०५ प्रयाजाः

०५ प्रयाजाः ...{Loading}...

विश्वास-प्रस्तुतिः

स॒मिधो॑ अग्न॒ आज्य॑स्य वियन्तु ।
तनू॒नपा॑दग्न॒ आज्य॑स्य वेतु ।
इ॒डो अ॑ग्न॒ आज्य॑स्य वियन्तु ।
ब॒र्हिर॑ग्न॒ आज्य॑स्य वेतु ।
स्वाहा॒ऽग्निम् ।
स्वाहा॒ सोम॑म् ।
स्वाहा॒ऽग्निम् ।
स्वाहा॑ प्र॒जाप॑तिम् ।
स्वाहा॒ऽग्नीषोमौ॑ ।
स्वाहे॑न्द्रा॒ग्नी ।
स्वाहेन्द्र॑म् ।
स्वाहा॑ महे॒न्द्रम् ।
स्वाहा॑ दे॒वाँ आ॑ज्य॒पान् ।
स्वाहा॒ऽग्निँ हो॒त्राज्जु॑षा॒णाः ।
अग्न॒ आज्य॑स्य वियन्तु ॥8॥

मूलम्

स॒मिधो॑ अग्न॒ आज्य॑स्य वियन्तु ।
तनू॒नपा॑दग्न॒ आज्य॑स्य वेतु ।
इ॒डो अ॑ग्न॒ आज्य॑स्य वियन्तु ।
ब॒र्हिर॑ग्न॒ आज्य॑स्य वेतु ।
स्वाहा॒ऽग्निम् ।
स्वाहा॒ सोम॑म् ।
स्वाहा॒ऽग्निम् ।
स्वाहा॑ प्र॒जाप॑तिम् ।
स्वाहा॒ऽग्नीषोमौ॑ ।
स्वाहे॑न्द्रा॒ग्नी ।
स्वाहेन्द्र॑म् ।
स्वाहा॑ महे॒न्द्रम् ।
स्वाहा॑ दे॒वाँ आ॑ज्य॒पान् ।
स्वाहा॒ऽग्निँ हो॒त्राज्जु॑षा॒णाः ।
अग्न॒ आज्य॑स्य वियन्तु ॥8॥

भट्टभास्कर-टीका

1प्रयाजे स्वाहाऽग्निमित्यादि ॥ अग्न्यादीन् जुषाणाः स्वाहाकरणदेवताः आज्यस्य वियन्तु । हे अग्ने! इति । होत्रदिति । चतुर्थ्यर्थे पञ्चमी । सुष्ठु हूयते यया या च स्वयमेवेत्थं कर्तव्यमित्याह, सा पञ्चमप्रयाजदेवता । तस्या अग्न्यादिभेदेन बहुत्वमुपचर्यते । गतमन्यत् ॥

इति तैत्तिरीये ब्राह्मणे तृतीये पञ्चमे पञ्चमोऽनुवाकः ॥