०७ सामिधेनीमन्त्रव्याख्यानम् ...{Loading}...
प्राजापत्यं काण्डम्
प्रजापतिऋषिः ।
मूलम् (संयुक्तम्)
दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त॒ ते साम॑न्ने॒वाश्र॑यन्त॒ हिङ्क॑रोति॒ सामै॒वाक॒र्हिङ्क॑रोति॒ यत्रै॒व दे॒वा अश्र॑यन्त॒ तत॑ ए॒वैना॒न्प्र यु॑ङ्क्ते॒ हिङ्क॑रोति
विश्वास-प्रस्तुतिः
दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त ।
ते साम॑न्ने॒वाश्र॑यन्त ।
मूलम्
दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त ।
ते साम॑न्ने॒वाश्र॑यन्त ।
पद-पाठः
दे॒वाः । वै । न । ऋ॒चि । न । यजु॑षि । अ॒श्र॒य॒न्त॒ ।
ते । साम॑न् । ए॒व । अश्र॑यन्त ।
भट्टभास्कर-टीका
1अतः परमग्निहोत्रस्य ब्राह्मणं प्राजापत्यमेव काण्डम् ॥ देवा वा इत्यादि ॥ ऋचि यजुषि च नाश्रयन्त नासेवन्त इति च स्तुतिः । यजनं च नानीयन्त सामन्येवाश्रयन्त । साम सान्त्वने ।
तस्माद्धिङ्करोति हिङ्कारं प्रयुङ्क्ते सामिधेनीनामनुवचनारम्भे होता ।
सायण-टीका
कल्पः (ल्पे) पुरस्तात्सामिधेनीनाँ होतेत्युपक्रम्यान्तराऽऽहवनीयमुत्करं च प्रतीचीनं गच्छञ्जपति कं प्रपद्ये तं प्रपद्य इत्यादिकमुक्त्वा सत्यं प्रपद्य इति वेति पक्षान्तरमुक्तम्। तत्पाठस्तु-
सत्यं प्रपद्ये । ऋतं प्रपद्ये अमृतं प्रपद्ये। प्रजापतेः प्रिवां तनुवमनार्तां प्रपद्ये। इदमहं पञ्चदशेन वज्रेण। द्विषन्तं भ्रातृव्यमवक्रामाभि। योऽस्मान्द्वेष्टि। यं चं. वयं द्विष्मः। भूर्भुवः सुवः। हिम् (ब्रा. का. ३ प्र. ५ अ. १) इति।
सत्यं यथार्थभूतमिदं कमं प्रपद्ये प्रारभे। अस्मित्कर्मणि वाचिकोऽपराधो मा भूदित्यर्थः। मनसा चिन्त्यमानमप्यृतं यथा भवति तथा प्रपद्ये। मानसोऽप्यपराधो मा भूदित्यर्थः। अमृतत्वहेतुभूतमिदं कर्म प्रपद्ये। अनेन कर्मणा देवत्वं प्राप्यतामित्यर्थः। देवेष्वप्यार्तिरहितां प्रजापतेः प्रियां तनुवं प्रजापतिशरीरमिदं कर्म प्रपद्ये। इदमिति हस्तेनायिनयः। अहं होता पञ्चदशस्तोमसदृशेन वज्ररूपेणानेन कर्मणा द्विपन्तं शत्रुमवष्टभ्य पीडयामि। यः शत्रुरस्मान्मनसा द्वेष्टि यं च शत्रुं वयं मनसा द्विष्मस्तमुभयविधमेवक्रामामीति पूर्वत्रान्वयः। भूर्भूवः सुवरित्येतन्नामका लोकास्तान्हिनोमि प्रीणयामीत्यर्थः।
कल्पः- व्याहृतीरुक्त्वा त्रिरभिहिंकृत्यानवानमभिहिंक्रारादृचमुपसंदधाति प्र वो वाजा अभिद्यव इत्येकादशेमाः सामिधेन्यः इति।
अनवानमुदछ्वसन्। तत्र प्रथमायाः पाठस्तु-
प्र वो वाजा अभिद्यवः। हविष्मन्तो घृताच्या। देवाञ्जिगाति सुन्नयुः। (ब्रा. का. ३ प्र. ५ अ. २) इति।
हे देवा यो युष्मदीया ऋत्विग्यजमानाः प्रवर्तन्ते। वाजा गमनशीला मासा अभिद्यवोऽभितः पूर्वपक्षरूपेणोत्तरपक्षरूपेण च दीप्यमाना अर्धमासा हविष्मन्तो हविर्भाजो देवाश्च घृताच्या यागसाधनभूतघृतप्रदया गवा सहानुकूलाः प्रवर्तन्तामित्यध्याहारः।
किंचायं यज्ञो देवाञ्जिगाति प्राप्नोतु। यजमानस्य सुम्नयुः सुखेच्छुर्भवतु। यदेतदुक्तं त्रिर्हिं करोतीति तदेतद्विधत्ते— देवा वै नर्चीति।
विश्वास-प्रस्तुतिः
हिङ्क॑रोति ।
सामै॒वाक॒र्हिङ्क॑रोति ।
मूलम्
हिङ्क॑रोति ।
सामै॒वाक॒र्हिङ्क॑रोति ।
पद-पाठः
हिम् । क॒रो॒ति॒ ।
साम॑ । ए॒व । अ॒कः॒ ।
हिम् । क॒रो॒ति॒ ।
भट्टभास्कर-टीका
हिनोति प्रीणयति वा सर्वमिति हिम् । हि गतौ, हिवि प्रीणने, ब्रह्मणो नामेदं, छान्दसी रूपसिद्धिः ।
