०६ आज्यभागयोः पुरोनुवाक्ये ...{Loading}...
विश्वास-प्रस्तुतिः
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनत् ।
द्र॒वि॒ण॒स्युर्वि॑प॒न्यया॑ ।
समि॑द्धश्शु॒क्र आहु॑तः ।
मूलम्
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनत् ।
द्र॒वि॒ण॒स्युर्वि॑प॒न्यया॑ ।
समि॑द्धश्शु॒क्र आहु॑तः ।
भट्टभास्कर-टीका
1आज्यभागयोः पुरोनुवाक्ये - अग्निर्वृत्राणीति गायत्र्यौ ॥ व्याख्याते अग्निकाण्डे ।
- अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ ।
समि॑द्धश्शु॒क्र आहु॑तः ॥- टीका
( अथ चतुर्थकाण्डे तृतीयप्रपाठके त्रयोदशोऽनुवाकः )।
द्वादशेऽनुवाकेऽसपत्ना विराजश्चोक्ताः । अथ त्रयोदशस्यान्त्यानुवाकत्वात्तत्र याज्यानुवाक्या उच्यन्ते ।
चातुर्मास्येषु साकमेधाख्ये तृतीये पर्वण्यग्नयेऽनीयवते पुरोडाशमष्टाकपालं निर्वपति साकँ सूर्येणाद्येतत्यादिहवष्यिंम्नातानि । तत्र प्रथमस्याऽऽज्यभागस्य पुरोनुवाक्यामाह— अग्निर्वृत्राणीति । अयमग्निरस्याननुगृह्णात्विति शेषः । कीदृशोऽग्निः, वृत्राणि जङ्घनत्कर्मानुष्टाननिवारकाणि पापान्यतिशयेन हतवान्, विपन्यया विशिष्टयाऽस्मात्कृतया स्तुत्या द्रविणस्युरस्मदर्थं द्रविणेच्छुः, समिद्धः सम्यक्प्रज्वालितः, शुक्रः शोचमानः, आहुत आ समन्तादस्माभिराकारितोऽनेनाऽऽज्योनाऽऽहुतो वा
- टीका
( अथ चतुर्थकाण्डे तृतीयप्रपाठके त्रयोदशोऽनुवाकः )।
विश्वास-प्रस्तुतिः
जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु ।
त्वँ सो॑माऽसि॒ सत्प॑तिः ।
त्वँ राजो॒त वृ॑त्र॒हा ।
त्वम्भ॒द्रो अ॑सि॒ क्रतुः॑ ।
मूलम्
जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु ।
त्वँ सो॑माऽसि॒ सत्प॑तिः ।
त्वँ राजो॒त वृ॑त्र॒हा ।
त्वम्भ॒द्रो अ॑सि॒ क्रतुः॑ ।
भट्टभास्कर-टीका
जुषाण इत्यादिके यजुषी याज्ये । प्रियमाणोऽग्निराज्यस्य वेतु पिबतु । सुहितार्थयोगे चतुर्थी ज्ञापिता, चतुर्थ्यर्थे षष्ठी ।
- मन्त्रः
त्वँ सो॑मासि॒ सत्प॑ति॒स्त्वँ राजो॒त वृ॑त्र॒हा ।
त्वम्भ॒द्रो अ॑सि॒ क्रतुः॑ ॥ - टीका अथ द्वितीयस्याऽऽज्यभागस्य पुरोनुवाक्यामाह— त्वँ सोमासीति । हे सोम त्वं सतां सम्यगनुष्ठितानां कर्मणां पतिरसि। किंच त्वं राजा दीप्तिमान् । अपि च त्वं वृत्रहा पापघाती । किंच त्वं भद्रः फलप्रदत्वेन मङ्गलः क्रतुरसि । तस्य क्रतोर्निष्पादकत्वात् । यद्यप्येतन्मन्त्रद्वयं चोद कप्राप्तं तथाऽप्यमावारयाविकृतित्व युक्तां वृधन्वत्योः प्राप्तिं वारयितुं पुनः पाठः ।
विश्वास-प्रस्तुतिः
जु॒षा॒णस्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु ।
अ॒ग्निᳶ प्र॒त्नेन॒ जन्म॑ना ।
शुम्भा॑नस्त॒नुवँ॒ स्वाम् ।
क॒विर्विप्रे॑ण वावृधे ।
मूलम्
जु॒षा॒णस्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु ।
अ॒ग्निᳶ प्र॒त्नेन॒ जन्म॑ना ।
शुम्भा॑नस्त॒नुवँ॒ स्वाम् ।
क॒विर्विप्रे॑ण वावृधे ।
भट्टभास्कर-टीका
एवं जुषाणः सोमः इत्यादि । गतम् । अत्राग्नेराज्यादन्यद्धविरस्ति । सोमस्य नास्ति । अतस्सोमस्येदमाज्यं हविरिति मत्वाऽऽह । प्रत्नेन पुराणेन आत्मीयेन जन्मना हविः-प्रक्षेपजन्मना शोभया जननीयेन वा हविषा स्वां तनुवं शुम्भानः शोभयमानस्सन् कविः क्रान्तदर्शनः वावृधे वर्धताम् । छान्दसो लिट्, तुजादित्वादभ्यासस्य दीर्घः ।
विश्वास-प्रस्तुतिः
सोम॑ गी॒र्भिष्ट्वा॑ व॒यम् ।
व॒र्धया॑मो वचो॒विदः॑ ।
सु॒मृ॒डी॒को न॒ आवि॑श ।
मूलम्
सोम॑ गी॒र्भिष्ट्वा॑ व॒यम् ।
व॒र्धया॑मो वचो॒विदः॑ ।
सु॒मृ॒डी॒को न॒ आवि॑श ।
भट्टभास्कर-टीका
गीर्भिः सूक्तिभिः वर्धयामः महायशसं कुर्मः । यस्मात् वयं वचोविदः वचसां वेदितारः वाग्योगविदः, अतः त्वं सुमृडीकः सुष्ठु सुखयिता भूत्वा नः अस्मान् आविश अनुप्रविश्य अनुगृहाण ।
विश्वास-प्रस्तुतिः
जु॒षा॒णस्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु ॥9॥
मूलम्
जु॒षा॒णस्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु ॥9॥
भट्टभास्कर-टीका
याज्या गता जुषाण इति ॥
इति तैत्तिरीयब्राह्मणे तृतीये पञ्चमे षष्ठोऽनुवाकः ॥