१० सूक्तवाकः ...{Loading}...
विश्वास-प्रस्तुतिः
इ॒दन्द्या॑वापृथिवी भ॒द्रम॑भूत् ।
आर्ध्म॑ सूक्तवा॒कम् ।
उ॒त न॑मोवा॒कम् ।
ऋ॒ध्यास्म॑ सू॒क्तोच्य॑मग्ने ।
मूलम्
इ॒दन्द्या॑वापृथिवी भ॒द्रम॑भूत् ।
आर्ध्म॑ सूक्तवा॒कम् ।
उ॒त न॑मोवा॒कम् ।
ऋ॒ध्यास्म॑ सू॒क्तोच्य॑मग्ने ।
भट्टभास्कर-टीका
1सूक्तवाकाय प्रेषितः ब्रवीति - इदमिति ॥ हे द्यावापृथिव्यौ! इदं प्रस्तुते भद्रं कल्याणं अस्माकं अभूत् संपन्नम् । भद्रं विशेष्यते - आर्ध्मं ऋद्धिं गताः सूक्तवाकं सूक्तान्युच्यन्ते सम्यगिष्टं सम्यग्दत्तं इदमस्य भद्रमस्त्विति यथातथा कर्मसमृद्धिं प्राप्ताः युवयोः प्रसादात् । किञ्च - नमोवाकं नमः अन्नं हविर्लक्षणं तदुच्यते - ‘नमो देवेभ्यः’ इति । देवानां तृप्तिजननतया यथा विस्रब्धं वक्तुं शक्यते तथा आर्ध्म, इदं हि दुष्प्रापमुभयम् । इत्थं क्रियाविशेषणतया नेयम् । यद्वा - ऋद्धिविशेषावेतौ, सामन्यर्द्धे विशेषर्द्धिः कर्म, यथा - ‘यामेव मतुर् ऋद्धिमार्ध्नोत्’ इति ।
किञ्च - ऋद्ध्यास्स्म ऋद्धिं प्राप्ताः स्म ।
विश्वास-प्रस्तुतिः
त्वँ सू॑क्त॒वाग॑सि ।
उप॑श्रितो दि॒वᳶ पृ॑थि॒व्योः ।
ओम॑न्वती ते॒ऽस्मिन् य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी स्ता॑म् ।
मूलम्
त्वँ सू॑क्त॒वाग॑सि ।
उप॑श्रितो दि॒वᳶ पृ॑थि॒व्योः ।
ओम॑न्वती ते॒ऽस्मिन् य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी स्ता॑म् ।
भट्टभास्कर-टीका
सूक्तोच्यं सूक्तान्युच्यन्ते यथा तथा सूक्तवचनविशिष्टां ऋद्धिं प्राप्ताः स्म नैतावदेव, हे अग्ने! त्वत्प्रसादादिदमस्तु । छान्दसः क्यप् । कस्मात्पुनः त्वं एवं प्रार्थ्यस इति चेत् - त्वं खलु सूक्तवाक् सूक्तानां वाचयिताऽसि । यद्वा - सूक्तं यथातथा त्वमेव ब्रवीषि त्वद्वाचि स्थितं यदि सूक्तं, नो चेदसूक्तं, तस्मात् त्वामेव प्रार्थयामहे । त्वं हि उपश्रितः उपेत्य सर्वैः आश्रितः दिवःपृथिव्योः द्यावापृथिव्योः वर्तमानैः, तस्मात् वयमपि त्वां प्रार्थयामह इति । दिवो दिवस्भावश्छान्दसः । यद्वा - यजमानविशेषणमिदं, हे यजमान! त्वं हि द्यावापृथिव्योरुपश्रितः वृष्ट्यादिना धारकत्वेन उपकारी स्थितः, अतः ते तव द्यावापृथिव्यौ अस्मिन् यज्ञे अनेन यज्ञेन हेतुता ओमन्वती अवनवत्यौ अन्नवत्यौ वा वृष्ट्यादिना प्रजारक्षणसमर्थे स्तां भवताम् । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्धत्वम् । अवतेरौणादिके मनिनि ऊठि गुणे ‘अनो नुट्’ इति नुट् ।
विश्वास-प्रस्तुतिः
श॒ङ्ग॒ये जी॒रदा॑नू ।
अत्र॑स्नू॒ अप्र॑वेदे ।
उ॒रुग॑व्यूती अभय॒ङ्कृतौ॑ ॥20॥
मूलम्
श॒ङ्ग॒ये जी॒रदा॑नू ।
अत्र॑स्नू॒ अप्र॑वेदे ।
उ॒रुग॑व्यूती अभय॒ङ्कृतौ॑ ॥20॥
भट्टभास्कर-टीका
