०९ होतृमन्त्रोत्पत्तिकथनप्रसङ्गेन जगत्सृष्टिः ...{Loading}...
विश्वास-प्रस्तुतिः
इ॒दव्ँ वा अग्रे॒ नैव किञ्च॒ नासी॑त् ।
मूलम्
इ॒दव्ँ वा अग्रे॒ नैव किञ्च॒ नासी॑त् ।
भट्टभास्कर-टीका
1 इदं वा इत्यादि ॥ यदिदं दृश्यभूतं द्रव्यादिपदार्थषट्कात्मकं प्रपञ्चरूपं इदं किंचिदपि अग्रे आद्यसृष्टेः प्राक् नैवासीत् । किंचनग्रहणं कार्त्स्न्यनिषेधाय । इदंग्रहणं दृश्यनिषेधाय । एवमसच्छब्दस्य निमित्तार्थो दर्शितः ।
सायण-टीका
अष्टमे होतृ-मन्त्राणां सोम-अङ्गत्वेन प्रयोग उक्तः । अथ होतृ-मन्त्र-उत्पत्ति-कथनेन प्रसङ्गेन जगत्-सृष्टिर् नवमेऽभिधीयते—
इदं वा अग्रे नैव किञ्चनासीत् । न द्यौरासीत् । न पृथिवी । नान्तरिक्षम् । तदसदेव1 सन् मनोऽकुरुत स्यामिति । तदतप्यत । तस्मात् तेपानाद् धूमोऽजायत । तद् भूयोऽतप्यत । तस्मात् तेपानाद् अग्निर् अजायत । तद् भूयोऽतप्यत । तस्मात् तेपानाज् ज्योतिर् अजायत । तद् भूयोऽतप्यत । तस्मात् तेपानाद् अर्चिर् अजायत । तद् भूयोऽतप्यत । तस्मात् तेपानान् मरीचयोऽजायन्त । तद् भूयोऽतप्यत । तस्मात् तेपानाद् उदारा अजायन्त । तद् भूयोऽतप्यत । तदभ्रमिव समहन्यत,
इति ।
मूलम्
न द्यौरा॑सीत् । न पृ॑थि॒वी । नान्तरि॑क्षम् ।
विश्वास-प्रस्तुतिः
न द्यौरा॑सी॒न् न पृ॑थि॒वी नान्तरि॑क्षम् ।
मूलम्
न द्यौरा॑सी॒न् न पृ॑थि॒वी नान्तरि॑क्षम् ।
भट्टभास्कर-टीका
इदानीं विशेषतः प्रदर्शयति - न द्यौरित्यादि ।
सायण-टीका
[[P420]]
यदिदं स्थावर-जङ्गम-रूपं भू-लोकादि-रूपं च जगद् इदानीं दृश्यते तत् किम् अपि सृष्टेः पूर्वं नैवासीत् ।
विश्वास-प्रस्तुतिः
तदस॑दे॒व सन्मनो॑ऽकुरुत॒ स्यामिति॑ ।
मूलम्
तदस॑दे॒व सन्मनो॑ऽकुरुत॒ स्यामिति॑ ।
भट्टभास्कर-टीका
अथ प्रपञ्चोत्तीर्णं तत् ब्रह्म तेनैव प्रपञ्चरूपेण असत् अविद्यमानं औपाधिकं हि सत्त्वं ब्रह्मणः । तत्सदभवत् । कुतः? यतः मनोऽकुरुत स्यामिति; आचार्य उपनयत इतिवद्द्रष्टव्यम् । मनस्कार आदरः, प्रपञ्चात्मना स्यामिति यस्मादैक्षत तस्मात्सदभवत् । एतेन सच्छब्दस्य प्रवृत्तिनिमित्तं दर्शितम्, निर्वचनं च । स्वेच्छैव सामग्रीति दर्शयितुमेवकारः । ‘सदेव सोम्य’ इत्यत्र ‘बहु स्याम्’ इतीक्षणं लब्धसद्व्यपदेशस्य ।
सायण-टीका
