०१ सर्वेषां होतृमन्त्राणां चतुर्होतृशब्देन व्यवहारः ...{Loading}...
होतृब्राह्मणशेषः
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । किञ्चतु॑र्होतृणाञ्चतुर्होतृ॒त्वमिति॑ । यदे॒वैषु च॑तु॒र्धा होता॑रः । तेन॒ चतु॑र्होतारः । तस्मा॒च्चतु॑र्होतार उच्यन्ते । तच्चतुर्॑होतृणाञ्चतुर्होतृ॒त्वम् ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ - “किञ्चतु॑र्होतृणाञ्चतुर्होतृ॒त्व"मिति॑ ।
यदे॒वैषु च॑तु॒र्धा होता॑र॒स् तेन॒ चतु॑र्होतार॒स् तस्मा॒च्चतु॑र्होतार उच्यन्ते ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ - “किञ्चतु॑र्होतृणाञ्चतुर्होतृ॒त्व"मिति॑ ।
यदे॒वैषु च॑तु॒र्धा होता॑र॒स् तेन॒ चतु॑र्होतार॒स् तस्मा॒च्चतु॑र्होतार उच्यन्ते ।
भट्टभास्कर-टीका
1ब्रह्मवादिन इत्यादि ॥ सर्वेऽपि चतुर्होतृव्यतिरिक्ताः पञ्चापि दशहोत्रादयश्चतुर्होतार उच्यन्ते । एवमेषां चतुर्होतॄणां कीदृशं चतुर्होतृत्वकारणमित्यर्थः । यदेवेत्यादि । यस्मादेतेषु पञ्चस्वपि चतुर्धा वाक्पत्यादिभेदेन चतुष्प्रकारभिन्ना होतारः ऋत्विजः तेन चतुर्होतारः । चत्वारः प्रत्येकमेतेषु होतार इति चतुर्होतारः । ‘ऋतश्छन्दसि’ इति कबभावः । होमे प्रवृत्तत्वात् सर्वेऽप्पृत्विजो होतारः । होतृसाहचर्याद्वा होतारः । तत्र दशहोतरि अग्निराग्नीध्रः होता उपवक्ता अध्वर्युरिति । होता अध्वर्युराग्नीध्र उपवक्ता पञ्चहोतर्यपि । त एव सूच्यन्त इति षड्ढोतरि सन्ति, तेनायमपि चतुर्होता । वाग्घोतेति षड्ढोतरि होता पत्नी अध्वर्युः अभिगरः यजमानश्च । सप्तहोतरि - होताऽध्वर्युराग्नीध्र उपवक्ता । असत्स्वप्यन्येषु चत्वारस्तेऽत्र विद्यन्ते । एवं यस्मादेषु चतुर्धा होतारः तस्माच्चतुर्होतारो भवन्ति । विलक्षणहोतृचतुष्टयवन्तो भवन्ति तस्माद्दशहोत्रादयोपि चतुर्होतार उच्यन्ते ।
सायण-टीका
अथ द्वितीय-काण्डे तृतीय-प्रपाठकारम्भः । तत्र प्रथमोऽनुवाकः ।
यस्य निःश्वसितं वेदा यो वेदेभ्यो ‘खिलं जगत् ।
निर्ममे तम् अहं वन्दे विद्यातीर्थ-महेश्वरम् ॥ १ ॥प्रपाठके द्वितीये हि होतृ-ब्राह्मणम् ईरितम् ।
तद्-ब्राह्मणस्य शेषो ‘थ तृतीये समुदीर्यते ॥ २ ॥
तत्र प्रथमानुवाके सर्वेषां होतृ-मन्त्राणां चतुर्होतृ-मन्त्रेण व्यवहारं प्रश्नोत्तराभ्यां प्रतिपादयति-
ब्रह्मवादिनो वदन्ति । किं चतुर्होतॄणां चतुर्होतृत्वम् इति । यद् एवैषु चतुर् होतारः । तेन चतुर्-होतारः । तस्माच् चतुर्-होतार उच्यन्ते । तत् चतुर्-होतॄणां चतुर्होतृत्वम्,
