०९ ...{Loading}...
प्रवरमन्त्रनिगदस्य, ९-१५ स्रुगादापननिगदस्य च व्याख्यानम्
प्रजापतिऋषिः ।
मूलम् (संयुक्तम्)
अग्ने॑ म॒हाँ अ॒सीत्या॑ह म॒हान्ह्ये॑ष यद॒ग्निर्ब्रा॑ह्म॒णेत्या॑ह ब्राह्म॒णो ह्ये॑ष भा॑र॒तेत्या॑है॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति
विश्वास-प्रस्तुतिः
अग्ने॑ म॒हाँ अ॒सीत्या॑ह ।
म॒हान्ह्ये॑षः ।
मूलम्
अग्ने॑ म॒हाँ अ॒सीत्या॑ह ।
म॒हान्ह्ये॑षः ।
पद-पाठः
अग्ने॑ । म॒हान् । अ॒सि॒ । इति॑ । आ॒ह॒ ।
म॒हान् । हि । ए॒षः ।
भट्टभास्कर-टीका
1अग्ने महानसीत्यादिना प्रवरमन्त्रपदानि व्याचष्टे ॥ महान् ह्येष इति । स्वभावत एवेति भावः ।
सायण-टीका
अथ नवमे प्रवरमन्त्रस्य निगदस्य स्रुगादापननिगदस्य च व्याख्यानं प्रवर्तते। ते च निगदादयो मन्त्रकाण्डे समाम्नाताः।
कल्पः — “अथ निवित्पदान्यन्वाह देवेद्धो मन्विद्ध इति सप्तमे स्वनिति अथ चतसृषु” इति।
पाठस्तु—
“अग्ने महा ँ असि ब्राह्मण भारत । असावसौ । देवेद्धो मन्विद्धः । ऋषिष्टुतो विप्रानुमदितः । कविशस्तो ब्रह्मस ँ शितो घृताहवनः। प्रणीर्यज्ञानाम्। रथीरध्वराणाम्। अतूर्तो होता। तूर्णिर्हव्यवाट्। आस्पात्रं जुहूर्देवानाम्। चमसो देवपानः। अरा ँ इवाग्ने नेमिर्देवाँत्स्वं परिभूरसि। आवह देवान्यजमानाय” (ब्रा. का. ३ प्र. अ. ३) इति।
अत्राग्ने महानित्यारभ्यासावसावित्यन्तः प्रवरमन्त्रः। अवशिष्टा निविन्मन्त्राः। तेषामर्थं ब्राह्मणव्याख्यानमुखेनैव स्पष्टी करिष्यामः।
तत्र प्रवरमन्त्रार्थं दर्शयति- अग्ने महानिति। अग्निरिति यदेष यस्मात्सर्वाहुत्याधारत्वेन प्रहांस्तस्मान्मन्त्रे महानसीत्युच्यते। यस्माद्ब्राह्मणवर्णाभिमानी तस्मादब्रह्मणेति संबोध्यते।
विश्वास-प्रस्तुतिः
यद॒ग्निर्ब्रा॑ह्म॒णेत्या॑ह । ब्रा॒ह्म॒णो ह्ये॑षः ।
मूलम्
यद॒ग्निर्ब्रा॑ह्म॒णेत्या॑ह । ब्रा॒ह्म॒णो ह्ये॑षः ।
पद-पाठः
यत् । अ॒ग्निः ।ब्रा॒ह्म॒ण॒ । इति॑ । आ॒ह॒ । ब्रा॒ह्म॒णः । हि । ए॒षः ।
भट्टभास्कर-टीका
ब्राह्मणो ह्येष इति । यदग्निरेव जात्या ब्राह्मणः, ब्रह्मणो मुखाद्द्वयोरपि जातत्वात् । ब्रह्मणोपत्यत्वेन वा स्तुतिः । ‘ब्राह्मोऽजातौ’ इति व्यत्ययेन प्रवर्तते ।
विश्वास-प्रस्तुतिः
भा॑र॒तेत्या॑ह ।
ए॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति।
