२० वायुरूपत्वज्ञानेन होतृमन्त्राणां प्रशंसा

०९ वायुरूपत्वज्ञानेन होतृमन्त्राणां प्रशंसा ...{Loading}...

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यो वा इ॒मव्ँ वि॒द्यात् । यतो॒ऽयम्पव॑ते । यद॑भि॒ पव॑ते । यद॑भिस॒म्पव॑ते । सर्व॒मायु॑रियात् । न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑येत । प॒शु॒मान्त्स्या॑त् । वि॒न्देत॑ प्र॒जाम् । यो वा इ॒मव्ँ वेद॑ ॥34॥
यतो॒ऽयम्पव॑ते । यद॑भि॒पव॑ते । यद॑भिस॒म्पव॑ते । सर्व॒मायु॑रेति । न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑यते । प॒शु॒मान्भ॑वति । वि॒न्दते॑ प्र॒जाम् ।

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ - “यो वा इ॒मव्ँ वि॒द्याद् यतो॒ऽयम्पव॑ते॒ यद॑भि॒ पव॑ते॒, यद॑भिस॒म्पव॑ते॒ , सर्व॒मायु॑रियात् ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ - “यो वा इ॒मव्ँ वि॒द्याद् यतो॒ऽयम्पव॑ते॒ यद॑भि॒ पव॑ते॒, यद॑भिस॒म्पव॑ते॒ , सर्व॒मायु॑रियात् ।

भट्टभास्कर-टीका

1ब्रह्मवादिन इत्यादि ॥ वायुव्रतं नामेदं विधीयते । वायोः पञ्चहोतृहृदयत्वात्संगतिः । लिङ्गं च - ‘वायोरात्मानं कवयो निचिक्युः’ इति ।

ब्रह्मवादिनो वदन्ति - य इमं प्रसिद्धं पवमानं वायुं विद्यात् वेदितुमर्हति, यतश्च कारणादपादानाद्वा अयं पवते वाति तच्च यो विद्यात्, यच्चाभिपवते यदाश्रित्याभिलक्ष्य वा पवते तच्च यो विद्यात् यच्चाभिसंपवते आभिमुख्येनाश्रित्य सह पवते तच्च यो विद्यात्, स सर्वमायुरियात् पुरुषायुषं जीवितुमर्हति । सर्वत्रार्हार्थे लिङ् ।

विश्वास-प्रस्तुतिः

न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑येत पशु॒मान्त्स्या॑द् वि॒न्देत॑ प्र॒जाम् । यो वा इ॒मव्ँ वेद॒ यतो॒ऽयम्पव॑ते॒ ,यद॑भि॒पव॑ते॒ , यद॑भिस॒म्पव॑ते॒ ,सर्व॒मायु॑रेति ।

न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑यते पशु॒मान्भ॑वति, वि॒न्दते॑ प्र॒जाम्” ।

मूलम्

न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑येत पशु॒मान्त्स्या॑द् वि॒न्देत॑ प्र॒जाम् । यो वा इ॒मव्ँ वेद॒ यतो॒ऽयम्पव॑ते॒ ,यद॑भि॒पव॑ते॒ , यद॑भिस॒म्पव॑ते॒ ,सर्व॒मायु॑रेति ।

न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑यते पशु॒मान्भ॑वति, वि॒न्दते॑ प्र॒जाम्” ।

भट्टभास्कर-टीका

आयुषो मध्ये न म्रियते, बहुपशुश्च स्यात् । लभेत च प्रजाम् । यस्मादेवं ब्रह्मवादिभिरुक्तम् ॥

विश्वास-प्रस्तुतिः

अ॒द्भ्यᳶ प॑वते ।

मूलम्

अ॒द्भ्यᳶ प॑वते ।

भट्टभास्कर-टीका

2तद्दर्शयति - अद्भ्य इत्यादि ॥ अपः कर्माणि । अप्कारणः पवते कर्मनिर्वृत्तिद्वारेण अद्भ्यः पवनात् ।

