०७ हविषां याज्यानुवाक्याः ...{Loading}...
विश्वास-प्रस्तुतिः
अ॒ग्निर्मू॒र्धा दि॒वᳵ क॒कुत् ।
पति॑ᳶ पृथि॒व्या अ॒यम् ।
अ॒पाँ रेताँ॑सि जिन्वति ।
मूलम्
अ॒ग्निर्मू॒र्धा दि॒वᳵ क॒कुत् ।
पति॑ᳶ पृथि॒व्या अ॒यम् ।
अ॒पाँ रेताँ॑सि जिन्वति ।
भट्टभास्कर-टीका
1अथ हविषां याज्यानुवाक्याः - अग्निर्मूर्धेत्याद्याः ॥ तत्रैव व्याख्याताः त्रयोदश । अग्निं स्विष्टकृतमिति याज्या स्विष्टकृतः ।
जुषतां हविः इत्यन्तं यजुः । शिष्टा त्रिष्टुप् ।
अग्नेयदद्येति तत्रैव व्याख्याता ॥
- मन्त्रः अ॒ग्निर्मू॒र्धा दि॒वᳵ क॒कुत्पति॑ᳶ पृथि॒व्या अ॒यम् ।
अ॒पाँ रेताँ॑सि जिन्वति ॥ - टीका
(अथ चतुर्थकाण्डे चतुर्थप्रपाठके चतुर्थोऽनुवाकः)।
तुतीयेऽनुवाके पञ्चचोडादय इष्टका उक्ताः। अथ चतुर्थेऽनुवाके छन्दोभिधा इष्टका उच्यन्ते।
कल्पः “ अग्निर्मूर्धेति तिस्रो गायत्रीः षुरस्तादुपदधात्यवेमुत्तराणि त्रीणि त्रीणि त्रिष्ठुभो दक्षिणतो जगतीः पश्वादनुष्टुभ उत्तरतो बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरिति विषुरूपाणि छन्दाँसि यथावकाशमतिच्छन्दसं मध्ये द्विपदा अन्ततः ” इति। तत्र त्रिसृषु गाबत्रीषु पर्थमां गायत्रीमाह— अग्निर्मूर्धेति। अयमग्निरादित्यरूपेण दिवो द्युलोकस्य ककुदुच्छ्रितो मूधां शिरःस्थानीयः, पृथिव्याः पतिर्दाहपकादिकारित्वेन पालकोऽप्ययम्। किंच, अप रेतांस्युदककायांणिस्थात्वरजङ्गमशरीराणि जाठराग्निरूपेण जिन्वति प्रीणयति। -
- (टीका) तृतीया - अग्निरिति गायत्री ॥ अयमग्निर्मूर्धा प्रधानभूतः दिवः द्युलोकस्य ककुत् उच्छ्रितः आत्मेत्यर्थः अर्यमात्मना दिवो मूर्धत्वेन वतत इति । अयमेव पृथिव्याः पतिः पाता; अग्निर्हि पृथिव्यात्मना वर्तते । सोयमपां रेतांसि कार्यभूतानि स्थावरजङ्गमाख्यानि माध्यमिकाग्निरूपेण जिन्वति वृष्ट्या तर्पयति । ‘ऊडिदम्’ इति षष्ठ्या उदात्तत्वम् । ‘उदात्तयणः’ इति पृथिव्याः ॥ ]
विश्वास-प्रस्तुतिः
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता ।
यत्रा॑ नि॒युद्भि॒स्सच॑से शि॒वाभिः॑ ।
दि॒वि मू॒र्धान॑न्दधिषे सुव॒र्षाम् ।
जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ।
मूलम्
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता ।
यत्रा॑ नि॒युद्भि॒स्सच॑से शि॒वाभिः॑ ।
दि॒वि मू॒र्धान॑न्दधिषे सुव॒र्षाम् ।
जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ।
भट्टभास्कर-टीका
- मन्त्रः -[भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒स्सच॑से शि॒वाभिः॑ ।
दि॒वि मू॒र्धान॑न्दधिषे सुव॒र्षाञ्जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥ - भुवो यज्ञस्य रजस उदकस्य च नेता प्रापयिता भवसि तदानीम् । कदा? यत्र शिवाभिः नियुद्भिरश्वैस्सचसे सम्बध्यसे । मरुतामश्वा नियुतस्तद्वन्तो वायव इह गृह्यन्ते । तदानीं यज्ञं च प्रवर्तयसि उदकं चावपातयसि । दिवि च मूर्धानं प्रधानभूतं यज्ञं च दधिषे स्थापयसि सुवर्षां स्वर्गीणां सम्भक्तारम् । स त्वं हे अग्ने तव जिह्वां हविषो वोध्रीं चकृषे कुरुष्वेति द्वितीया ॥]
