१६ प्रश्नोत्तररूपो ब्रह्मविषयसंवादः

०५ प्रश्नोत्तररूपो ब्रह्मविषयसंवादः ...{Loading}...

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यद्दश॑होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केन॑ प्र॒जा अ॑सृज॒न्तेति॑ ।

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -“यद्दश॑होतारस्स॒त्रमास॑त॒, केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् , केन॑ प्र॒जा अ॑सृज॒न्ते"ति॑ ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -“यद्दश॑होतारस्स॒त्रमास॑त॒, केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् , केन॑ प्र॒जा अ॑सृज॒न्ते"ति॑ ।

भट्टभास्कर-टीका

1-5ब्रह्मवादिन इत्यादि ॥ अविवाक्येऽह्नि इतरे पृच्छन्ति । गृहपतिः प्रतिवचनं ब्रूते । दशहोतारस्सत्रमासत । तदानीं केन गृहपतिना आर्ध्नुवन् वृद्धिं प्राप्नुवन् कर्मफलमलभन्त? केन च गृहपतिना प्रजा असृजन्त? फलविशेषप्रश्नः । दशहोतुरसाधारणफलत्वात् ।

मूलम्

प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् ।
तेन॑ प्र॒जा अ॑सृजन्त ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् तेन॑ प्र॒जा अ॑सृजन्त ।

मूलम्

प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् तेन॑ प्र॒जा अ॑सृजन्त ।

मूलम्

यच्चतु॑र्होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केनौष॑धीरसृज॒न्तेति॑ । सोमे॑न॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् ॥17॥
तेनौष॑धीरसृजन्त ।

विश्वास-प्रस्तुतिः

यच्चतु॑र्होतारस्स॒त्रमास॑त॒ “केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् , केनौष॑धीरसृज॒न्ते"ति॑ ।

सोमे॑न॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् तेनौष॑धीरसृजन्त ।

मूलम्

यच्चतु॑र्होतारस्स॒त्रमास॑त॒ “केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् , केनौष॑धीरसृज॒न्ते"ति॑ ।

सोमे॑न॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् तेनौष॑धीरसृजन्त ।

मूलम्

यत्पञ्च॑होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त । केनै॑षाम्प॒शून॑वृञ्ज॒तेति॑ । अ॒ग्निना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त । तेनै॑षाम्प॒शून॑वृञ्जत ।

विश्वास-प्रस्तुतिः

यत्पञ्च॑होतारस्स॒त्रमास॑त॒ - “केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न्, केनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त॒ , केनै॑षाम्प॒शून॑वृञ्ज॒ते"ति॑ ।

अ॒ग्निना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् , तेनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त॒, तेनै॑षाम्प॒शून॑वृञ्जत ।

यत्षड्ढो॑तारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् ॥18॥
केन॒र्तून॑कल्पय॒न्तेति॑ । धा॒त्रा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेन॒र्तून॑कल्पयन्त ।

विश्वास-प्रस्तुतिः

यत्षड्ढो॑तारस्स॒त्रमास॑त॒ ,“केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् ,केन॒र्तून॑कल्पय॒न्ते"ति॑ ।

धा॒त्रा वै ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् तेन॒र्तून॑कल्पयन्त ।

मूलम्

यत्षड्ढो॑तारस्स॒त्रमास॑त॒ ,“केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् ,केन॒र्तून॑कल्पय॒न्ते"ति॑ ।

धा॒त्रा वै ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् तेन॒र्तून॑कल्पयन्त ।

मूलम्

यत्स॒प्तहो॑तारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केन॒ सुव॑रायन् । केने॒माल्ँ लो॒कान्त्सम॑तन्व॒न्निति॑ । अ॒र्य॒म्णा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेन॒ सुव॑रायन् । तेने॒माल्ँ लो॒कान्त्सम॑तन्व॒न्निति॑ ॥19॥

विश्वास-प्रस्तुतिः

यत्स॒प्तहो॑तारस्स॒त्रमास॑त॒ , “केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् , केन॒ सुव॑राय॒न्न् , केने॒माल्ँ लो॒कान्त्सम॑तन्व॒"न्निति॑ ।

अ॒र्य॒म्णा वै ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् , तेन॒ सुव॑राय॒न्न् ,तेने॒माल्ँ लो॒कान्त्सम॑तन्व॒न्निति॑ ॥19॥

एवमितरैः पृष्टे गृहपतिः प्रतिब्रूते - प्रजापतिनेत्यादि । गतम् । गृहपतिः प्रधानयजमानः । दशहोतृप्रधानाद्दशहोतारः । एवं चतुर्होतार इत्यादि ॥

मूलम्

ए॒ते वै दे॒वा गृ॒हप॑तयः । तान् य ए॒वव्ँ वि॒द्वान् । अप्य॒न्यस्य॑ गार्हप॒ते दीक्ष॑ते । अ॒वा॒न्त॒रमे॒व स॒त्रिणा॑मृध्नोति ।

