०८ सृष्टिसाधनत्वेन होतृमन्त्रसामर्थ्यप्रशंसा ...{Loading}...
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो॑ऽन्तर्वा॑नभवत् ।
मूलम्
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो॑ऽन्तर्वा॑नभवत् ।
भट्टभास्कर-टीका
1प्रजापतिरकामयतेत्यादि ॥ तप इति दशहोतुर्जपहोमादिकमकरोत् । अन्तर्वान् गर्भवान् ।
विश्वास-प्रस्तुतिः
स हरि॑तश्श्या॒वो॑ऽभवत् ।
मूलम्
स हरि॑तश्श्या॒वो॑ऽभवत् ।
भट्टभास्कर-टीका
हरितश्श्यावश्च श्वेतसंसर्गवर्णः नीलपाण्डुः, हरितसुवर्ण इति केचित् । ‘अन्तर्वत्पतिवतोः’ निपातान्मतुप् ।
मूलम्
तस्मा॒त्स्त्र्य॑न्तर्व॑त्नी । हरि॑णी स॒ती श्या॒वा भ॑वति ।
विश्वास-प्रस्तुतिः
तस्मा॒त्स्त्र्य॑न्तर्व॑त्नी॒ हरि॑णी स॒ती श्या॒वा भ॑वति ।
मूलम्
तस्मा॒त्स्त्र्य॑न्तर्व॑त्नी॒ हरि॑णी स॒ती श्या॒वा भ॑वति ।
भट्टभास्कर-टीका
हरिणी ‘वर्णादनुदात्तात्’ इति ङीप् ।
विश्वास-प्रस्तुतिः
स वि॒जाय॑मानो॒ गर्भे॑णाताम्यत् ।
मूलम्
स वि॒जाय॑मानो॒ गर्भे॑णाताम्यत् ।
भट्टभास्कर-टीका
अथ प्रजापतिः विजायमानः प्रसुवानः प्रसवकाले तेन गर्भेण अताम्यत् क्लेशी बभूव,
विश्वास-प्रस्तुतिः
स ता॒न्तᳵ कृ॒ष्णश्श्या॒वो॑ऽभवत् ।
मूलम्
स ता॒न्तᳵ कृ॒ष्णश्श्या॒वो॑ऽभवत् ।
भट्टभास्कर-टीका
तान्तश्च कृष्णः श्यावः, कृष्णश्च श्वेतः वर्णेन अभवत् ।
विश्वास-प्रस्तुतिः
तस्मा॑त्ता॒न्तᳵ कृ॒ष्णश्श्या॒वो भ॑वति ।
मूलम्
तस्मा॑त्ता॒न्तᳵ कृ॒ष्णश्श्या॒वो भ॑वति ।
भट्टभास्कर-टीका
तस्मादध्वगमनादिना तान्तोऽन्यः कोऽपि कृष्णः श्यावसंसर्गरूपो भवति ।
विश्वास-प्रस्तुतिः
तस्यासु॑रे॒वाजी॑वत् ॥31॥
मूलम्
तस्यासु॑रे॒वाजी॑वत् ॥31॥
भट्टभास्कर-टीका
तस्य तान्तस्य प्रजापतेः असुः प्राण एवत्राजीवत् ।
विश्वास-प्रस्तुतिः
तेनासु॒नाऽसु॑रानसृजत ।
तदसु॑राणामसुर॒त्वम् ।
मूलम्
तेनासु॒नाऽसु॑रानसृजत ।
तदसु॑राणामसुर॒त्वम् ।
भट्टभास्कर-टीका
तेनासुना असुरानसृजत । तेन असुना सृष्टत्वात् असुमन्तः प्राणवन्तोऽसुरा अभूवन् ।
मूलम्
य ए॒वमसु॑राणामसुर॒त्वव्ँ वेद॑ । असु॑माने॒व भ॑वति ।
विश्वास-प्रस्तुतिः
य ए॒वमसु॑राणामसुर॒त्वव्ँ वेदा॒सु॑माने॒व भ॑वति । नैन॒मसु॑र्जहाति ।
मूलम्