विश्वास-प्रस्तुतिः
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः ।
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जहु॒मस्तन्नो॑ अस्तु ॥10॥
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।
मूलम्
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः ।
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जहु॒मस्तन्नो॑ अस्तु ॥10॥
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।
भट्टभास्कर-टीका
-
मन्त्रः - प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥ [28] -
युवराजस्य प्रतिहितस्य गृहे जुहोति - प्रजापत इति त्रिष्टुभा ॥ हे प्रजापते त्वत्तोन्यः कश्चिदपि तान्येतानि विश्वा विश्वानि जातानि जन्मवन्ति वस्तूनि परिबभूव परिभवति वाप्नोति परिगृह्णाति वा । यद्वा - त्वदेतानि त्वत्तो जातानि विश्वानि वस्तूनि कश्चिदन्यः पीरबभूव न त्वमेव परिभवसि, तस्मादेवं तावन्महानुभावस्त्वम् । न च मया किञ्चिदज्ञातमस्ति ; अतो यत्कामा यत्फलं कामयमानाः ते जुहुमस्तन्नोस्माकमस्तु त्वत्प्रसादात् स कामोस्माकं सम्पद्यताम् । ‘शीलिकामिभिक्षाचरिभ्यः’ इति णः, पूर्वपदप्रकृतिस्वरत्वं च । इदं तु विशेषेणेत्याह - वयं रयीणां धनानां पतयः सर्वदा स्यामेत्याशास्ते ॥
-
हे प्रजापते न खलु कश्चित् त्वत्तोन्यः तान्येतानि विश्वानि जातानि भूतानि परिबभूव परिभवति । तस्माद्यत्कामा वयं जुहुमस्तन्नोस्माकमस्तु । किञ्च - वयं रयीणां पतयस्स्वामिनश्च स्यामेति ॥
-
20’यः प्रजाकामस्स्यात्तस्मा एतं प्राजापत्यं गार्मुतं चरुं निर्वपेत्’ इत्यस्याः पुरोऽनुवाक्या - प्रजापते न त्वदिति त्रिष्टुप् ॥ व्याख्यातेयं ‘सोमस्य त्विषिरसि’ इत्यत्र इह त्वस्याः प्रतीकं गृह्यते । हे प्रजापते त्वदन्य एतानि विश्वानि जातानि भुवनानि परिबभूव सर्वतो व्याप्नोति । तस्माद्यद्यत्कामयमानास्ते जुहुमो वयं तत्तथैवास्माकमस्तु वयं रयीणां पतयस्स्यामेति ॥
विश्वास-प्रस्तुतिः
स वे॑द पु॒त्रᳶ पि॒तरँ॒ स मा॒तर॑म् ।
स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः ।
स द्यामौर्णो॑द॒न्तरि॑क्षँ॒ स सुवः॑ ।
स विश्वा॒ भुवो॑ अभव॒त्स आभ॑वत् ।
मूलम्
स वे॑द पु॒त्रᳶ पि॒तरँ॒ स मा॒तर॑म् ।
स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः ।
स द्यामौर्णो॑द॒न्तरि॑क्षँ॒ स सुवः॑ ।
स विश्वा॒ भुवो॑ अभव॒त्स आभ॑वत् ।
भट्टभास्कर-टीका
- मन्त्रः
स वे॑द पु॒त्रᳶ पि॒तरँ॒ स मा॒तरँ॒ स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः ।
स द्यामौर्णो॑द॒न्तरि॑क्षँ॒ स सुव॒स्स विश्वा॒ भुवो॑ अभव॒त्स आऽभ॑वत् । - टीका
