१० देवसृष्टिमध्ये अवस्थितस्येन्द्रस्य देवताधिपतित्वम् ...{Loading}...
विश्वास-प्रस्तुतिः
प्र॒जाप॑ति॒रिन्द्र॑मसृजतानुजाव॒रन्दे॒वाना॑म् ।
तम्प्राहि॑णोत् ।
मूलम्
प्र॒जाप॑ति॒रिन्द्र॑मसृजतानुजाव॒रन्दे॒वाना॑म् ।
तम्प्राहि॑णोत् ।
भट्टभास्कर-टीका
1 प्रजापतिरित्यादि ॥ आनुजावरं अनुजवदवरं कर्म कुर्वाणं प्राहिणोत् प्रेषितवान् ।
सायण-टीका
नवमे ऽनुवाके होतृ-सृष्टि-प्रसङ्गेन सर्व-जगत्-सृष्टिर् उक्ता । दशमे देव-सृष्टि-मध्ये ऽवस्थितस्येन्द्रस्य देवताधिपतित्वम् उच्यते । तद्-अर्थम् आख्यायिकाम् आह—
प्रजापतिर् इन्द्रम् असृजतानुजावरं देवानाम् ।
तं प्राहिणोत् । परैहि । एतेषां देवानाम् अधिपतिर् एधीति । तं देवा अब्रुवन् । कस् त्वम् असि । वयं वै खलु त्वच्छ्रेयांसः स्म इति । सो ऽब्रवीत् । कस् त्वम् असि वयं वै त्वच्छ्रेयांसः स्म इति मा देवा अवोचन्निति,
इति । प्रजापतिर् देवान् सृष्ट्वा तेषां देवानां मध्ये आनुजावरम् इन्द्रम् असृजत । यथा भ्रातॄणां मध्ये ऽनुजः पश्चाज् जातो ऽवरो निकृष्टस् तद्वद् अयम् इत्य् अनुजावरः । [[P427]] आनुजावर-शब्दस्यापि स एवार्थः ।
मूलम्
परे॑हि । ए॒तेषा॑न्दे॒वाना॒मधि॑पतिरे॒धीति॑ ।
विश्वास-प्रस्तुतिः
“परे॑हि । ए॒तेषा॑न्दे॒वाना॒मधि॑पतिरे॒धी"ति॑ ।
मूलम्
“परे॑हि । ए॒तेषा॑न्दे॒वाना॒मधि॑पतिरे॒धी"ति॑ ।
भट्टभास्कर-टीका
परेहि गच्छ पश्चाज्जातानां देवानां त्वमेवाधिपतिरेधि भवेति ।
सायण-टीका
सृष्टं तम् इन्द्रं देव-लोके प्रेषितवान् । हे, इन्द्र स्वर्गं गच्छैतेषां मया सृष्टानाम् अधिपतिर् भव । प्रेषितम् इन्द्रं देवाः पृच्छां कृतवन्तः ।
मूलम्
तन्दे॒वा अ॑ब्रुवन् । कस्त्वमसि॑ । व॒यव्ँ वै त्वच्छ्रेयाँ॑सस्स्म॒ इति॑ ।
विश्वास-प्रस्तुतिः
तन्दे॒वा अ॑ब्रुव॒न्न् - “कस्त्वमसि॑ , व॒यव्ँ वै त्वच्छ्रेयाँ॑सस्स्म॒” इति॑ ।
मूलम्
तन्दे॒वा अ॑ब्रुव॒न्न् - “कस्त्वमसि॑ , व॒यव्ँ वै त्वच्छ्रेयाँ॑सस्स्म॒” इति॑ ।
भट्टभास्कर-टीका
अथ तं देवसकाशं स्वामित्वेन गतमिन्द्रं देवा अब्रुवन् - कस्त्वमसि स्वामित्वस्य, त्वत्तोपि वयं श्रेयांसः प्रबलतरा ऐश्वर्येण स्म इति ।
सायण-टीका
प्रजापतिनाहं प्रेषितो ऽस्मीत्य् उत्तरे दत्ते ते देवा अब्रुवन् वयं वै त्वच्-छ्रेयांसः स्मेति त्वया कल्याण-युक्ता भवेमेति ।
मूलम्
सो॑ऽब्रवीत् ।
कस्त्वमसि॑ व॒यव्ँ वै त्वच्छ्रेयाँ॑सस्स्म॒ इति॑ मा दे॒वा अ॑वोच॒न्निति॑ ।
विश्वास-प्रस्तुतिः
सो॑ऽब्रवी॒त् - “कस्त्वमसि॑” , “व॒यव्ँ वै त्वच्छ्रेयाँ॑सस्स्म॒” इति॑ मा दे॒वा अ॑वोच॒न्निति॑ ।
मूलम्
सो॑ऽब्रवी॒त् - “कस्त्वमसि॑” , “व॒यव्ँ वै त्वच्छ्रेयाँ॑सस्स्म॒” इति॑ मा दे॒वा अ॑वोच॒न्निति॑ ।
भट्टभास्कर-टीका
अथ तच्छ्रुतवानिन्द्रः प्रजापतिसकाशं गत्वाऽब्रवीत् - कस्त्वमसि वयं वै त्वच्छ्रेयांसस्स इति देवा मामवोचन् उक्तवन्तः, इदानीं किं क्रियतामिति ।
सायण-टीका
तदानीम् एवेन्द्रः परावृत्य प्रजापति-समीपं गतवान् । प्रजापतिना पृष्टे सति स इन्द्रो ऽब्रवीत् । कस् त्वम् असि वयं वै त्वच्-छ्रेयांसः स्मेति मा मां देवा अवोचन्न् अब्रुवन्न् इति ।
मूलम्
अथ॒ वा इ॒दन्तर्हि॑ प्र॒जाप॑तौ॒ हर॑ आसीत् ॥ 60 ॥
यद॒स्मिन्ना॑दि॒त्ये ।
विश्वास-प्रस्तुतिः