सामैव अकः कृतं भवति सामभक्तित्वाद्धिंकारस्य । छान्दसो लुङ्, ‘मन्त्रे घस’ इति च्लेर्लुक् ।
असकृद्विधानं हिङ्कारस्य फलभेदप्रदर्शनार्थम् ।
सायण-टीका
देवाः पूर्वमृचि नाश्रयन्त यजुष्यपि नाश्रयन्त न संतुष्टा इत्यर्थः। किंतु सामन्येव संतुष्टाः। ततो हिमितिशब्दमुच्चारयेत्। तेन सामैव कृतं भवति। पञ्चकृत्वः सप्तकृत्वो वा साम्न आदौ हिंकारस्य विद्यमानत्वात्। तस्य हिमितिशब्दस्य त्रिरुच्चारणमभिप्रेत्य त्रिवारं विधिरनूद्य प्रशस्यते।
विश्वास-प्रस्तुतिः
यत्रै॒व दे॒वा अश्र॑यन्त ।
तत॑ ए॒वैना॒न्प्र यु॑ङ्क्ते॒ हिङ्क॑रोति ।
मूलम्
यत्रै॒व दे॒वा अश्र॑यन्त ।
तत॑ ए॒वैना॒न्प्र यु॑ङ्क्ते॒ हिङ्क॑रोति ।
पद-पाठः
यत्र॑ । ए॒व । दे॒वाः । अश्र॑यन्त ।
ततः॑ । ए॒व । ए॒ना॒न् । प्रेति॑ । यु॒ङ्क्ते॒ ।
हिम् । क॒रो॒ति॒ ।
भट्टभास्कर-टीका
यत्रैवेति । यत्र स्थिताः देवाः तत एव एनान् देवानानीय इह प्रयुङ्क्ते ॥
सायण-टीका
यत्रैव देवा आश्रयन्त यत्रैव सामनि देवाः संतुष्टास्तत एव साम्न एनान्देवान्प्रयुङ्क्ते होता हिं कुर्वन्प्रकर्षेण तोषयतीत्यर्थः।
मूलम् (संयुक्तम्)
वा॒च ए॒वैष योगो॒ हिङ्क॑रोति प्र॒जा ए॒व तद्यज॑मानस्सृजते
विश्वास-प्रस्तुतिः
वा॒च ए॒वैष योगो॒ हिङ्क॑रोति।
प्र॒जा ए॒व तद्यज॑मानस्सृजते ।
मूलम्
वा॒च ए॒वैष योगो॒ हिङ्क॑रोति।
प्र॒जा ए॒व तद्यज॑मानस्सृजते ।
पद-पाठः
वा॒चः । ए॒व । ए॒षः । योगः॑ ।
हिम् । क॒रो॒ति॒ ।
प्र॒जा इति॑ प्र-जाः । ए॒व । तत् । यज॑मानः । सृ॒ज॒ते॒ ।
भट्टभास्कर-टीका
2वाच इति ॥ वाग्योगः खल्ययम् । वाक् सामिधेनीलक्षणा अनेन युज्यते ।
प्रजा एवेति । एतेन हिङ्कारस्य पशव्यत्वमाह ॥
सायण-टीका
प्रथमोच्चारणेन साम कृतं भवति। तथा द्वितीयोच्चारणेन वाचो योगः संपद्यते। सामाश्रयभूताया ऋग्रूपाया वाचः संबन्धः संवद्यत इत्यर्थः। तृतीयोच्चारणं यदस्ति तेन यजमानः प्रजा एव सृष्टवान्भवति।
मूलम् (संयुक्तम्)
त्रिᳶ प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒माय्ँ य॒ज्ञस्यै॒व तद्ब॒र्सम् [39] न॒ह्य॒त्यप्र॑स्रँसाय
विश्वास-प्रस्तुतिः
त्रिᳶ प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒माम् ।
य॒ज्ञस्यै॒व तद्ब॒र्सन्न॑ह्य॒त्यप्र॑स्रँसाय ।
मूलम्
त्रिᳶ प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒माम् ।
य॒ज्ञस्यै॒व तद्ब॒र्सन्न॑ह्य॒त्यप्र॑स्रँसाय ।
पद-पाठः
त्रिः । प्र॒थ॒माम् । अन्विति॑ । आ॒ह॒ । त्रिः । उ॒त्त॒मामित्यु॑त्-त॒माम् ।
य॒ज्ञस्य॑ । ए॒व । तत् । ब॒र्सम् । न॒ह्य॒ति॒ । अप्र॑स्रँसा॒येत्यप्र॑-स्रँ॒सा॒य॒ ।
भट्टभास्कर-टीका
3त्रिः प्रथमामित्यादि ॥ ‘प्र वो वाजाः’ इत्याद्या एकादशर्चः । आद्यन्तयोर्व [योः पुनर्व] चनेन पञ्चदशसामिधेन्यः क्रियन्ते । तेन सामिधेनीनाम् [नीनां आद्यन्तयोरभ्यासेन यज्ञस्य बर्सम् आ] वरणं नह्यति बध्नाति । बृ आवरणे, औणादिकस्सप्रत्ययः ।
तत् यज्ञस्य अप्रस्रंसनाय भवति ॥
सायण-टीका
एकादशानां सामिधेनीनामाद्यन्तयोरावृत्तिं विधत्ते- त्रिः प्रथमामिति। “प्र वो बाजा अभिद्यवः” इत्येषा प्रथमा।
“आ जुहोत दुवस्यत” इति वा “त्वं वरुण उन मित्र” इति वा द्वयोरन्यतरोत्तमा।
तत्तेन प्रथमोत्तमयोस्त्रिरभ्यासेन यज्ञस्य बर्समन्तभागान्नह्यति बध्नाति। यथालोके वस्त्रेण कम्बलेन वा ब्रीहीन्वोढुकामोऽन्तद्वयं बध्नाति तद्वत्। तच्च बन्धनं स्रंसनराहित्याय भवति।
मूलम् (संयुक्तम्)