4अथ तत्रैव याज्याविकल्पः - स वेद पुत्र इतीयं जगती ॥ स एव प्रजापतिः पुत्रो भूत्वा पितरं मातरं च वेद जानाति, ममायं पिता इयं मातेति जानन् पुत्रात्मना स एव वर्तते । स एव सूनुर्भुवत् यो यस्सोतव्य उत्पाद्यः पदार्थः सोपि भूधरादिस्स एव भवेत् । पुनश्च स एव मघः हिरण्यादि धनं भुवत् भवेत् स एव तथा भवति । भवतेर्लेटि शपो लुक्, ‘भूसुवोस्तिङि’ इति गुणाभावः । यद्वा - सू नुस्सोमयजमानः, तद्भावेन च भवति । मघस्सोतव्यस्सोमः तादात्म्येन च वर्तते ।
किञ्च - स एव द्यां द्युलोकं और्णोछादयति स्वेन महिम्ना तेजसा वा स एवान्तरिक्षमौर्णोदित्येव । स एव सुवः पृथिवीं च और्णोत् । सुष्ठु वरणात् सुवस्सर्वविकाराणां सुष्ठु गन्त्री । तन्वादित्वादुवङ्, छान्दसमाद्युदात्तत्वम् । यद्वा - सूतेरसुनि गुणाभावश्छान्दसः सवित्री सर्वविकाराणाम् । किं बहुनेत्याह - स एव विश्वा भुवः भूतजातानि विश्वा भुवः भावयित्रीः स्योनीः [योनीः] कारणानि अभवत् प्राप्तवान् उत्पादितवान् । स एव चाभवत् आवृत्यावृत्य प्राप्नोति उत्पादयति । यद्वा - स एव विश्वा भुवो अभवत् भवति विश्वभूतजातात्मना कारणात्मना वा स एवावतिष्ठते । स एव चावृत्य तद्रूपेण भवति वर्तते सोस्माकं प्रत्यूह मपनयत्विति ॥
विश्वास-प्रस्तुतिः
अग्नी॑षोमा॒ सवे॑दसा ।
सहू॑ती वनत॒ङ्गिरः॑ ।
सन्दे॑व॒त्रा ब॑भूवथुः ।
मूलम्
अग्नी॑षोमा॒ सवे॑दसा ।
सहू॑ती वनत॒ङ्गिरः॑ ।
सन्दे॑व॒त्रा ब॑भूवथुः ।
भट्टभास्कर-टीका
-
अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनत॒ङ्गिरः॑ ।
सन्दे॑व॒त्रा ब॑भूवथुः ।- टीका 7’अग्नीषोमीयमेकादशकपालं निर्वपेद्यं कामो नोपनमेत्’ इत्यस्य पुरोनुवाक्या - अग्नीषोमा इति गायत्री ॥ हे अग्नीषोमा अग्नीषोमौ । पूर्ववदाकारः, ‘ईदग्नेस्सोमवरुणयोः’ इतीकारः, ‘अग्नेः स्तुत्स्तोमसोमाः’ इति षत्वम् । युवां सवेदसा सवेदसौ समानधनौ सहूती समानहूतौ समानाह्वानौ । ‘समानस्य च्छन्दसि’ इति सभावः । ईदृशा युवां वनतं भजतं अस्माकं गिरः स्तुतिवचनानि । देवत्रा देवांश्च संबभूवथुः संगतौ भवतः । ्रमाणानतिरेकस्सम्भवः । देवानामप्याराध्यत्वेन वर्तेथाम् । यद्वा - युवां सवेदसा सहूती देवत्रा देवेष्वपि देवोपकारेष्वपि संबभूवथुः संगतौ भवतः । ‘देवमनुष्य’ इति त्राप्रत्ययः । तौ युवां अस्माकमपि काममुपनयतमिति ॥
विश्वास-प्रस्तुतिः
यु॒वमे॒तानि॑ दि॒वि रो॑च॒नानि॑ ।
अ॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ॥11॥
यु॒वँ सिन्धूँ॑ र॒भिश॑स्तेरव॒द्यात् ।
अग्नी॑षोमा॒वमु॑ञ्चतङ्गृभी॒तान् ।
मूलम्
यु॒वमे॒तानि॑ दि॒वि रो॑च॒नानि॑ ।
अ॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ॥11॥
यु॒वँ सिन्धूँ॑ र॒भिश॑स्तेरव॒द्यात् ।
अग्नी॑षोमा॒वमु॑ञ्चतङ्गृभी॒तान् ।
भट्टभास्कर-टीका
-
मन्त्रः यु॒वम् [51] ए॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ।