इति । चतुर्होतृ-शब्देन व्यवह्रियमाणानां “चित्तिः स्रुक्” इत्य् आदि-मन्त्राणां चतुर्होतृ-शब्द-वाच्यत्वं कथम् इत्य् एवं ब्रह्मवादिनां प्रश्नः । तत्रोत्तरम् एतत् । होताध्वर्य्वग्नीधो-ब्रह्मेत्य् एवं चतुर्धा होम-कर्तारो यस्माद् एषु मन्त्रेषु श्रूयन्ते तेन कारणेनैते मन्त्राश् चतुर्-होतारः । तत्र “पृथिवी होता । द्यौर् अध्वर्युः । रुद्रो ‘ग्नीत् ।
[[P437]] बृहस्पतिर् उपवक्ता” इत्य् एतस्मिन् मुख्ये चतुर्होतृ-मन्त्रे यथा होत्रादय एवं “अग्निर् होता । अश्विनाव् अध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता” इत्य् आदिष्व् अपि मन्त्रेषु होत्रादयः श्रुताः । तत्रोपवक्ता ब्रह्मा । “चित्तिः स्रुक्” इति मन्त्रे यद्यप्य् अग्नीध्रो न श्रुतस् तथापि होत्रादिभिर् असौ अनुपलक्षणीयः । यद्यपि “सूर्यं ते चक्षुः” इति मन्त्रे होत्रादयो न श्रुतास् तथापि सृष्टि-न्यायेन बाहुल्यात् तेऽप्य् उपलक्षयितुं शक्यन्ते । यथा “सृष्टीर् उपदधाति” इत्य् एकस्मिन् मन्त्रे सृष्टि-लिङ्गाभावेऽप्य् अन्येषु सृष्टि-लिङ्गानां सद्-भावात् तत्र हि तेनापि सह सृष्टि-शब्दार्थत्वं निर्णीतम्, एवम् अत्रापि होतृ-प्रतिपादन-रहितेनापि मन्त्रेण सह तत्-सहितोत्तरे सर्वे मन्त्राश् चतुर्होतृ-शब्देन व्यवहर्तुं शक्यन्ते । अस्ति चात्र लौकिको दृष्टान्तः –
“एको हि दोषो गुण-संनिपाते निमज्जतीन्दोः किरणेष्व् इवाङ्कः"
इति ।
विश्वास-प्रस्तुतिः
तच्चतुर्॑होतृणाञ्चतुर्होतृ॒त्वम् ।
मूलम्
तच्चतुर्॑होतृणाञ्चतुर्होतृ॒त्वम् ।
भट्टभास्कर-टीका
तदिदं चतुर्होतॄणां चतुर्होतृत्वकारणम् । इदं किं चतुर्होतृणामिति पृष्टस्योत्तरम् ॥
सायण-टीका
यस्माद् एवं तस्माद् वैदिकैः सर्व एते मन्त्राश् चतुर्-होतार इत्य् उच्यन्ते । चत्वारो होम-कर्तारो येषु मन्त्रेष्व् इति व्युत्पत्त्या तेषां मन्त्राणां चतुर्होतृ-नाम सम्पन्नम् ।
विश्वास-प्रस्तुतिः
सोमो॒ वै चतु॑र्होता ।
अ॒ग्निᳶ पञ्च॑होता ।
धा॒ता षड्ढो॑ता ।
इन्द्र॑स्स॒प्तहो॑ता ॥1॥
प्र॒जाप॑ति॒र्दश॑होता ।
मूलम्
सोमो॒ वै चतु॑र्होता ।
अ॒ग्निᳶ पञ्च॑होता ।
धा॒ता षड्ढो॑ता ।
इन्द्र॑स्स॒प्तहो॑ता ॥1॥
प्र॒जाप॑ति॒र्दश॑होता ।
मूलम्
य ए॒वञ्चतु॑र्होतृणा॒मृद्धिव्ँ॒वेद॑ । ऋ॒ध्नोत्ये॒व ।
विश्वास-प्रस्तुतिः
य ए॒वञ्चतु॑र्होतृणा॒मृद्धिव्ँ॒वेद॒र्ध्नोत्ये॒व ।
मूलम्