विश्वास-प्रस्तुतिः

ए॒ते वै दे॒वा गृ॒हप॑तय॒स् तान् य ए॒वव्ँ वि॒द्वान् अप्य॒न्यस्य॑ गार्हप॒ते दीक्ष॑ते अवान्त॒रमे॒व स॒त्रिणा॑मृध्नोति ।

मूलम्

ए॒ते वै दे॒वा गृ॒हप॑तय॒स् तान् य ए॒वव्ँ वि॒द्वान् अप्य॒न्यस्य॑ गार्हप॒ते दीक्ष॑ते अवान्त॒रमे॒व स॒त्रिणा॑मृध्नोति ।

भट्टभास्कर-टीका

6एते वा इत्यादि ॥ एते प्रजापत्यादयो देवानां मध्ये गृहपतयः । एवं तान् गृहपतीन् विद्वान् योऽन्यस्यापि गार्हपते गृहपतिसंबन्धिनि कर्मणि दीक्षते सोप्यवान्तरं पृथक्पृथगेव सत्रिणां सर्वेषां ऋध्नोति ऋद्धिं माप्नोति । किं पुनरात्मनो गार्हपते यो दीक्षते ॥

मूलम्

यो वा अ॑र्य॒मणव्ँ॒वेद॑ । दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।

विश्वास-प्रस्तुतिः

यो वा अ॑र्य॒मणव्ँ॒वेद॒ दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।

मूलम्

यो वा अ॑र्य॒मणव्ँ॒वेद॒ दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।

भट्टभास्कर-टीका

7यो वा इत्यादिर्यज्ञस्तुतिः यष्टुस्स्तुतिर्वा, अर्यणो वा स्तुतिः ॥ अरीन् यमयति निगृह्णातीत्यर्यमा, यष्टा दाता च । तं यो वेद अस्मै प्रजा दानकामा भवन्ति । अस्य वा प्रजा यष्ट्र्यो दात्र्यश्च भवन्ति । ‘शीलिकामि’ इत्यादिना णप्रत्ययान्तत्वेन ङीबभावः ।

विश्वास-प्रस्तुतिः

य॒ज्ञो वा अ॑र्य॒मा ।

मूलम्

य॒ज्ञो वा अ॑र्य॒मा ।

भट्टभास्कर-टीका

यज्ञवत्पूज्यः खल्वर्यमा ।

विश्वास-प्रस्तुतिः

“आर्या॑वस॒ति"रिति॒ वै तमा॑हु॒र्यम्प्र॒शँस॑न्ति ।

मूलम्

“आर्या॑वस॒ति"रिति॒ वै तमा॑हु॒र्यम्प्र॒शँस॑न्ति ।

भट्टभास्कर-टीका

इदानमिर्यम्णः पूज्यत्वे हेतुमाह - यं हि प्रशंसन्ति तमार्यावसतिमाहुः । आर्याणां साधूनां दातॄणां वा आवासमाहुः । वनस्पत्यादित्वादाद्युदात्तत्वम् । आर्यावसतिरित्येव प्रशंसनीय इत्याहुः । स चार्याणां साधूनां देवमनुष्याणामावासो दाता यष्टा च । तस्मात्स एवार्यमा आर्याणां निर्भीकत्वादेर्दाता । अर्यमेति पृषोदरादिः ।

मूलम्

आर्या॑वस॒तिर्भ॑वति । य ए॒वव्ँ वेद॑ ॥20॥

विश्वास-प्रस्तुतिः

आर्या॑वस॒तिर्भ॑वति॒ य ए॒वव्ँ वेद॑ ॥20॥

मूलम्

आर्या॑वस॒तिर्भ॑वति॒ य ए॒वव्ँ वेद॑ ॥20॥

भट्टभास्कर-टीका

एवं यथोक्तप्रकारं अर्यम्णो वेदिता आर्यावसतिर्भवति, यष्टा दाता च भवति ॥

मूलम्

यद्वा इ॒दङ्किञ्च॑ । तत्सर्व॒ञ्चतु॑र्होतारः । चतु॑र्होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः । स य ए॒वव्ँ वि॒द्वान् वि॒वदे॑त । अ॒हमे॒व भूयो॑ वेद । यश्चतु॑र्होतॄ॒न् वेदेति॑ ।

विश्वास-प्रस्तुतिः

यद्वा इ॒दङ्किञ्च॒ तत्सर्व॒ञ्चतु॑र्होतारः ।
चतु॑र्होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः ।
स य ए॒वव्ँ वि॒द्वान् वि॒वदे॑त , “अ॒हमे॒व भूयो॑ वेद॒ , यश्चतु॑र्होतॄ॒न् वेदे"ति॑ ।

मूलम्

यद्वा इ॒दङ्किञ्च॒ तत्सर्व॒ञ्चतु॑र्होतारः ।
चतु॑र्होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः ।
स य ए॒वव्ँ वि॒द्वान् वि॒वदे॑त , “अ॒हमे॒व भूयो॑ वेद॒ , यश्चतु॑र्होतॄ॒न् वेदे"ति॑ ।