यु॒वँ सिन्धूँ॑ र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतङ्गृभी॒तान् ।- टीका 8तत्रैव याज्या - युवमेतानीति त्रिष्टुप् ॥ हे सोम त्वं च अग्निश्च युवं युवां एतानि प्रसिद्धानि दिवि स्थितानि रोचनानि दीपनशीलानि ग्रहनक्षत्रादीनि अधत्तं धारयथः । छान्दसो लङ् । यद्वा - युवामेव रोचनानि दिवि अधत्तं स्थापितवन्तौ । सक्रतू समानकर्माणौ । किञ्च - युवामेव सिन्धून् नदीः । स्यन्दनात् सिन्धवः । रुत्वानुनासिकौ उक्तौ । अभिशस्तेः पातकाद्यारोपात् पापात् अवद्यात् परिवादपापाच्च तत्स्थानीयात् कालुष्यादिदोषात् अमुञ्चतम् । गृभीतान् तेन दोषेण गृहीतानापि तान् सिन्धूनपि अमुञ्चतम् । तस्मादेवम्महानुभावौ युवामस्माकं काममुपनयतमिति ॥
विश्वास-प्रस्तुतिः
इन्द्रा॑ग्नी रोच॒ना दि॒वः ।
परि॒ वाजे॑षु भूषथः ।
तद्वा॑ञ्चेति॒ प्र वी॒र्य॑म् ।
मूलम्
इन्द्रा॑ग्नी रोच॒ना दि॒वः ।
परि॒ वाजे॑षु भूषथः ।
तद्वा॑ञ्चेति॒ प्र वी॒र्य॑म् ।
भट्टभास्कर-टीका
- इन्द्रा॑ग्नी रोच॒ना दि॒वᳶ परि॒ वाजे॑षु भूषथः ।
तद्वा॑ञ्चेति॒ प्र वी॒र्य॑म् ।- टीका दशमेऽनुवाके पशुशिरसामुपधानमुक्तम्। अथैकाशे याज्यानुवाक्या उच्यन्ते।
चातुर्मास्येषु वरुणप्रघासाख्यं यद्द्वितीयं पर्व तस्मिन्हवींषि चत्वार्या-म्नातानि— “ऐन्द्राग्नमेकादशकपालं मारुतीमामिक्षां वारुणीमामिक्षां कायमेकक-पालम् ” इति। तत्रैन्द्रग्नस्य पुरोनुवाक्यामाह— इन्द्राग्नी रोचनेति। दिवो द्युलोकस्य रोचना भासकौ हे इन्द्राग्नी वाजेषु हविर्लक्षणेष्वन्नेषु परिभूषथः परितः प्राप्नुतो भागमिति शेषः। तत्तस्मात्कारणद्वां युव-योर्वीर्यं सामर्थ्यं प्रचेति प्रकर्षेणाज्ञायि लोके सर्वैर्ज्ञातमित्यर्थः।
- टीका दशमेऽनुवाके पशुशिरसामुपधानमुक्तम्। अथैकाशे याज्यानुवाक्या उच्यन्ते।
विश्वास-प्रस्तुतिः
श्ञथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॑म् ।
इन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॑ ।
सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ।
मूलम्
श्ञथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॑म् ।
इन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॑ ।
सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ।
भट्टभास्कर-टीका
- मन्त्रः
श्ञथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒स्सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ।- टीका तत्रैव याज्यामाह— श्नथदूवृत्रमुतेति। यो यजमान इन्द्राग्नी सपर्यात्परिचरति। कीदृशा-विन्द्राग्नि, सहुरी समानाह्वानौ। स यजमानो वृत्रं वरिणं श्नथद्विनाशयति। उ- १९६६ तापि च वाजमन्नं सनोति सर्वेभ्यः प्रयच्छति। पुनरपि भूरेर्बहुलस्य वसव्यस्येरज्यन्ता, ईश्वरत्वं प्राप्तवन्तौ, सहसा स्वकीयेन बलेन सहस्तमाऽदिशयेन सोढारौ परबलस्या-भिभवितारावित्यर्थः। वाजयन्ता वाजमन्मात्मन इच्छन्तौ।
विश्वास-प्रस्तुतिः
एन्द्र॑ सान॒सिँ र॒यिम् ॥12॥
स॒जित्वा॑नँ सदा॒सह॑म् ।
वर्षि॑ष्ठमू॒तये॑ भर ।
मूलम्
एन्द्र॑ सान॒सिँ र॒यिम् ॥12॥
स॒जित्वा॑नँ सदा॒सह॑म् ।
वर्षि॑ष्ठमू॒तये॑ भर ।