सन्त॑त॒मन्वा॑ह प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै
विश्वास-प्रस्तुतिः
सन्त॑त॒मन्वा॑ह ।
मूलम्
सन्त॑त॒मन्वा॑ह ।
पद-पाठः
सन्त॑त॒मिति॒ सम्-त॒त॒म् । अन्विति॑ । आ॒ह॒ ।
भट्टभास्कर-टीका
4सन्ततमिति ॥ पूर्वस्यां उत्तरमर्धर्चं उत्तरस्याश्च पूर्वं संहितं कुर्यात् । प्रथमायां च हिङ्कारेण मध्यमाया अर्धर्चमालभेत । न हिंकृत्येति केचित् । अविशेषात् सर्वेषां सन्ततत्वम् । ऋचावन्तराऽनुच्छ्वासः सन्ततत्वं श्रूयते ‘नान्तरार्चा व्यन्यात्’ इति ।
सायण-टीका
पूर्वस्यामृच्युत्तरार्धस्योत्तरस्यामृचि पूर्वार्धस्य च परस्पराविश्लेवं विधत्ते— संततमन्वाहेति।
विश्वास-प्रस्तुतिः
प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै ।
मूलम्
प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै ।
पद-पाठः
प्रा॒णाना॒मिति॑ प्र-अ॒नाना॑म् । अ॒न्नाद्य॒स्येत्य॑न्न-अद्य॑स्य । सन्त॑त्या॒ इति॒ सम्-त॒त्यै॒ । 3 ।
भट्टभास्कर-टीका
एकेनोच्छासेनोच्चार्यैव क्रियमाणं प्राणानामन्नाद्यस्य चाविच्छेदाय भवति ।
सायण-टीका
तदेतत्संततोच्चारणं यजमानस्य प्राणानां संतत्यै भोज्यवस्तुसंतत्यै च संपद्यते।
विश्वास-प्रस्तुतिः
अथो॒ रक्ष॑सा॒मप॑हत्यै ।
मूलम्
अथो॒ रक्ष॑सा॒मप॑हत्यै ।
पद-पाठः
अथो॒ इति॑ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ । 4 ।
भट्टभास्कर-टीका
अथो अपि च रक्षसामपहत्यै भवति, सामिधेनीनां अनुच्छ्वासेन रक्षसामनुच्छ्वासः क्रियत इति । केचिदाहुः - प्रथमोत्तमयोरेवेदं सन्ततत्वविधानमिति ॥
सायण-टीका
किंच राक्षसाः श्वासनिरोधेनापहता भवन्ति।
मूलम् (संयुक्तम्)
राथ॑न्तरीम्प्रथ॒मामन्वा॑ह॒ राथ॑न्तरो॒ वा अ॒यल्ँ लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति
विश्वास-प्रस्तुतिः
राथ॑न्तरीम्प्रथ॒मामन्वा॑ह।
मूलम्
राथ॑न्तरीम्प्रथ॒मामन्वा॑ह।
भट्टभास्कर-टीका
5राथन्तरीमिति ॥ सामविशेषसम्बन्धेन ऋचस्स्तुतिः । रथन्तरसामसम्बन्धिनी प्रथमा ऋक्, प्रथम्याद्द्वयोरुदात्तस्वरत्वाच्च । उत्सादित्वादञ् ।
पद-पाठः
राथ॑न्तरीम् । प्र॒थ॒माम् । अन्विति॑ । आ॒ह॒ ।
सायण-टीका
यस्याः प्रथमाया आवृत्तिर्विहिता तां स्वरूपेण विधत्ते— राथंतरीमिति। कस्मिंश्चित्सामशाखाविशेषे ‘प्र वो वाजाः” इत्येत श्यामृचि रथंतरसाम्नो गीतत्वादियं राथंतरी।
विश्वास-प्रस्तुतिः
राथ॑न्तरो॒ वा अ॒यल्ँ लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति ।
मूलम्
राथ॑न्तरो॒ वा अ॒यल्ँ लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति ।
पद-पाठः
राथ॑न्तरः । वै । अ॒यम् । लो॒कः ।
इ॒मम् । ए॒व । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । 7 ।
भट्टभास्कर-टीका
अयं लोको भूलोकः राथन्तरः, स एव हेतुः ॥
सायण-टीका
रथंतरसामयुक्ते कर्मणा संपादयितुं शक्यत्वाद्भूलोकस्य राथंतरत्वम्।
मूलम् (संयुक्तम्)
त्रिर्वि गृ॑ह्णाति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति
विश्वास-प्रस्तुतिः
त्रिर्वि गृ॑ह्णाति ।
त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति ।
मूलम्
त्रिर्वि गृ॑ह्णाति ।
त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति ।
पद-पाठः
त्रिः । वीति॑ । गृ॒ह्णा॒ति॒ ।
त्रयः॑ । इ॒मे । लो॒काः ।
इ॒मान् । ए॒व । लो॒कान् । अ॒भीति॑ । ज॒य॒ति॒ ।
भट्टभास्कर-टीका
6अस्यास्त्रिर्विच्छेदो विग्रहः । तृतीयां त्रिर्विगृह्णातीत्येके ॥
