०४ स्रुचावादापयति ...{Loading}...
विश्वास-प्रस्तुतिः
अ॒ग्निर् होता॒ वेत्व॒ग्निः ।
हो॒त्रव्ँ वे॑त्तु प्रावि॒त्रम् ।
मूलम्
अ॒ग्निर् होता॒ वेत्व॒ग्निः ।
हो॒त्रव्ँ वे॑त्तु प्रावि॒त्रम् ।
भट्टभास्कर-टीका
1स्रुचावादापयति - अग्निर्होतेति ॥ अयमग्निः होता देवानां यष्टा वेतु पिबत्वाज्यम् । अग्निमयं होत्रं यज्ञं होतव्यं वा हविः वेत्तु यथावज्जानातु । प्रावित्रं प्रकर्षेण तर्पणं पाकं वा सर्वेषाम् ।
विश्वास-प्रस्तुतिः
स्मो व॒यम् ।
मूलम्
स्मो व॒यम् ।
भट्टभास्कर-टीका
किञ्च - वयमपि मनुष्यहोतारः स्मः यथा सन्तो वर्तामहे यथा सर्वदा यष्टारस्स्याम । दैवहोतृमात्रेण यागानिर्वृत्तेरित्थमुक्तम् ।
विश्वास-प्रस्तुतिः
सा॒धु ते॑ यजमान दे॒वता॑ ।
मूलम्
सा॒धु ते॑ यजमान दे॒वता॑ ।
भट्टभास्कर-टीका
हे यजमान! तव साधु साधयित्र्येव देवता अभिप्रेतस्य, साधु वाऽभिप्रेतं संपादयिष्यति संपादयतु वा ।
विश्वास-प्रस्तुतिः
घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॑स्व ।
मूलम्
घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॑स्व ।
भट्टभास्कर-टीका
हे अध्वर्यो! त्वं तदर्थं घृतवतीं घृतपूर्णां स्रुचं जुहूं आस्यस्व आदत्स्व आक्षेप आदानम् । ‘उपसर्गादस्यत्योह्योर्वा वचनम्’ इत्यात्मनेपदम् । स्रुचमिति सामान्येन जुहूपभृतोरभिधानम् । ‘यद्द्वे इव ब्रूयात्’ इति द्विवचनप्रतिषेधात् । यद्वा - जुह्वा एव ग्रहणं होमसाधनत्वात् तामेवादापयति, तदर्थत्वादितरा तामनुगच्छत्येव । ‘द्वे इव’ इति चार्थस्य प्रतिषेधः, न शब्दमात्रस्य, तेन द्वयोस्सामान्यग्रहणं युक्तमेव तस्याः भ्रातृव्यदेवत्यत्वात्, तस्माज्जुहूमेवादापयति ।
विश्वास-प्रस्तुतिः
दे॒वा॒युवव्ँ॑वि॒श्ववा॑राम् ।
मूलम्
दे॒वा॒युवव्ँ॑वि॒श्ववा॑राम् ।
भट्टभास्कर-टीका
देवायुवं देवानामाहुतिभिः मिश्रयित्रीम् । यौतेः क्विप् । ‘ऊञ्च गमादीनाम्’ इति ऊकारः ।देवान्वा भोक्तृत्वेन कामयमानाम् । ‘क्याच्छन्दमि’ इत्युप्रत्यये तन्वादित्वात् उवङ् । विश्ववारां विश्वेऽपि वरितारो यस्याः सर्वसिद्धिहेतुत्वात् । विश्वकालवर्तिनींवा ।
विश्वास-प्रस्तुतिः
ईडा॑महै दे॒वाँ ई॒डेन्या॑न् ।
न॒म॒स्याम॑ नम॒स्या॑न् ।
यजा॑म य॒ज्ञिया॑न् ॥7॥
मूलम्
ईडा॑महै दे॒वाँ ई॒डेन्या॑न् ।
न॒म॒स्याम॑ नम॒स्या॑न् ।
यजा॑म य॒ज्ञिया॑न् ॥7॥
भट्टभास्कर-टीका
ईडामहा इत्यादि । ईडेन्याः स्तोतव्याः नमस्याः परिचरणार्हाः यज्ञिया यज्ञार्हाः । ‘मनुष्या वा ईडेन्याः’ इति ब्राह्मणम् ॥
इति तैत्तिरीये ब्राह्मणे तृतीये पञ्चमे चतुर्थोऽनुवाकः ॥