१७ होतृप्रशंसाप्रसङ्गेन क्रतूनाम् ऋत्विग्विशेषव्यवस्थापनं, अग्निहोत्रस्य प्राशस्त्यं च

०६ होतृप्रशंसाप्रसङ्गेन क्रतूनाम् ऋत्विग्विशेषव्यवस्थापनं, अग्निहोत्रस्य प्राशस्त्यं च ...{Loading}...

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिᳶ प्र॒जास्सृ॒ष्ट्वा व्य॑स्रँसत ।

मूलम्

प्र॒जाप॑तिᳶ प्र॒जास्सृ॒ष्ट्वा व्य॑स्रँसत ।

भट्टभास्कर-टीका

1-2प्रजासृष्ट्यनन्तरं प्रजापतिर्व्यस्रंसत विशीर्णशरीरोऽभवत् ।

विश्वास-प्रस्तुतिः

स हृद॑यम्भू॒तो॑ऽशयत् ।

मूलम्

स हृद॑यम्भू॒तो॑ऽशयत् ।

भट्टभास्कर-टीका

स हृदयमात्रं भूत्वा अशयत् अशरीरोऽशेत । व्यत्ययेन परस्मैपदम् । विकरणव्यत्ययेन शप् ।

विश्वास-प्रस्तुतिः

“आत्म॒न् हा ३” इत्यह्व॑यत् ।

मूलम्

“आत्म॒न् हा ३” इत्यह्व॑यत् ।

भट्टभास्कर-टीका

अथ शयित एव हे आत्मन्निति शरीरात्मानमह्वयत् आहूतवान् । ‘है हे प्रयोगे हैहयोः’ इति दूराद्धूते प्लुतः । ‘एचोप्रगृह्यस्य’ इति आकाराच्छान्दसं संहितायां पररूपत्वम् ।

विश्वास-प्रस्तुतिः

आप॒ᳶ प्रत्य॑शृण्वन् ।

मूलम्

आप॒ᳶ प्रत्य॑शृण्वन् ।

भट्टभास्कर-टीका

अथ सकृदाह्वान एव आपः प्रत्यशृण्वन् शरीरमाह्वयन्तं प्रजापतिं प्रतीत्याह्वानमशृण्वन् ।

विश्वास-प्रस्तुतिः

ता अ॑ग्निहो॒त्रेणै॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ।

मूलम्

ता अ॑ग्निहो॒त्रेणै॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ।

भट्टभास्कर-टीका

अथास्मै शरीरं प्रदातुं अग्निहोत्रेण यज्ञक्रतुतुल्येन समाहूता आपः उपपर्यावर्तन्त अस्य समीपे आगच्छन् । यज्ञक्रतवो यूपवन्तः ।

विश्वास-प्रस्तुतिः

ताᳵ कुसि॑न्ध॒मुपौ॑हन् ।

मूलम्

ताᳵ कुसि॑न्ध॒मुपौ॑हन् ।

भट्टभास्कर-टीका

अथापः कुसिंन्धं कबन्धं कळेबरं कण्ठात्पूर्वं उपौहन् उपायन् प्रजापतये निष्पादितवत्यः । कुशिमात्मकोशं दधातीति कृशिन्धः । पृषोदरादिः ।

मूलम्

तस्मा॑दग्निहो॒त्रस्य॑ यज्ञक्र॒तोः । एक॑ ऋ॒त्विक् ।

विश्वास-प्रस्तुतिः

तस्मा॑दग्निहो॒त्रस्य॑ यज्ञक्र॒तो॒र् एक॑ ऋ॒त्विक् ।

मूलम्

तस्मा॑दग्निहो॒त्रस्य॑ यज्ञक्र॒तो॒र् एक॑ ऋ॒त्विक् ।

भट्टभास्कर-टीका

यस्मात्सकृदाह्वाने आपः प्रतिश्रुत्य अग्निहोत्रेण सहागताः, तस्मादग्निहोत्रस्य एक एवर्त्विक् अध्वर्युः ।