सायण-टीका
यदुक्तं सूत्रकारेण-“तृतीयां सामिधेनीं त्रिर्विगृह्णाति” इति, तदेतद्विधत्ते— त्रिर्वि गह्णातीति। तृतीयस्याः सामिधेन्याः प्रथमपादमुच्चार्य सकृद्विग्रहः कार्यः। अर्धर्चे द्वितीयो विग्रहः। तत उत्तरार्ध उपरितनमन्त्रस्य पूर्वार्धं च संयोज्य तदन्ते तृतीयो विग्रहः। एतेन विग्रहत्रयेण लोकत्रयजयो भवति।
मूलम् (संयुक्तम्)
बार्ह॑तीमुत्त॒मामन्वा॑ह॒ बार्ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति
विश्वास-प्रस्तुतिः
बार्ह॑तीमुत्त॒मामन्वा॑ह ।
बार्ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति ।
मूलम्
बार्ह॑तीमुत्त॒मामन्वा॑ह ।
बार्ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति ।
पद-पाठः
बार्ह॑तीम् । उ॒त्त॒मामित्यु॑त्-त॒माम् । अन्विति॑ । आ॒ह॒ ।
बार्ह॑तः । वै । अ॒सौ । लो॒कः ।
अ॒मुम् । ए॒व । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ ।
भट्टभास्कर-टीका
7बार्हतीमिति ॥ “तं त्वा समिद्भिः’ इति तृतीया तिसृणामुत्तमा । बृहच्छब्दोप्युत्सादिः । बृहत्सामवत्त्वं पूर्ववत्सम्बन्धि, उभयोस्तृतीयत्वात् ॥
सायण-टीका
यस्यामृच्ययं त्रिविधो विग्रहस्तामृचं विधत्ते— बार्हतीमृत्तमामिति। य (अ) स्यामृचि बृहच्छोचा यविष्ठ्येतिशब्दस्यश्रूयमाणत्वादियं बार्हती। सा च तृतीयेति कृत्वा प्रथममध्यमापेक्षयोत्तमा। तथा सत्युत्तमामन्वाहेत्युक्ते तृतीयात्वेन पठेदित्यर्थो भवति। एतन्मन्त्रोपेतकर्मसाध्यत्वात्स्वर्गलोकस्य बार्हतत्वम,
मूलम् (संयुक्तम्)
प्र वः॑ [40] वाजा॒ इत्यनि॑रुक्ताम्प्राजाप॒त्यामन्वा॑ह य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒व प्र॒जाप॑ति॒मा र॑भते॒ प्र वो॒ वाजा॒ इत्यन्वा॒हान्नव्ँ॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे॒ प्र वो॒ वाजा॒ इत्यन्वा॑ह॒ तस्मा॑त्प्रा॒चीनँ॒ रेतो॑ धीय॒ते
विश्वास-प्रस्तुतिः
प्र वो॒ वाजा॒ इत्यनि॑रुक्ताम्प्राजाप॒त्यामन्वा॑ह ।
य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒व प्र॒जाप॑ति॒मा र॑भते ।
प्र वो॒ वाजा॒ इत्यन्वा॑ह ।
अन्नव्ँ॒ वै वाजः॑ ।
अन्न॑मे॒वाव॑ रुन्द्धे ।
प्र वो॒ वाजा॒ इत्यन्वा॑ह ।
मूलम्
प्र वो॒ वाजा॒ इत्यनि॑रुक्ताम्प्राजाप॒त्यामन्वा॑ह ।
य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒व प्र॒जाप॑ति॒मा र॑भते ।
प्र वो॒ वाजा॒ इत्यन्वा॑ह ।
अन्नव्ँ॒ वै वाजः॑ ।
अन्न॑मे॒वाव॑ रुन्द्धे ।
प्र वो॒ वाजा॒ इत्यन्वा॑ह ।
पद-पाठः
प्रेति॑ । वः॒ । वाजाः॑ । इति॑ ।
अनि॑रुक्ता॒मित्यनिः॑-उ॒क्ता॒म् । प्रा॒जा॒प॒त्यामिति॑ प्राजा-प॒त्याम् । अन्विति॑ । आ॒ह॒ ।
य॒ज्ञः । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ ।
य॒ज्ञम् । ए॒व । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । एति॑ । र॒भ॒ते॒ ।
प्रेति॑ । वः॒ । वाजाः॑ । इति॑ । अन्विति॑ । आ॒ह॒ ।
अन्न॑म् । वै । वाजः॑ ।
अन्न॑म् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
प्रेति॑ । वः॒ । वाजाः॑ । इति॑ । अन्विति॑ । आ॒ह॒ ।
भट्टभास्कर-टीका
8अनिरुक्तामिति ॥ अस्पष्टदेवताकां अतः प्राजापत्यां नीचैस्स्वरत्वाच्च बृहच्छब्दसम्बन्धित्वाच्च । यज्ञात्मानं प्रजापतिमादौ परिगृह्णाति । विशिष्टदेवतासम्बन्धेन स्तुतिरेषा ।
अन्नं वै वाज इति । वाजपदसम्बन्धेन स्तुतिः ।
सायण-टीका