विश्वास-प्रस्तुतिः

अ॒पो॑ऽभिप॑वते ।
अ॒पो॑ऽभिसम्प॑वते ॥35॥

मूलम्

अ॒पो॑ऽभिप॑वते ।
अ॒पो॑ऽभिसम्प॑वते ॥35॥

भट्टभास्कर-टीका

तथा अप आश्रित्य अभिलक्ष्य वा पवते, अप्सु प्रवृत्तेः अपां वा हेतुत्वात् । तथाऽद्भिस्सह पवते, तस्य लोकस्थितिहेतुत्वात् । अपामभावे सर्वमेतन्न स्यात् ।

विश्वास-प्रस्तुतिः

अ॒स्याᳶ प॑वते ।

मूलम्

अ॒स्याᳶ प॑वते ।

भट्टभास्कर-टीका

अस्या इति । हविर्निष्पत्त्यादेर्हेतुत्वात् पृथिव्याः । तदभावे वायोरभावात् ।

विश्वास-प्रस्तुतिः

इ॒माम॒भिप॑वते । इ॒माम॒भिसम्प॑वते ।

मूलम्

इ॒माम॒भिप॑वते । इ॒माम॒भिसम्प॑वते ।

भट्टभास्कर-टीका

पृथिवीमाश्रित्य पवते, पृथिव्या सह स्थितिहेतुर्भवति ।

विश्वास-प्रस्तुतिः

अ॒ग्नेᳶ प॑वते ।

मूलम्

अ॒ग्नेᳶ प॑वते ।

भट्टभास्कर-टीका

अग्नेरिति यागनिर्वृत्तिद्वारेणाग्नौ स्थित्वा पवते ।

विश्वास-प्रस्तुतिः

अ॒ग्निम॒भिप॑वते । अ॒ग्निम॒भिसम्प॑वते ।

मूलम्

अ॒ग्निम॒भिप॑वते । अ॒ग्निम॒भिसम्प॑वते ।

भट्टभास्कर-टीका

अग्निना सह पवते ।

विश्वास-प्रस्तुतिः

अ॒न्तरि॑क्षात्पवते । अ॒न्तरि॑क्षम॒भिप॑वते । अ॒न्तरि॑क्षम॒भिसम्प॑वते ।

मूलम्

अ॒न्तरि॑क्षात्पवते । अ॒न्तरि॑क्षम॒भिप॑वते । अ॒न्तरि॑क्षम॒भिसम्प॑वते ।

भट्टभास्कर-टीका

अन्तरिक्षादिति सुषिराभावे कर्मलोपात् अन्तरिक्षे पवते अन्तरिक्षेण सह विश्वं धारयति ।

