०१ दाहान्तम्

०१ दाहान्तम् ...{Loading}...

भास्करोक्त-विनियोगः

अथ चतुर्थः प्रपाठकः ॥
1प्रवर्ग्यं ब्रुवता भगवता पुरुषेण कर्तव्यानि दर्शपूर्णमासादीनि संवत्सर-पर्यन्तानि कर्माणि
स-मन्त्र-ब्राह्मणानि विहितानि व्याख्यातानि च अस्माभिः ।
इदानीं मृतस्य संस्काराख्यः पितृमेधाख्यः प्रस्तूयते ।
‘स एष यज्ञायुधी यजमानो ह वै सुवर्गं लोकमेति’
इति श्रुतेः मृतस्यापि संस्कारः श्रौत इष्यते ।
‘प्रत्येकं पुरुषस्य पावनः’ इति च स्मृतिः ।

अत्र पैतृमेधिकान् मन्त्रान् व्याख्यास्यामः ।
प्राजापत्यं काण्डम् ।

‘तत्राहिताग्निम् अग्निभिर् दहन्ति यज्ञपात्रैश्च’ इत्यपि विनियोगः ।

वहनात् प्राक्

आहवनीये होमः

भास्करोक्त-विनियोगः

तत्र प्रेताहवनीये जुह्वा जुहोति - परेयुवांसमिति ॥

विश्वास-प्रस्तुतिः

प॒रे॒यु॒वाँसं॑ प्र॒वतो॑ म॒हीर् अनु॑ ब॒हुभ्यः॒ पन्था॑म् अनपस्पशा॒नम् ।
वै॒व॒स्व॒तँ स॒ङ्गम॑न॒ञ् जना॑नाय्ँ य॒मँ राजा॑नँ ह॒विषा॑ दुवस्यत ।

मूलम्

प॒रे॒यु॒वाँसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑मनपस्पशा॒नम् ।
वै॒व॒स्व॒तँ स॒ङ्गम॑न॒ञ्जना॑नाय्ँय॒मँ राजा॑नँ ह॒विषा॑ दुवस्यत ।

भट्टभास्कर-टीका

परेयुवांसम् । उकारश्छान्दसः । बह्वृचाः परेयिवांसमित्येव पठन्ति ।
प्राणिनां शुभाशुभनिरीक्षणार्थं तत इतो गच्छन्तम् । कां प्रति? प्रवतो महीरनु अनुः प्रतेरर्थे । प्रकृष्टार्थवृत्तेः प्रशब्दात् ‘छन्दसि धात्वर्थ’ इति वतिः ।
शसन्तं चैतत् स्त्रीलिङ्गम् । प्रकृष्टा मनुष्या जातिः धर्मादिसप्तपुरुषार्थसम्बन्धात् तत्प्रकर्षः। प्रवत इति च उपलक्षणं - उद्वतो निवत इत्यपि द्रष्टव्यम् । उद्गता देवजातिः। महीः भौतिकीः मनुष्यजातीः प्रति परेयुवांसं ताभ्य एव च बहुभ्यः पन्थां पन्थानम्

अनपस्पशानम् । अनोरुकारस्य अकारश्छान्दसः । उकारमेव बह्वृचाः पठन्ति ।
स्पशतिर्ज्ञानार्थः, स्पशा इति चारा उच्यन्ते । ते च ज्ञातारः परवृत्तान्तानाम् । तस्य शानचि शपः श्लौ द्विर्वचनम् । आनुपूर्व्येण जानन्तम् अयमस्य मार्गोऽयमस्य मार्ग इति ।
एवंभूतं वैवस्वतं विवस्वतः पुत्रं सङ्गमनं जनानां प्रेतजना यत्र सङ्गच्छन्ते तं सङ्गमनं जनानां यमं राजानम् अनेन आज्याहुतिलक्षणेन हविषा अहं तावद्दुवस्यामि यूयमपि दुवस्यत हे लोकाः! ।
दुवस्यतिः परिचरणकर्मा कण्ड्वादियगन्तः ॥