प्रथमायामृचि देवतादिविशेषाभिव्यक्त्यभावं प्रशंसति-
प्र वो वाजा इति। कस्यापि देवविशेषस्य निरुक्तं नामविशेषकथनं तत्र नास्ति सेयमनिरुक्ता। प्रजापतिश्च सृष्टेः प्राग्रूपविशेषाभावादनिरुक्तः। अत इयं प्राजापत्या। यज्ञश्च प्रजापतिसृष्टत्वात्तत्स्वरूपः। तस्मात्प्राजापत्यमन्त्रस्य प्रथमपाठेन यज्ञरूपमेव प्रजापतिं प्रारब्धवान्भवति।
अस्मिन्मन्त्रे वाजशब्दोच्चारणं प्रशंसति-
प्र वो वाजा इति।
तथाऽत्र प्रशब्दोच्चारणं प्रशंसति-
प्र वो वाजा इति।
विश्वास-प्रस्तुतिः
तस्मा॑त्प्रा॒चीनँ॒ रेतो॑ धीयते ।
मूलम्
तस्मा॑त्प्रा॒चीनँ॒ रेतो॑ धीयते ।
पद-पाठः
तस्मा॑त् । प्रा॒चीन॑म् । रेतः॑ । धी॒य॒ते॒ । 9 ।
भट्टभास्कर-टीका
प्राचीनमिति । उपसर्गविशेषसम्बन्धेन स्तुतिः । प्रगतं प्राचीनम् । ‘विभाषाञ्चेरदिक्स्त्रियाम्’ इति खः ॥
सायण-टीका
यस्मात्प्रशब्द उच्चारितस्तस्मात्प्राचीनं प्रमुखे रेतोवर्तिनि योषिच्छरीरेऽञ्चति गच्छतीति प्राचीनं, तथाविधं रेतो धीयते गर्भाशये स्थाप्यते।
मूलम् (संयुक्तम्)
अग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह॒ तस्मा॑त्प्र॒तीचीः॑ प्र॒जा जा॑यन्ते॒ प्र वो॒ वाजाः॑ [41] इत्यन्वा॑ह
विश्वास-प्रस्तुतिः
अग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह ।
तस्मा॑त्प्र॒तीचीः॑ प्र॒जा जा॑यन्ते ।
प्र वो॒ वाजा इत्यन्वा॑ह ।
मूलम्
अग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह ।
तस्मा॑त्प्र॒तीचीः॑ प्र॒जा जा॑यन्ते ।
प्र वो॒ वाजा इत्यन्वा॑ह ।
पद-पाठः
अग्ने॑ । एति॑ । या॒हि॒ । वी॒तये॑ । इति॑ । आ॒ह॒ ।
तस्मा॑त् । प्र॒तीचीः॑ । प्र॒जा इति॑ प्र-जाः । जा॒य॒न्ते॒ ।
प्रेति॑ । वः॒ । वाजाः॑ । इति॑ । अन्विति॑ । आ॒ह॒ ।
भट्टभास्कर-टीका
9अग्न आ याहीति द्वितीया ऋक् ॥ आयाहीति वचनात् प्राचीनं निहितं रेतः प्राचीनं प्रजात्वेन परिणतं निर्गच्छति । प्रतिकूलाः प्रतीच्यः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । ‘चौ’ इति पूर्वपदस्य दीर्घत्वम्, अन्तोदात्तत्वं च ॥
सायण-टीका
एतस्य मन्त्रस्य चरमपादेन सहोत्तरस्य मन्त्रस्य प्रथमपादोच्चारणं प्रशंसति- अग्न आ याहीति। यस्मादायाहीत्युक्तं तस्मात्प्रतीचीः प्रत्यङ्मुखाः सदृशाः प्रजा उत्पद्यन्ते। मन्त्रगतानां पदानामर्थान्दर्शयति-
प्र वो वाजा इति।
मूलम् (संयुक्तम्)
मासा॒ वै वाजा॑ अर्धमा॒सा अ॒भिद्य॑वो दे॒वा ह॒विष्म॑न्तो॒ गौर्घृ॒ताची॑ य॒ज्ञो दे॒वाञ्जि॑गाति॒ यज॑मानस्सुम्न॒युरि॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यन्धामाव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
मासा॒ वै वाजाः॑ ,
मूलम्
मासा॒ वै वाजाः॑ ,
पद-पाठः
मासाः॑ । वै । वाजाः॑ । अ॒र्ध॒मा॒सा इत्य॑र्ध-मा॒साः । अ॒भिद्य॑व॒ इत्य॒भि-द्य॒वः॒ । दे॒वाः । ह॒विष्म॑न्तः । गौः । घृ॒ताची॑ । य॒ज्ञः । दे॒वान् । जि॒गा॒ति॒ । यज॑मानः । सु॒म्न॒युरिति॑ सुम्न-युः ।
भट्टभास्कर-टीका
10मासा वा इत्यादि ॥ मन्त्रपदानां सर्वेषां स्तुतिः । हे ऋत्विग्यजमानाः वाजादयो युष्माकमभिमतसिद्धये भवन्तु । वाजाः मासाः अन्नहेतवः; गतिमन्तो वा सर्वक्रियाणामाधाराः ।
सायण-टीका
वजन्ति गच्छन्ति क्रमेण प्रवर्तन्त इति चैत्रादिमासा वाजाः। इदमेव ब्राह्मणवाक्यं हृदि निधाय मन्त्रार्थः पूर्वं दर्शितः।
विश्वास-प्रस्तुतिः
अ॒र्ध॒मा॒सा अ॒भिद्य॑वः .. ,
मूलम्
अ॒र्ध॒मा॒सा अ॒भिद्य॑वः .. ,