अथ॒ वा इ॒दन्तर्हि॑ प्र॒जाप॑तौ॒ हर॑ आसी॒द् यद॒स्मिन्ना॑दि॒त्ये ।
मूलम्
अथ॒ वा इ॒दन्तर्हि॑ प्र॒जाप॑तौ॒ हर॑ आसी॒द् यद॒स्मिन्ना॑दि॒त्ये ।
भट्टभास्कर-टीका
अथ यदिदानीमादित्ये इदं दृश्यते हरः तेजः प्रकृष्टं तदिदं तर्हि तस्मिन् काले प्रजापतावासीत् ।
सायण-टीका
क-नाम-वेत्तुर् इन्द्राधिपत्य-वेत्तुर् वाख्यायिका-पुरःसरं वेदन-फलं दर्शयति—
अथ वा इदं तर्हि प्रजापतौ हर आसीत् (१) । यस्मिन्न् आदित्ये । तद् एनम् अब्रवीत् । एतन् मे प्रयच्छ । अथाहम् एतेषां देवानाम् अधिपतिर् भविष्यामीति । को ऽहं स्याम् इत्य् अब्रवीत् । एतत् प्रदायेति । एतत् स्या इत्य् अब्रवीत् । यद् एतद् ब्रवीषीः । को ह वै नाम प्रजापतिः । य एवं वेद (२) । विदुर् एनं नाम्ना । तस्मै रुक्मं कृत्वा प्रत्यमुञ्चत् । ततो वा इन्द्रो देवानाम् अधिपतिर् अभवत् । य एवं वेद । अधिपतिर् एव समानानां भवति,
इति । अथ प्रजापतेर् अग्रे स्वकीय-तिरस्करणाद् ऊर्ध्वम् एवं वृत्तान्त आसीत् । यदिदम् इदानीम् अस्मिन्न् आदित्ये संतापकं तेजो दृश्यते तद् इदं हरस् तस्मिन् काले प्रजापताव् आसीत् । यादृश आदित्यो ऽन्धकारादि-भर्त्सने समर्थस् तथा प्रजापतिर् अपि दुष्ट-शिक्षायां समर्थ आसीत् ।
मूलम्
तदे॑नमब्रवीत् । ए॒तन्मे॒ प्रय॑च्छ । अथा॒हमे॒तेषा॑न्दे॒वाना॒मधि॑पतिर्भविष्या॒मीति॑ ।
विश्वास-प्रस्तुतिः
तदे॑नमब्रवीद् -“ए॒तन्मे॒ प्रय॑च्छ” , “अथा॒हमे॒तेषा॑न्दे॒वाना॒मधि॑पतिर्भविष्या॒मी"ति॑ ।
मूलम्
तदे॑नमब्रवीद् -“ए॒तन्मे॒ प्रय॑च्छ” , “अथा॒हमे॒तेषा॑न्दे॒वाना॒मधि॑पतिर्भविष्या॒मी"ति॑ ।
भट्टभास्कर-टीका
प्रजापतौ पश्यन्निन्द्वः तत्तदानीमेनं प्रजापतिमब्रवीत् - एतत् त्वयि वर्तमानं हरः मह्यं प्रयच्छ, अथ एतद्यदि लभ्यते तदानीमेवाहमधिपतिर्भविष्यामीति नान्यथा गतिरिति ।
सायण-टीका
तत् तेज उद्दिश्येन्द्र एनं प्रजापतिम् अब्रवीत् । हे प्रजापते, एतत्तेजो मह्यं प्रयच्छ । अथाहं तेजस्वी सन्न् एतेषां देवानाम् अधिपतिर् भविष्यामीति । ततः प्रजापतिर् इदम् अब्रवीत् ।
मूलम्
को॑ऽहँ स्या॒मित्य॑ब्रवीत् । ए॒तत्प्र॒दायेति॑ ।
विश्वास-प्रस्तुतिः
“को॑ऽहँ स्या॒"मित्य॑ब्रवीद् “ए॒तत्प्र॒दाये"ति॑ ।
मूलम्
“को॑ऽहँ स्या॒"मित्य॑ब्रवीद् “ए॒तत्प्र॒दाये"ति॑ ।
भट्टभास्कर-टीका
अथ प्रजापतिरब्रवीत् - एतत्तुभ्यं प्रदाय कोऽहं स्यां किंरूपस्स्यां, इदं मे प्रशस्तं रूपं, इदं चेत्तुभ्यं दीयते प्रजापतिरेव कथं स्यामिति ।
सायण-टीका
एतत्तेजस् तुभ्यं प्रदाय को ऽहं स्याम्, अक्षमं मां को वा गणयेद् इत्य् अभिप्रायः ।
विश्वास-प्रस्तुतिः
“ए॒तत्स्या॒” इत्य॑ब्रवीत् । “यदे॒तद्ब्रवी॒षी"ति॑ ।
मूलम्
“ए॒तत्स्या॒” इत्य॑ब्रवीत् । “यदे॒तद्ब्रवी॒षी"ति॑ ।
भट्टभास्कर-टीका
अथेन्द्रोऽब्रवीत् सत्यमुक्तं जगद्गुरुणा कोऽहं स्यामिति, एतन्मह्यं प्रदाय एतदेव स्याः । किम्? यद्ब्रवीषि क इति । एतद्रूपस्स्याः प्रजापतिरेव भविष्यसीति भावः ।
सायण-टीका
अथ इन्द्रः प्रजापतिं प्रत्य् अब्रवीत्—को ऽहम् इत्य् अत्र क इत्य् अनेन शब्देन यद् एतद् ब्रवीषीत्य् एतद् एव त्वम् । अत्र यद् एतद् इन्द्रेणोक्तं तद् एतद् युक्तम् ।
विश्वास-प्रस्तुतिः
“को ह॒ वै नाम॑ प्र॒जाप॑तिः” । य ए॒वव्ँ वेद॑ ॥ 61 ॥
मूलम्
“को ह॒ वै नाम॑ प्र॒जाप॑तिः” । य ए॒वव्ँ वेद॑ ॥ 61 ॥