आच्छादनम्

भास्करोक्त-विनियोगः

2मृतम् आपत्तोऽहतेन वाससा प्रोर्णोति - इदं त्वति त्रिष्टुभा जगत्या वा ॥

विश्वास-प्रस्तुतिः

इ॒दन् त्वा॒ वस्त्रं॑ प्रथ॒मन्वाग॒न् अपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा ।
इ॒ष्टा॒पू॒र्तम् अनु॒ संप॑श्य॒ दक्षि॑णाय्ँ॒ यथा॑ ते द॒त्तं ब॑हु॒धा विब॑न्धुषु ।

मूलम्

इ॒दन्त्वा॒ वस्त्रं॑ प्रथ॒मन्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा ।
इ॒ष्टा॒पू॒र्तमनु॒ संप॑श्य॒ दक्षि॑णाय्ँ॒ यथा॑ ते द॒त्तं ब॑हु॒धा विब॑न्धुषु ।

भट्टभास्कर-टीका

इदं वस्त्रं प्रथमं नूतनं त्वा त्वां नु क्षिप्रम् आगन् आगतवान् । ‘मन्त्रे घस’ इति च्लेर्लुक्, हल्ङयादिलोपः ‘मोनोधातोः’ ।
पूर्वं परिहितमपादत्ते - अपैतदिति । एतत् वस्त्रम् अपोह परित्यज प्रेत! यत्वं पुरा इह शरीरे अबिभः भृतवान् धारितवानसि । इष्टापूर्तम् इष्टम् अग्निहोत्रादि, पूर्तं तटाकखननादि, तयोस्समाहारद्वंद्वः । तदिष्टापूर्तम् ।
अनुसम्पश्य आनुपूर्व्येण जानीहि इतो गतस्सन् तत्फलमनुभुङ्क्ष्व । दक्षिणा दानं तां च यथा त्वया दत्तं बहुधा बहुप्रकारं विबन्धुषु अनाथेषु विशिष्टेषु वा बन्धुषु ॥

वहनम्

भास्करोक्त-विनियोगः

3 मृतम् अनसा वहति, मनुष्ययानेन वा; अनो-वहन-पक्षे वाहौ युनक्ति -

विश्वास-प्रस्तुतिः

इ॒मौ यु॑नज्मि ते व॒ह्नी असु॑नीथाय वो॒ढवे॑ ।
याभ्याय्ँ॑ य॒मस्य॒ साद॑नँ सु॒कृता॒ञ् चापि॑ गच्छतात् ।

मूलम्

इ॒मौ यु॑नज्मि ते व॒ह्नी असु॑नीथाय वो॒ढवे॑ ।
याभ्याय्ँ॑य॒मस्य॒ साद॑नँ सु॒कृता॒ञ्चापि॑ गच्छतात् ।

भट्टभास्कर-टीका

इमौ वाहौ युनज्मि ते त्वदर्थं वह्नी वोढारौ असुनीथ अप्रशस्तं तस्मै प्रेतकर्मणे वोढवे वोढुं यथा एतौ सम्यग्वहतः । याभ्यां वाहाभ्यां यमस्य सुकृतां च सादनं सदनम् आधिगच्छतात् अपिरभेरर्थे अभिगमिष्यसि ।।

भास्करोक्त-विनियोगः

4वोढृभिरादीयमानं प्रेतमनुमन्त्रयते - पूषेति ॥ अतः परास्त्रिष्टुभः ।

विश्वास-प्रस्तुतिः

पू॒षा त्वे॒तश् च्या॑वयतु॒ प्रवि॒द्वानन॑ष्टपशु॒र् भुव॑नस्य गो॒पाः ।
स त्वै॒तेभ्यः॒ परि॑ददात् पि॒तृभ्यो॒ऽग्निर् दे॒वेभ्य॑स् सुवि॒दत्रे॑भ्यः ।

मूलम्

पू॒षा त्वे॒तश्च्या॑वयतु॒ प्रवि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः ।
स त्वै॒तेभ्यः॒ परि॑ददात्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्य॑ स्सुवि॒दत्रे॑भ्यः ।