भट्टभास्कर-टीका
अर्धमासाः अभिद्यवः दिवसैरभिगतदीप्तित्वात् साभिप्रायेण क्रियाप्रवर्तकाः ।
विश्वास-प्रस्तुतिः
दे॒वा ह॒विष्म॑न्तः .. ,
मूलम्
दे॒वा ह॒विष्म॑न्तः .. ,
भट्टभास्कर-टीका
हविष्मन्तो देवाः क्रियया आराध्याः ।
विश्वास-प्रस्तुतिः
गौर्घृ॒ताची॑ .. ,
मूलम्
गौर्घृ॒ताची॑ .. ,
भट्टभास्कर-टीका
घृताची घृतमञ्चतीति । घृतहेतुर्गौः हविःप्रदानेन क्रियाप्रवृत्तिहेतुः । पूर्ववत् ‘चौ’ इति दीर्घत्वम्, अन्तोदात्तत्वं च ।
विश्वास-प्रस्तुतिः
य॒ज्ञो दे॒वाञ्जि॑गाति ।
मूलम्
य॒ज्ञो दे॒वाञ्जि॑गाति ।
भट्टभास्कर-टीका
स यज्ञो देवान् जिगाति गच्छति तृप्तिहेतुत्वेन । गाङ् गतौ, व्यत्ययेन परस्मैपदं, शपः श्लुः, अभ्यासस्य चेत्वम् ।
विश्वास-प्रस्तुतिः
यज॑मानस्सुम्न॒युः ।
मूलम्
यज॑मानस्सुम्न॒युः ।
भट्टभास्कर-टीका
सुम्नयुः सुखमात्मन इच्छतीति सुम्नयुर्यजमानः फलभाक् । एवमेते यज्ञस्याधाराः ।
विश्वास-प्रस्तुतिः
इ॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यन्धामाव॑ रुन्द्धे ।
मूलम्
इ॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यन्धामाव॑ रुन्द्धे ।
पद-पाठः
इ॒दम् । अ॒सि॒ । इ॒दम् । अ॒सि॒ । इति॑ । ए॒व । य॒ज्ञस्य॑ । प्रि॒यम् । धाम॑ । अवेति॑ । रु॒न्द्धे॒ ।
भट्टभास्कर-टीका
एभिस्ताद्रूप्येण इदमसीदमसीति यज्ञं स्तुत्वा यज्ञस्य प्रियं धाम स्थानं वाजादिकमवरुन्धे ॥
सायण-टीका
पदार्थानभिधाय मन्त्रतात्पर्यार्थमाह-
इदमसीति। सामिधेनीभिः समिध्यमान हेऽग्ने त्वमिदं मासानां स्वरूपमसि, अर्धमासानां स्वरूपमसि, देवानां स्वरूपमसीत्येव तात्पर्यार्थः। अनेन तात्पर्येण यज्ञस्य प्रियं धामाऽऽहुतिस्थानमिध्यमानाग्निस्वरूपं संपादितवान्भवति।
मूलम् (संयुक्तम्)
यङ्का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ प्र वो॒ वाजा॒ इति॒ तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ सन्त॑त॒मुत्त॑रमर्ध॒र्चमा ल॑भेत [42] प्रा॒णेनै॒वास्या॑पा॒नन्दा॑धार॒ सर्व॒मायु॑रेति
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॑ ..
प्र वो॒ वाजा॒ इति॑ ..
तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ सन्त॑त॒मुत्त॑रमर्ध॒र्चमा ल॑भेत ।
मूलम्
यङ्का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॑ ..
प्र वो॒ वाजा॒ इति॑ ..
तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ सन्त॑त॒मुत्त॑रमर्ध॒र्चमा ल॑भेत ।
पद-पाठः
यम् । का॒मये॑त । सर्व॑म् । आयुः॑ । इ॒या॒त् । इति॑ ।
प्रेति॑ । वः॒ । वाजाः॑ । इति॑ ।
तस्य॑ । अ॒नूच्येत्य॑नु-उच्य॑ । अ॒ग्ने॒ । एति॑ । या॒हि॒ । वी॒तये॑ । इति॑ ।
सन्त॑त॒मिति॒ सम्-त॒त॒म् । उत्त॑र॒मित्युत्-त॒र॒म् । अ॒र्ध॒र्चमित्य॑र्ध-ऋ॒चम् । एति॑ । ल॒भे॒त॒ ।
भट्टभास्कर-टीका
11यं इत्यादि ॥ एतेन प्रथमद्वितीययोः सन्तानस्य विशेषणात् आयुर्हेतुत्वेन स्तुतिः क्रियते । ‘प्र वो वाजाः’ इत्येतामनूच्य अस्या उत्तरमर्धर्चं ‘अग्न आ याहि वीतये’ इत्यनया सन्ततमालभेत ।
ऋचोर्धम् अर्धर्चम् । ‘ऋक्पूः’ इति समासान्तः ।
सायण-टीका
यदुक्तं संततमन्वाह प्राणानामन्नाद्यस्य संतत्यै, इति, तदेवेदानीं काम्यत्वेनापि विधत्ते- यं कामयेतेति। यं यजमानमुद्दिश्य होता कामयते। किमिति अयं यजमानो मृत्युरहितः सर्वमायुः प्राप्नुयादिति, तस्य यजमानस्याऽऽयुष्प्राप्तये प्रथमां सामिधेनीं सर्वामनूच्य विच्छेदमकृत्वोत्तरमन्त्रस्य प्रथममर्धर्चमुपक्रमेत।