भट्टभास्कर-टीका
ननु कोऽहं स्यामिति पृष्टे क एव भविष्यसीति किमुत्तरं स्यात्, तत्राह - को हेति । प्रजापतिर्नाम को भवति अज्ञातरूपत्वात्क इत्येव व्यपदेष्टव्यो भवति, कोऽहं स्यामिति तदनुरूपमेवोक्तं तत्र भवता । तस्मात्परिच्छित्तिकारिविशेषभूतहरःप्रदानं प्रजापतित्वस्यैव पौष्कल्यहेतुरिति ।
सायण-टीका
क इत्य् एतस्य प्रजापति-नामत्वात् । अत्र किं-शब्दः क-शब्दश् चेति मकारान्ताकारान्तौ द्वौ शब्दौ, तयोर् उभयोर् अपि पुंलिङ्गैकवचनं क इत्य् एवं रूपं वा ब्रूते । अकारान्तस् तु [[P428]] प्रजापति-वाचकः । तत्र मकारान्तम् अभिप्रेत्य प्रजापतिः प्रायुङ्क्त । तेजो-बलाद् एव प्राणिनाम् अपि गौरवम् । तस्मिंश् च तुभ्यं दत्ते सति प्रजापतित्व-गौरवस्य गतत्वात् को नामाहं स्याम् इति प्रजापति-प्रश्नः । न को ऽहं स्याम् इति प्रजापतित्वम् एव विनश्यतीत्य् आक्षेपः । इन्द्रस् तु शब्द-छलाद् अकारान्तत्वम् आश्रित्य प्रजापतिर् अहं स्याम् इति यद् एतद् ब्रूषे तद् एतत् स्याः प्रजापतिर् एव भवेत्य् अर्थः । न हि तेजो-निमित्तं तव प्रजापतित्वं प्रजा-जनकत्वम् । तेजसो ऽनुपादानत्वात् । यतो ऽतेजसो ऽपि प्रजा-स्रष्टृत्वात् । किं तु स्वाभाविकम् । अतस् तेजसि दत्ते तव स्वभावो नापगच्छतीत्य् अब्रवीत् ।
विश्वास-प्रस्तुतिः
वि॒दुरे॑न॒न्नाम्ना॑ ।
मूलम्
वि॒दुरे॑न॒न्नाम्ना॑ ।
भट्टभास्कर-टीका
एवं वेदितारं सर्वेऽपि नाम्ना विदुः, सर्वैर्विदितनामा भवतीति यावत् ॥
सायण-टीका
य एवं प्रजापतेः क इति नाम वेद, एनं सर्वे ऽपि नाम्ना विदुः, प्रख्यातो भवतीत्य् अर्थः ।
विश्वास-प्रस्तुतिः
तद॑स्मै रु॒क्मङ्कृ॒त्वा प्रत्य॑मुञ्चत् ।
मूलम्
तद॑स्मै रु॒क्मङ्कृ॒त्वा प्रत्य॑मुञ्चत् ।
भट्टभास्कर-टीका
2 अथ प्रजापतिः तत् हरः रुक्मं आभरणं पट्टाख्यं कृत्वा अस्मा इन्द्राय प्रत्यमुञ्चत् । ललाटे बबन्ध ।
सायण-टीका
ततः प्रजापतिस् तत् तेजो रुक्मं1 पट्टाख्यम् आभरणं कृत्वा प्रत्यमुञ्चत् । ललाटे बबन्धेत्य् अर्थः ।
विश्वास-प्रस्तुतिः
ततो॒ वा इन्द्रो॑ दे॒वाना॒मधि॑पतिरभवत् ।
मूलम्
ततो॒ वा इन्द्रो॑ दे॒वाना॒मधि॑पतिरभवत् ।
मूलम्
य ए॒वव्ँ वेद॑ ।
अधि॑पतिरे॒व स॑मा॒नाना॑म्भवति ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेदाधि॑पतिरे॒व स॑मा॒नाना॑म्भवति ।
मूलम्
य ए॒वव्ँ वेदाधि॑पतिरे॒व स॑मा॒नाना॑म्भवति ।
भट्टभास्कर-टीका
तत इत्यादि । गतम् ॥
सायण-टीका
ततः पट्ट-बन्धनाद् इन्द्रो देवानाम् अधिपतिर् अभवत् । तद् एतद् आधिपत्यं विद्वान् पुरुषः समानानां पुरुषाणां स्वयम् अधिपतिर् भवति ।
मूलम्
सो॑ऽमन्यत । किङ्किव्ँ॒ वा अ॑कर॒मिति॑ ।
विश्वास-प्रस्तुतिः
सो॑ऽमन्यत॒ - “किङ्किव्ँ॒ वा अ॑कर॒"मिति॑ ।
मूलम्
सो॑ऽमन्यत॒ - “किङ्किव्ँ॒ वा अ॑कर॒"मिति॑ ।
भट्टभास्कर-टीका
3 सोऽमन्यतेति ॥ प्रजापतिरमन्यत अस्येन्द्रस्याहं किंकिमकरं, यदिदं कृतं इदमस्यापर्याप्तमिति अमन्यत । ‘कृमृदृरुहिभ्यः’ इत्यङ् । ऋदृशोऽङि गुणः ।
सायण-टीका
अथेन्द्रं बहुधा स्तोतुम् आदौ तावत् तद्-उपयुक्तं चन्द्रमः-शब्दस्य निर्वचनं दर्शयति—
सो ऽमन्यत । किं किं वा अकरम् इति । स चन्द्रं म आहरेति प्रालपत् । तच् चन्द्रमसश् चन्द्रमस्त्वम् । य एवं वेद (३) । चन्द्रवान् एव भवति,