भट्टभास्कर-टीका

आदित्यानामन्यतमः पूष इतः स्थानात् प्रच्यावयतु अन्यतो नयतु । विद्वान् पथां ज्ञाता अनष्टपशुः दर्शनसाधनत्वात् पशवो रश्मयः । भुवनस्य गोपाः गोपयिता रक्षिता । क्विप् अल्लोपयलोपयोः रूपम् । स च पूषा त्या एतेभ्यः प्रसिद्धेभ्यः पितृभ्यः अग्निष्वत्तादिभ्यः परिददात् रक्षणार्थ दानं परिदानम् । पञ्चमलकार: परिदद्यात् । अग्निस्तु देवेभ्यः परिदद्यात् सुविदत्रेभ्यः विदत्रं ज्ञानं लब्धव्यं वा धनं शोभनज्ञानेभ्यः शोभनधनेभ्यो वा ।।

भास्करोक्त-विनियोगः

5तुरीयमध्वनो गत्वाऽऽदीयमानमनुमन्त्रयते - पूषेमा इति ॥

विश्वास-प्रस्तुतिः

पू॒षेमा आशा॒ अनु॑वेद॒ सर्वा॒स्सो अ॒स्माँ अभ॑यतमेन नेषत् ।
स्व॒स्ति॒दा अघृ॑णि॒स्सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु॒ प्रवि॒द्वान् । (1)

मूलम्

पू॒षेमा आशा॒ अनु॑वेद॒ सर्वा॒स् सो अ॒स्माँ अभ॑यतमेन नेषत् ।
स्व॒स्ति॒दा अघृ॑णि॒स् सर्व॑वी॒रोऽप्र॑युच्छन् पु॒र ए॑तु॒ प्रवि॒द्वान् । (1)

भट्टभास्कर-टीका

पूषा इमाः प्राच्याद्या दिशस्सर्वा अनुवेद आनुपूर्व्येण जानाति स एवंभूतः पूषा अस्मान् । ‘अस्मदोद्वयोश्र’ इति एकस्मिन् बहुवचनम् - ताम् । मृतेन सह एकत्वमापन्नस्य पुत्रादेर्वचनं - यत्र भयगन्धो नास्ति तेन अभयतमेन पथा नेषत् नयतु । स्वस्तिदाः अविनाशस्य दाता अघृणिः अक्रोधः आगतदीप्तिर्वा । आघृणिरिति बह्वृचाः । सर्ववीरः सर्वैः परिचारकपुरुषैस्तद्वान् अप्रयुच्छन् अप्रमाद्यन् पुरः प्रैतु अस्माकम् अग्रतो गच्छतु विद्वान् पथां ज्ञाता ।।

भास्करोक्त-विनियोगः

6पुनस् तुरीयम् अध्वनो गत्वा निधायादीयमानमनुमन्त्रयते - आयुर्विश्वायुरिति ॥

विश्वास-प्रस्तुतिः

आयु॑र् वि॒श्वायुः॒ परि॑पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ।
यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस् तत्र॑ त्वा दे॒वस् स॑वि॒ता द॑धातु ।

मूलम्

आयु॑र्वि॒श्वायुः॒ परि॑पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ।
यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ।

भट्टभास्कर-टीका

आयुः गमनशीलः विश्वायुः विश्वव्यापी स त्वा परिपासति । लेटि तिपोऽसडागमः । परिपायात् । पूषा च त्वा पातु प्रपथे प्रकृष्टे पथि पुरस्तात् गच्छन् । देवश्च सविता आदित्यानामन्यतमः यत्र स्थाने सुकृत आसते यत्र वा ते ययुः गच्छन्ति तत्र त्वा देवस्सविता दधातु स्थापयतु ॥

राजगवी

भास्करोक्त-विनियोगः

7राजगवीम् उपाकरोति - भुवनस्येति यजुषा ॥

विश्वास-प्रस्तुतिः

भुव॑नस्य पत इ॒दँ ह॒विः ।
अ॒ग्नये॑ रयि॒मते॒ स्वाहा॑ ।

मूलम्

भुव॑नस्य पत इ॒दँ ह॒विः ।
अ॒ग्नये॑ रयि॒मते॒ स्वाहा॑ ।

भट्टभास्कर-टीका

हे भुवनस्य पते ! स्वामिन्! अग्ने ! इदं राजगव्याख्यं हविः उपाकरोमीति शेषः । स्रुवेण पात्रेण वा जुहोति - अग्नये रयिमते धनवते स्वाहा हुतमस्तु ॥