शंगये सुखग्रहे सुखानामेव निष्पत्तिस्थाने स्तामित्येव । सर्वत्र जीरदानू जीवयित्र्यौ सर्वस्य । जीवेरदानुक् । अत्रस्नू अत्रसनशीले, अत्रासयित्र्यौ वा अप्रवेदे अप्रवेदशीले प्रवेदनं प्रवदो निवेदनं, करिष्यमाणस्योपकारस्य अविकथनस्वभावे । यद्वा - याथात्म्येन प्रवेदयितुमशक्ये । उरुगव्यूती विस्तीर्णगोप्रचारे प्रभूततृणोदकत्वात् । ‘गोर्यूतौ छन्दसि’ इत्यवादेशः । अभयंकृतौ अभयस्य कर्त्र्यौ । क्विपि पूर्वपदस्य छान्दसो मुमागमः ।
विश्वास-प्रस्तुतिः
वृ॒ष्टिद्या॑वा री॒त्या॑पा ।
श॒म्भुवौ॑ मयो॒भुवौ॑ ।
ऊर्ज॑स्वती च॒ पय॑स्वती च ।
सू॒प॒च॒र॒णा च॑ स्वधिचर॒णा च॑ ।
तयो॑रा॒विदि॑ ।
मूलम्
वृ॒ष्टिद्या॑वा री॒त्या॑पा ।
श॒म्भुवौ॑ मयो॒भुवौ॑ ।
ऊर्ज॑स्वती च॒ पय॑स्वती च ।
सू॒प॒च॒र॒णा च॑ स्वधिचर॒णा च॑ ।
तयो॑रा॒विदि॑ ।
भट्टभास्कर-टीका
वृष्टिद्यावा वृष्टेरभिगमयित्र्यौ । द्यु अभिगमने, विचि गुणे ‘ओतो णित्’ इति तपरकरणाद्वृद्धिः । यद्वा - वृष्टिनिमित्ता द्यौः दीप्तिः ययोः । द्यौरिति दीप्तिवचनः रीत्यापा रीत्या स्वभावेन विश्वमाप्तवत्यौ । यद्वा - रिङ् स्रवणे रीत्यापा स्रवदुदके । छान्दसं दीर्घत्वम् । सुपां सुलुक् ‘इत्याकारः । शंभवौ रोगशमनादिलक्षणस्य सुखस्य भावयित्र्यौ । अन्तर्भावितण्यर्थाद्भवतेः क्विप् । ण्यन्तादेव वा क्विपि ‘बहुलमन्यत्रापि’ इति णिलुक् । मयोभुवौ प्रवृत्तिलक्षणस्य सुखस्य भावयित्र्यौ, ऊर्जस्वती च पयस्वती च एका द्यौः पयस्वती अत्रवती चैका पृथिवी सूपचरणा च एका द्यौः सुष्ठूपचरितव्या । ‘छन्दसि गत्यर्थेम्यः’ इति युच्, ल्युडन्तो वा बहुव्रीहिः । स्वधिचरणा च एका पृथिवी सुष्ठु अधिचरितव्येति । पर्वूवद्युच् । बहुव्रीहिर्वा । तयोः तादृश्योः द्यावापृथिव्योः आविदि आवेदने ताभ्यामन्यतमे वा ॥
विश्वास-प्रस्तुतिः
अ॒ग्निरि॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
मूलम्
अ॒ग्निरि॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
भट्टभास्कर-टीका
2अग्निः आज्यभागदेवता इदं हविः आज्यभागलक्षणं अजुषत असेवत । अतिक्रान्तमप्याधारभूतं कर्म इदं हविरित्युच्यते । एवं सोमादिषु द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
सोम॑ इ॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
मूलम्
सोम॑ इ॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
भट्टभास्कर-टीका
अवीवृधत अवर्धयच्चात्मनो महः तेजः ज्यायोऽकृत प्रशस्यतरं च आत्मनो महः अकृत कृतवान् ।
विश्वास-प्रस्तुतिः
अ॒ग्निरि॒दँ ह॒विर॑जुषत ॥21॥
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
प्र॒जाप॑तिरि॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
मूलम्