इति । स प्रजापतिर् एवम् अमन्यत । देवाधिपत्ये स्थापितस्येन्द्रस्यापेक्षितं कार्यं किं किं महत् कार्यं यन् मया कृतं न पर्याप्तं पुनर् अपि करिष्यामीत्य् अभिप्रायः ।
विश्वास-प्रस्तुतिः
“स च॒न्द्रम्म॒ आह॒रे"ति॒ प्राल॑पत् ।
तच्च॒न्द्रम॑सश्चन्द्रम॒स्त्वम् ।
मूलम्
“स च॒न्द्रम्म॒ आह॒रे"ति॒ प्राल॑पत् ।
तच्च॒न्द्रम॑सश्चन्द्रम॒स्त्वम् ।
भट्टभास्कर-टीका
अथ विदिताभिप्रायं भूयश्चिकीर्षुं प्रजापतिं प्रति इन्द्रः चन्द्रं मम आहरेति कुमारवत् प्रालपत्, चान्द्रमाह्लादकं तेजोपि मय्याहरेति, चन्द्रवदाह्लादयिता सर्वस्य भूयासमिति । एवमिन्द्रेण चन्द्र इत्युक्तत्वात् चन्द्रमस्त्वं चन्द्रमसः । चन्द्रत्वेन आह्लादकत्वेन इन्द्रेण मीयते चन्द्रमाः ।
सायण-टीका
तथा-विधं प्रजापतिं दृष्ट्वा स इन्द्रश् चन्द्रम् आह्लादकं तेजो मदर्थम् आहरेत्य् एवं बालवत् प्रलापं कृतवान् । तत आह्लाद-वाची चन्द्र-शब्दोच्चारणात् स्व-वाच्यस्मच्छब्दोच्चारणाच् च तद्-अक्षर-सदृशं चन्द्रमा इति नाम संपन्नम् । चन्द्रमा आह्लाद-करं तेजो मीयते ऽत्रेति चन्द्रमाः ।
मूलम्
य ए॒वव्ँ वेद॑ ॥ 62 ॥
च॒न्द्रवा॑ने॒व भ॑वति ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेद॑ च॒न्द्रवा॑ने॒व भ॑वति ।
मूलम्
य ए॒वव्ँ वेद॑ च॒न्द्रवा॑ने॒व भ॑वति ।
भट्टभास्कर-टीका
एवं वेदिताऽपि आह्लादकरूपवान् भवति ॥
सायण-टीका
एवं वेदिताप्य् आह्लादवान् एव भवति ।
मूलम्
तन्दे॒वा अ॑ब्रुवन् । सु॒वीर्यो॑ मर्या॒ यथा॑ गोपा॒यत॒ इति॑ । तत्सूर्य॑स्य सूर्य॒त्वम् । य ए॒वव्ँ वेद॑ । नैन॑न्दभ्नोति ।
विश्वास-प्रस्तुतिः
तन्दे॒वा अ॑ब्रुवन्न् - “सु॒वीर्यो॑ मर्या॒ यथा॑ गोपा॒यत॒” इति॑ ।
तत्सूर्य॑स्य सूर्य॒त्वम् ।
मूलम्
तन्दे॒वा अ॑ब्रुवन्न् - “सु॒वीर्यो॑ मर्या॒ यथा॑ गोपा॒यत॒” इति॑ ।
तत्सूर्य॑स्य सूर्य॒त्वम् ।
भट्टभास्कर-टीका
4 तं देवा इत्यादि ॥ सूर्यादिभावेन इन्द्रः स्तूयते - तमिन्द्रं देवा अब्रुवन् लब्धचन्द्रभावमाह्लादयितारमिन्द्रं देवा विस्मृतात्मश्रैष्ठ्या अस्तुवन् - अयमिन्द्र इदानीमस्मात् गोपायते रक्षितुमर्हति हरसा युक्तः । यथा मर्या सुवीर्यः ।
मरीचिभिस्सर्यूः । एकत्र मव्यमाक्षरलोपः, पूर्वस्य च दीर्घत्वम्, इतरत्रान्त्यलोपः, ‘सुपां सुलुक्’ इत्याकारश्च ।
केचिदाहुः - अयं सुवीर्योस्मानिदानीं गोपायते रक्षितुं पर्याप्नोति । यथा यथावदित्यर्थः । हे अमर्याः! अमरणशीलाः । आमन्त्रणेऽनुदात्तत्वम् । यद्वा - अमर्यान् अमरणशीलान् देवान् । शस आकारः ‘छन्दसि निष्टर्क्य’ इत्यादौ निपात्यते । छान्दसस्स्वरव्यत्ययः । सूर्यमेव सुवीर्यमब्रुवन् देवाः तस्यैव सुवीर्यात्तदीयहरस्संक्रमणात् ।
स एव भूत्वा रक्ष त्वमस्मानिति विवक्षितुम् । यस्मात् सूर्यं सुवीर्यमब्रुवन् । तस्मात्तस्य सूर्यत्वम् । ‘राजसूय सूर्य’ इति शब्दान्तरमिति भावः ।
सायण-टीका
अथ सूर्य-नाम-निर्वचनं दर्शयति—
तं देवा अब्रुवन् । सुवीर्यो मर्या यथा गोपायत इति । तत् सूर्यस्य सूर्यत्वम् । य एवं वेद । नैनं दभ्नोति,
इति ।
[[P429]]