भास्करोक्त-विनियोगः

8राजगव्यां शमितृभिर् हन्यमानायां सव्यानि जानूनि अभिनिघ्नन्तः पांसूनपमृजन्ते - पुरुषस्येति अनुष्टुभा ॥

विश्वास-प्रस्तुतिः

पुरु॑षस्य सयाव॒र्यपेद॒घानि॑ मृज्महे ।
यथा॑ नो॒ अत्र॒ नाप॑रः पु॒रा ज॒रस॒ आय॑ति ।

मूलम्

पुरु॑षस्य सयाव॒र्यपेद॒घानि॑ मृज्महे ।
यथा॑ नो॒ अत्र॒ नाप॑रः पु॒रा ज॒रस॒ आय॑ति ।

भट्टभास्कर-टीका

मृतस्य पुरुषस्य सयावरि!। सहपूर्वाद्यातेर्वनिपि ‘वनोरच’ इति ङीब्-रेफौ । पुरुषेण मृतेन सह यात्रीत्येवमामन्त्र्यते । अघानि वयमपमृज्महे पांसुमार्जनव्याजेन त्वद्वधकृतमघमेव वयं परिमृज्मः । इच्छब्द एवार्थः । यथा पांसुमार्जने सति नः अस्मान् अत्र वसतः पुरा जरस: जरायाः प्राक् अपरो मृत्युप्रभृतिः अनिष्टवर्गः नायति तथा अपमृज्मह इति ॥

भास्करोक्त-विनियोगः

9अथ तां शमितृभिर् विशस्यमानाम् अनुमन्त्रयते - पुरुषस्येति ॥

विश्वास-प्रस्तुतिः

पुरु॑षस्य सयावरि वि ते॑ प्रा॒णम॑सि स्रसम् ।
शरी॑रेण म॒हीमिहि॑ स्व॒धयेहि॑ पि॒तॄनुप॑ प्र॒जया॒ऽस्मानि॒हाव॑ह ।

मूलम्

पुरु॑षस्य सयावरि वि ते॑ प्रा॒णम॑सि स्रसम् ।
शरी॑रेण म॒हीमिहि॑ स्व॒धयेहि॑ पि॒तॄनुप॑ प्र॒जया॒ऽस्मानि॒हाव॑ह ।

भट्टभास्कर-टीका

सयावरि! ते तव स्वभूतं प्राणं व्यसि स्रसं विस्रंसयामि । यत् बन्धनस्य विस्त्रंसनं तत् प्राणस्येति रूप्यते । सा त्वं विस्रस्तप्राणा शरीरेण महीं भूमिम् इहि गच्छ मृतो भूमौ पतति । स्वधया मांसरूपया पितॄन् उपेहि अस्मांश्च इह गृहे प्रजया पुत्रपौत्रादिकया आवह सङ्गमय प्रजावतः कुरु ॥

भास्करोक्त-विनियोगः

अस्य मन्त्रस्य नास्मत्सूत्रे विनियोगः ॥

विश्वास-प्रस्तुतिः

मैव॑म् माँ॒स्ता प्रि॑ये॒ऽहन् दे॒वी स॒ती पि॑तृलो॒कय्ँ यदैषि॑ ।
वि॒श्ववा॑रा॒ नभ॑सा॒ सव्ँ व्य॑यन्त्यु॒भौ नो॑ लो॒कौ पय॑सा॒ऽभ्याव॑वृत्स्व । (2)

मूलम्

मैव॑म्माँ॒स्ता प्रि॑ये॒ऽहन्दे॒वी स॒ती पि॑तृलो॒कय्ँयदैषि॑ ।
वि॒श्ववा॑रा॒ नभ॑सा॒ सव्व्ँय॑यन्त्यु॒भौ नो॑ लो॒कौ पय॑सा॒ऽभ्याव॑वृत्स्व । (2)