भट्टभास्कर-टीका
- एन्द्र॑ सान॒सिँ र॒यिम् [43] स॒जित्वा॑नँ सदा॒सह॑म् ।
वर्षि॑ष्ठमू॒तये॑ भर ।- टीका 11’इन्द्राय ज्येष्ठाय पुरोडाशमेकादशकपालं महाव्रीहीणाम्’ इत्यस्य पुरोनुवाक्या - ऐन्द्रेति गायत्री ॥ हे इन्द्र सानसिं संभजनीयाम् । सनोतेरसिप्रत्ययः, वृद्धिश्च निपात्यते । रयिं धनं सजित्वानं सर्वानरीन् जेतुं शीलं यस्य । ‘अन्येभ्योपि दृश्यते’ इति जयतेः क्वनिप् । यद्वा - जेतृभिस्सहितम् । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । सदासहं सर्वकालमरीणामभिभवितारं वर्षिष्ठं वृद्धतरं अतिप्रभूतं ईदृशं रयिमस्मभ्यं आभर । ‘हृग्रहोः’ इति भः । ऊतये रक्षणाय तर्पणाय वा । ‘ऊतियूति’ इत्यादिना क्तिन उदात्तत्वं निपात्यते ॥
विश्वास-प्रस्तुतिः
प्रस॑साहिषे पुरुहूत॒ शत्रू॑न् ।
ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु ।
इन्द्राभ॑र॒ दक्षि॑णेना॒ वसू॑नि ।
पति॒स्सिन्धू॑नामसि रे॒वती॑नाम् ।
मूलम्
प्रस॑साहिषे पुरुहूत॒ शत्रू॑न् ।
ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु ।
इन्द्राभ॑र॒ दक्षि॑णेना॒ वसू॑नि ।
पति॒स्सिन्धू॑नामसि रे॒वती॑नाम् ।
भट्टभास्कर-टीका
- मन्त्रः प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु ।
इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पति॒स्सिन्धू॑नामसि रे॒वती॑नाम् ।- टीका 12तत्रैव याज्या - प्र ससाहिषे इति त्रिष्टुप् ॥ हे इन्द्र पुरुहूत बहुभिराहूत शत्रून् प्रससाहिषे प्रकषेर्णाभिभवसि । छान्दसे लिटि ‘तुजादानाम्’ इत्यभ्यासस्य दीर्घत्वम् । यद्वा - अभ्यास योर्विपर्ययः । कस्मादेवमुच्यत इति चेत् ज्येष्ठः श्रेष्ठः प्रभूततमो वा ते तव शुष्मः बलम् । अत ख इहास्मिन् कर्मणि रातिः दानं हविषः तवैवास्तु त्वामेव यजामहे । ‘मन्त्रे वृष’ इति क्तिन उदात्तत्वम् । त्वं चास्मभ्यं दक्षिणेन हस्तेन वसूनि धनानि उदकादीनि आभर आहर । पूर्ववद्भत्वम्, ‘अन्येषामपि दृश्यते’ इति दक्षिणेत्यस्य दीर्घत्वम् । यस्मात्सिन्धूनां अपां रेवतीनां साधनानां पतिः पाता त्वमसि । रयेर्मतुब्बहुलम्’ इति संप्रसारणत्वम् । यस्मात्पतिरसि, तस्मात्त्वमेब देहीत्युच्यते; बलत्त्वन्नाच्च तव दातुं नास्ति प्रतिबन्ध इति ॥
विश्वास-प्रस्तुतिः
म॒हाँ इन्द्रो॒ य ओज॑सा ।
प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ।
स्तोमै॑र्व॒त्सस्य॑ वावृधे ।
मूलम्
म॒हाँ इन्द्रो॒ य ओज॑सा ।
प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ।
स्तोमै॑र्व॒त्सस्य॑ वावृधे ।
भट्टभास्कर-टीका
-
म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ।
स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥ -
