०२ स्रुवाहुतयः ...{Loading}...
भास्करोक्त-विनियोगः
1अथ नव स्रुवाहुतीर् जुहोति - य एतस्येति ॥ सर्वाणि यजूंषि ।
मूलम् - संयुक्तम्
य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्य॒स्स्वाहा॒
य ए॒तस्य॑ प॒थो र॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॒
य ए॒तस्य॑ प॒थो॑भिऽर॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॑
ऽऽख्या॒त्रे स्वाहा॑ऽपाख्या॒त्रे स्वाहा॑
ऽभि॒लाल॑पते॒ स्वाहा॑ऽप॒लाल॑पते॒ स्वाहा॒
ऽग्नये॑ कर्म॒कृते॒ स्वाहा॒
यमत्र॒ नाधी॒मस्तस्मै॒ स्वाहा॑ ।
विश्वास-प्रस्तुतिः
य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्य॒स् स्वाहा॑
मूलम्
य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्य॒स्स्वाहा॒
भट्टभास्कर-टीका
येन पथा प्रेतो गच्छत्य् एतस्य पथः ये गोप्तारः सुखेनातिवाहयितारस् तेभ्यस्स्वाहा हुतमस्तु ।
विश्वास-प्रस्तुतिः
य ए॒तस्य॑ प॒थो॑भिऽर॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॑
मूलम्
य ए॒तस्य॑ प॒थो॑भिऽर॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॑
भट्टभास्कर-टीका
येऽप्य् एतत्पथो रक्षितारः मार्गस्य सम्यङ्निपादयितारः । अभिरक्षितारो ऽभितस्स्थित्वा पालयितारः ।
विश्वास-प्रस्तुतिः
आ॒ख्या॒त्रे स्वाहा॑
मूलम्
आ॒ख्या॒त्रे स्वाहा॑
भट्टभास्कर-टीका
आख्याता सम्यक् पथामाख्याता
विश्वास-प्रस्तुतिः
अ॒पा॒ख्या॒त्रे स्वाहा॑
मूलम्
अ॒पा॒ख्या॒त्रे स्वाहा॑
भट्टभास्कर-टीका
अपाख्याता अधार्मिकेभ्यो ऽसन्मार्गख्यापयिता ।
विश्वास-प्रस्तुतिः
अ॒भि॒लाल॑पते॒ स्वाहा॑
मूलम्
अ॒भि॒लाल॑पते॒ स्वाहा॑
भट्टभास्कर-टीका
अभिलालपते अभिगम्य पुनःपुनः मार्गम् आचक्षाणाय इतइतो भवतीति ।
विश्वास-प्रस्तुतिः
अ॒प॒लाल॑पते॒ स्वाहा॒
मूलम्
अ॒प॒लाल॑पते॒ स्वाहा॒
भट्टभास्कर-टीका
अपलालपते असद्भ्यो ऽसन्मार्गं पुनःपुनो ऽपालपते नेह पन्था नेह पन्था इति ।
विश्वास-प्रस्तुतिः
अ॒ग्नये॑ कर्म॒कृते॒ स्वाहा॒
मूलम्
अ॒ग्नये॑ कर्म॒कृते॒ स्वाहा॒
भट्टभास्कर-टीका
कर्मकृते हव्यकव्यादिवहनकर्मकारिणे ।
विश्वास-प्रस्तुतिः
यम् अत्र॒ नाधी॒मस्तस्मै॒ स्वाहा॑ ।
मूलम्
यमत्र॒ नाधी॒मस्तस्मै॒ स्वाहा॑ ।
भट्टभास्कर-टीका
यं चाग्निम् अन्यमप्य् अत्र प्रकरणे स्मर्तव्यम् अङ्गभूतं नाधीमः न स्मरामो ऽनाम्नानान् नाधीमहे वा तस्मै स्वाहेति ॥
विश्वास-प्रस्तुतिः
यस् त॑ इ॒द्ध्मञ् ज॒भर॑त् सिष्विदा॒नो
मू॒र्धानव्ँ॑ वात॒ तप॑ते त्वा॒या ।
दिवो॒ विश्व॑स्मात् सीमघाय॒त उ॑रुष्यः ।
मूलम्
यस्त॑ इ॒द्ध्मञ्ज॒भर॑त्सिष्विदा॒नो मू॒र्धानव्ँ॑ वात॒ तप॑ते त्वा॒या ।
दिवो॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्यः ।
भट्टभास्कर-टीका
2यस्त इति त्रिपदा त्रिष्टुप् ॥ हे प्रेत! [हे अग्ने यः राक्षसादिस् ते तव इध्मं जभरद् अपहरत्य् अथवा त्वाया त्वदीयस्य दग्धस्य प्रेतस्य मूर्धानं स्वयं सिष्विदानः स्वेदं प्राप्तस्सन् ततपते अतिशयेन तापं करोति । शास्त्रीयदहनसाधनस्येध्मस्यापहारेण वा स्वकीयस्वेदेन मूर्धानं द्रवीकुर्वन्वा ते शास्त्रीयदाहं विनाश्य स्वर्गं विहन्ति दिवः स्वर्गस्य अघायतो ऽघं पापं विघ्नं य इच्छति तस्माद् विश्वस्मात् सीं सर्वस्मादपि राक्षसादेर् उरुष्यो ऽयं प्रेतो रक्षणीयः] ॥
विश्वास-प्रस्तुतिः
अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यञ्जा॑यतां॒ पुनः॑ ।
अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥ (5)
मूलम्
अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यञ्जा॑यतां॒ पुनः॑ ।
अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥ (5)
भट्टभास्कर-टीका
3अस्मादित्य् अनुष्टुप् ॥ हे अग्ने ! त्वमस्माद् अधिजातोऽसि पूर्वमिदानीं त्वत्तो ऽयं पुनर्जायतां पुण्यां गतिं प्राप्नोतु । तस्मै तुभ्यम् अग्नये वैश्वानराय सुवर्गाय लोकाय तद्धेतवे स्वाहा हुतमस्तु ॥
इत्यारण्यके चतुर्थे द्वितीयोऽनुवाकः ॥