मूलम्
भा॑र॒तेत्या॑ह ए॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति।
पद-पाठः
भा॒र॒त॒ । इति॑ । आ॒ह॒ । ए॒षः । हि । दे॒वेभ्यः॑ । ह॒व्यम् । भर॑ति ।भट्टभास्कर-टीका
एष हीति । हविषां भरणात् भारतः, भरतानामृत्विजामपत्यत्वात् भारतः ॥
सायण-टीका
यस्मादेव देवेभ्यो हव्यं भरति धारयति तस्माद्भारतेति संबोध्यते। मन्त्रे येयमसावसाविति वीप्सा तेन (तया) भृग्वादीनामृषाणां नामनिर्देशोऽभिप्रेतः। स च भार्गवच्यावनेत्यादिना पूर्वानुवाक एवास्माभिरुदाहृतः।
मूलम् (संयुक्तम्)
दे॒वेद्ध॒ इत्या॑ह दे॒वा ह्ये॑तमैन्ध॑त॒ मन्वि॑द्ध॒ इत्या॑ह॒ मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्द्धर्षि॑ष्टुत॒ इत्या॒हर्ष॑यो॒ ह्ये॑तमस्तु॑व॒न्विप्रा॑नुमदित॒ इत्या॑ह [51]
भास्करोक्त-विनियोगः
2अथ प्रवरमुक्त्वा निविदोन्वाह - देवेद्ध इत्याद्याः ॥
विश्वास-प्रस्तुतिः
दे॒वेद्ध॒ इत्या॑ह ।
दे॒वा ह्ये॑तमैन्ध॑त ।
मूलम्
दे॒वेद्ध॒ इत्या॑ह ।
दे॒वा ह्ये॑तमैन्ध॑त ।
पद-पाठः
दे॒वेद्ध॒ इति॑ दे॒व-इ॒द्धः॒ । इति॑ । आ॒ह॒ ।
दे॒वाः । हि । ए॒तम् । ऐन्ध॑त ।
भट्टभास्कर-टीका
ताः व्याचष्टे - देवा हीति । देवा ऋत्विज इन्द्रादयो वा एतमैन्धत दीपयन्ति, तस्माद् देवेद्धः । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
प्रदीपसिंहः
ताः = निविदः व्याचष्टेसायण-टीका
निवित्पदेषु सप्तसु प्रथमस्यार्थं दर्शयति- देवेद्ध इति। यस्माद्देवाः स्वकीयेषु यागेष्वेतमग्निम् ऐन्धत प्रज्वलितवन्तस्तस्मादेव+ इद्ध इत्युच्यते।
विश्वास-प्रस्तुतिः
मन्वि॑द्ध॒ इत्या॑ह ।
मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्ध॑ ।
मूलम्
मन्वि॑द्ध॒ इत्या॑ह ।
मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्ध॑ ।
पद-पाठः
मन्वि॑द्ध॒ इति॒ मनु॑-इ॒द्धः॒ । इति॑ । आ॒ह॒ । मनुः॑ । हि । ए॒तम् । उत्त॑र॒ इत्युत्-त॒रः॒ । दे॒वेभ्यः॑ । ऐन्द्ध॑ ।
भट्टभास्कर-टीका
मनुर्ह्येतं इति । मनुर्ह्येतं देवतार्थमैन्ध । देवेभ्योऽपि वा मनुरुत्तरो मनुरेतस्मात् मन्विद्धः । पूर्ववत्स्वरः । एवं सर्वत्र ।
सायण-टीका
द्वितीयपदस्यार्थं दर्शयति- मन्विद्ध इति। देवेभ्य उत्तरो देवैरिन्धनादूर्ध्वं स्वकीययागे मनुरैन्ध।
विश्वास-प्रस्तुतिः
ऋषि॑ष्टुत॒ इत्या॑ह।