य ए॒वमसु॑राणामसुर॒त्वव्ँ वेदा॒सु॑माने॒व भ॑वति । नैन॒मसु॑र्जहाति ।
भट्टभास्कर-टीका
य एवमित्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
सोऽसु॑रान्त्सृ॒ष्ट्वा पि॒तेवा॑मन्यत ।
मूलम्
सोऽसु॑रान्त्सृ॒ष्ट्वा पि॒तेवा॑मन्यत ।
भट्टभास्कर-टीका
2अथ असुरसृष्ट्यनन्तरं पितरम् असञ्जातपितृत्वमात्मानममन्यत ।
विश्वास-प्रस्तुतिः
तदनु॑ पि॒तॄन॑सृजत ।
मूलम्
तदनु॑ पि॒तॄन॑सृजत ।
भट्टभास्कर-टीका
तत्रान्तरे पितरमात्मानमनुमन्यमानः पितॄनसृजत ।
विश्वास-प्रस्तुतिः
तत्पि॑तृ॒णाम्पि॑तृ॒त्वम् ।
मूलम्
तत्पि॑तृ॒णाम्पि॑तृ॒त्वम् ।
भट्टभास्कर-टीका
पितृभावमनुसन्दधता सृष्टत्वात् पितरः ।
मूलम्
य ए॒वम्पि॑तृ॒णाम्पि॑तृ॒त्वव्ँ वेद॑ ।
पि॒तेवै॒व स्वाना॑म्भवति ॥ 32॥
विश्वास-प्रस्तुतिः
य ए॒वम्पि॑तृ॒णाम्पि॑तृ॒त्वव्ँ वेद॑ पि॒तेवै॒व स्वाना॑म्भवति ॥ 32॥
मूलम्
य ए॒वम्पि॑तृ॒णाम्पि॑तृ॒त्वव्ँ वेद॑ पि॒तेवै॒व स्वाना॑म्भवति ॥ 32॥
भट्टभास्कर-टीका
एवं वेदिता स्वानां ज्ञातीनां पितेव भवति । ‘अज्ञातिधनाख्यायाम्’ इति वचनात् सर्वनामत्वाभावः ।
विश्वास-प्रस्तुतिः
यन्त्य॑स्य पि॒तरो॒ हव॑म् ।
मूलम्
यन्त्य॑स्य पि॒तरो॒ हव॑म् ।
भट्टभास्कर-टीका
किंच अस्य हवं आह्वानं पितरो यन्ति आह्वानस्थानं गच्छन्ति, पितृत्वेन श्रद्धेयवचनत्वात् ॥
विश्वास-प्रस्तुतिः
स पि॒तॄन्त्सृ॒ष्ट्वाऽऽम॑नस्यत् ।
मूलम्
स पि॒तॄन्त्सृ॒ष्ट्वाऽऽम॑नस्यत् ।
भट्टभास्कर-टीका
3अथ पितॄन् सृष्ट्वा अस्मिन्नवसरे अमनस्यत् मन आत्मन ऐच्छत् । मनस्वी बभूवेति वा । किमिदानीं सृजेयमिति मनसि कृतवान् ।
विश्वास-प्रस्तुतिः
तदनु॑ मनु॒ष्या॑नसृजत ।
तन्म॑नु॒ष्या॑णाम्मनुष्य॒त्वम् ।
मूलम्
तदनु॑ मनु॒ष्या॑नसृजत ।
तन्म॑नु॒ष्या॑णाम्मनुष्य॒त्वम् ।
भट्टभास्कर-टीका
तस्मात् तदानीं जाता मनुष्याः मन्यमानस्यापत्यत्वात् मनुष्याः । ‘मनोर्जातौ’ इति यत्, षुक्च ।
मूलम्
य ए॒वम्म॑नु॒ष्या॑णाम्मनुष्य॒त्वव्ँ वेद॑ । म॒न॒स्व्ये॑व भ॑वति । नैन॒म्मनु॑र्जहाति । तस्मै॑ मनु॒ष्या॑न्त्ससृजा॒नाय॑ ।
विश्वास-प्रस्तुतिः
य ए॒वम्म॑नु॒ष्या॑णाम्मनुष्य॒त्वव्ँ वेद॑ मन॒स्व्ये॑व भ॑वति ।
मूलम्
य ए॒वम्म॑नु॒ष्या॑णाम्मनुष्य॒त्वव्ँ वेद॑ मन॒स्व्ये॑व भ॑वति ।
भट्टभास्कर-टीका