भट्टभास्कर-टीका

10मैवमिति त्रिष्टुप् ॥ मांस्तेति तृतीयैकवचनस्याकारः । हे राजगवि! तव या एवंभूता मांस्ता मांसता तया माऽहं प्रिये । छान्दसो ह्रस्वः ।
प्रीतो मा भवामि नह्यहमात्मनः प्रिये त्वां विशसितवान् किन्तर्हि पितॄणामर्थाय । अतश्च यदा त्वं देवी सती देवभूयं गता । विश्ववारा सर्वेषां वरणीया नभसा आकाशयानेन पितृलोकम् एषि । यदेति वचनात् तदेति गम्यते । तदा पयसा इह संव्ययन्ती आच्छादयन्ती नः अस्मान् अभ्याववृत्स्व उभयोरपि लोकयोर् अस्मान् पयस्विनः कुरु

अनुगमनम्

भास्करोक्त-विनियोगः

11मृतस्य पत्नीं दारुचितामुपवेशयन्ति - **इयं नारीति ॥ **

विश्वास-प्रस्तुतिः

इ॒यन् नारी॑ पतिलो॒कव्ँ वृणा॒ना निप॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म् ।
विश्वं॑ पुरा॒णम् अनु॑ पा॒लय॑न्ती॒ तस्यै॑ प्र॒जान् द्रवि॑णञ् चे॒ह धे॑हि ।

मूलम्

इ॒यन्नारी॑ पतिलो॒कव्ँ वृणा॒ना निप॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म् ।
विश्वं॑ पुरा॒णमनु॑ पा॒लय॑न्ती॒ तस्यै॑ प्र॒जान्द्रवि॑णञ्चे॒ह धे॑हि ।

भट्टभास्कर-टीका

इयं नारी तव भार्या पतिलोकं पत्युस्तव सालोक्यं वृणाना कामयमाना हे मर्त्य! मरणधर्मन् त्वा त्वां प्रेतम् उप निपद्यते उपशेते । विश्वं कृत्स्नं पुराणं चिरन्तनम् एकपत्नीनां व्रतम् अनुपालयन्ती तस्यै तस्याः प्रजां द्रविणं च इह धेहि स्थापय यथा न ते क्षीयेते तथा कुरु ॥

भास्करोक्त-विनियोगः

12तामुत्थापयति पतिस्थः पतिस्थाने तिष्ठतीति पतिस्थो देवरादिः - उदीर्ष्व नारीति ॥

विश्वास-प्रस्तुतिः

उदी॑र्ष्व नार्य॒भि जी॑वलो॒कमि॒तासु॑मे॒तमुप॑शेष॒ एहि॑ ।
ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस् त्वमे॒तत् पत्यु॑र् जनि॒त्वम॒भि संब॑भूव ।

मूलम्

उदी॑र्ष्व नार्य॒भि जी॑वलो॒कमि॒तासु॑मे॒तमुप॑शेष॒ एहि॑ ।
ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्त्वमे॒तत्पत्यु॑र्जनि॒त्वम॒भि संब॑भूव ।

भट्टभास्कर-टीका

हे नारि त्वं! इतासुं गतासुं गतप्राणम् एतं पतिम् उपशेषे उपसृत्य शेषे सा उदीर्ष्व उत्तिष्ठ उत्थाय जीवलोकमभ्येहि । न च एवं ते पतिलोकहानिः यतः त्वम् अभिसन्धिमात्रेणैव हस्तग्राभस्य विवाहसमये मन्त्रवत्तव हस्तं गृहीतवतः दिधिषोः गर्भस्य धातुः पत्युः एतज्जनित्वं जन्म लोकान्तरप्राप्तिरूपम् अभिसम्बभूव । पुरुषव्यत्ययः । अभिसम्बभूथेति बह्वृचाः पठन्ति । अभिसम्बभूविथ उत्पद्यमानैव त्वमेवमुत्पन्नाऽसि ॥

सम्मार्जनम्

भास्करोक्त-विनियोगः

13ब्राह्मणस्य मृतस्य हस्तौ सुवर्णेन निर्मार्ष्टि, धनुषा राजन्यस्य, मणिना वैश्यस्य, तत्र मन्त्राः - सर्वत्रादानलिङ्गात् हस्तगतमङ्गुलीयकाद्यादाय तेन सम्मार्ष्टि -

विश्वास-प्रस्तुतिः

सु॒वर्णँ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै ब्रह्म॑णे॒ तेज॑से॒ बला॑य ।
अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ।