दुष्ट-शिक्षण-क्षमेण सौर्य-तेजसा शिष्ट-परिपालन-क्षमेण चान्द्र-तेजसा च युक्तम् इन्द्रं दृष्ट्वा देवाः परस्परम् इदम् अब्रुवन् । हे अमर्या मरण-रहिता देवाः, शोभन-वीर्योपेतो ऽयम् इन्द्रो ऽस्मान् यथा गोपायते, सम्यग् रक्षितुं प्रभवतीत्य् अर्थः । ततः सुवीर्य-शब्दाक्षर-सादृश्यात् सूर्य-नाम संपन्नम् ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेद॒ नैन॑न्दभ्नोति ।
मूलम्
य ए॒वव्ँ वेद॒ नैन॑न्दभ्नोति ।
भट्टभास्कर-टीका
एनं वेदितारं कश्चिदपि न दभ्नोति न हिनस्ति सूर्य एव भवतीति यावत् ।
एवं कश्चनेति पूर्वशेषं व्याख्येयम् ॥ +++(अस्य वाक्यस्य अन्वयः उत्तरत्र , कथमिति न स्पष्टम् )+++
सायण-टीका
तन्-नाम-वेदिनं पुरुषं वैरी न हिनस्ति ॥
विश्वास-प्रस्तुतिः
“कश्च॒नास्मि॒न्वा इ॒दमि॑न्द्रि॒यम्प्रत्य॑स्था॒"दिति॑ ।
तदिन्द्र॑स्येन्द्र॒त्वम् ।
मूलम्
“कश्च॒नास्मि॒न्वा इ॒दमि॑न्द्रि॒यम्प्रत्य॑स्था॒"दिति॑ ।
तदिन्द्र॑स्येन्द्र॒त्वम् ।
भट्टभास्कर-टीका
5 अथेन्द्रं प्रति देवा अब्रुवन् - अस्मिन्निन्द्रे इदमिन्द्रियं वीर्यं प्रत्यस्थात् प्रतिष्ठितमभूदिति देवैरेवमुक्तत्वादिन्द्रस्येन्द्रत्वम् । यदि ह्यनिन्द्रस्स्यात्ततो नैनं जुष्टमिन्द्रियं भवति वीर्यम् । ‘इन्द्रियमिन्द्रलिङ्गं’ इत्यादौ निपातनात् । यद्वा - चशब्दश्चिदर्थे । कश्चिदपि इदमस्मिन्निन्द्रे स्थितमिन्द्रियं न प्रत्यस्थात् न प्रत्यर्थित्वेनाभ्यागतस्तिष्ठति । तस्मादेवं महावीर्यत्वादिन्द्रत्वमस्येति ।
सायण-टीका
इन्द्र-शब्द-निर्वचनं दर्शयति—
कश्चनास्मिन् वा इदम् इन्द्रियं प्रत्यस्थाद् इति । तद् इन्द्रस्येन्द्रत्वम् । य एवं वेद । इन्द्रियाव्य् एव भवति (४),
इति । अस्मिन्न् अपि स्थितम् इन्द्रियं सामर्थ्यं कथं को ऽपि न प्रत्यस्थात्, प्रत्यवस्थातुं निराकर्तुं न शक्नोतीति देवाः परस्परम् ऊचुः । तत्रेदम् इन्द्रियम् इत्य् अक्षर-साम्याद् इन्द्र-नाम संपन्नम् ।
मूलम्
य ए॒वव्ँ वेद॑ । इ॒न्द्रि॒या॒व्ये॑व भ॑वति ॥ 63 ॥
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेदे॒न्द्रिया॒व्ये॑व भ॑वति ॥
मूलम्
य ए॒वव्ँ वेदे॒न्द्रिया॒व्ये॑व भ॑वति ॥
भट्टभास्कर-टीका
एवं वेदिता च इन्द्रियवान् भवति ।
सायण-टीका
तन्-नामाभिज्ञः सामर्थ्यातिशयवान् भवति ॥
मूलम्
अ॒यव्ँ वा इ॒दम्प॑र॒मो॑ऽभू॒दिति॑ । तत्प॑रमे॒ष्ठिन॑ᳶ परमेष्ठि॒त्वम् ।
विश्वास-प्रस्तुतिः
अ॒यव्ँ वा इ॒दम्प॑र॒मो॑ऽभू॒दिति॒ तत्प॑रमे॒ष्ठिन॑ᳶ परमेष्ठि॒त्वम् ।
मूलम्
अ॒यव्ँ वा इ॒दम्प॑र॒मो॑ऽभू॒दिति॒ तत्प॑रमे॒ष्ठिन॑ᳶ परमेष्ठि॒त्वम् ।
भट्टभास्कर-टीका
पुनरपि देवा अब्रुवन् - अयमिन्द्रः परमः सर्वप्रकर्षी इदं विश्वं अभूत् इदं वा विश्वं प्राप्तवान् विश्वमस्य विधेयं भवति । यस्मादेव देवैश्च व्यापिनः परमात्मत्वमुक्तं तस्मात्परमेष्ठिनः परमेष्ठित्वम् ।
सायण-टीका
परमेष्ठि-नाम-निर्वचनं दर्शयति—
अयं वा इदं परमो ऽभूद् इति । तत् परमेष्ठिनः परमेष्ठित्वम् । य एवं वेद । परमाम् एव काष्ठां गच्छति, इति ।
परमः सर्वोत्तमः प्रजापतिर् एवेदम् इन्द्र-रूपो ऽभूद् इति देवा अब्रुवन् । तस्मात् परमे स्थित इत्य् अक्षर-साम्यात् परमेष्ठि-नाम संपन्नम् ।
मूलम्
य ए॒वव्ँ वेद॑ । प॒र॒मामे॒व काष्ठा॑ङ्गच्छति ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेद॑ पर॒मामे॒व काष्ठा॑ङ्गच्छति ।
मूलम्
य ए॒वव्ँ वेद॑ पर॒मामे॒व काष्ठा॑ङ्गच्छति ।
भट्टभास्कर-टीका