मूलम्

च॒तु॒ष्कृत्वोऽह्व॑यत् । अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमाः॑ ॥23

विश्वास-प्रस्तुतिः

च॒तु॒ष्कृत्वोऽह्व॑यद् अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमाः॑ ॥23॥

मूलम्

च॒तु॒ष्कृत्वोऽह्व॑यद् अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमाः॑ ॥23॥

भट्टभास्कर-टीका

अथ प्रजापतिः आत्मन् हा इति चतुष्कृत्वोऽह्वयत् ।

विश्वास-प्रस्तुतिः

ते प्रत्य॑शृण्वन् ।

मूलम्

ते प्रत्य॑शृण्वन् ।

भट्टभास्कर-टीका

अथाग्न्यादयः तत्प्रत्यशृण्वन् ।

विश्वास-प्रस्तुतिः

ते द॑र्शपूर्णमा॒साभ्या॑मे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ।

मूलम्

ते द॑र्शपूर्णमा॒साभ्या॑मे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ।

भट्टभास्कर-टीका

तेऽग्न्यादयो दर्शपूर्णमासाभ्यां यज्ञक्रतुतुल्याभ्यां उपपर्यावर्तन्त ।

विश्वास-प्रस्तुतिः

त उपौ॑हँश्च॒त्वार्यङ्गा॑नि ।

मूलम्

त उपौ॑हँश्च॒त्वार्यङ्गा॑नि ।

भट्टभास्कर-टीका

ते चत्वार्यङ्गानि हस्तौ पादौ चोपौहन् ।

मूलम्

तस्मा॑द्दर्शपूर्णमा॒सयो॑र्यज्ञक्र॒तोः । च॒त्वार॑ ऋ॒त्विजः॑ ।

विश्वास-प्रस्तुतिः

तस्मा॑द्दर्शपूर्णमा॒सयो॑र्यज्ञक्र॒तोश् च॒त्वार॑ ऋ॒त्विजः॑ ।

मूलम्

तस्मा॑द्दर्शपूर्णमा॒सयो॑र्यज्ञक्र॒तोश् च॒त्वार॑ ऋ॒त्विजः॑ ।

भट्टभास्कर-टीका

तस्मादित्यादि । चतुराह्वाने दर्शपूर्णमासाभ्यां सहागमनात् तयोश्चत्वार ऋत्विजः अध्वर्युहोतृब्रह्माग्नीध्रा हति ॥

विश्वास-प्रस्तुतिः

प॒ञ्च॒कृत्वोऽह्व॑यत् ।
प॒शव॒ᳶ प्रत्य॑शृण्वन् ।
ते चा॑तुर्मा॒स्यैरे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ।
त उपौ॑हल्ँ॒लोम॑ छ॒वीम्माँ॒समस्थि॑ म॒ज्जान॑म् ।

मूलम्

प॒ञ्च॒कृत्वोऽह्व॑यत् ।
प॒शव॒ᳶ प्रत्य॑शृण्वन् ।
ते चा॑तुर्मा॒स्यैरे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ।
त उपौ॑हल्ँ॒लोम॑ छ॒वीम्माँ॒समस्थि॑ म॒ज्जान॑म् ।

भट्टभास्कर-टीका

3-6एवं पञ्चकृत्व इत्यादि व्याख्येयम् ॥ सर्वत्र यागरूपस्याभिन्नत्वात् यज्ञक्रतोरित्येकवचनम् । यथा - ‘वसवो देवता रुद्रा देवता’ इति । लोमादीनि पञ्च । छवो त्वक् । ‘कृदिकारादक्तिनः’ इति ङीष् ।