विश्वास-प्रस्तुतिः
प्रा॒णेनै॒वास्या॑पा॒नन्दा॑धार ।
सर्व॒मायु॑रेति ।
मूलम्
प्रा॒णेनै॒वास्या॑पा॒नन्दा॑धार ।
सर्व॒मायु॑रेति ।
पद-पाठः
प्रा॒णेनेति॑ प्र-अ॒नेन॑ । ए॒व । अ॒स्य॒ । अ॒पा॒नमित्य॑प-अ॒नम् । दा॒धा॒र॒ । सर्व॑म् । आयुः॑ । ए॒ति॒ ।
भट्टभास्कर-टीका
प्राणेनैवेति । द्वयोः अर्धर्चयोः प्राणापानस्थानीयत्वात् ।
दाधारेति छान्दसो लिट्, तुजादित्वादभ्यासस्य दीर्घत्वम् ॥
सायण-टीका
तेन सांतत्येनास्य यजमानस्य प्राणवायुना बह्रिर्निर्गच्छता सहैवापानवायुं पुनरप्यन्तरागच्छन्तं धारितवान्भवति। तेन च धारणेन सर्वमायुः प्राप्नोति।
मूलम् (संयुक्तम्)
यो वा अ॑र॒त्निँ सा॑मिधे॒नीनाव्ँ॒वेदा॑र॒त्नावे॒व भ्रातृ॑व्यङ्कुरुतेऽर्ध॒र्चौ सन्द॑धात्ये॒ष वा अ॑र॒त्निस्सा॑मिधे॒नीनाय्ँ॒य ए॒वव्ँ वेदा॑र॒त्नावे॒व भ्रातृ॑व्यङ्कुरुते
विश्वास-प्रस्तुतिः
यो वा अ॑र॒त्निँ सा॑मिधे॒नीनाव्ँ॒वेद॑ ।
मूलम्
यो वा अ॑र॒त्निँ सा॑मिधे॒नीनाव्ँ॒वेद॑ ।
पद-पाठः
यः । वै । अ॒र॒त्निम् । सा॒मि॒धे॒नीना॒मिति॑ साम्-इ॒धे॒नीना॑म् । वेद॑ ।
भट्टभास्कर-टीका
12यो वा इत्यादिना सन्तानस्य फलान्तरं दर्शयति । समिधामाधानमन्त्राः सामिधेन्यः । ‘समिधामाधाने’ इति षेण्यण्प्रत्ययः, ‘षिद्गौरादिभ्यश्च’ इति ङीष्, ‘यस्य’ इति लोपे ‘हलस्तद्धितस्य’ इति यलोपः । तासाम् अरत्निः अरमणम् । नञ्पूर्वादमेर्निप्रत्ययेऽन्त्यविकारः ।
यद्वा - अरणम् अरत्निः सामिधेनीनां गमनविशेषः । अर्तेरत्निप्रत्ययः ।
अथवा - द्वौ प्रादेशौ संहितावरत्निः, प्रदेशस्थानीययोरर्धर्चयोस्सन्धानम् । तावेवारत्निरित्युपचर्यते । प्रमाणलक्षणाद्वा सामीधेनीनामुच्छ्बासप्रमाणं यो वेदेति ।
सायण-टीका
तदेव सांतस्यं पुनः प्रकारान्तरेण प्रशंसति- यो वा अरत्निमिति। कूर्परमारभ्य प्रसारितकनिष्ठाङ्गुलिपर्यन्तो हस्तभागोऽरत्नि। न च तस्यारत्नेर्मध्ये विच्छादोऽस्ति तद्वदुभयोः सामिधेन्योर्मध्ये सांतत्यमरत्नित्वेनोपचर्यते।
विश्वास-प्रस्तुतिः
अ॒र॒त्नावे॒व भ्रातृ॑व्यङ्कुरुते ।
मूलम्
अ॒र॒त्नावे॒व भ्रातृ॑व्यङ्कुरुते ।
पद-पाठः
अ॒र॒त्नौ । ए॒व । भ्रातृ॑व्यम् । कु॒रु॒ते॒ ।
भट्टभास्कर-टीका
अरत्नाविति । सन्धानस्यारत्निशब्देनाभिधानस्येदं फलम् । अरमणे अरमणशीलत्वे प्रादेशद्वयपरिमितत्वे वा शत्रून् कुरुते ।
सायण-टीका
यो होता तदिदं सांतत्यं विदित्वाऽनुतिष्ठति स होता भ्रातृव्यं यजमानस्यारत्नौ स्थापयति।
विश्वास-प्रस्तुतिः
अ॒र्ध॒र्चौ सन्द॑धाति ।
ए॒ष वा अ॑र॒त्निस्सा॑मिधे॒नीनाय्ँ॒य ए॒वव्ँ वेद ।
अ॒र॒त्नावेव भ्रातृ॑व्यङ्कुरुते ।
मूलम्
अ॒र्ध॒र्चौ सन्द॑धाति ।
ए॒ष वा अ॑र॒त्निस्सा॑मिधे॒नीनाय्ँ॒य ए॒वव्ँ वेद ।
अ॒र॒त्नावेव भ्रातृ॑व्यङ्कुरुते ।
पद-पाठः
अ॒र्ध॒र्चावित्य॑र्ध-ऋ॒चौ । समिति॑ । द॒धा॒ति॒ ।
ए॒षः । वै । अ॒र॒त्निः । सा॒मि॒धे॒नीना॒मिति॑ साम्-इ॒धे॒नीना॑म् ।
यः । ए॒वम् । वेद॑ ।
अ॒र॒त्नौ । ए॒व । भ्रातृ॑व्यम् । कु॒रु॒ते॒ ।
भट्टभास्कर-टीका
कः पुनस्स आसामरत्निरित्याह - अर्धर्चाविति । यजमानव्यतिरिक्तवेदित्रर्थं य एवं वेदेत्यादेः पुनर्वचनम् ॥
सायण-टीका
चतुररत्निपरिमितस्य पुरुषस्यारत्निमात्रपरिमितो बालो यथा नीचो भवति तद्वदमुं कुरुत इत्यर्थः। य एवं वेदेति पुनरभिधानं प्रतिज्ञातस्य निगमनार्थम्।
मूलम् (संयुक्तम्)