मूलम्

सु॒वर्णँ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै ब्रह्म॑णे॒ तेज॑से॒ बला॑य ।
अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ।

भट्टभास्कर-टीका

मृतस्य1 हस्तात् सुवर्णमाददाना आदाय तव हस्तौ सम्मृजन्त इत्यर्थः । एवंभूता वयं श्र्यादिभ्यो भवेम । ब्रह्म वेदः तेजः ब्रह्मवर्चसम् अन्यत् प्रसिद्धम् ।

विश्वास-प्रस्तुतिः

धनु॒र््हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै क्ष॒त्रायौज॑से॒ बला॑य ।
अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ।

मूलम्

धनु॒र््हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै क्ष॒त्रायौज॑से॒ बला॑य ।
अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ।

भट्टभास्कर-टीका

अत्रैव दहनदेशे त्वं भव वयं पुनरिह गार्हस्थ्ये स्थिताः सुशेवाः शेवमिति सुखनाम सुसुखास्सन्तः विश्वाः स्पृधः स्पर्धमानाः सङ्ग्रामकारिणीर्वा । अभिमातीः शत्रुजातीः जयेम । धनुरिति । पूर्ववद्व्याख्यातव्यम् । क्षत्रं क्षत्रियभावः ओजः अप्रतिहतप्रतिज्ञत्वम् ।

विश्वास-प्रस्तुतिः

मणिँ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॒ श्रि॒यै वि॒शे पुष्ट्यै॒ बला॑य ।
अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ।
(3)

मूलम्

मणिँ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॒ श्रि॒यै वि॒शे पुष्ट्यै॒ बला॑य ।
अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ।
(3)

भट्टभास्कर-टीका

मणिनेति । पूर्ववत् । विशे वैश्यभावाय ॥

दाहः

पात्र-चितिः

भास्करोक्त-विनियोगः

14पात्रेषु चीयमानेषु चमसनिधानमन्त्रः - इममिति ॥

विश्वास-प्रस्तुतिः

इ॒मम॑ग्ने चम॒सं मा विजी॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् ।
ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ताम् ।

मूलम्

इ॒मम॑ग्ने चम॒सं मा विजी॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् ।
ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ताम् ।

भट्टभास्कर-टीका

प्रक्षेप्स्यमानोऽग्निर्हृदिस्थस्संबोध्यते । हे अग्ने ! इमं चमसं मा विजीह्वरः । ह्वृ कौटिल्ये । कौटिल्यं मा कार्षीः आर्जवेन दह यतोऽयं प्रियो देवानाम् उत सोम्यानां सोमार्हाणाम् ऋत्विजामपि प्रियः देवा ऋत्विजः पानादिगुणयोगात्, प्रसिद्धा एव वा देवाः । ते यत्र पिबन्ति स एष देवपानः चमसः तस्मिन् देवाः अमृताः अमरणधर्माणः मादयन्तां स्वात्मानं मादयन्ते । तस्मात् मा विजीह्वर इति ॥

चर्माधानम्

भास्करोक्त-विनियोगः

15राजगव्याश् चर्मणा मृतं प्रोर्णोति - अग्नेर्वर्मेति ॥

विश्वास-प्रस्तुतिः

अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च ।
नेत्त्वा॑ धृ॒ष्णुर् हर॑सा॒ जर्हृ॑षाणो॒ दध॑द्विध॒क्ष्यन्पर्य॒ङ्खया॑तै ।

मूलम्

अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च ।
नेत्त्वा॑ धृ॒ष्णुर् हर॑सा॒ जर्हृ॑षाणो॒ दध॑द्विध॒क्ष्यन्पर्य॒ङ्खया॑तै ।