ऋष॑यो॒ ह्ये॑तमस्तु॑वन् ।
मूलम्
ऋषि॑ष्टुत॒ इत्या॑ह।
ऋष॑यो॒ ह्ये॑तमस्तु॑वन् ।
पद-पाठः
ऋषि॑ष्टुत॒ इत्यृषि॑-स्तु॒तः॒ । इति॑ । आ॒ह॒ । ऋष॑यः । हि । ए॒तम् । अस्तु॑वन् ।
भट्टभास्कर-टीका
ऋषयः दर्शनवन्तोप्येनमस्तुववन् ।
सायण-टीका
उत्तरेष्वपि पञ्चसु पदेषु प्रसिद्धार्थतां हिशब्दो द्योतयति- ऋषिष्टुत इति।
विश्वास-प्रस्तुतिः
विप्रा॑नुमदित॒ इत्या॑ह ।
विप्रा॒ ह्ये॑ते ।
मूलम्
विप्रा॑नुमदित॒ इत्या॑ह ।
विप्रा॒ ह्ये॑ते ।
पद-पाठः
विप्रा॑नुमदित॒ इति॒ विप्र॑-अ॒नु॒म॒दि॒तः॒ । इति॑ । आ॒ह॒ । विप्राः॑ । हि । ए॒ते ।
भट्टभास्कर-टीका
विप्रा हीति । विप्रा मेधाविनः ये शुश्रुवांसः श्रुतार्थाः गृहीतवेदार्थाः तैरप्य् अनुमदितः अनुमोदितः अनुक्रमेण वा स्तुतः । मद तृप्तियोगे; मन्दतेर्वा, छान्दसो नुमभावः ॥
सायण-टीका
शुश्रुवांसः श्रुताध्ययनसंपन्ना जात्या विप्रा विद्यया बिबुधाः कवयश्च भवन्ति। तैरयमनुमदितस्तोपितः शस्तः स्तुतश्च।
मूलम् (संयुक्तम्)
यच्छु॑श्रु॒वाँस॑ᳵ कविश॒स्त इत्या॑ह क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाँसो॒ ब्रह्म॑सँशित॒ इत्या॑ह॒ ब्रह्म॑सँशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिर्ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह प्र॒णीर्ह्ये॑ष य॒ज्ञानाँ॑
विश्वास-प्रस्तुतिः
यच्छु॑श्रु॒वाँस॑ᳵ कविश॒स्त इत्या॑ह ।
क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒ववाँसः॑ ।
मूलम्
यच्छु॑श्रु॒वाँस॑ᳵ कविश॒स्त इत्या॑ह ।
क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाँसः॑ ।
पद-पाठः
यत् । शु॒श्रु॒वाँसः॑ । क॒वि॒श॒स्त इति॑ कवि-श॒स्तः । इति॑ । आ॒ह॒ ।
क॒वयः॑ । हि । ए॒ते । यत् । शु॒श्रु॒वाँसः॑ ।
भट्टभास्कर-टीका
3कवयो हीति ॥ कवयः क्रान्तदर्शनाः सूक्ष्मदृशः तेऽपि श्रुतवन्तः एव । तैरपि शस्तः स्तुतः ।
विश्वास-प्रस्तुतिः
ब्रह्म॑सँशित॒ इत्या॑ह॒
ब्रह्म॑सँशितो॒ ह्ये॑षः ।
मूलम्
ब्रह्म॑सँशित॒ इत्या॑ह॒
ब्रह्म॑सँशितो॒ ह्ये॑षः ।
पद-पाठः
ब्रह्म॑सँशित॒ इति॒ ब्रह्म॑-सँ॒शि॒तः॒ । इति॑ । आ॒ह॒ ।
ब्रह्म॑सँशित॒ इति॒ ब्रह्म॑-सँ॒शि॒तः॒ । हि । ए॒षः ।
भट्टभास्कर-टीका
ब्रह्मसंशितो हीति ॥ ब्रह्मणा ऋगादिना मन्त्रेण परवस्तुनैव वा संशितः सम्यक् तीक्ष्णीकृतः ।