एवं वेदिता च परमां प्रकृष्टामैश्वर्यकाष्ठां गच्छति ॥
सायण-टीका
एतन्-नाम-वेदितैश्वर्यस्य काष्ठां प्राप्नोति ।
विश्वास-प्रस्तुतिः
तन्दे॒वास्स॑म॒न्तम्पर्य॑विशन् ।
मूलम्
तन्दे॒वास्स॑म॒न्तम्पर्य॑विशन् ।
भट्टभास्कर-टीका
6 अथ तं प्राप्तपरमेष्ठिभावमिन्द्र समंततः पर्यविशन् देवाः ।
सायण-टीका
अथेन्द्रस्य सर्व-देव-सेव्यत्वं दर्शयति—
तं देवाः समन्तं पर्यविशन् । वसवः पुरस्तात् । रुद्रा दक्षिणतः । आदित्याः पश्चात् । विश्वे देवा उत्तरतः । अङ्गिरसः प्रत्यञ्चम् (५) । साध्याः पराञ्चम् । य एवं वेद । उपैैनं समानाः संविशन्ति,
इति । सभायाम् उपविष्टं तम् इन्द्रं देवाः सर्वतः परिवेष्ट्यासेवन्त ।
[[P430]]
विश्वास-प्रस्तुतिः
वस॑वᳶ पु॒रस्ता॑त् +++(पर्यविशन्)+++।
रु॒द्रा द॑क्षिण॒तः +++(पर्यविशन्)+++।
आ॒दि॒त्याᳶ प॒श्चात् +++(पर्यविशन्)+++।
विश्वे॑ दे॒वा उ॑त्तर॒तः +++(पर्यविशन्)+++।
अङ्गि॑रसᳶ प्र॒त्यञ्च॑म् +++(पर्यविशन्)+++ ॥ 64 ॥
मूलम्
वस॑वᳶ पु॒रस्ता॑त् +++(पर्यविशन्)+++।
रु॒द्रा द॑क्षिण॒तः +++(पर्यविशन्)+++।
आ॒दि॒त्याᳶ प॒श्चात् +++(पर्यविशन्)+++।
विश्वे॑ दे॒वा उ॑त्तर॒तः +++(पर्यविशन्)+++।
अङ्गि॑रसᳶ प्र॒त्यञ्च॑म् +++(पर्यविशन्)+++ ॥ 64 ॥
भट्टभास्कर-टीका
वसवः पुरस्तादिति । प्रत्यञ्चमिति । यत्रक्कापि दिशि स्थिताः प्रत्यक्षं प्रतिमुखावस्थानं असेवन्त अङ्गिरसः ।
सायण-टीका
वस्वादयो गणाश् चतसृषु दिक्षु व्यवस्थिता उपविष्टाः । अङ्गिरः-प्रभृतयो महर्षयः क्वचिद् अप्य् उपवेशनम् अकृत्वा यदा यन्-मुखम् इन्द्रं प्रत्यञ्चं सम्मुखं कृत्वा सेवन्ते ।
विश्वास-प्रस्तुतिः
सा॒ध्याᳶ परा॑ञ्चम् +++(पर्यविशन्)+++।
मूलम्
सा॒ध्याᳶ परा॑ञ्चम् +++(पर्यविशन्)+++।
भट्टभास्कर-टीका
साध्याश्च यत्रक्वापि पराञ्चं पृष्ठतोसेवन्त ।
सायण-टीका
साध्याख्या देव-विशेषास् तम् इन्द्रं पराञ्चं विमुखं कृत्वा पृष्ठतः कृत्वा सेवन्ते ।
मूलम्
य ए॒वव्ँ वेद॑ । उपै॑नँ समा॒नास्सव्ँ वि॑शन्ति ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेदो॒पै॑नँ समा॒नास्सव्ँ वि॑शन्ति ।
मूलम्
य ए॒वव्ँ वेदो॒पै॑नँ समा॒नास्सव्ँ वि॑शन्ति ।
भट्टभास्कर-टीका
एवं वेदितारं समाना उपसंविशन्ति निकटे सेवन्ते ॥
सायण-टीका
एवं वेदितारम् एनं पुरुषं समानाः सर्वे पुरुषा उपेत्य समीपे उपविश्य सेवन्ते ।
विश्वास-प्रस्तुतिः
स प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा आव॑यत् ।
मूलम्
स प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा आव॑यत् ।
भट्टभास्कर-टीका
7 अथ इन्द्रो विधेयीकृतविश्वः प्रजापतिरेव भूत्वा प्रजापतितुल्यमहिमा भूत्वा सर्वाः प्रजा आवयत् अवेष्टयत् । वेञो लङ् । आवीता इव कृत्वा उपभुक्तवान् ।
सायण-टीका
अथेन्द्रस्य राज-नीत्या प्रजाभ्यः संपादन-प्रकारं दर्शयति—
स प्रजापतिर् एव भूत्वा प्रजा आवयत् । ता अस्मै नातिष्ठन्तान्नाद्याय । ता मुखं पुरस्तात् पश्यन्तीः । दक्षिणतः पर्ययन् । स दक्षिणतः पर्यवर्तयत । ता मुखं पुरस्तात् पश्यन्तीः । मुखं दक्षिणतः (६) । पश्चात् पर्ययन् । स पश्चात् पर्यवर्तयत । ता मुखं पुरस्तात् पश्यन्तीः, मुखं दक्षिणतः । मुखं पश्चात् । उत्तरतः पर्ययन् । स उत्तरतः पर्यवर्तयत । ता मुखं पुरस्तात् पश्यन्तीः । मुखं दक्षिणतः । मुखं पश्चात् । मुखम् उत्तरतः । ऊर्ध्वा उद्यन् । स उपरिष्टाद् अवर्तयत । ताः सर्वतो-मुखो भूत्वा ऽऽवयत् । ततो वै तस्मै प्रजा अतिष्ठन्तान्नाद्याय,
