्ति॒ष्ठात॑स् त॒नुवँ॒ संभ॑रस्व॒
मेह गात्र॒म् अव॑हा॒ मा शरी॑रम् ।
यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒
तत्र॑ त्वा दे॒वस् स॑वि॒ता द॑धातु

मूलम्

उत्ति॒ष्ठात॑स्त॒नुवँ॒ संभ॑रस्व॒ मेह गात्र॒मव॑हा॒ मा शरी॑रम् ।
यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ।

भट्टभास्कर-टीका

हे प्रेत! अतः श्मशानाद् उत्तिष्ठ। उत्थाय च तनुवं तन्वम् इतस्ततो विप्रकीर्णम् अस्थिशरीरं सम्भरस्व कुम्भे सम्भृतं कुर्व् इह श्मशाने गात्रं स्वल्पमपि माऽवहा मा अवहासीर् मा त्याक्षीर् मा शरीरं मा च स्थूलम् अङ्गम् । सम्भृत्य च यत्र भूम्यै इत्यादि गतम् ॥

विश्वास-प्रस्तुतिः

इ॒दन्त॒ एकं॑ प॒र ऊ॑त॒ एक॑न्
तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व ।
सव्ँ॒ वेश॑नस् त॒नुवै॒ चारु॑रेधि
प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ ।

मूलम्

इ॒दन्त॒ एकं॑ प॒र ऊ॑त॒ एक॑न्तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व ।
सव्ँ॒ वेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ ।

भट्टभास्कर-टीका

??

भास्करोक्त-विनियोगः

11अथ अध्वर्युः कुम्भे सम्भृतान्यस्थीन्यादाय उत्तिष्ठति - उत्तिष्ठेति ॥

विश्वास-प्रस्तुतिः

उत्ति॑ष्ठ॒ प्रेहि॒ प्रद्र॒वौकः॑ कृणुष्व पर॒मे व्यो॑मन् ।
य॒मेन॒ त्वय्ँय॒म्या॑ सव्ँ विदा॒नोत्त॒मन्नाक॒मधि॑ रोहे॒मम् ।

मूलम्

उत्ति॑ष्ठ॒ प्रेहि॒ प्रद्र॒वौकः॑ कृणुष्व पर॒मे व्यो॑मन् ।
य॒मेन॒ त्वय्ँय॒म्या॑ सव्ँ विदा॒नोत्त॒मन्नाक॒मधि॑ रोहे॒मम् ।

भट्टभास्कर-टीका

अस्थिरूपं प्रत्युच्यते - हे प्रेत! इत उत्तिष्ठ उत्थाय च प्रेहि गच्छ गच्छंश्च प्रद्रव शीघ्रं गच्छ प्रद्रुत्य च परमे व्योमन् उत्कृष्ट स्थाने ओकः वासस्थानं कृणुष्व कुरु । ओकः करणप्रकारः - यमी यमस्य स्वसा यमेन यम्या च संविदान एकमतिभ्यामनुज्ञातस् त्वम् उत्तमं नाकं प्रसिद्धम् अधिरोह आरोह । संविदानोत्तममिति छान्दसो गुणः ॥

विश्वास-प्रस्तुतिः

अश्म॑न्वती रेवती॒र् यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रय्ँ॒
या रा॒ष्ट्रात्प॒न्नाद् उद्व॒यन् तम॑स॒स् परि॑ धा॒ता पु॑नातु ।

मूलम्

अश्म॑न्वती रेवती॒र्यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रय्ँ॒ या रा॒ष्ट्रात्प॒न्नादुद्व॒यन्तम॑स॒स्परि॑ धा॒ता पु॑नातु ।

भट्टभास्कर-टीका

12-16अश्मन्वतीरित्यादयः पञ्च गताः7 कर्ष्वादि समानम् ॥

होमः

भास्करोक्त-विनियोगः

17अथ अस्थीनि पिष्ट्वा आज्येन संसृज्य अग्निहोत्रहवण्या जुहोति सोमयाजिनः - अस्मादिति ॥

विश्वास-प्रस्तुतिः

अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यञ्जा॑यतां॒ पुनः॑ ।
अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥ (10)

मूलम्

अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यञ्जा॑यतां॒ पुनः॑ ।
अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥ (10)

भट्टभास्कर-टीका

अधिः पञ्चम्यर्थानुवादी । हे अग्ने! अस्माद् यजमानात् त्वमधिजातोस्य् आधानकाले । अयं त्व् इदानीं त्वत्तो ऽधिजायताम् अग्नये तुभ्यं वैश्वानराय विश्वेषां नराणामयमुपास्यः वैश्वानरः सुवर्गाय लोकाय तत्प्राप्तिहेतुभूताय तदभिमानिने वा दत्तमस्तु ।

इत्यारण्यके चतुर्थे चतुर्थोऽनुवाकः ॥