सायण-टीका
ब्रह्मणा मन्वेण संशितस्तीक्ष्णीकृतः।
विश्वास-प्रस्तुतिः
घृ॒ताह॑वन॒ इत्या॑ह घृ॒ता॒हु॒तिर्ह्य॑स्य प्रि॒यत॑मा ।
मूलम्
घृ॒ताह॑वन॒ इत्या॑ह ।
घृ॒ता॒हु॒तिर्ह्य॑स्य प्रि॒यत॑मा ।
पद-पाठः
घृ॒ताह॑वन॒ इति॑ घृ॒त-आ॒ह॒व॒नः॒ । इति॑ । आ॒ह॒ ।
घृ॒ता॒हु॒तिरिति॑ घृत-आ॒हु॒तिः । हि । अ॒स्य॒ । प्रि॒यत॒मेति॑ प्रि॒य-त॒मा॒ ।
भट्टभास्कर-टीका
घृताहुतिर्हीति । घृतमाहवनमाहुतिः प्रीतिहेतुरस्येति घृताहवनः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।
सायण-टीका
घृतरूपमाहवनमाहुतियस्यासौ घृताहवनः।
विश्वास-प्रस्तुतिः
प्र॒णीर् य॒ज्ञाना॒मित्या॑ह॒ प्र॒णीर् ह्ये॑ष य॒ज्ञाना॑म् ।
मूलम्
प्र॒णीर्य॒ज्ञाना॒मित्या॑ह ।
प्र॒णीर्ह्ये॑ष य॒ज्ञाना॑म् ।
पद-पाठः
प्र॒णीरिति॑ प्र-नीः । य॒ज्ञाना॑म् । इति॑ । आ॒ह॒ । प्र॒णीरिति॑ प्र-नीः । हि । ए॒षः । य॒ज्ञाना॑म् ।
भट्टभास्कर-टीका
प्रणीरिति । प्रकर्षेण यज्ञानां नेता उत्पादयिता ॥
सायण-टीका
अनुच्छ्वासेन पठनीयानां सप्तपदानामर्थं दर्शयित्वोच्छ्वासादूर्ध्यं पठनीयानां चतसृणां निविदामर्थं दर्शयति-
प्रणीर्यज्ञानामिति। यज्ञानां नेतृत्वमग्नौ प्रसिद्धम्।
मूलम् (संयुक्तम्)
र॒थीर॑ध्व॒राणा॒मित्या॑ह ए॒ष हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह॒ न ह्ये॑तङ्कश्च॒न [52] तर॑ति॒ तूर्णि॑र्हव्य॒वाडित्या॑ह॒ सर्वँ॒ ह्ये॑ष तर॒त्यास्पात्र॑ञ्जु॒हूर्दे॒वाना॒मित्या॑ह जु॒हूर्ह्ये॑ष दे॒वाना॑ञ्चम॒सो दे॑व॒पान॒ इत्या॑ह
विश्वास-प्रस्तुतिः
र॒थीर॑ध्व॒राणा॒म् इत्या॑ह ।
ए॒ष हि दे॑वर॒थः ।
मूलम्
र॒थीर॑ध्व॒राणा॒म् इत्या॑ह ।
ए॒ष हि दे॑वर॒थः ।
पद-पाठः
र॒थीः । अ॒ध्व॒राणा॑म् । इति॑ । आ॒ह॒ ।
ए॒षः । हि । दे॒व॒र॒थ इति॑ देव-र॒थः ।
भट्टभास्कर-टीका
4देवरथ इति ॥ अध्वराणां देवान् प्रति रंहयिता देवरथः । रंहणात् रथिः। औणादिक इप्रत्ययो वर्णविकारः ।
सायण-टीका
रथीर्देवानां हविर्वहनायाध्वराणां संबन्धी रथोऽयमग्निः।
विश्वास-प्रस्तुतिः
अ॒तूर्तो॒ होतेत्या॑ह ।
न ह्ये॑तङ्कश्च॒न तर॑ति ।
मूलम्
अतूर्तो॒ होतेत्या॑ह ।
न ह्ये॑तङ्कश्च॒न तर॑ति ।
पद-पाठः
अ॒तूर्तः॑ । होता॑ । इति॑ । आ॒ह॒ । न । हि । ए॒तम् । कः । च॒न । तर॑ति ।
भट्टभास्कर-टीका