य एवमित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
नैन॒म्मनु॑र्जहाति॒ तस्मै॑ मनु॒ष्या॑न्त्ससृजा॒नाय॑ ।
मूलम्
नैन॒म्मनु॑र्जहाति॒ तस्मै॑ मनु॒ष्या॑न्त्ससृजा॒नाय॑ ।
भट्टभास्कर-टीका
मनुः मनुत्वं मन्तृत्वमेनं न जहाति ॥
विश्वास-प्रस्तुतिः
दिवा॑ देव॒त्राऽभ॑वत् ।
मूलम्
दिवा॑ देव॒त्राऽभ॑वत् ।
भट्टभास्कर-टीका
4-5अथ तस्मै मनुष्यान् सृष्टवते दिवा दिवसस्तादात्विकः देवत्रा देवनादिकत्वे अभवत् मनुष्यवत्तया दीप्तिमानभवत् ।
विश्वास-प्रस्तुतिः
तदनु॑ दे॒वान॑सृजत ।
तद्दे॒वाना॑न्देव॒त्वम् ।
मूलम्
तदनु॑ दे॒वान॑सृजत ।
तद्दे॒वाना॑न्देव॒त्वम् ।
भट्टभास्कर-टीका
तत्रान्तरे देवानसृजत । तस्माद्दीप्तिमद्देहसम्बन्धाद्देवाः ।
मूलम्
य ए॒वन्दे॒वाना॑न्देव॒त्वव्ँ वेद॑ । दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति ।
विश्वास-प्रस्तुतिः
य ए॒वन्दे॒वाना॑न्देव॒त्वव्ँ वेद॒ दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति ।
मूलम्
य ए॒वन्दे॒वाना॑न्देव॒त्वव्ँ वेद॒ दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति ।
भट्टभास्कर-टीका
एवं वेदितुः सर्वो दिवसो देवत्रैव भवति देवन एव भवति । ‘देवमनुष्य’ इत्यादिना त्राप्रत्ययः ।
मूलम्
तानि॒ वा ए॒तानि॑ च॒त्वार्यम्भाँ॑सि । दे॒वा म॑नु॒ष्या॑ᳶ पि॒तरोऽसु॑राः ।
तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति । य ए॒वव्ँ वेद॑ ॥33॥
विश्वास-प्रस्तुतिः
तानि॒ वा ए॒तानि॑ च॒त्वार्यम्भाँ॑सि दे॒वा म॑नु॒ष्या॑ᳶ पि॒तरोऽसु॑राः ।
मूलम्
तानि॒ वा ए॒तानि॑ च॒त्वार्यम्भाँ॑सि दे॒वा म॑नु॒ष्या॑ᳶ पि॒तरोऽसु॑राः ।
भट्टभास्कर-टीका
तानीत्यादि । अम्भांसि अदनस्थानानि ‘अदेर्नुम्भश्च, इत्यसुन् । भोगस्थानानीत्यर्थः ।
विश्वास-प्रस्तुतिः
तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति॒ य ए॒वव्ँ वेद॑ ॥33॥
मूलम्
तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति॒ य ए॒वव्ँ वेद॑ ॥33॥
भट्टभास्कर-टीका
एवं वेदिता तेषु सर्वेष्वपि तत्तदम्भस्सदृशो विख्यातो भवति, व्याप्तिमांश्च भवति, नभ इव ॥ ईति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके अष्टमोऽनुवाकः ॥