अ॒ग्निरि॒दँ ह॒विर॑जुषत ॥21॥
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
प्र॒जाप॑तिरि॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
भट्टभास्कर-टीका
यद्वा - अग्निरिदं हविरजुषत, अवीवृधत चास्मान्, प्रशस्यतरं महश्चास्माकं कृतवान् । यद्वा - अवीवृधत चास्माकं महः, इतोपि प्रशस्यतरं महः अस्माकमुपर्युपरि अकृत करिष्यति । छान्दसो लुङ् । सोमादिषु गतम् ।
विश्वास-प्रस्तुतिः
अ॒ग्नीषोमा॑वि॒दँ ह॒विर॑जुषेताम् ।
अवी॑वृधेता॒म्महो॒ ज्यायो॑ऽक्राताम् ।
इन्द्र॑ इ॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
म॒हे॒न्द्र इ॒दँ ह॒विर॑जुषत ॥22॥
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
दे॒वा आ॑ज्य॒पा आज्य॑मजुषन्त ।
अवी॑वृधन्त॒ महो॒ ज्यायो॑ऽक्रत ।
अ॒ग्निर्हो॒त्रेणे॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
मूलम्
अ॒ग्नीषोमा॑वि॒दँ ह॒विर॑जुषेताम् ।
अवी॑वृधेता॒म्महो॒ ज्यायो॑ऽक्राताम् ।
इन्द्र॑ इ॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
म॒हे॒न्द्र इ॒दँ ह॒विर॑जुषत ॥22॥
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
दे॒वा आ॑ज्य॒पा आज्य॑मजुषन्त ।
अवी॑वृधन्त॒ महो॒ ज्यायो॑ऽक्रत ।
अ॒ग्निर्हो॒त्रेणे॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
भट्टभास्कर-टीका
अक्रातामिति ‘मन्त्रे घस’ इति च्लेर्लुक् । एवमक्रतेत्यत्रापि । अग्निर्होत्रेण सुष्ठु कृतत्वकरणेन स्विष्टकृत् इदं हविरजुषत ।
विश्वास-प्रस्तुतिः
अ॒स्यामृध॒द्धोत्रा॑यान्देवङ्ग॒माया॑म् ।
मूलम्
अ॒स्यामृध॒द्धोत्रा॑यान्देवङ्ग॒माया॑म् ।
भट्टभास्कर-टीका
किंच - अस्यां देवंगमायां देवगामिन्यां होत्रायां होत्रे ऋधत् ऋध्नोतु होता दैव्यो मानुषश्च । यद्वा - अस्यां होत्रायां यागे अयं यजमान ऋध्नोनु पुनःपुनर्यजताम्, सर्वा वा ऋद्धिं प्राप्नोतु ।
विश्वास-प्रस्तुतिः
आशा॑स्ते॒ऽयय्ँयज॑मानो॒ऽसौ ।
मूलम्
आशा॑स्ते॒ऽयय्ँयज॑मानो॒ऽसौ ।
भट्टभास्कर-टीका
एवमहमाशासे, अयमपि यजमान इदमाशास्ते । ऋधेर्लेटि व्यत्ययेन शः । असावित्यत्र यजमाननाम गृह्यते विष्णुशर्मा रुद्रशर्मेति । ब्राह्मणं च - ‘यर्हि होता यजमानाय नाम गृह्णीयात्’ इति ॥
विश्वास-प्रस्तुतिः
आयु॒राशा॑स्ते ।
मूलम्
आयु॒राशा॑स्ते ।
भट्टभास्कर-टीका
3इदानीं ऋद्धिविशेषानेकैकश्येनाह - आयुः शतवर्षप्रमाणम् ।
विश्वास-प्रस्तुतिः
सु॒प्र॒जा॒स्त्वमाशा॑स्ते ।
मूलम्
सु॒प्र॒जा॒स्त्वमाशा॑स्ते ।
भट्टभास्कर-टीका
सुप्रजास्त्वं शोभनापत्यत्वम् । ‘नित्यमसिच्प्रजामेधयोः’ इति समासान्तः, छान्दसं दीर्घत्वम् ।
विश्वास-प्रस्तुतिः
स॒जा॒त॒व॒न॒स्यामाशा॑स्ते ॥23॥
मूलम्
स॒जा॒त॒व॒न॒स्यामाशा॑स्ते ॥23॥