भट्टभास्कर-टीका

8यद्वा इत्यादि ॥ इदं विश्वं दृश्यमानं श्रूयमाणं च चतुर्होतारः दशहोत्रादयः चत्रुर्होतृभवत्वात् ताच्छब्द्यम् । किं बहुना, यज्ञोपि सर्वश्चतुर्होतृभ्यो निर्मितः । एवं चतुर्होतृमाहात्म्यमुक्तप्रकारं विद्वान् यो नाम कश्चिल्लोके अन्येन विवदेत । कथम्? अहमेव भूयो वेद बहुतरं जानामि नेतरः मनुष्यो मत्तुल्यो बहुज्ञो नास्त्येव कश्चित्, योऽहं चतुर्होतॄन्त् वेद याथात्म्येन जानामीति ॥

मूलम्

स ह्ये॑व भूयो॒ वेद॑ । यश्चतु॑र्होतॄ॒न् वेद॑ ।

विश्वास-प्रस्तुतिः

स ह्ये॑व भूयो॒ वेद॒ यश्चतु॑र्होतॄ॒न् वेद॑ ।

मूलम्

स ह्ये॑व भूयो॒ वेद॒ यश्चतु॑र्होतॄ॒न् वेद॑ ।

भट्टभास्कर-टीका

9अस्मिन् विवादे वयं निर्णायं ब्रूम इत्याह - स ह्येवेत्यादि ॥ यदुक्तमहमेव भूयो वेदेति, सत्यमेव । स ह्येव भूयो वेद यश्चतुर्होतॄन् वेदेति, नेतरः । नात्र विवादः दीयतां हस्ते परशुरिति भावः ॥

मूलम्

यो वै चतु॑र्होतृणाँ॒ होतॄ॒न् वेद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति ॥21॥

विश्वास-प्रस्तुतिः

यो वै चतु॑र्होतृणाँ॒ होतॄ॒न् वेद॒ सर्वा॑सु प्र॒जास्वन्न॑मत्ति ॥21॥

मूलम्

यो वै चतु॑र्होतृणाँ॒ होतॄ॒न् वेद॒ सर्वा॑सु प्र॒जास्वन्न॑मत्ति ॥21॥

भट्टभास्कर-टीका

10यो वा इत्यादि ॥ यश्चतुर्होतृणां दशहोत्रादीनां होतॄन् वेद सर्वासु प्रजासु मध्ये अन्नमत्ति भोक्ता भवति, सर्वप्रजा विषये भुङ्क्ते ।

विश्वास-प्रस्तुतिः

सर्वा॒ दिशो॒ऽभिज॑यति ।

मूलम्

सर्वा॒ दिशो॒ऽभिज॑यति ।

भट्टभास्कर-टीका

सर्वाश्च दिशोऽभिजयति ।

विश्वास-प्रस्तुतिः

सोम॒श्चतु॑र्होतृणाँ॒ होता॑ ।
अ॒ग्निᳶ पञ्च॑होतृणाँ॒ होता॑ ।
धा॒ता षड्ढो॑तृणाँ॒ होता॑ ।
अ॒र्य॒मा स॒प्तहो॑तृणाँ॒ होता॑ ।
ए॒ते वै चतु॑र्होतृणाँ॒ होता॑रः ।

मूलम्

सोम॒श्चतु॑र्होतृणाँ॒ होता॑ ।
अ॒ग्निᳶ पञ्च॑होतृणाँ॒ होता॑ ।
धा॒ता षड्ढो॑तृणाँ॒ होता॑ ।
अ॒र्य॒मा स॒प्तहो॑तृणाँ॒ होता॑ ।
ए॒ते वै चतु॑र्होतृणाँ॒ होता॑रः ।

भट्टभास्कर-टीका

प्रजापत्यादयश्चतुहोतृणां होतारः होतृस्थानीयाः, एषां यज्ञत्वात् । प्रजापत्यादयो होतारः, कर्तृत्वसामान्यात् ।

मूलम्

तान् य ए॒वव्ँ वेद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति । सर्वा॒ दिशो॒ऽभिज॑यति ॥22॥

विश्वास-प्रस्तुतिः

तान् य ए॒वव्ँ वेद॒ सर्वा॑सु प्र॒जास्वन्न॑मत्ति । सर्वा॒ दिशो॒ऽभिज॑यति ॥22॥

मूलम्

तान् य ए॒वव्ँ वेद॒ सर्वा॑सु प्र॒जास्वन्न॑मत्ति । सर्वा॒ दिशो॒ऽभिज॑यति ॥22॥

भट्टभास्कर-टीका

एवं वेदिताऽपि सर्वासु प्रजास्वन्नमत्ति, अभिजयति च सर्वा दिशः ॥ इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके पञ्चमोऽनुवाकः ॥