मूलम्

तस्मा॑च्चातुर्मा॒स्यानाय्ँ॑यज्ञक्र॒तोः ॥ 24 ॥
पञ्च॒र्त्विजः॑ ।

विश्वास-प्रस्तुतिः

तस्मा॑च्चातुर्मा॒स्यानाय्ँ॑यज्ञक्र॒तोᳶ पञ्च॒र्त्विजः॑ ।

मूलम्

तस्मा॑च्चातुर्मा॒स्यानाय्ँ॑यज्ञक्र॒तोᳶ पञ्च॒र्त्विजः॑ ।

भट्टभास्कर-टीका

पञ्चर्त्विज इति । प्रतिप्रस्थातृपञ्चमाः । स्तनौ द्वौ आण्डौ वृषणौ द्वौ शिश्नं अवाक्प्राणमपानं च षडुपौहन् ।

विश्वास-प्रस्तुतिः

ष॒ट्कृत्वोऽह्व॑यत् ।
ऋ॒तव॒ᳶ प्रत्य॑शृण्वन् ।
ते प॑शुब॒न्धेनै॒व य॑ज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त ।
त उपौ॑ह॒न्त्स्तना॑वा॒ण्डौ शि॒श्ञमवा॑ञ्चम्प्रा॒णम् ।

मूलम्

ष॒ट्कृत्वोऽह्व॑यत् ।
ऋ॒तव॒ᳶ प्रत्य॑शृण्वन् ।
ते प॑शुब॒न्धेनै॒व य॑ज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त ।
त उपौ॑ह॒न्त्स्तना॑वा॒ण्डौ शि॒श्ञमवा॑ञ्चम्प्रा॒णम् ।

मूलम्

तस्मा॑त्पशुब॒न्धस्य॑ यज्ञक्र॒तोः । षडृ॒त्विजः॑ ।

विश्वास-प्रस्तुतिः

तस्मा॑त्पशुब॒न्धस्य॑ यज्ञक्र॒तोश् षडृ॒त्विजः॑ ।

मूलम्

तस्मा॑त्पशुब॒न्धस्य॑ यज्ञक्र॒तोश् षडृ॒त्विजः॑ ।

भट्टभास्कर-टीका

षडृत्विज इति मैत्रावरुणषष्ठाः ।

विश्वास-प्रस्तुतिः

स॒प्त॒कृत्वोऽह्व॑यत् ।
होत्रा॒ᳶ प्रत्य॑शृण्वन् ।
तास्सौ॒म्येनै॒वाध्व॒रेण॑ यज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त ॥25॥

मूलम्

स॒प्त॒कृत्वोऽह्व॑यत् ।
होत्रा॒ᳶ प्रत्य॑शृण्वन् ।
तास्सौ॒म्येनै॒वाध्व॒रेण॑ यज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त ॥25॥

भट्टभास्कर-टीका

होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टा अच्छावाक आग्रीध्र इति सप्त ।

विश्वास-प्रस्तुतिः

ता उपौ॑हन्त्स॒प्त शी॑र्ष॒ण्या॑न्प्रा॒णान् ।

मूलम्

ता उपौ॑हन्त्स॒प्त शी॑र्ष॒ण्या॑न्प्रा॒णान् ।

भट्टभास्कर-टीका

सप्तशीर्षण्यानिति । द्वे चक्षुषी द्वे श्रोत्रे द्वे नासिके एकमास्यमिति ।

मूलम्

तस्मा॑त्सौ॒म्यस्या॑ध्व॒रस्य॑ यज्ञक्र॒तोः । स॒प्त होत्रा॒ᳶ प्राची॒र्वष॑ट्कुर्वन्ति ।

विश्वास-प्रस्तुतिः

तस्मा॑त्सौ॒म्यस्या॑ध्व॒रस्य॑ यज्ञक्र॒तोस् स॒प्त होत्रा॒ᳶ प्राची॒र्वष॑ट्कुर्वन्ति ।

मूलम्

तस्मा॑त्सौ॒म्यस्या॑ध्व॒रस्य॑ यज्ञक्र॒तोस् स॒प्त होत्रा॒ᳶ प्राची॒र्वष॑ट्कुर्वन्ति ।

