१२ पत्नीसंयाजानां याज्यानुवाक्याः

१२ पत्नीसंयाजानां याज्यानुवाक्याः ...{Loading}...

विश्वास-प्रस्तुतिः

आप्या॑यस्व॒ सन्ते॑ ।

मूलम्

आप्या॑यस्व॒ सन्ते॑ ।

भट्टभास्कर-टीका

1-4अथ पत्नीसंयाजानां याज्यानुवाक्याः - आ प्यायस्वेत्याद्याः ॥ ‘आ प्यायस्व समेतु ते, संते पयांसि’ इति त्रिष्टुभौ ‘मा नो हिंसीत्’ इत्यत्र व्याख्याते ।

+++(अनुकृतव्याख्यानम् - प्रारम्भः)+++

  • आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
    भवा॒ वाज॑स्य सङ्ग॒थे ।

    • अथ ‘रेतस्सौम्येन दधाति’ इत्यस्य पुरोनुवाक्या याज्या च - आप्यायस्व सं ते इति गायत्रीत्रिष्टुभौ ॥ एते च ‘मा नो हिंसीज्जनिता’ इत्यत्र व्याख्यास्येते यत्राम्नेयेते । इह तु प्रतीकग्रह्णमेतयोः । हे सोम आप्यायस्व वर्धस्व । ते तव विश्वतः वृष्णियं वीर्यं समेतु । तत्र आप्यायितस्त्वं वाजस्यान्नस्य क्षीरादेः संगथे संगमने अस्माकं भवेति ॥

    • 3अथ सौम्यस्य पुरोऽनुवाक्या - आप्यायस्व समेतु त इति गायत्री ॥ इयञ्चाग्निकाण्डे ‘मा नो हिंसीत्’ इत्यत्र व्याख्यास्यते यत्राम्नायते । हे सोम आप्यायस्व वर्धस्व त्वत्प्रसादात् विश्वतः वृष्ण्यं शुक्लं समेतु समागच्छतु । भव च वाजस्यान्नस्य सङ्गथे सङ्गमनायैवेति ॥

    • सोमाय वाजिने श्यामाकं चरुं निर्वपेद्यः क्लैब्यात् बिभीयात्’ इत्यस्य पुरोनुवाक्या - आप्यायस्वेति गायत्री ॥ इयमग्निकाण्डे व्याख्यास्यते यत्राम्नायते प्रकृतौ हि हीयुः [‘मा नो हिंसीः’ ] इत्यत्र । इह तु प्रतीकग्रहणम् । हे सोम तव प्रसादात् वृष्णियं वीर्यं विश्वतः समेतु समागच्छताम् । त्वदर्थं च मामाप्यायस्व द्यध्यात् [दध्यादिना] । किञ्च - वाजस्यान्नस्य सङ्गथे सङ्गमनार्थं भवेति ॥

    • अथ पत्नीसंयाजानां याज्यानुवाक्याः - आ प्यायस्वेत्याद्याः ॥ ‘आ प्यायस्व समेतु ते, संते पयांसि’ इति त्रिष्टुभौ ‘मा नो हिंसीत्’ इत्यत्र व्याख्याते ।

    • चमसानाप्याययति - आप्यायस्वेति गायत्र्या ॥ हे सोम आप्यायस्व वर्धस्व मा भक्षित इति क्षेष्ठाः, समेतु संगच्छतु ते त्वाम् । कर्मणि षष्ठी । विश्वतः सर्वतः । वृष्णियं वीर्यम्, वृष्णिसंभवं वृष्णियं, दिगादित्वाद्यत्, ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । वाजस्यान्नस्य संगथे संगमने अस्माकं भव तन्निमित्तं भव ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् । गमेरौणादिकः स्थन् ॥

    • कल्पः—“आ प्यायस्व समेतु त इति सिकता व्यूहत्युत्तरया त्रिष्टुभा राज-न्यस्य” इति । तत्र प्रथममन्त्रमाह— आ प्यायस्वेति । हे सोम त्वमाप्यायस्व सर्वतो वर्धयस्य । वे तव वृष्णियं रेतो विश्वतः सर्वस्माद्वृष्णियादाहारात्समेतु संप्राप्नोतु । वाजस्यान्नस्य संगथे संगमने त्वं निमित्तं भव ।
      +++(अनुकृतव्याख्यानम् - समाप्तम्)+++