ऋषेर्॑ऋषे॒र्वा ए॒ता निर्मि॑ता॒ यत्सा॑मिधे॒न्य॑स्ता यदसय्ँ॑युक्ता॒स्स्युᳶ प्र॒जया॑ प॒शुभि॒र्यज॑मानस्य॒ वि ति॑ष्ठेरन्नर्ध॒र्चौ सन्द॑धाति॒ सय्ँयु॑नक्त्ये॒वैना॒स्ता अ॑स्मै॒ सय्ँयु॑क्ता॒ अव॑रुद्धा॒स्सर्वा॑मा॒शिष॑न्दुह्रे ॥43॥
विश्वास-प्रस्तुतिः
ऋषेर्॑ऋषे॒र्वा ए॒ता निर्मि॑ता॒ यत्सा॑मिधे॒न्यः॑ ।
मूलम्
ऋषेर्॑ऋषे॒र्वा ए॒ता निर्मि॑ता॒ यत्सा॑मिधे॒न्यः॑ ।
पद-पाठः
ऋषेर्॑ऋषे॒रित्यृषेः॑-ऋ॒षेः॒ । वै । ए॒ताः । निर्मि॑ता॒ इति॒ निः-मि॒ताः॒ । यत् । सा॒मि॒धे॒न्य॑ इति॑ साम्-इ॒धे॒न्यः॑ ।
भट्टभास्कर-टीका
13ऋषीणां सम्बन्धिभ्य आविर्भूताः एताः ।
सायण-टीका
तदेव सांतत्यं विपक्षबाधकोपन्यासपुरःसरं पुनः प्रशंसति-
ऋषेर्ऋषेर्वा इति। ऋषिरतीन्द्रियस्य द्रष्टा। तादृश ऋषिरेकैकां सामिधेनीमीश्वरानुग्रहेण दृष्ट्वा तत्संप्रदायपरम्परां निर्मितवान्।
अत एव स्मर्यत-
युगान्तेऽन्तर्हितान्वेदान्तेतिहासान्महर्षयः।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा।। इति।
विश्वास-प्रस्तुतिः
ता यदसय्ँ॑युक्ता॒स्स्युᳶ प्र॒जया॑ प॒शुभि॒र्यज॑मानस्य॒ वि ति॑ष्ठेरन् ।
मूलम्
ता यदसय्ँ॑युक्ता॒स्स्युᳶ प्र॒जया॑ प॒शुभि॒र्यज॑मानस्य॒ वि ति॑ष्ठेरन् ।
पद-पाठः
ताः । यत् । असय्ँ॑युक्ता॒ इत्यस॑म्-यु॒क्ताः॒ । स्युः । प्र॒जयेति॑ प्र-जया॑ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । यज॑मानस्य । वीति॑ । ति॒ष्ठे॒र॒न् ।
भट्टभास्कर-टीका
ता यदि परस्परं असंयुक्ताः स्युः तदा या एता ऋषिभ्यो गोत्रकृद्भ्यः भृग्वादिभ्यः उत्पन्नाः प्रजाः पशवश्च; तैरपि सर्वैरेता वितिष्ठेरन् विश्लिष्टाः स्युः यजमानस्य प्रजापशुसिद्धिहेतवो न स्युरित्यर्थः ।
सायण-टीका
तथा सति भिन्नेभ्यऋषिभ्यः प्रवर्तितास्ताः सामिधेन्यो यद्यसंयुक्ता भवेयुस्तदानीं यजमानस्य प्रजया पशुभिरेताः सामिधेन्यो वितिष्ठेरन् वियुक्तास्तिष्ठेयुः। प्रजापशुसमृद्धिहेतवो न भवेयुरित्यर्थः।
विश्वास-प्रस्तुतिः
अ॒र्ध॒र्चौ सन्द॑धाति ।
सय्ँयु॑नक्त्ये॒वैनाः॑।
मूलम्
अ॒र्ध॒र्चौ सन्द॑धाति ।
सय्ँयु॑नक्त्ये॒वैनाः॑।
पद-पाठः
अ॒र्ध॒र्चावित्य॑र्ध-ऋ॒चौ । समिति॑ । द॒धा॒ति॒ ।
समिति॑ । यु॒न॒क्ति॒ । ए॒व । ए॒नाः॒ ।
भट्टभास्कर-टीका
तस्मादर्धर्चसन्धानेन एतास्संयुनक्ति ।
सायण-टीका
तत्परिहाराय पूर्वस्याः सामिधेन्या उत्तरार्धमुत्तरस्याः सामिधेन्याः पूर्वार्धं च संदध्यात्। तथा सत्येनाः सामिधेनीः संयोजितवानेव भवति। न चैवमेकस्यामपि सामिधेन्यां पूर्वोत्तरार्धर्चौ संघातव्याविति शङ्कनीयम्। तयोरेकर्षिप्रवर्तितत्वेन होतृप्रयुक्तसंधानमन्तरेणापि स्वरूपतो वियोगाभावात्।
विश्वास-प्रस्तुतिः
ता अ॑स्मै॒ सय्ँयु॑क्ता॒ अव॑रुद्धा॒स्सर्वा॑मा॒शिष॑न्दुह्रे ।
मूलम्
ता अ॑स्मै॒ सय्ँयु॑क्ता॒ अव॑रुद्धा॒स्सर्वा॑मा॒शिष॑न्दुह्रे ।
पद-पाठः
ताः । अ॒स्मै॒ । सय्युँ॑क्ता॒ इति॒ सम्-यु॒क्ताः॒ । अव॑रुद्धा॒ इत्यव॑-रु॒द्धाः॒ । सर्वा॑म् । आ॒शिष॒मित्या॑-शिष॑म् । दु॒ह्रे॒ ॥
भट्टभास्कर-टीका
ताश्च संयुक्तवत्सा गाव इव गोष्ठेऽवरुद्धाः अस्मै यजमानाय सर्वामाशिषमाभिमतमर्थं दुह्रे स्वयमेव दुहन्ते ।
कर्मकर्तरि ‘न दुहस्नुनमाम्’ इति यगभावः, ‘बहुलं छन्दसि’ इति लट्, ‘लोपस्य आत्मनेपदेषु इति तलोपः, अतो गुणे पररूपत्वम् ॥
इति द्वितीये पञ्चमे सप्तमोनुवाकः ॥
सायण-टीका
यथोक्तरीत्या संयुक्तास्ताः सामिधेन्यो यजमानाय सर्वामाशिषं दुहूवे दुहन्ति संपादयन्ति।