इति । स इन्द्रः स्वयं प्रजापतिर् एव प्रजापति-समान-सामर्थ्य-युक्त एव भूत्वा ताः प्रजा आवयत्, स्वाधीना अकरोत् ।
विश्वास-प्रस्तुतिः
ता अ॑स्मै॒ नाति॑ष्ठन्ता॒न्नाद्या॑य ।
मूलम्
ता अ॑स्मै॒ नाति॑ष्ठन्ता॒न्नाद्या॑य ।
भट्टभास्कर-टीका
अथ ताः प्रजाः अस्मा इद्राय अन्नाद्याय अन्नादनसामर्थ्याय नातिष्ठन्त नात्मानं प्रकाशितवत्यः । यथा अन्नमत्तुं न प्रभवेत् तथा अस्य मुखं परिहृत्य अन्यतरेत्य ताः पलायन्त । ‘प्रकाशनस्थेयाख्ययोश्च’ इत्यात्मनेपदम् । ‘श्लाघह्नुङ् स्थाशपाम्’ इति संप्रदानत्वम् ।
सायण-टीका
स्व-स्वोचितं करं दातुम् आज्ञापितवान् इत्य् अर्थः । ताः सर्वाः प्रजा अस्मा अस्येन्द्रस्यान्नाद्याय नातिष्ठन्त । अन्न-भोग-करं दातुं नाङ्गीकृतवन्त इत्य् अर्थः ।
मूलम्
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्तीः । द॒क्षि॒ण॒तᳶ पर्या॑यन् ।
विश्वास-प्रस्तुतिः
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्तीर् दक्षिण॒तᳶ पर्या॑यन् ।
मूलम्
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्तीर् दक्षिण॒तᳶ पर्या॑यन् ।
भट्टभास्कर-टीका
ता इत्यादि । ताः प्रजाः पूर्वस्यां दिशि अस्य मुखं पश्यन्तीः दक्षिणतः दक्षिणस्यां दिशि पर्यायन् परिगता ।
सायण-टीका
तास् तथा-विधाः पूर्वस्यां दिशि वर्तमाना इन्द्रस्य मुखे मुख्यं कंचिद् इन्द्रम् ईक्षितं कर-स्वीकार-क्षमं पूर्वस्यां दिशि पश्यन्त्यस् ततः पलाय्य दक्षिणस्यां दिशि पर्ययन् गताः ।
विश्वास-प्रस्तुतिः
स द॑क्षिण॒तᳶ पर्य॑वर्तयत ।
मूलम्
स द॑क्षिण॒तᳶ पर्य॑वर्तयत ।
भट्टभास्कर-टीका
अथेन्द्रो दक्षिणतोपि मुखं पर्यवर्तयत परिवृत्तमकुरुत ।
सायण-टीका
ततः स इन्द्रस् तद् अवगत्य स्व-मुख-समानं प्रबलं पुरुषं दक्षिणस्यां दिशि प्रेरितवान् ।
[[P431]]
मूलम्
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्तीः ।
मुख॑न्दक्षिण॒तः ॥ 65 ॥
प॒श्चात्पर्या॑यन् ।
स प॒श्चात्पर्य॑वर्तयत ।
विश्वास-प्रस्तुतिः
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्ती॒र् मुख॑न्दक्षिण॒तᳶ प॒श्चात्पर्या॑यन् ।
स प॒श्चात्पर्य॑वर्तयत ।
मूलम्
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्ती॒र् मुख॑न्दक्षिण॒तᳶ प॒श्चात्पर्या॑यन् ।
स प॒श्चात्पर्य॑वर्तयत ।
मूलम्
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्तीः । मुख॑न्दक्षिण॒तः । मुख॑म्प॒श्चात् । उ॒त्त॒र॒तᳶ पर्या॑यन् ।
विश्वास-प्रस्तुतिः
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्ती॒र् मुख॑न्दक्षिण॒तो मुख॑म्प॒श्चाद् उत्तर॒तᳶ पर्या॑यन् ।
स उ॑त्तर॒तᳶ पर्य॑वर्तयत ।
मूलम्
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्ती॒र् मुख॑न्दक्षिण॒तो मुख॑म्प॒श्चाद् उत्तर॒तᳶ पर्या॑यन् ।
स उ॑त्तर॒तᳶ पर्य॑वर्तयत ।
मूलम्
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्तीः ।
मुख॑न्दष्खिण॒तः ।
मुख॑म्प॒श्चात् ॥ 66 ॥
मुख॑मुत्तर॒तः ।
ऊ॒र्ध्वा उदा॑यन् ।
विश्वास-प्रस्तुतिः