टीका 1शुक्रपात्रेण माहेन्द्रं गृह्णाति - महानिति गायत्र्या त्रिपदया ॥ य ओजसा बलेन महान् इन्द्रः । पूर्ववद्रुत्वादि संहितायाम् । स इन्द्रः, वत्सस्य वत्सस्थानीयस्य यजमानस्य ऋषेर्वा वत्सनाम्नः, स्वभूतैस्तोमैस्स्तोत्रैः वावृधे वर्धताम् । ‘छन्दसि लुङ्लिङ्लिटः’ इति लिट् । ‘तुजादीनां’ इत्यभ्यासस्य दीर्घः । क इव? पर्जन्यो वृष्टिमानिव यथा वृष्टिमान् पर्जन्योभिवर्धते लोकाभिवृद्ध्या तथेत्यर्थः । वृष्टिमानित्यस्व ‘ह्रस्वनुङ्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । पूर्ववद्रुत्वादि संहितायाम् ॥
विश्वास-प्रस्तुतिः
म॒हाँ इन्द्रो॑ नृ॒वदाच॑र्षणि॒प्राः ॥13॥
उ॒त द्वि॒बर्हा॑ अमि॒नस्सहो॑भिः ।
अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑य ।
उ॒रुᳶ पृ॒थुस्सुकृ॑तᳵ क॒र्तृभि॑र्भूत् ।
मूलम्
म॒हाँ इन्द्रो॑ नृ॒वदाच॑र्षणि॒प्राः ॥13॥
उ॒त द्वि॒बर्हा॑ अमि॒नस्सहो॑भिः ।
अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑य ।
उ॒रुᳶ पृ॒थुस्सुकृ॑तᳵ क॒र्तृभि॑र्भूत् ।
भट्टभास्कर-टीका
-
म॒हाँ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नस्सहो॑भिः ।
अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑यो॒रुᳶ पृ॒थुस्सुकृ॑तᳵ क॒र्तृभि॑र्भूत् ॥- टीका 1बृहत्पृष्ठपक्षे माहेन्द्रं गृह्णाति - महाँइन्द्रो नृवदिति चतुष्पदया त्रिष्टुभा ॥ महानयमिन्द्रः यश्चर्षणिप्राः, चर्षणयो मनुष्यास्तेषां पूरयिता कामैः । प्रा पूरणे, ‘आतो मनिन्क्वनिब्वनिपश्च’ इति विच्प्रत्ययः । नृवत् मनुष्यवत्, यथा मनुष्या आराधयितॄन् कामैः पूरयन्ति तद्वत् । यद्वा - चर्षणीनां चर्षणवतामाचारवतां कामः पूरयिता । समन्तादित्यर्थे आकारः, सर्वत्र पूरयिता, तस्मान्महान् । यद्वा - नृवत् एकस्मिन्निव नरे समन्तात् सर्वेष्वपि लोकेषु चरणशीलानां पूरयिता, ततोयं महानिति । चरेरनिप्रत्ययो बहुलवचनात्सुडागमः । यद्वा - ‘कृषेरादेश्च चः’ इति कृषेरेतद्रूपम् । आङापि कृष्यर्थो विशेष्यते । उदात्तश्रुतेश्चायमसमस्त एव कृष्यर्थं विशिनष्टि । हविःप्रदानादिना आकर्षवतां वशीकुर्वतां कामैः पूरयितेति । उत अपिच द्विबर्हाः द्वयोर्लोकयोर्बृंहितः प्रवृद्धस्तेजसास्मिन्नमुष्मिंश्च । ब्रहेरनिदितोसुन्प्रत्ययः, ‘परादिश्छन्दसि बहुलम्’ ।
पुनश्च विशेष्यते - स होभिर्बलैः अमिनः अपरिच्छेदः । मानं मिनम् । मातेर्निष्ठा, छान्दसं निष्ठानत्वम् । तदस्य नास्तीत्यमिनः, न ह्यस्यैतादृग्बलमस्तीति निश्चेतुं शक्यते । यद्वा - सहोभिरमिनः सङ्गतः । अम गत्यादिषु, ‘बहुलमन्यत्रापि’ इतीनच्प्रत्ययः । इर्दृश इन्द्रो वीर्याय वीर्यार्थम् । यद्वा - कर्म वृत्रवधादि तदर्थम् । अस्मद्र्यक् वावृधे वर्धताम् । ‘छन्दसि लुङ्लङ्लिटः’ इति लिट्, तुजादित्वाद्दीर्घः । अस्मास्व ञ्चतीत्यस्मद्र्यक् । ‘विष्वग्देवयोश्च’ इत्यद्र्यादेशः, क्रियाविशेषणत्वान्नपुंसकत्वम् । अस्माभिर्यजमानैर्दत्तानि हवींषि गृहीत्वा वर्धतामिति यावत् ।
