१४ केशवपनाङ्गं पुष्टिवेदनम्

०३ केशवपनाङ्गं पुष्टिवेदनम् ...{Loading}...

मूलम्

यो वा अवि॑द्वान्निव॒र्तय॑ते । विशी॑र्षा॒ सपा॑प्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति । अथ॒ यो वि॒द्वान्नि॑व॒र्तय॑ते । सशी॑र्षा॒ विपा॑प्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति । दे॒वता॒ वै स॒प्त पुष्टि॑कामा॒ न्य॑वर्तयन्त । अ॒ग्निश्च॑ पृथि॒वी च॑ । वा॒युश्चा॒न्तरि॑क्षञ्च । आ॒दि॒त्यश्च॒ द्यौश्च॑ च॒न्द्रमाः॑ । अ॒ग्निर्न्य॑वर्तयत । स सा॑ह॒स्रम॑पुष्यत् ॥9॥
पृ॒थि॒वी न्य॑वर्तयत । सौष॑धीभि॒र्वन॒स्पति॑भिरपुष्यत् । वा॒युर्न्य॑वर्तयत । स मरी॑चीभिरपुष्यत् । अ॒न्तरि॑क्ष॒न्न्य॑वर्तयत । तद्वयो॑भिरपुष्यत् । आ॒दि॒त्यो न्य॑वर्तयत । स र॒श्मिभि॑रपुष्यत् । द्यौर्न्य॑वर्तयत । सा नक्ष॑त्रैरपुष्यत् । च॒न्द्रमा॒ न्य॑वर्तयत । सौ॑ऽहोरा॒त्रैर॑र्धमा॒सैर्मासैर्॑ऋ॒तुभि॑स्सव्ँवत्स॒रेणा॑पुष्यत् । तान्पोषा॑न्पुष्यति । याँस्तेऽपु॑ष्यन् । य ए॒वव्ँ वि॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च ॥10॥

विश्वास-प्रस्तुतिः

यो वा अवि॑द्वान्निव॒र्तय॑ते॒ विशी॑र्षा॒ सपा॑प्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति ।

अथ॒ यो वि॒द्वान्नि॑व॒र्तय॑ते॒ सशी॑र्षा॒ विपा॑प्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति ।

दे॒वता॒ वै स॒प्त पुष्टि॑कामा॒ न्य॑वर्तयन्त । अ॒ग्निश्च॑ पृथि॒वी च॑ वा॒युश्चा॒न्तरि॑क्षञ्च , आदि॒त्यश्च॒ द्यौश्च॑ च॒न्द्रमाः॑ ।

भट्टभास्कर-टीका

1यो वा इत्यादि ॥ वक्ष्यमाणानग्न्यादिपुष्टिप्रकारान् अविद्वान् यो निवर्तयते केशान् । सामर्थ्याच्चातुर्मास्यशेषोऽयमिति केचित् । चतुर्होतृप्रकरणात् तद्विषयमेव निवर्तनादिकमित्यन्ये । विशीर्षेत्यादि गतम् ।

विश्वास-प्रस्तुतिः

अ॒ग्निर्न्य॑वर्तयत॒ स सा॑ह॒स्रम॑पुष्यत् ॥9॥

मूलम्

अ॒ग्निर्न्य॑वर्तयत॒ स सा॑ह॒स्रम॑पुष्यत् ॥9॥

भट्टभास्कर-टीका

अग्न्यादयस्सप्त देवताः पुष्टिकामाः पूर्वं न्यवर्तयन्त ।

विश्वास-प्रस्तुतिः

पृ॒थि॒वी न्य॑वर्तयत॒ सौष॑धीभि॒र्वन॒स्पति॑भिरपुष्यत् ।

मूलम्

पृ॒थि॒वी न्य॑वर्तयत॒ सौष॑धीभि॒र्वन॒स्पति॑भिरपुष्यत् ।

भट्टभास्कर-टीका

साहस्रं सहस्रपरिमाणं बहुप्रकारपुष्टिकम् ।

विश्वास-प्रस्तुतिः

वा॒युर्न्य॑वर्तयत॒ स मरी॑चीभिरपुष्यत् ।

तान्पोषा॑न्पुष्यति॒ याँस्तेऽपु॑ष्यन् ।

मूलम्

वा॒युर्न्य॑वर्तयत॒ स मरी॑चीभिरपुष्यत् ।

तान्पोषा॑न्पुष्यति॒ याँस्तेऽपु॑ष्यन् ।

भट्टभास्कर-टीका

अपुष्यत् पुष्टोऽभवत् । मरीचयो रश्मयः ।

विश्वास-प्रस्तुतिः

अ॒न्तरि॑क्ष॒न्न्य॑वर्तयत॒ तद्वयो॑भिरपुष्यत् ।

आ॒दि॒त्यो न्य॑वर्तयत॒ स र॒श्मिभि॑रपुष्यत् ।

द्यौर्न्य॑वर्तयत॒ सा नक्ष॑त्रैरपुष्यत् ।

च॒न्द्रमा॒ न्य॑वर्तयत सौ॑ऽहोरा॒त्रैर॑र्धमा॒सैर्मासैर्॑ऋ॒तुभि॑स्सव्ँवत्स॒रेणा॑पुष्यत् ।

वयांसि पक्षिणः ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च ॥10॥

मूलम्

य ए॒वव्ँ वि॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च ॥10॥

भट्टभास्कर-टीका

एवं विद्वान् यो निवर्तयते परिवर्तयते च स तान् पोषान् पुष्यति, यानग्न्यादयोऽपुष्यन् । सामान्यपुष्टेर्विशेषपुष्टिः कर्म ॥

इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्तपाठके तृतीयोऽनुवाकः ॥