विश्वास-प्रस्तुतिः

आ॒दि॒त्यात्प॑वते ॥36॥

मूलम्

आ॒दि॒त्यात्प॑वते ॥36॥

भट्टभास्कर-टीका

आदित्यादिति । वृष्ट्यादिद्वारेण आदित्ये तिष्ठति ।

विश्वास-प्रस्तुतिः

आ॒दि॒त्यम॒भिप॑वते । आ॒दि॒त्यम॒भिसम्प॑वते ।

मूलम्

आ॒दि॒त्यम॒भिप॑वते । आ॒दि॒त्यम॒भिसम्प॑वते ।

विश्वास-प्रस्तुतिः

आदित्येन सह विश्वं गच्छति ।

मूलम्

आदित्येन सह विश्वं गच्छति ।

विश्वास-प्रस्तुतिः

द्योᳶ प॑वते ।

मूलम्

द्योᳶ प॑वते ।

भट्टभास्कर-टीका

द्योरिति । वृष्ट्यादिहेतुत्वाद्दिवि तिष्ठति ।

विश्वास-प्रस्तुतिः

दिव॑म॒भिप॑वते । दिव॑म॒भिसम्प॑वते ।

मूलम्

दिव॑म॒भिप॑वते । दिव॑म॒भिसम्प॑वते ।

भट्टभास्कर-टीका

द्युलोकेन संगत्य विश्वं धारयति ।

विश्वास-प्रस्तुतिः

दि॒ग्भ्यᳶ प॑वते । दिशो॒ऽभिप॑वते । दिशो॒ऽभिसम्प॑वते ।

मूलम्

दि॒ग्भ्यᳶ प॑वते । दिशो॒ऽभिप॑वते । दिशो॒ऽभिसम्प॑वते ।

भट्टभास्कर-टीका

दिग्भ्य इति । पुरोवातादिहेतुत्वात् दिक्षु वातस्सञ्चरति दिग्विशेषैस्सङ्गत्य ऋतुधर्मान् प्रवर्तयति ॥

मूलम्

स यत्पु॒रस्ता॒द्वाति॑ । प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता॑द्वाति ॥ 37॥

विश्वास-प्रस्तुतिः

स यत्पु॒रस्ता॒द्वाति॑ प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता॑द्वाति ॥

मूलम्

स यत्पु॒रस्ता॒द्वाति॑ प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता॑द्वाति ॥

भट्टभास्कर-टीका

3स यदित्यादि ॥ स वायुः यदा पुरस्तात् पूर्वस्या दिशौ वाति तदाऽसौ प्राण एव भूत्वा प्रजानां प्राणतुल्यः पूर्वस्या आगच्छति ।

मूलम्

तस्मा॑त्पु॒रस्ता॒द्वान्त॑म् । सर्वा॑ प्र॒जाᳶ प्रति॑नन्दन्ति ।

विश्वास-प्रस्तुतिः

तस्मा॑त्पु॒रस्ता॒द्वान्त॒म् सर्वा॑ प्र॒जाᳶ प्रति॑नन्दन्ति ।

मूलम्

तस्मा॑त्पु॒रस्ता॒द्वान्त॒म् सर्वा॑ प्र॒जाᳶ प्रति॑नन्दन्ति ।

भट्टभास्कर-टीका

तस्मात् पूर्वस्या दिश आगच्छन्तं वायुं सर्वाः प्रजाः प्रतिनन्दन्ति,

विश्वास-प्रस्तुतिः

प्रा॒णो हि प्रि॒यᳶ प्र॒जाना॑म् ।

मूलम्

प्रा॒णो हि प्रि॒यᳶ प्र॒जाना॑म् ।

भट्टभास्कर-टीका

प्रतिमुखं प्रत्येकं वा तिष्ठन्ति प्राणो नाम प्रजानां प्रियो भवति । पुरोवातश्च प्राण इत्युक्तम् ।

विश्वास-प्रस्तुतिः

प्रा॒ण इ॑व प्रि॒यᳶ प्र॒जाना॑म्भवति ।

मूलम्

प्रा॒ण इ॑व प्रि॒यᳶ प्र॒जाना॑म्भवति ।

मूलम्

य ए॒वव्ँ वेद॑ । स वा ए॒ष प्रा॒ण ए॒व ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वेद॒ स वा ए॒ष प्रा॒ण ए॒व ।

मूलम्

य ए॒वव्ँ वेद॒ स वा ए॒ष प्रा॒ण ए॒व ।

भट्टभास्कर-टीका

अथैवं वेदिता प्राण इव प्रजानां प्रियो भवति । किमुच्यते प्राण इव प्रिय इति? ननु स एष एवं पवमानमहिमेवेदी प्राण एव सर्वप्रजानाम् । विदुषा हि सर्वं संधार्यते ॥

मूलम्

अथ॒ यद्द॑क्षिण॒तो वाति॑ । मा॒त॒रिश्वै॒व भू॒त्वा द॑क्षिण॒तो वा॑ति ।

विश्वास-प्रस्तुतिः

अथ॒ यद्द॑क्षिण॒तो वाति॑ मात॒रिश्वै॒व भू॒त्वा द॑क्षिण॒तो वा॑ति ।

तस्मा॑द्दक्षिण॒तो वान्तव्ँ॑वि॒द्यात्त् सर्वा॒ दिश॒ आवा॑ति ।
सर्वा॒ दिशोऽनु॒विवा॑ति ।
सर्वा॒ दिशोऽनु॒सव्ँ वा॒तीति॑ ।