किञ्च - कर्तृभिः परिचरद्भिः अस्माभिर्यजमानैरिन्द्रः उरुर्विस्तीर्णो बलेन, पृथुः प्रथितस्सर्वत्र यशसा, सुकृतः सुष्ठुकृतः वशीकृतश्च, भूत् भवतु । भवतेर्लुङि पूर्ववच्छपो लुक्, ‘भूसुवोस्तिङि’ इति गुणाभावः । यद्वा - कर्तृभिरस्माभिः सुकृतस्सम्यक्कृतोयमुरुः पृथुश्च भवतु । ‘सुः पूजायाम्’ इति कर्मप्रवचनीयत्वम् । ‘स्वती पूजायाम्’ इति प्रादिसमासः, तेन गतित्वाभावात् ‘सूपमानात्कः’ इत्युत्तरपदान्तोदात्तत्वाभावे अव्ययपूर्वपदप्रकृतिस्वरत्वमेव भवति ॥
विश्वास-प्रस्तुतिः
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ ।
वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने ।
त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः ।
मूलम्
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ ।
वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने ।
त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः ।
भट्टभास्कर-टीका
- पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः ।- टीका अथ तत्रैव स्विष्टकृतः पुरोनुवाक्यामाह— पिप्रीहि देवानिति । हे यविष्ठ युवतमाग्न उशतः कामयमानान्दवोन्पिप्रीह्यतिशयेन प्रीणय । हे स्त्रतुपते सूर्यात्मना कालपरिपालक त्वमृतून्कालविशेषा २०३७ न्विद्वाञ्जानन्वर्तसे । तस्मादिहोचिते काले यज । देवेषु भवा ये दैव्या ऋत्विजः सन्ति ‘अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाऽग्नीत्” इत्यादिनाऽऽम्रातास्तेमिर्स्तेदवैः सह त्वमस्य यजमानस्य संबन्धिनां होतॄणामृत्विजां मध्य आयजिष्ठः सर्वतो यष्टृतमोऽसि ।
मूलम्
अ॒ग्निँ स्वि॑ष्ट॒कृत॑म् ।
अया॑ड॒ग्निर॒ग्नेᳶ प्रि॒या धामा॑नि ।
विश्वास-प्रस्तुतिः
अ॒ग्निँ स्वि॑ष्ट॒कृत॒मया॑ड॒ग्निर॒ग्नेᳶ प्रि॒या धामा॑नि ।
अया॒ट्त्सोम॑स्य प्रि॒या धामा॑नि ॥14॥
अया॑ड॒ग्नेᳶ प्रि॒या धामा॑नि ।
अया॑ट्प्र॒जाप॑तेᳶ प्रि॒या धामा॑नि ।
अया॑ड॒ग्नीषोम॑योᳶ प्रि॒या धामा॑नि ।
अया॑डिन्द्राग्नि॒योᳶ प्रि॒या धामा॑नि ।
अया॒डिन्द्र॑स्य प्रि॒या धामा॑नि ।
अया॑ण्महे॒न्द्रस्य॑ प्रि॒या धामा॑नि ।
अया॑ड्दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि ।
मूलम्
अ॒ग्निँ स्वि॑ष्ट॒कृत॒मया॑ड॒ग्निर॒ग्नेᳶ प्रि॒या धामा॑नि ।
अया॒ट्त्सोम॑स्य प्रि॒या धामा॑नि ॥14॥
अया॑ड॒ग्नेᳶ प्रि॒या धामा॑नि ।
अया॑ट्प्र॒जाप॑तेᳶ प्रि॒या धामा॑नि ।
अया॑ड॒ग्नीषोम॑योᳶ प्रि॒या धामा॑नि ।
अया॑डिन्द्राग्नि॒योᳶ प्रि॒या धामा॑नि ।
अया॒डिन्द्र॑स्य प्रि॒या धामा॑नि ।
अया॑ण्महे॒न्द्रस्य॑ प्रि॒या धामा॑नि ।
अया॑ड्दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि ।
भट्टभास्कर-टीका
2यजुश्च व्याख्यायते ॥ यस्मात् अग्निं स्विष्टकृतं अग्निः दैव्यो होता अयाट् यजति । छान्दसोऽङ् हलन्तलक्षणायां वृद्धौ इडभावे रूपम् । तत् अग्नेः आज्यभागाग्नेः प्रियाणि धानानि जन्मानि तेजांसि वा यजति, येषु स यष्टव्यो भाति । एवं अयाट्सोमस्येत्यादि द्रष्टव्यम् ।