भट्टभास्कर-टीका

प्राचीः प्राच्या वषट् कुर्वन्ति प्राङ्मुखा यजन्ति ॥

विश्वास-प्रस्तुतिः

द॒श॒कृत्वोऽह्व॑यत् ।
तप॒ᳶ प्रत्य॑शृणोत् ।
तत्कर्म॑णै॒व सव्ँ॑वत्स॒रेण॒ सर्वै॑र्यज्ञक्र॒तुभि॒रुप॑ प॒र्याव॑र्तत ।

मूलम्

द॒श॒कृत्वोऽह्व॑यत् ।
तप॒ᳶ प्रत्य॑शृणोत् ।
तत्कर्म॑णै॒व सव्ँ॑वत्स॒रेण॒ सर्वै॑र्यज्ञक्र॒तुभि॒रुप॑ प॒र्याव॑र्तत ।

भट्टभास्कर-टीका

7-8तत्कर्मणैवेत्यादि ॥ कर्मात्मकेन संवत्सरेण गवामयनेन सर्वैश्चान्यैः प्रकृतिविकृतिरूपैः यज्ञक्रतुभिस्सह तप उपपर्यावर्तत ।

विश्वास-प्रस्तुतिः

तत्सर्व॑मा॒त्मान॒मप॑रिवर्ग॒मुपौ॑हत् ।

मूलम्

तत्सर्व॑मा॒त्मान॒मप॑रिवर्ग॒मुपौ॑हत् ।

भट्टभास्कर-टीका

तत्प्रजापतेस्सर्वमात्मानं शरीरं अपरिवर्गं किञ्चिदङ्गमपरिवृज्य पुष्कलसर्वाङ्गमुपौहत् ।

विश्वास-प्रस्तुतिः

तस्मा॑त्सव्ँवत्स॒रे सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्ते ।

मूलम्

तस्मा॑त्सव्ँवत्स॒रे सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्ते ।

भट्टभास्कर-टीका

तस्मात्संवत्सरे क्रतौ अन्ये सर्वेऽपि यज्ञक्रतवोऽवरुध्यन्ते प्रकृतिविकृतिरूपेण सर्वे तत्रान्तर्भवन्ति ।

मूलम्

तस्मा॒द्दश॑होता॒ चतु॑र्होता ।
पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता ।
एक॑होत्रे ब॒लिँ ह॑रन्ति ।

विश्वास-प्रस्तुतिः

तस्मा॒द्दश॑होता॒ चतु॑र्होता॒ पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता॒ एक॑होत्रे ब॒लिँ ह॑रन्ति ।

हर॑न्त्यस्मै प्र॒जा ब॒लिम् ।

मूलम्

तस्मा॒द्दश॑होता॒ चतु॑र्होता॒ पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता॒ एक॑होत्रे ब॒लिँ ह॑रन्ति ।

हर॑न्त्यस्मै प्र॒जा ब॒लिम् ।

भट्टभास्कर-टीका

तस्मादित्यादि । यस्मादेवमग्निहोत्रेण एकहोत्रा प्रथमं कुसिन्धे उपानीते पश्चाद्दर्शपूर्णमासादिभिरङ्गैरुपकृतं, तस्माद्दशहोत्रादयः पञ्चापि आत्मविशेषा एकहोत्रे परस्मै आत्मने बलिं हरन्ति उपकुर्वन्ति ।

मूलम्

ऐन॒मप्र॑तिख्यातङ्गच्छति ।
य ए॒वव्ँ वेद॑ ॥ 26 ॥

विश्वास-प्रस्तुतिः

ऐन॒मप्र॑तिख्यातङ्गच्छति॒ य ए॒वव्ँ वेद॑ ॥ 26 ॥

मूलम्

ऐन॒मप्र॑तिख्यातङ्गच्छति॒ य ए॒वव्ँ वेद॑ ॥ 26 ॥

भट्टभास्कर-टीका

एवं वेदित्रे सर्वाः प्रजाः बलिं हरन्ति प्रतिख्यातरहितं चैश्वर्यमेनमागच्छति ॥ इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके षष्ठोऽनुवाकः ॥