मूलम्

अथ॒ यद्द॑क्षिण॒तो वाति॑ मात॒रिश्वै॒व भू॒त्वा द॑क्षिण॒तो वा॑ति ।

तस्मा॑द्दक्षिण॒तो वान्तव्ँ॑वि॒द्यात्त् सर्वा॒ दिश॒ आवा॑ति ।
सर्वा॒ दिशोऽनु॒विवा॑ति ।
सर्वा॒ दिशोऽनु॒सव्ँ वा॒तीति॑ ।

भट्टभास्कर-टीका

4अथ यदित्यादि ॥ मातरि सर्वस्य परिच्छेदके आकाशे सर्वत्र श्वयति वर्धते, सर्वस्य वा श्वासयिता, मातृवद्वा सर्वस्याश्वासयिता मातरिश्वा ।

विश्वास-प्रस्तुतिः

स वा ए॒ष मा॑त॒रिश्वै॒व ।

मूलम्

स वा ए॒ष मा॑त॒रिश्वै॒व ।

भट्टभास्कर-टीका

एतादृश एव हि भूत्वा दक्षिणतो गच्छति, सर्वाप्यायकत्वात् । स खल्वेवं वेदिता स्वयं मातारश्चैव । एवं विदुषा हि सर्वमाप्यते ॥

मूलम्

अथ॒ यत्प॒श्चाद्वाति॑ । पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति ।

विश्वास-प्रस्तुतिः

अथ॒ यत्प॒श्चाद्वाति॒ पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति ।

मूलम्

अथ॒ यत्प॒श्चाद्वाति॒ पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति ।

भट्टभास्कर-टीका

5पवमानः शोधकः पश्चाद्वातो भवति, शुद्धिहेतुत्वात्तस्य ।

विश्वास-प्रस्तुतिः

पू॒तम॑स्मा॒ आह॑रन्ति । पू॒तमुप॑हरन्ति ।

मूलम्

पू॒तम॑स्मा॒ आह॑रन्ति । पू॒तमुप॑हरन्ति ।

भट्टभास्कर-टीका

अथ एवं वेदित्रेऽस्मै पूतं शुद्धमेव सर्वमाहरन्ति ददति, पूतमेवैतत्सकाशं प्रापयन्ति ।

विश्वास-प्रस्तुतिः

पू॒तम॑श्ञाति ।

मूलम्

पू॒तम॑श्ञाति ।

मूलम्

य ए॒वव्ँ वेद॑ । स वा ए॒ष पव॑मान ए॒व ॥39॥

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वेद॒ स वा ए॒ष पव॑मान ए॒व ॥39॥

मूलम्

य ए॒वव्ँ वेद॒ स वा ए॒ष पव॑मान ए॒व ॥39॥

भट्टभास्कर-टीका

पूतं एव स्वयं चाश्नाति भुङ्क्ते । किं बहुना, स एष वेदिता पवमान एव स्वयम् ॥

मूलम्

यदु॑त्तर॒तो वाति॑ । स॒वि॒तैव भू॒त्त्वोत्त॑र॒तो वा॑ति ।

विश्वास-प्रस्तुतिः

अथ॒ यदु॑त्तर॒तो वाति॑ सवि॒तैव भू॒त्त्वोत्त॑र॒तो वा॑ति ।

मूलम्

अथ॒ यदु॑त्तर॒तो वाति॑ सवि॒तैव भू॒त्त्वोत्त॑र॒तो वा॑ति ।

भट्टभास्कर-टीका

6अथ यदित्यादि ॥ सविता देवः सर्वस्यानुज्ञाता, स एव भूत्वोत्तरतो वाति ।

विश्वास-प्रस्तुतिः

स॒वि॒तेव॒ स्वाना॑म्भवति ।

मूलम्

स॒वि॒तेव॒ स्वाना॑म्भवति ।

मूलम्

य ए॒वव्ँ वेद॑ । स वा ए॒ष स॑वि॒तैव ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वेद॒ स वा ए॒ष स॑वि॒तैव ।