यद्वा - ये यजामहे अग्निं स्विष्टकृतमिति यष्टव्यानामादेशः । लिङ्गं चेदं यष्टव्यानामादेशस्य यथा ये यजामहे अग्निं, येयजामहे सोममिति । तदा स्विष्टकृत् अग्निः अग्न्यादीनां प्रियाणि धामानि यजतीति योज्यम् ।
विश्वास-प्रस्तुतिः
यक्ष॑द॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि ।
यक्ष॒त्स्वम्म॑हि॒मान॑म् ।
मूलम्
यक्ष॑द॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि ।
यक्ष॒त्स्वम्म॑हि॒मान॑म् ।
भट्टभास्कर-टीका
एवं अयं अग्नेः होतुः होतृसंपादिनः स्विष्टकृतश्च प्रियाणि धामानि यक्षत् यजति । लेटि ‘सिब्बहुलं लेटि’ इति सिप् । स्वं च महिमानं यक्षत् ‘स्वं महिमानमावह’ इत्यावहनीयतया उक्तमिदानीं यजतु ।
विश्वास-प्रस्तुतिः
आय॑जता॒मेज्या॒ इषः॑ ।
मूलम्
आय॑जता॒मेज्या॒ इषः॑ ।
भट्टभास्कर-टीका
अथ एज्याः अस्मदाभिमुख्येन आगमयितव्याः अस्मभ्यं देयाः इषः अन्नानि आयजतां आगमयतु ।
विश्वास-प्रस्तुतिः
कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः ।
जु॒षताँ॑ ह॒विः ।
मूलम्
कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः ।
जु॒षताँ॑ ह॒विः ।
भट्टभास्कर-टीका
यद्वा - अन्या अपि देवताः एज्याः एष्टव्याः इषः भागमिच्छतीः प्राप्ताः अयमग्निः आयजतां इषत्तर्पयतु । किञ्च - सः अग्निः स्विष्टकृत् अध्वरा अध्वरं यज्ञं हिंसकरहितं कृणोतु करोतु । ‘सुपां सुलुक्’ इत्याकारः । यद्वा अध्वराः हिंसकरहिताः इषः करोतु । किञ्च - अयं स्विष्टकृत् अग्निः इदं हविः जुषतां सेवताम् ।
विश्वास-प्रस्तुतिः
अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः ।
पाव॑क शोचे॒ वेष्ट्वँ हि यज्वा॑ ।
ऋ॒ता य॑जासि महि॒ना वियद्भूः ।
ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥15॥
मूलम्
अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः ।
पाव॑क शोचे॒ वेष्ट्वँ हि यज्वा॑ ।
ऋ॒ता य॑जासि महि॒ना वियद्भूः ।
ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥15॥
भट्टभास्कर-टीका
अग्ने यदद्येति गतम् ॥
- अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होत॒ᳶ पाव॑क [32] शो॒चे॒ वेष्ट्वँ हि यज्वा॑ ।
ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ।- टीका तत्रैव याज्यामाह— अग्ने यदद्येति । हे स्विष्टकृदग्ने विशः प्रविष्टस्यानुष्ठितस्याध्वरस्य संबन्धि यद्धविरस्ति तदद्य वरेशान भक्षय । होतर्होमकर्तः पावक शोधक शोचे दीप्यमान, तान्येतान्यग्निविशेषणानि । हि यस्मात्त्वं यज्वा यागस्य कर्ता तस्मादृता ऋतेऽस्मदीययज्ञे मषिम्ना यजासि । देवान्प्रीणयसि । यद्यस्मात्कारणाद्विभूर्विशिष्टो भवति तत्तस्मात्कारणाद्धे यविष्ठ युवतमाद्य ते तव या हव्या यानि हव्यानि अस्माभिर्दीयन्ते तानि ( वह ) स्वी कुरु । यद्यप्येतन्मन्त्रद्वयं दार्शिकहौत्रकाण्डे स माम्नातत्वाच्चोदकादेव प्राप्तं तथाऽपि विस्पाष्टार्थं पुनर्वचनमिति द्रष्टव्यम् ।
इति तैत्तिरीयब्राह्मणे तृतीये पञ्चमे सप्तमोऽनुवाकः ॥