य ए॒वञ्चतु॑र्होतृणा॒मृद्धिव्ँ॒वेद॒र्ध्नोत्ये॒व ।
भट्टभास्कर-टीका
2 सोमो वा इत्यादि ॥ सोमादिभाव एवैषां हृदयेष्ववगन्तव्यः । ऋद्धिः होमादिप्रजादिहेतुत्वम् ।
सायण-टीका
एतेषां मन्त्राणां तद्-अभिमानि-देवता-तादात्म्य-ज्ञानेन समृद्धि-फलं दर्शयति-
सोमो वै चतुर्-होता । अग्निः पञ्च-होता । धाता षड्-ढोता । इन्द्रः सप्त-होता । प्रजापतिर् दश-होता । य एवं चतुर्होतॄणाम् ऋद्धिं वेद । ऋध्नोत्य् एव,
इति । यथोक्त-सोमादि-देवता-रूपत्वम् एव मन्त्राणां समृद्धिः ।
मूलम्
य ए॑षामे॒वम्ब॒न्धुताव्ँ॒वेद॑ । बन्धु॑मान्भवति ।
य ए॑षामे॒वङ्कॢप्तिव्ँ॒वेद॑ । कल्प॑तेऽस्मै ।
विश्वास-प्रस्तुतिः
य ए॑षामे॒वम्ब॒न्धुताव्ँ॒वेद॒ बन्धु॑मान्भवति ।
य ए॑षामे॒वङ्कॢप्तिव्ँ॒वेद॒ कल्प॑तेऽस्मै ।
मूलम्
य ए॑षामे॒वम्ब॒न्धुताव्ँ॒वेद॒ बन्धु॑मान्भवति ।
य ए॑षामे॒वङ्कॢप्तिव्ँ॒वेद॒ कल्प॑तेऽस्मै ।
भट्टभास्कर-टीका
बन्धुतां बन्धुसमूहं सोमादिम् । ‘ग्रामजनबन्धुसहायेभ्यस्तल्’ कॢप्तिं कल्पनं अग्निहोत्रादिनिदानताम् ।
सायण-टीका
पुनर् अपि चतुर्धा फल-प्रदर्शनेन प्रशंसति-
य एषाम् एवं बन्धुतां वेद । बन्धुमान् भवति । य एषाम् एवं कॢप्तिं वेद । कल्पतेऽस्मै । य एषाम् एवम् आयतनं वेद । आयतनवान् भवति । य एषाम् एवं प्रतिष्ठां वेद । प्रत्य् एव तिष्ठति,
इति । बन्धूनां समूहो बन्धुता । यथा लोके ब्राह्मणाः क्षत्रिया भारद्वाज-गोत्रीया इत्य् एकैकेनोपाधिना व्यवह्रियमाणाः परस्परं बन्धवः । एवम् एतेऽपि मन्त्रा एकेन होतृत्वोपाधिना व्यवह्रियमाणत्वात् परस्परं बन्धवः । [[P438]] तत्-समूहे बन्धु-भावं यो वेद सो ऽयं बहुभिर् बन्धुभिर् युक्तो भवति । कॢप्तिर् अनुष्ठान-जप-होमादिकम् । तद्-वेदनेन स्वाभिमत-मन्त्र-क्रिया कल्प्यते निष्पाद्यते ।
मूलम्
य ए॑षामे॒वमा॒यत॑नव्ँ॒वेद॑ । आ॒यत॑नवान्भवति ।
य ए॑षामे॒वम्प्र॑ति॒ष्ठाव्ँ वेद॑ ॥2॥
प्रत्ये॒व ति॑ष्ठति ।
विश्वास-प्रस्तुतिः
य ए॑षामे॒वमा॒यत॑नव्ँ॒वेदा॒यत॑नवान्भवति ।
य ए॑षामे॒वम्प्र॑ति॒ष्ठाव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति ।
मूलम्
य ए॑षामे॒वमा॒यत॑नव्ँ॒वेदा॒यत॑नवान्भवति ।
य ए॑षामे॒वम्प्र॑ति॒ष्ठाव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति ।
भट्टभास्कर-टीका
आयतनं उत्पत्तिस्थानम् । ‘तद्दशहोताऽन्वसृज्यत’ इत्यादि ॥
सायण-टीका