भट्टभास्कर-टीका
सजातवनस्यां समानजातीयैः प्राणैर्वा वननं सेव्यत्वमात्मन इच्छतीति क्यजन्तात् ‘अः प्रत्ययात्’ इत्यकारप्रत्ययः ।
विश्वास-प्रस्तुतिः
उत्त॑रान्देवय॒ज्यामाशा॑स्ते ।
भूयो॑ हवि॒ष्कर॑ण॒माशा॑स्ते ।
दि॒व्यन्धामाशा॑स्ते ।
मूलम्
उत्त॑रान्देवय॒ज्यामाशा॑स्ते ।
भूयो॑ हवि॒ष्कर॑ण॒माशा॑स्ते ।
दि॒व्यन्धामाशा॑स्ते ।
भट्टभास्कर-टीका
उत्तरां उत्तरकालभाविनीं देवयज्यां दर्शपूर्णमासादिकां भूयः बहुतरं हविष्करणं यागं, दिव्यं दिवि भवं धाम स्थानम् ।
विश्वास-प्रस्तुतिः
विश्व॑म्प्रि॒यमाशा॑स्ते ।
मूलम्
विश्व॑म्प्रि॒यमाशा॑स्ते ।
भट्टभास्कर-टीका
किंबहुना - सर्वं प्रियमात्मन आशास्ते ।
मूलम्
यद॒नेन॑ ह॒विषाऽऽशा॑स्ते ।
तद॑श्या॒त्तदृ॑ध्यात् ।
विश्वास-प्रस्तुतिः
यद॒नेन॑ ह॒विषाऽऽशा॑स्ते॒ तद॑श्या॒त्तदृ॑ध्यात् ।
मूलम्
यद॒नेन॑ ह॒विषाऽऽशा॑स्ते॒ तद॑श्या॒त्तदृ॑ध्यात् ।
भट्टभास्कर-टीका
किं च - यदनेन प्रशस्ततराज्येन प्रह्रियमाणेन हविषाऽऽशास्ते तदश्यात् तत्फलं भुङ्क्ताम्, तच्च फलं ऋध्यात् समृद्धमस्य भवतु ।
विश्वास-प्रस्तुतिः
तद॑स्मै दे॒वा रा॑सन्ताम् ।
मूलम्
तद॑स्मै दे॒वा रा॑सन्ताम् ।
भट्टभास्कर-टीका
तदस्मै यजमानाय देवा अग्न्यादयः रासन्तां संसाधयन्ताम् ।
विश्वास-प्रस्तुतिः
तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते ।
मूलम्
तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते ।
भट्टभास्कर-टीका
तत्फलमस्मै दातुं अग्निः देवस्सन् देवेभ्यो देवसकाशात् वनते संभजते ।
विश्वास-प्रस्तुतिः
व॒यम॒ग्नेर्मानु॑षाः ।
इ॒ष्टञ्च॑ वी॒तञ्च॑ ।
मूलम्
व॒यम॒ग्नेर्मानु॑षाः ।
इ॒ष्टञ्च॑ वी॒तञ्च॑ ।
भट्टभास्कर-टीका
वयं च मानुषास्सन्तः अग्नेरेव प्रसादेन मनुष्यसकाशात्तस्मै दातुं वनामः । किं पुनस्तत्फलमित्याह - इष्टं यागनिमित्तं स्वर्गादिकम् । वीतं अशनखाद्यादिरूपं यदस्ति तन्मानुषम् ।
विश्वास-प्रस्तुतिः
उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अँह॑सस्पाताम् ।
मूलम्
उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अँह॑सस्पाताम् ।
मूलम्
इ॒ह गति॑र्वा॒मस्ये॒दञ्च॑ ।
नमो॑ दे॒वेभ्यः॑ ॥24॥
विश्वास-प्रस्तुतिः
इ॒ह गति॑र्वा॒मस्ये॒दञ्च॒ नमो॑ दे॒वेभ्यः॑ ॥24॥
मूलम्
इ॒ह गति॑र्वा॒मस्ये॒दञ्च॒ नमो॑ दे॒वेभ्यः॑ ॥24॥
भट्टभास्कर-टीका
किं च - उभे द्यावापृथिव्यौ अंहसः पापात् कर्मापचारानिमित्तात् पातां रक्षताम् । इह हविषि वामस्य वननीयस्य धनस्य गतिः व्याप्तिः । इदं च एतद्धविर्लक्षणं नमः अन्नं देवेभ्यः अस्त्विति शेषः । यद्वा - इदमेव नमः प्रशस्तं हविः देवेभ्य एव देवा एवाश्नन्ति ॥
इति तैत्तिरीये ब्राह्मणे तृतीये पञ्चमे दशमोऽनुवाकः ॥