न हीति । कश्चिदप्येनं न तरति नातिक्रमते । तरतेः कर्मणि निष्ठायां छान्दसो नत्वाभावः । नञ्समासे ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । केन चिदप्यतिक्रमितुं न शक्तः । होता देवानामाह्वाता ।
सायण-टीका
यस्मादह्वातारमेतमग्निं कोऽपि देवो न तरति नातिक्रामति तस्मादयमतूर्तो होतेत्युच्यते।
विश्वास-प्रस्तुतिः
तूर्णि॑र्हव्य॒वाडित्या॑ह ।
सर्वँ॒ ह्ये॑ष तर॑ति ।
मूलम्
तूर्णि॑र्हव्य॒वाडित्या॑ह ।
सर्वँ॒ ह्ये॑ष तर॑ति ।
पद-पाठः
तूर्णिः॑ । ह॒व्य॒वाडिति॑ हव्य-वाट् । इति॑ । आ॒ह॒ ।
सर्व॑म् । हि । ए॒षः । तर॑ति ।
भट्टभास्कर-टीका
सर्वं हीति । तरतेः कर्तरि औणादिको निन्प्रत्ययः, क्तिन्येव वा ‘ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति’ इति निष्ठावद्भावः, ‘रदाभ्यां’ इति णत्वम् । सर्वं तरितुमतिक्रमितुं समर्थो हविषां वोढारम् ।
सायण-टीका
यस्मात्सर्वमपि देवमयं हविर्वहनात्तरति प्राप्नोति तस्मात्तूर्णिर्हव्यवाडित्युच्यते।
विश्वास-प्रस्तुतिः
आ॒स्पा॒त्र॑ञ्जु॒हूर्दे॒वाना॒मित्या॑ह ।
जु॒हूर्ह्ये॑ष दे॒वाना॑म् ।
मूलम्
आ॒स्पा॒त्र॑ञ्जु॒हूर्दे॒वाना॒मित्या॑ह ।
जु॒हूर्ह्ये॑ष दे॒वाना॑म् ।
पद-पाठः
आस्पात्र॑म् । जु॒हूः । दे॒वाना॑म् । इति॑ । आ॒ह॒ ।
जु॒हूः । हि । ए॒षः ।दे॒वाना॑म् ।
भट्टभास्कर-टीका
जुहूर्हीति । जुहूस्थानीयोऽयं देवानां, यथा जुह्वाऽग्नौ हविः प्राप्यते एवमग्निना देवेषु हविः प्राप्स्यते इति । विशेषस्त्वस्यास्पात्रत्वम् । अयस्पात्रवत् दृढतरा अग्निलक्षणा जुहूरिति ॥
सायण-टीका
एताभ्यश्चतसृभ्यो निविद्भ्य ऊर्ध्वमुच्छ्वासं कृत्वा पश्चात्पठनीयानां चतसृणां निविदामर्थं दर्शयति-
आस्पात्रमिति।
एषोऽग्निर्देवानां जुहूसदृशो जुह्वामिवास्मिन्हविष्प्रक्षेपात्। न चास्य दारुमयजुहूवच्छैथिल्यं, किंत्वास्पात्रं लोहपात्रवद्दृढमित्यर्थेः।
मूलम् (संयुक्तम्)
च॒म॒सो दे॑व॒पान॒ इत्या॑ह चम॒सो ह्ये॑ष दे॑व॒पानो॒ऽराँ इ॑वाग्ने ने॒मिर्दे॒वाँ स्त्वम्प॑रि॒भूर॒सीत्या॑ह दे॒वान्ह्ये॑ष प॑रि॒भूःविश्वास-प्रस्तुतिः
च॒म॒सो दे॑व॒पान॒ इत्या॑ह ।
च॒म॒सो ह्ये॑ष दे॑व॒पानः॑ ।
मूलम्
च॒म॒सो दे॑व॒पान॒ इत्या॑ह ।
च॒म॒सो ह्ये॑ष दे॑व॒पानः॑ ।
पद-पाठः
च॒म॒सः । दे॒व॒पान॒ इति॑ देव-पानः॑ । इति॑ । आ॒ह॒ ।
च॒म॒सः । हि । ए॒षः । दे॒व॒पान॒ इति॑ देव-पानः॑ ।