आयतनं तद्-अनुष्ठानाधार-भूतम् अग्निहोत्रादिकं कर्म । तच् च पूर्वम् एवोदाहृतम् – “अग्निहोत्रं वै दश-होतुर् निदानम्” इत्यादिना । तद्-वेदिता निवास-स्थानं लभते । प्रतिष्ठा-फलम् – “आऽस्य वीरो जायते" इत्यादिकम् । तद्-वेदिता धनादिभिः प्रतिष्ठितो भवति ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । दश॑होता॒ चतु॑र्होता । पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -“दश॑होता॒ चतु॑र्होता॒ पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता ।
अथ॒ कस्मा॒च्चतु॑र्होतार उच्यन्त॒"इति॑ ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -“दश॑होता॒ चतु॑र्होता॒ पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता ।
अथ॒ कस्मा॒च्चतु॑र्होतार उच्यन्त॒"इति॑ ।
भट्टभास्कर-टीका
3दशहोत्रादयो नानाहोतार एव सन्तः कथं चतुर्होतारस्सर्वेऽप्युच्यन्ते? प्रदर्शनार्थत्वाद्येनैवमुक्तमिति ब्रह्मवादिनश्चोदयन्ति ।
सायण-टीका
पूर्वं चतुर्होतृ-शब्देन सर्वेषां व्यवहार-कारणम् उक्तम् । इदानीं दश-होत्रादि-शब्दैः सर्वत्र-व्यवहाराभावे कारणं प्रश्नोत्तराभ्यां दर्शयति-
ब्रह्मवादिनो वदन्ति । दश-होता चतुर्-होता । पञ्च-होता षड्-ढोता सप्त-होता । अथ कस्माच् चतुर्-होतार उच्यन्त इति । इन्द्रो वै चतुर्-होता । इन्द्रः खलु वै श्रेष्ठो देवतानाम् उपदेशनात् । य एवम् इन्द्रं श्रेष्ठं देवतानाम् उपदेशनाद् वेद । वसिष्ठः समानानां भवति । तस्माच् श्रेष्ठम् आयन्तं प्रथमेनैवानुबुध्यन्ते । अयम् आगन् । अयम् अवसाद् इति । कीर्तिर् अस्य पूर्वागच्छति जनताम् आयतः । अथैनं प्रथमेनैवानुबुध्यन्ते । अयम् आगन् । अवासाद्,
इति । दश-होत्रादयः पञ्च-शब्दा विद्यन्ते तेषां मध्ये चतुर्होतृ-शब्देन यथा सर्वेषाम् उपलक्षणम्, एवं दश-होत्रादि-शब्देनापि छत्रिन्यायेनोपलक्षयितुं शक्यत्वात् कुतः शब्दान्तरैर् नोपलक्ष्यन्ते । चतुर्होतृ-शब्देनैव तद्-उपलक्षण-नियमे किं कारणम् इति ब्रह्मवादिनां प्रश्नः । तत्रैतद् उत्तरम् । [[P439]]
विश्वास-प्रस्तुतिः
इन्द्रो॒ वै चतु॑र्होता ।
इन्द्र॒ᳵ खलु॒ वै श्रेष्ठो॑ दे॒वता॑नामुप॒देश॑नात् ।
मूलम्
इन्द्रो॒ वै चतु॑र्होता ।
इन्द्र॒ᳵ खलु॒ वै श्रेष्ठो॑ दे॒वता॑नामुप॒देश॑नात् ।
भट्टभास्कर-टीका