मूलम्

य ए॒वव्ँ वेद॒ स वा ए॒ष स॑वि॒तैव ।

भट्टभास्कर-टीका

अथ एवं वेदिता स्वानां ज्ञातीनामपि सवितृतुल्यो भवति । किमुच्यते सवितेवेत्यादि ननु स एव स्वयं सवितैव ॥

मूलम्

ते य ए॑नम्पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति । य ए॒वास्य॑ पु॒रस्ता॑त्पा॒प्मानः॑ । ताँस्तेऽप॑घ्नन्ति ।

विश्वास-प्रस्तुतिः

ते य ए॑नम्पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्य॑ पु॒रस्ता॑त्पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।

मूलम्

ते य ए॑नम्पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्य॑ पु॒रस्ता॑त्पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।

भट्टभास्कर-टीका

7ते च एवमित्यादि ॥ ते खलु य एते पुरस्तादायन्तं पूर्वस्या दिश आगच्छन्तं विद्वांसं प्राणादिरूपेण प्राच्यादिदिक्षु निर्धारितमेनमुपवदन्ति निन्दन्ति ।

विश्वास-प्रस्तुतिः

पु॒रस्ता॒दित॑रान्पा॒प्मन॑स्सचन्ते ।

मूलम्

पु॒रस्ता॒दित॑रान्पा॒प्मन॑स्सचन्ते ।

भट्टभास्कर-टीका

निन्दितृदर्शनेऽपि न निन्दितः स इति दर्शयति - ते उपवदितारोऽस्य पुरस्तात्पाप्मानः तद्दिगवस्थितान् उपवदितारः स्वयं गृह्णन्तीति । एवं विद्वत्संबन्धेन साऽपि दिक् विपाप्मा भवतीति ॥

मूलम्

अथ॒ य ए॑नन्दक्षिण॒त आ॒यन्त॑मुप॒वद॑न्ति ॥40॥
य ए॒वास्य॑ दक्षिण॒तᳶ पा॒प्मानः॑ । ताँस्तेऽप॑घ्नन्ति । द॒क्षि॒ण॒त इत॑रान्पा॒प्मन॑स्सचन्ते । अथ॒ य ए॑नम्प॒श्चादा॒यन्त॑मुप॒वद॑न्ति । य ए॒वास्य॑ प॒श्चात्पा॒प्मानः॑ । ताँस्तेऽप॑घ्नन्ति । प॒श्चादित॑रान्पा॒प्मन॑स्सचन्ते । अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒वद॑न्ति । य ए॒वास्यो॑त्तर॒तᳶ पा॒प्मानः॑ । ताँस्तेऽप॑घ्नन्ति ॥41॥

विश्वास-प्रस्तुतिः

अथ॒ य ए॑नन्दक्षिण॒त आ॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्य॑ दक्षिण॒तᳶ पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
द॒क्षि॒ण॒त इत॑रान्पा॒प्मन॑स्सचन्ते ।
अथ॒ य ए॑नम्प॒श्चादा॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्य॑ प॒श्चात्पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
प॒श्चादित॑रान्पा॒प्मन॑स्सचन्ते ।

अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्यो॑त्तर॒तᳶ पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
उ॒त्त॒र॒त इत॑रान्पा॒प्मन॑स्सचन्ते ।

मूलम्

अथ॒ य ए॑नन्दक्षिण॒त आ॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्य॑ दक्षिण॒तᳶ पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
द॒क्षि॒ण॒त इत॑रान्पा॒प्मन॑स्सचन्ते ।
अथ॒ य ए॑नम्प॒श्चादा॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्य॑ प॒श्चात्पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
प॒श्चादित॑रान्पा॒प्मन॑स्सचन्ते ।

अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्यो॑त्तर॒तᳶ पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
उ॒त्त॒र॒त इत॑रान्पा॒प्मन॑स्सचन्ते ।

भट्टभास्कर-टीका

8-10अथ य एनं दक्षिणत इत्यादि ॥ समानम् ॥

विश्वास-प्रस्तुतिः

तस्मा॑दे॒वव्ँ वि॒द्वान् । वीव॑ नृत्येत् ।
प्रेव॑ चलेत् ।

मूलम्

तस्मा॑दे॒वव्ँ वि॒द्वान् । वीव॑ नृत्येत् ।
प्रेव॑ चलेत् ।

भट्टभास्कर-टीका

11तस्मादिति ॥ यस्मादेवमुपवदितारः पाप्मनोऽपध्नन्ति । तस्मादुपवदनमेवंफलमिति विद्वान् वीव तृप्येत् विरूपमिव नृत्येत् गात्राणि विनामयेत्, प्रेव चलेत् प्रकृष्टमिव चलेत् प्रमाणातीतमिव पदविन्यासं कुर्यात् ।

विश्वास-प्रस्तुतिः

व्यस्ये॑वा॒क्ष्यौ भा॑षेत ।

मूलम्

व्यस्ये॑वा॒क्ष्यौ भा॑षेत ।

भट्टभास्कर-टीका

व्यस्येवाक्ष्यौ भाषेत व्यस्य विक्षिप्येव अक्ष्यौ अक्षिणी चक्षुषी भाषेत अतिमात्रविष्फारिताक्षो वक्तव्यानि प्रतिपद्येत ‘ई च द्विवचने’ इतीकारः ।

विश्वास-प्रस्तुतिः

म॒ण्टये॑दिव ।

मूलम्

म॒ण्टये॑दिव ।

भट्टभास्कर-टीका

मण्टयेदिव उन्मत्त इव अव्यवस्थितं चेष्टेत । ‘मटि उन्मादे’ ।

विश्वास-प्रस्तुतिः

क्रा॒थये॑दिव ।

मूलम्

क्रा॒थये॑दिव ।

भट्टभास्कर-टीका

क्राथयेदिव उन्मादातिशयेन क्राथयन् सर्वान् जन्तून् हिनस्ति । ‘क्रथ हिंसायाम्’ चुरादिः ।

विश्वास-प्रस्तुतिः

शृ॒ङ्गा॒येते॑व ।

मूलम्

शृ॒ङ्गा॒येते॑व ।

भट्टभास्कर-टीका

अथोन्माथन्निव चरेत् । शृङ्गायेतेव शृङ्गायितं नाम उक्षक्रीडितं, यत्र शृङ्गाभ्यां मृदमुद्धृत्य पृष्ठे विक्षिपति तामेव क्रीडामाचरेत् ।

विश्वास-प्रस्तुतिः

उ॒त मोप॑वदेयुः ।

मूलम्

उ॒त मोप॑वदेयुः ।

भट्टभास्कर-टीका

किमर्थमिति चेत् - उत मोपवदेयुः अपिनाम किंचिन्मां निन्दयेयुरिति ।

विश्वास-प्रस्तुतिः

उ॒त मे॑ पा॒प्मान॒मप॑हन्यु॒रिति॑ ।

मूलम्

उ॒त मे॑ पा॒प्मान॒मप॑हन्यु॒रिति॑ ।

भट्टभास्कर-टीका

तदपि किमर्थमिति चेत् - उत मे पाप्मानमपहन्युरिति । अपिनाम मम पाप्मानमेते नाशयेयुरिति॥