+++(अनुकृतव्याख्यानम् - प्रारम्भः)+++

  • सन्ते॒ पयाँ॑सि॒ समु॑ यन्तु॒ वाजा॒स्सव्ँवृष्णि॑यान्यभिमाति॒षाहः॑ ।
    आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाँ॑स्युत्त॒मानि॑ धिष्व ॥ [32]

    • अथोत्तरां त्रिष्टुभमाह— सं ते पयाँ सीति । हे सोम ते तव पयांसि पातव्यानि क्षीरादीनि समु[सं]- यन्तु संप्राप्नुवन्तु । तथा वाजा अन्नान्यपि संयन्तु । वृष्णियानि रेतांस्यापि संयन्तु । कीदृशस्य तव। अभिमातिषाहः अभिमातिं पाम्मोनं सहते तिरस्करो तीत्यभिमातिषाट् तस्य । क्षीरादिसंपत्तौ सत्यां त्वमाप्यायमानो वर्धयमानोऽमृताय यजमानस्यामृतत्वाय देवताभावाय दिवि द्युलोके श्रवांसि श्रोतुं प्रियाण्युत्तमानि विचित्राण्यन्नानि धिष्व धारय संपादयेत्यर्थः ।
      तदेतदृग्द्वयं सामान्याकारेण विनियुङ्के— “सौम्या व्यूहति सोमो वै रेतोधा रेत एव तद्दधाति” [सं. का. ५ प्र. २ अ. ६] इति।
      सोमो देवता यस्यामृचि प्रतीयते सेयमृक्सौमी । विश्वतः सोमेत्याद्यायामृ-च्यसौ प्रतीयते । अमृताय सोमेत्युत्तरस्यामृचि प्रतीयते । तया सौम्मा पूर्वं न्युप्ताः सिकता विविधं प्रसारयेत् । तथा सति सोमस्य रेतोधारकत्वात्तन्मत्रनिष्पाद्यव्यूहनेन यजमानो रेतो धारयति ।
      मन्त्रद्वयस्य पुरुषभेदेन व्यवस्थां विधत्ते— “गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणस्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यः” (सं. का. ५ प्र. २ अ. ६) इति।
      आ प्यायस्वेति गायत्री । सं त इति त्रिष्टप् ।

    • 13तत्रैव याज्या - सन्त इति त्रिष्टुप् ॥ इमामपि तत्रैव व्याख्यास्यामः, इह तु प्रतीकग्रहणमस्याः । हे सोम तव प्रसादात् पयांसि वाजाः वृष्ण्यानि च मां संगच्छन्तु । अभिमातिषाहः अभिमातिः पाप्मा क्लैब्यहेतुः, तस्याभिभवितुः तव । किञ्च - अमृताय अमृतत्वार्थमाप्यायमानो दिवि श्रवांसि अन्नानि उत्तमानि धिष्व स्थापयेति ॥

    • अथ द्वितीया - हे सोम तवाभिमातीनां पाप्मनां हन्तुः पयांसि पातव्यानि क्षीरादीनि संयन्तु संगच्छन्तां, वाजा अन्नानि च संयन्तु, वृष्णियानि वीर्याणि च संयन्तु । ततश्चाप्यायमानः अमरणत्वायास्माकं उत्तमानि श्रेयांसि अन्नानि धिष्व धारय देवार्थमस्मदर्थं वा ॥

    • तत्रैव (सौम्यस्य) याज्या - सं ते पयांसीति त्रिष्टुप् ॥ इयमपि तत्रैवाम्नायते । हे सोम अभिमातीनां पाप्मनामभिभवितुस्तव प्रसादात् पयांसिच वाजाश्च वृष्णियानि च संयन्तु इमं सङ्गच्छन्तु । त्वं चाप्यायमानः दिवि द्युलोके अस्यामृतत्वाय उत्तमानि श्रवांसि अन्नानि धिष्व स्थापयेति ॥
      +++(अनुकृतव्याख्यानम् - समाप्तम्)+++