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्ती॒र् मुख॑न्दष्खिण॒तो मुख॑म्प॒श्चान् मुख॑मुत्तर॒त ऊ॒र्ध्वा उदा॑यन् ।
स उ॒परि॑ष्टा॒न्न्य॑वर्तयत ।
तास्स॒र्वतो॑मुखो भू॒त्वाऽऽव॑यत् ।
मूलम्
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्ती॒र् मुख॑न्दष्खिण॒तो मुख॑म्प॒श्चान् मुख॑मुत्तर॒त ऊ॒र्ध्वा उदा॑यन् ।
स उ॒परि॑ष्टा॒न्न्य॑वर्तयत ।
तास्स॒र्वतो॑मुखो भू॒त्वाऽऽव॑यत् ।
भट्टभास्कर-टीका
एवं यत्रयत्रास्य मुखं पश्यन्ति ततस्ततोऽन्यत्र पर्यायन् । सोपि तत्र मुखं पर्यवर्तयत । सर्वाभ्यो दिग्भ्यो निवर्त्य उपरिष्टात् स्थापितवान् मुखं, ततस्सर्वतो मुखो भूत्वा सर्वासु दिक्षु प्रजा आवयत् भोग्या अकरोत् विधेयीकृतवान् ।
सायण-टीका
ततस् ताः प्रजा दिग्-द्वये ऽपि मुखं पश्यन्त्यः पश्चिमां दिशं प्राविशन् । एवं पश्चिम-उत्तर-ऊर्ध्व-दिक्षु योज्यम् । ततः स इन्द्रः पञ्चस्व् अपि दिक्षु स्व-कार्ये भृत्यान् अवस्थाप्य तद्-द्वारा स्वयं सर्वतो-मुखो भूत्वा सर्वाः प्रजा वशी-कृतवान् ।
विश्वास-प्रस्तुतिः
ततो॒ वै तस्मै॑ प्र॒जा अति॑ष्ठन्ता॒न्नाद्या॑य ।
मूलम्
ततो॒ वै तस्मै॑ प्र॒जा अति॑ष्ठन्ता॒न्नाद्या॑य ।
भट्टभास्कर-टीका
ततः प्रजाः तस्मा इन्द्राय अन्नाद्यायातिष्ठन्त आत्मानं प्रकाशितवत्यः ।
सायण-टीका
ततः प्रजाः पलायितुं दिग्-अन्तरम् अलभमाना अस्येन्द्रस्यान्नाद्य-रूपं करं दातुम् अङ्गीकृतवन्तः ।
मूलम्
य ए॒वव्ँ वि॒द्वान्परि॑ च व॒र्तय॑ते॒ नि च॑ । प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा अ॑त्ति ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वान्परि॑ च व॒र्तय॑ते॒ नि च॑ प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा अ॑त्ति ।
मूलम्
य ए॒वव्ँ वि॒द्वान्परि॑ च व॒र्तय॑ते॒ नि च॑ प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा अ॑त्ति ।
भट्टभास्कर-टीका
अथ एवं विद्वान् मुखं परिवर्तयते निवर्तयते च स्थाने प्रजापतिरेव भूत्वा सर्वाः प्रजा अत्ति विधेयीकृत्य भुङ्क्ते ।
सायण-टीका
एतद्-विज्ञानं प्रशंसति—
य एवं विद्वान् परं च वर्तयते नि च । प्रजापतिर् एव भूत्वा प्रजा अत्ति । तिष्ठन्ते ऽस्मै प्रजा अन्नाद्याय । अन्नाद एव भवति (७),
इति । यः पुमान् एवम् इन्द्रस्य परिपालन-प्रकारं विद्वान् परिवर्तयते निवर्तयते च, शिक्षकस्य प्रेरणं परिवर्तनं, शिक्षिताभ्यः प्रजाभ्यः स्व-पुरुष-निवारणं निवर्तनं, तद्-उभय-कुशलः स्वयं प्रजानां पालको भूत्वा सर्वाः प्रजा अत्त्य् अनुभवतीत्य् अर्थः ।
विश्वास-प्रस्तुतिः
तिष्ठ॑न्तेऽस्मै प्र॒जा अ॒न्नाद्या॑य ।
मूलम्
तिष्ठ॑न्तेऽस्मै प्र॒जा अ॒न्नाद्या॑य ।
भट्टभास्कर-टीका
प्रजाश्चास्मा अन्नाद्याय तिष्ठन्ते ।
सायण-टीका
ताश् च प्रजा अस्मै करं दातुम् अभ्युपगच्छन्ति,
विश्वास-प्रस्तुतिः
अ॒न्ना॒द ए॒व भव॑ति ॥ 67 ॥
मूलम्
अ॒न्ना॒द ए॒व भव॑ति ॥ 67 ॥
भट्टभास्कर-टीका
अन्नादश्च भवत्वेव ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके द्वितीयप्रपाठके दशमोऽनुवाकः ॥
सायण-टीका
असाव् अप्य् असंशयं भोग-संपन्नो भवति ॥
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे द्वितीय-प्रपाठके दशमो ऽनुवाकः ॥ १० ॥
-
क. ख. रुक्मपुङ्खा । ↩︎