भट्टभास्कर-टीका

वर्म कवचम् अग्नेर्वर्मभूतं गोभिः राजगव्या अवयवैः पादादिशिरोन्तैश्चर्माश्रयैरात्मशरीरं परिव्ययस्व परितश्छादय हे प्रेत ! । वपयाऽस्य मुखं प्रोर्णोति - सम्प्रोर्णुष्वेति । मेदसा वपया मुखं सम्प्रोणुष्व । कीदृशेन? पीवसा यदुपयुञ्जानाः पीवानो भवन्ति तत् पीवः तादृशेन । एवमाच्छादिते किं भवति? न इत् नेत् नैव त्वा धृष्णुः धर्षणशीलः हरसा स्वेन तेजसा जर्हृषाणः दाह्यलाभेन अत्यन्तं हृष्यन् दधत् चिरमात्मानं स्थापयन् विधक्ष्यन् विविधं धक्ष्यन् भूत्वा नैव त्वां पर्यङ्खयातै सर्वतो व्याप्नुयात् ॥

उपोषणम्

भास्करोक्त-विनियोगः

16अथैनम् उपोषयति पुरस्ताद् आहवनीयेन - मैनमिति ॥

विश्वास-प्रस्तुतिः

मैन॑मग्ने॒ विद॑हो॒ माऽभिशो॑चो॒ माऽस्य॒ त्वच॑ञ्चिक्षिपो॒ मा शरी॑रम् ।
य॒दा शृ॒तङ्क॒रवो॑ जातवे॒दोऽथे॑मेनं॒ प्रहि॑णुतात्पि॒तृभ्यः॑ ।

मूलम्

मैन॑मग्ने॒ विद॑हो॒ माऽभिशो॑चो॒ माऽस्य॒ त्वच॑ञ्चिक्षिपो॒ मा शरी॑रम् ।
य॒दा शृ॒तङ्क॒रवो॑ जातवे॒दोऽथे॑मेनं॒ प्रहि॑णुतात्पि॒तृभ्यः॑ ।

भट्टभास्कर-टीका

हे अग्ने! एनं मा विदहः विदग्धं मा कार्षीः यथाऽस्थ्यादिकमपि दह्यते2 तथा मा धक्षीः माऽभिशोचः अभिरल्पार्थे माऽभिमुखज्वालो दीपिष्ठाः अस्य त्वचम् असृग्धरं ज्वालाग्रैः मा विचिक्षिपः । कथं तर्हि करवाणि यदा शृतं सुष्टु दग्धं करवः करिष्यसि अथ अनन्तरं तदानीमेव । ईमिति पादपूरणे । एनं प्रेतं पितृभ्यः प्रहिणुतात् प्रहिणु प्रगमय पितृपार्श्वं प्रापय ॥

दाहः

भास्करोक्त-विनियोगः

17पश्चात् गार्हपत्येन दहति - शृतमिति ॥

विश्वास-प्रस्तुतिः

शृ॒तय्ँय॒दा क॒रसि॑ जातवे॒दोऽथे॑मेनं॒ परि॑दत्तात्पि॒तृभ्यः॑ ।
य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानाव्ँ॑वश॒नीर्भ॑वाति ।

मूलम्

शृ॒तय्ँय॒दा क॒रसि॑ जातवे॒दोऽथे॑मेनं॒ परि॑दत्तात्पि॒तृभ्यः॑ ।
य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानाव्ँ॑वश॒नीर्भ॑वाति ।

भट्टभास्कर-टीका

हे जातवेदः ! यदा त्वेनं शृतं करसि करिष्यसि अथ ईम् अनन्तरम् एनं पितृभ्यः परिदत्तात् रक्षार्थं देहि । किं कारणमेवं प्रार्थ्यते ? उच्यते - यदा एताम् एवंविधाम् असुनीतिं प्राणगतिं गच्छाति गच्छेत् अथ तदा देवानां वशनीः वशवर्ती भवाति भवेत् देवानां यत् वशं तत् प्राप्नोति ॥

उपस्थानादि

भास्करोक्त-विनियोगः

18दह्यमानमुपतिष्ठते - सूर्यं त इति ॥

विश्वास-प्रस्तुतिः

सूर्य॑न्ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्माH द्याञ्च॒ गच्छ॑ पृथि॒वीञ्च॒ धर्म॑णा ।
अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः ।

मूलम्

सूर्य॑न्ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्माH द्याञ्च॒ गच्छ॑ पृथि॒वीञ्च॒ धर्म॑णा ।
अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः ।