विश्वास-प्रस्तुतिः

इ॒ह त्वष्टा॑रमग्रि॒यन्तन्न॑स्तु॒रीप॑म् ।

मूलम्

इ॒ह त्वष्टा॑रमग्रि॒यन्तन्न॑स्तु॒रीप॑म् ।

भट्टभास्कर-टीका

‘इह त्वष्टारमग्रियं, तन्नस्तुरीपमध पोषयित्नु’ इति गायत्रीत्रिष्टुभौ ‘अग्निना रयिमश्नवत्’ इत्यत्र व्याख्याते ॥

+++(अनुकृतव्याख्यानम् - प्रारम्भः)+++

  • इ॒ह त्वष्टा॑रमग्रि॒यव्ँवि॒श्वरू॑प॒मुप॑ ह्वये ।
    अ॒स्माक॑मस्तु॒ केव॑लः ॥

    • 5अथ ‘रेत एव हितं त्वष्टा रूपाणि वि करोति’ इत्यस्य पुरोनुवक्या - इह त्वष्टारमिति गायत्री । इहास्मिन् कर्मणि त्वष्टारं अग्रियं मुख्यम् । ‘घच्छौ च’ इति घच् । विश्वरूपं विश्वेषां रूपाणां विकरणसमर्थम् । ‘बहुव्रीहौ विश्वम्’ इति पूर्वपदान्तोदात्तत्वम् । उपह्वये आह्वयामि । ‘निसमुपविभ्यो ह्वः’ इत्यात्मनेपदम् । अस्माकमेवास्तु केवलः सम्भन्धीत्येवमर्थमुपह्वये ॥
      +++(अनुकृतव्याख्यानम् - समाप्तम्)+++

+++(अनुकृतव्याख्यानम् - प्रारम्भः)+++

  • तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णस्स्य॑स्व ।
    यतो॑ वी॒रः [35] क॒र्म॒ण्य॑स्सु॒दक्षो॑ ..
    यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ।

    • टीका 6तत्रैव याज्या - तन्न इति त्रिष्टुप् ॥ ‘सुदक्षः’ इति तृतीयपादान्तः । तत् धनं तुरीपं तूर्णमाप्नोतीति तुरीपं । पृषोदरादिः । पोषयित्नु पोषयितृ । हे देव त्वष्टः रराणः दानशीलस्त्वम् । व्यत्ययेन रातोरात्मनेपदम् शपश्श्लुः । नः अस्मभ्यं अधेदानीं विष्यस्व विसृज विमुच्य देहीत्यर्थः । व्यत्ययेनात्मनेपदम् । तदित्युक्तं, किं तदित्याह - यतः यस्माद्धनाल्लब्धात् वीरः विक्रान्तः कर्मण्यः कर्मणि साधुः कुशलः सुदक्षः सुष्ठु शीघ्रः उत्साही । दक्ष शीघ्रकरणे, ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । युक्तग्रावा युक्ता ग्रावाणो यस्य तादृशः । ग्रावभिः तत्साध्यं कर्मोपलक्ष्यते कर्मशील इत्यर्थः । अत एव देवकामः । देवान् कामयते इति ‘शीलिकामि’ इत्यादिना णः पूर्वपदप्रकृतिस्वरत्वं च । देवैः काम्यते इति वा देवकामः । दासीभारादिर्द्रष्टव्यः । ईदृशः पुरुषः यस्माद्धनाज्जायते तत्पशुलक्षणं धनं देहीति ॥

ऋक्

दे॒वाना॒म्पत्नी॑रुश॒तीर॑वन्तु नः ।
प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये ।
याᳶ पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ।
ता नो॑ देवीस्सुहवा॒श्शर्म॑ यच्छत ।

भट्टभास्कर-टीका

5देवानां पत्नीरिति ॥ देवानां पत्नयः इन्द्राण्याद्याः सेनादयो वा ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । उशतीः उशत्यः कामयमानाः अस्मद्धितानि ता अस्मानवन्तु रक्षन्तु प्राप्नुवन्तु वा । किञ्च - अस्माकं तुजये अपत्याय वाजसातये अन्नलाभाय च ता देव्यः प्रावन्तु प्रकर्षेण तृप्यन्तु । किञ्च - याः पार्थिवासः पृथिव्यां भवाः । ‘आज्जसेरमुक्’ याश्च अपां व्रते कर्मस्थाने अन्तरिक्षे । अपिशब्दात् पूर्वोक्ताश्च दिवि भवाः इन्द्राण्याद्याः तास्सर्वाः यूयं सुहवाः सुखेनाह्वातव्याः आह्वानप्रयोजनस्य सद्यः कर्त्र्यः अस्मभ्यं शर्म सुखं यच्छत दत्त हे देव्यः! । उत्तरोऽर्थः प्रत्यक्षकृतः ॥