इन्द्रो वा इत्यादिना स्वयं परिहरति । इन्द्रश्चतुर्होतेति प्रागेव प्रतिपादितम् । इन्द्रश्च देवतानां मध्ये श्रेष्ठः प्रशस्यतमः । कुतः? उपदेशनात् । श्रुतिरेवोपदिशति श्रैष्ठ्यमिन्द्रस्य - ‘तस्मादिन्द्रो देवतानां भूयिष्ठभाक्तमः’, ‘इन्द्रो देवानामधिपाः पुरोहितः’ , ततो वा इन्द्रो देवानामधिपतिरभवत्’ इत्यादौ श्रैष्ठ्येन च व्यपदेशो भवति । तस्माच्छ्रेष्ठेन्द्रात्मकचतुर्होत्रेनुविधायित्वादितरे चतुर्होतार इति ते व्यपदिश्यन्ते ।
सायण-टीका
चतुर्होतृ-मन्त्राणां कारणत्वाद् अयं मन्त्र इन्द्र-स्वरूपः । तत्-कारणत्वं च पूर्वोक्तम् – “तं चतुर्-होत्रा प्राजनयन्” इति । इन्द्रश् च देवतानां मध्ये प्रशस्ततमः । कुत उपदेशनात् । उपदिष्टं किं पूर्वस्मिन् प्रपाठके इन्द्रस्य देवाधिपत्यम् । इन्द्र-रूपत्वेन चतुर्-होता सर्वेषु श्रेष्ठः । ततः श्रेष्ठेनैव सर्वस्य व्यपदेशो युक्तो न त्व् अन्येन ।
मूलम्
य ए॒वमिन्द्रँ॒ श्रेष्ठ॑न्दे॒वता॑नामुप॒देश॑ना॒द्वेद॑ । वसि॑ष्ठस्समा॒नाना॑म्भवति ।
विश्वास-प्रस्तुतिः
य ए॒वमिन्द्रँ॒ श्रेष्ठ॑न्दे॒वता॑नामुप॒देश॑ना॒द्वेद॒ वसि॑ष्ठस्समा॒नाना॑म्भवति ।
मूलम्
य ए॒वमिन्द्रँ॒ श्रेष्ठ॑न्दे॒वता॑नामुप॒देश॑ना॒द्वेद॒ वसि॑ष्ठस्समा॒नाना॑म्भवति ।
भट्टभास्कर-टीका
एवमुपदेशनाद्देवतानां श्रेष्ठमिन्द्रं यो वेद स समानानां वसिष्ठः प्रशस्यतमो भवति ॥
सायण-टीका
यः पुमान् इन्द्र-श्रेष्ठत्वं श्रुत्य्-उपदिष्टं वेद स पुमान् समानानां स्वकीयानां निवास-हेतुर् भवति ।
मूलम्
तस्मा॒च्छ्रेष्ठ॑मा॒यन्त॑म्प्रथ॒मेनै॒वानु॑बुध्यन्ते । अ॒यमाग॑न् । अ॒यमवा॑सा॒दिति॑ । की॒र्तिर॑स्य॒ पूर्वाऽऽग॑च्छति ज॒नता॑माय॒तः ।
विश्वास-प्रस्तुतिः
तस्मा॒च्छ्रेष्ठ॑मा॒यन्त॑म्प्रथ॒मेनै॒वानु॑बुध्यन्ते ।
मूलम्
तस्मा॒च्छ्रेष्ठ॑मा॒यन्त॑म्प्रथ॒मेनै॒वानु॑बुध्यन्ते ।
भट्टभास्कर-टीका
4यदुक्तं श्रैष्ठ्येन व्यपदेशो भवतीति, तत्र निदर्शनार्थमाह - तस्मादित्यादि ॥ यस्माच्छ्रैष्ठ्येन व्यपदेशो भवति तस्माच्छ्रेष्ठं राजानं बहुविधानेकसहचरं आयन्तं आगच्छन्तं प्रथमेनैव प्रथममेवानुबुध्यन्ते । प्रकृत्यादितृतीया । सत्स्वप्यन्येषु बहुषु असत्स्वपि श्रेष्ठमेव प्रथममनुबुद्ध्यन्ते बुद्ध्या स्पृशन्ति ।
सायण-टीका
यस्माद् अत्र श्रेष्ठेनैव चतुर्-होत्रा सर्वेषां व्यपदेशो नेतरेण तस्माल् लोके ‘पि सहस्र-संख्याकैर् जनैः सह समागच्छन्तं श्रेष्ठं राजानम् अमात्यं वा दृष्ट्वा प्रजाः सर्वाः प्रथमेनैव श्रेष्ठ-पुरुष-नाम्नानुबुध्यन्ते व्यवहरन्ति ।
विश्वास-प्रस्तुतिः
“अ॒यमाग॑न् । अ॒यमवा॑सा॒"दिति॑ ।
की॒र्तिर॑स्य॒ पूर्वाऽऽग॑च्छति ज॒नता॑माय॒तः ।