भट्टभास्कर-टीका

हे प्रेत! ते तव स्वभूतं चक्षुः इन्द्रियं तैजसं सूर्यं तेजोरूपं गच्छतु । वातं बाह्यवायुं तव आत्मा प्राणवायुः गच्छतु । उपलक्षणमेतत् - अन्यान्यपि प्राणादीनि पृथिव्यादीनि स्वकारणानि गच्छन्तु । त्वं तु धर्मेण स्वकर्मवशेन द्यां च । चशब्दो वाऽर्थे; द्युलोकं वा गच्छ दिव्यरूपस्सन् । पृथिवीं वा गच्छ मनुष्यादिरूपेण । अपो वा गच्छ मत्स्यादिरूपेण । यदि तत्र हितं जन्म कर्मणा ओषधीषु वा प्रतितिष्ठ स्थावरतां गच्छ शरीरैः शरीरेण तदवयवैश्च ।

‘शरीरजैः कर्मदोषैर्
याति स्थावरतां नरः।’

इति मनुः ॥

भास्करोक्त-विनियोगः

19जघनेन चितिम् अजम् अबलेन शुल्बेन सम्बध्नाति, तं द्रवन्तमनुमन्त्रयते - अज इति ॥

विश्वास-प्रस्तुतिः

अ॒जो भा॒गस् तप॑सा॒ तन् त॑पस्व॒
तन् ते॑ शो॒चिस् त॑पतु॒ तन्ते॑ अ॒र्चिः ।
यास् ते॑ शि॒वास् त॒नुवो॑ जातवेद॒स्
ताभि॑ र्वहे॒मँ सु॒कृताय्ँ॒ यत्र॑ लो॒काः ।

मूलम्

अ॒जो भा॒गस्तप॑सा॒ तन्त॑पस्व॒ तन्ते॑ शो॒चिस्त॑पतु॒ तन्ते॑ अ॒र्चिः ।
यास्ते॑ शि॒वास्त॒नुवो॑ जातवेद॒स्ताभि॑र्वहे॒मँ सु॒कृताय्ँ॒यत्र॑ लो॒काः ।

भट्टभास्कर-टीका

एषो ऽजस् तव भागस् तं भागं त्वदीयेन तपसा तापहेतुना औष्ण्येन तपस्व । तपन्तमेव [तमेव] ते शोचिर् दीप्तिस् तपतु, ते अर्चिर् ज्वालाऽपि तमेव तपतु । हे जातवेदः! यास्ते शिवास्तनुवस् ताभिस् तनूभिर् इमं प्रेतम् अजं वा वह त्वं सुकृतां यत्र लोकास् तत्र ॥

विश्वास-प्रस्तुतिः

अ॒यव्वैं त्वम॒स्मादधि॒ त्वमे॒तद॒यव्वैं तद॑स्य॒ योनि॑रसि ।
वै॒श्वा॒न॒रः पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदो॒ वहे॑मँ सु॒कृताय्ँ॒यत्र॑ लो॒काः । (4)

मूलम्

अ॒यव्वैं त्वम॒स्मादधि॒ त्वमे॒तद॒यव्वैं तद॑स्य॒ योनि॑रसि ।
वै॒श्वा॒न॒रः पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदो॒ वहे॑मँ सु॒कृताय्ँ॒यत्र॑ लो॒काः । (4)

भट्टभास्कर-टीका

20अयं वा इति ॥ हे जातवेदः! अयम् अङ्गुळ्या निर्दिशन्नाह - अयं वै अजः प्रेतो वा त्वमसि । कुतो ऽस्मादध्य् अस्माज्जातस्त्वमसि हविष्ट्वात् । एतद् एतेन प्रकारेण त्वं च अयमसि । यतो ऽस्य योनिः कारणं त्वमसि । अग्नेस्सर्वकारणत्वात् तस्माद् द्वयोरपि पितृत्वं पुत्रत्वं च प्रतिपादितम् । पुत्रश्च पित्रे लोककृद्भवति पुण्यलोकप्राप्तिहेतुर्भवति । तस्माद् वैश्वानरोऽपि विश्वेषां नराणां स्वामी त्वम् इमं वह प्रापय यत्र स्कृतां लोकास् तत्र ॥

इत्यारण्यके चतुर्थप्रश्ने प्रथमोऽनुवाकः ॥