ऋक्

उ॒त ग्ना वि॑यन्तु दे॒वप॑त्नीः ।
इ॒न्द्रा॒ण्य॑ग्नाय्य॒श्विनी॒ राट् ।
आ रोद॑सी वरुणा॒नी शृ॑णोतु ।
वि॒यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ॥26॥

भट्टभास्कर-टीका

6उत ग्ना वीति त्रिष्टुप् ॥ ग्ना अपि गायत्र्यादयोपि छंदांसि इदमाज्यं वियन्तु पिबन्तु, देवपत्न्यश्च इन्द्गाण्याद्याः। इन्द्रस्य पत्री इन्द्राणी ‘इन्द्रवरुण’ इति ङीष् आनुक्च । अग्नेः पत्नी अग्नायी ‘वृषाकप्यग्नि’ इति ङीष् । अश्विनोः पत्नी अश्विनी । ‘पुंयोगात्’ इति ङीष् । राट् दीप्यमाना । रोदसी द्यौः पृथिवी चेति शाकल्यः । रोदनाद्रुद्रः तस्य पत्नी रोदसी इत्यप्रस्रव्ययास्कः । वरुणस्य पत्नी वरुणानी सा चास्मदभिमतमाशृणोतु अनुमन्यतां वियन्तु पान्तु आज्यमिति यावत् । एवं एताः सर्वा अपि देव्यः वियन्तु पिबन्तु । आज्यं पुनर्वचनं कालविधानार्थम् । तदाह - यः ऋतुः कालः आत्मीयः जनीनां जायानां तत्र पिबन्त्विति । कः पुनस्सः? भुक्तवत्सु पुरुषेष्विति सामर्थ्याद्गम्यते ॥

ऋक्

अ॒ग्निर्होता॑ गृ॒हप॑ति॒स्स राजा॑ ।
विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः ।
दे॒वाना॑मु॒त यो मर्त्या॑नाम् ।
यजि॑ष्ठ॒स्स प्रय॑जतामृ॒तावा॑ ।

भट्टभास्कर-टीका

7अग्निर्होतेति ॥ अग्निः होता देवानां आह्वाता । गृहपतिः गृहाणां पाता स एव राजा दीप्यमानः । क इत्याह - विश्वा जनिमा जन्मानि यो वेद जानाति । जातवेदाः जातानां वेदिता जातप्रज्ञो वा । केषां जन्मानि? देवानां मर्त्यानां च । किञ्च - स एव यजिष्ठः यष्टृतमः प्रयजतां मध्ये तत्तुल्यः प्रकृष्टो यष्टा ऋतावा सत्यवान् यज्ञवान्वा । मत्वर्थीयो वतिः । यष्टृशब्दात् ‘तुश्छन्दसि’ इति इष्ठन्प्रत्ययः ॥

ऋक्

व॒यमु॑ त्वा गृहपते॒ जना॑नाम् ।
अग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त॑म् ।
अ॒स्थू॒रि णो॒ गार्ह॑पत्यानि सन्तु ।
ति॒ग्मेन॑ न॒स्तेज॑सा॒ सँशि॑शाधि ॥27॥

भट्टभास्कर-टीका

8वयमु त्वेति त्रिष्टुप् ॥ हे अग्ने! गृहपते! जनानां मध्ये वयमेव त्वां समिधा संदीपनेन तेजसा बृहन्तं अकर्म कृतवन्तः स्म । तस्मात् नः अस्माकं अस्थूरि अक्लिष्टानि । सुपां सुलुक् । गार्हपत्यानि गृहपतिना संयुक्तानि कर्माण सन्तु । किञ्च - तिग्मेन तीक्ष्णेन अप्रधृष्येण तेजसा नः अस्मान् संशिशाधि तीक्ष्णीकुरु समृद्धान् कुर्विति । ‘वा छन्दसि’ इत्यपित्वे प्रतिषिद्धे ङित्वाभावात् ‘अङितश्च’ इति धिभावः ॥

इति तैत्तिरीये तृतीयेऽष्टके पञ्चमप्रपाठके द्वादशोऽनुवाकः ॥