मूलम्
“अ॒यमाग॑न् । अ॒यमवा॑सा॒"दिति॑ ।
की॒र्तिर॑स्य॒ पूर्वाऽऽग॑च्छति ज॒नता॑माय॒तः ।
भट्टभास्कर-टीका
कथम्? अयमागन् ‘अयं पौरव आगमत्, अयं काकुत्स्थ आगमत्’ इति श्रेष्ठमेव इतरैर्बोधितमनुबुद्ध्यन्ते जनाः । गमेर्लुङि ‘मन्त्रे घस’ डति च्लेर्लुक् । ‘मो नो धातोः’ इति नत्वम् । तथा अयमवासात् अवसीयतां ग्रामेऽस्मिन् जनपदेऽस्मिन्नित्यपि श्रेष्ठमेव व्यपदिशन्ति बहुष्वन्येष्वसत्सु सत्सु च । अवपूर्वकात् स्यतेः लुङि ‘विभाषा घ्राधेट् शाच्छासः’ इति सिचो लुक् ।
सायण-टीका
अयम् आगन्, अयं राजागन्, आगच्छति । अयम् अमात्यः समागच्छतीति । अथापि तेन सह सर्वेप्य् अन्ये समागच्छन्ति तथापि छत्र-धारी समागच्छति चामर-धारी समागच्छतीत्य् एवं श्रेष्ठ-नाम्ना संघं व्यवहरन्ति । तथा तस्मिन् ग्रामे ‘यम् अवासात् । ग्राम-स्वामी देवदत्तो ‘त्र निवसतीत्य् एवं श्रेष्ठ-नाम्ना व्यवहरन्ति । न त्व् अस्मिन् नगरे दासो निवसति दासी निवसतीति वा कदाप्य् अश्रेष्ठ-नाम्ना व्यवहरन्ति । किं च दूर-देशाद् आगच्छतो राज्ञः कीर्तिः पूर्व-भाविनी सती देश-विशेषे ऽवस्थितं जन-समूहं प्राप्नोति तदापि मुख्यस्यैव कीर्तिर् न चाश्रेष्ठस्य भृत्यादेः ।
मूलम्
अथो॑ एनम्प्रथ॒मेनै॒वानु॑बुध्यन्ते । अ॒यमाग॑न् । अ॒यमवा॑सा॒दिति॑ ॥3॥
विश्वास-प्रस्तुतिः
अथो॑ एनम्प्रथ॒मेनै॒वानु॑बुध्यन्ते ।
“अ॒यमाग॑न् ।
अ॒यमवा॑सा॒"दिति॑ ॥3॥
मूलम्
अथो॑ एनम्प्रथ॒मेनै॒वानु॑बुध्यन्ते ।
“अ॒यमाग॑न् ।
अ॒यमवा॑सा॒"दिति॑ ॥3॥
भट्टभास्कर-टीका
एवमत्रापि चतुर्होत्रा श्रेष्ठेन प्रथमम् । एतत्कीर्तिधरमेव प्रथममवबुध्यन्ते ‘अयं विद्यागुरुरागमत्, अयं विक्रमदिवाकर आगमत्’ इति । ईदृग्गुणकोऽयमागमत् अयमत्रावास्यदिति गुणश्रेष्ठमेव प्रथमं बुद्ध्यन्ते । तस्मादत्रापि प्रथमतो बुध्यमानचतुर्होतृमहाभाग्याक्रान्तचित्ताश्चतुर्होतॄनेव सर्वान् व्यपदिशन्ति । अयमिति गुणवत्स्वरूपनिर्देश इदानीम् ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके प्रथमोऽनुवाकः ॥
सायण-टीका
अतो ऽपि कारणाद् एनं जन-संघम् आयन्तं मुख्यस्य नाम्नैव व्यवहरन्ति – अयं राजा समागच्छतीति । तथाऽस्मिन् ग्रामेऽयं स्वामी निवसतीति । तस्माल् लोकवद् एवात्रापि श्रेष्ठेन चतुर्-होत्रा सर्व-मन्त्र-व्यवहारो न त्व् इतरैर् दश-होत्रादिभिर् इत्य् अर्थः ।
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे तृतीय-प्रपाठके प्रथमो ऽनुवाकः ॥ १ ॥