विश्वास-प्रस्तुतिः

स यान्दिशँ॑ स॒निमे॒ष्यन्त्स्यात् ।

मूलम्

स यान्दिशँ॑ स॒निमे॒ष्यन्त्स्यात् ।

भट्टभास्कर-टीका

12स यामियादि ॥ स विद्वान् यां दिशं सनिं भिक्षणं एष्यन् स्यात् यां दिशं भिक्षितुमेष्यन् स्यात् सननीयं भक्तं सनिं ‘वन षण संभक्तौ’ औणादिकं इप्रत्ययः । गत्यर्थत्वात् द्विकर्मकत्वम् । सन्येषणं वा ।

मूलम्

य॒दा तान्दिशव्ँ॒वातो॑ वा॒यात् । अथ॒ प्रवे॒यात् । प्र वा॑ धावयेत् ।

विश्वास-प्रस्तुतिः

य॒दा तान्दिशव्ँ॒वातो॑ वा॒याद् अथ॒ प्रवे॒यात् । प्र वा॑ धावयेत् ।

मूलम्

य॒दा तान्दिशव्ँ॒वातो॑ वा॒याद् अथ॒ प्रवे॒यात् । प्र वा॑ धावयेत् ।

भट्टभास्कर-टीका

तां दिशमाश्रित्य यदा वातो वायात् यतो दिशो वात आगच्छेत् अथ अनन्तरं तां दिशं प्रवेयात् प्रेयाद्वा स्वयं प्रधावयेत् प्रेषयेद्वा शिष्यादिकम् । केचिदाहुः - तां दिशं प्रतिगच्छेद्वा धावेच्चेति । स्वार्थिको णिच् यथेष्टं गच्छेदिति । यथा गच्छन् स्यात्तादृग्गुणकमेव भैक्षमभिप्रच्यवते यत्रैवंगुणकमुत्पत्स्यते तत्रैव गच्छेत् ।

विश्वास-प्रस्तुतिः

सा॒तमे॒व र॑दि॒तव्ँ व्यू॑ढङ्ग॒न्धम॒भिप्रच्य॑वते ।

मूलम्

सा॒तमे॒व र॑दि॒तव्ँ व्यू॑ढङ्ग॒न्धम॒भिप्रच्य॑वते ।

भट्टभास्कर-टीका

सातं स्वयं लब्धं न तु पूर्वं लिप्सितं प्रागनावेदितम् । सनोतेर्निष्ठायां ‘जनसनखनाम्’ इत्यात्वम् । रदितं विलेखितं कृतमर्यादं परिमितमित्यर्थः । ‘रद विलेखने’ । व्यूढं विभक्तं साधारणपात्रात् पृथगुद्धृतम् । गन्धं प्रकाशितं इदमद हति ख्यापितं, गन्धं सिद्ध्यन्तमिति केचिन् ।

विश्वास-प्रस्तुतिः

आऽस्य॒ तञ्ज॑नप॒दम्पूर्वा॑ की॒र्तिर्ग॑च्छति ।

मूलम्

आऽस्य॒ तञ्ज॑नप॒दम्पूर्वा॑ की॒र्तिर्ग॑च्छति ।

भट्टभास्कर-टीका

एवमिदं व्रतमाचरति । अस्य कीर्तिः पूर्वा प्रथमैव तं जनपदं जनाधिवासं आगच्छति । अस्य कीर्तिस्तत्र प्रथमं प्रथते, अयमेव सर्वजनचित्तस्थो भवति । वेदितुरेव वा इदं फलम् ।

मूलम्

दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य ए॒वव्ँ वेद॑ ॥42॥

विश्वास-प्रस्तुतिः

दान॑कामा अस्मै प्र॒जा भ॑वन्ति॒ य ए॒वव्ँ वेद॑ ॥42॥

मूलम्

दान॑कामा अस्मै प्र॒जा भ॑वन्ति॒ य ए॒वव्ँ वेद॑ ॥42॥

भट्टभास्कर-टीका

अथैवं वेदित्रे दानकामास्सर्वाः प्रजा भवन्ति ॥

इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके नवमोऽनुवाकः ॥