तत् तादृशम् असद्-रूपम् एव वर्तमानं सद्-रूपतां प्राप्नुयाम् इत्य् एतादृशं मनो ऽकुरुत । तथा चोपनिषदि पूर्वम् असद्-रूपं पश्चात् सद्-रूपतोत्पत्तिश् च विस्पष्टम् आम्नायते—
“असद् वा इदम् अग्र आसीत् । ततो वै सद् अजायत”
इति । अत्रासच्-छब्देन न शश-विषाणादि-समानं शून्यत्वं विवक्षितं किं तर्ह्य् अनभिव्यक्त-नाम-रूपत्वम् । अत एव वाजसनेयिनः समामनन्ति—
“तद् धेदं तर्ह्य् अव्याकृतम् आसीत् । तन् नाम-रूपाभ्याम् एव व्याक्रियत”
इति । भूमिर् आप इत्यादिकं नाम । काठिन्य-द्रवादिकं रूपम् । तत्तद्-भूत(स्य भू)तत्रयाकारेण विस्पष्टम् आसमन्तान् निष्पादनं व्याकरणम् । तद्-रहितत्वेनाविस्पष्ट-दशापन्नत्वम् अव्याकृतत्वम् । तद् एवं मनुना स्मर्यते—
आसीद् इदं तमो-भूतम् अप्रज्ञातम् अलक्षणम् ।
अप्रतर्क्यम् अविज्ञेयं प्रसुप्तम् इव सर्वतः ॥
इति । शून्यत्व-विवक्षायां छन्दोग-श्रुतिर् विरुध्येत । छन्दोगा ह्य् एवम् आमनन्ति—
“सद् एव सोम्येदम् अग्र आसीद् एकमेवाद्वितीयम्”
इति । पुनर् अपि—“तद् धैक आहुर् असद् एवेदम् अग्र आसीत्” इति शून्यत्व-पक्षम् उपन्यस्य तन्-निराकरणम् एवम् आमनन्ति—
“कुतस् तु खलु सोम्येदं स्याद् इति होवाच कथम् असतः सज् जायेतेति । सद् एव सोम्येदम् अग्र आसीद् एकमेवाद्वितीयम्”
इति । ऐतरेयिणस् त्व् अधीयते—
“आत्मा वा इदम् एक एवाग्र आसीन् नान्यत् किंचन मिषत्”
इति । तस्मान् नैव किंचनासीद् इत्य् अयं निषेधः परमात्म-निर्मित-नामरूपात्मक-जगद्-विषयो न तु कृत्स्न-विषयः । नाम-रूप-रहितत्वेनासच्-छब्द-वाच्यं सद् एवावस्थितं परमात्म-तत्त्वं स्वात्मन्य् अन्तर्हित-प्राणि-कर्म-प्रेरितं सन् नाम-रूपाकारेणाविर्भवेयम् इति पर्या-लोचन-रूपं मनो ऽकुरुत ।
विश्वास-प्रस्तुतिः
तद॑तप्यत ।
मूलम्
तद॑तप्यत ।
भट्टभास्कर-टीका
अथ तन्मनस्कुर्वत् सत् अतप्यत ध्यानसंपादितं ‘चित्तिः स्रुक्’ इत्यादिकं अध्यात्मयागात्मकं तपोऽतप्यत । वक्ष्यति ‘असतोऽधि मनोऽसृज्यत’ इति । तत्र तदिति ब्रह्मणो यन्मनस्कुर्वन्मात्ररूपं तदुच्यते यत्तत्त्वानामाद्यं, पदानां परमं, तद्ब्रह्मणः आद्यं विजृम्भणं सदित्युच्यते स्यामिति संकल्पात् । अथ तस्य तप्यमानं रूपं तद्दशहोत्रात्मा प्रजापतिः, तस्य तप्यमानरूपस्य इयं वर्णना । वक्ष्यति ‘य एवं तपसो वीर्यं विद्वान्'21 इति ॥
सायण-टीका
यथा गाढ-निद्रां प्राप्तस्य पुरुषस्य कर्म-फल-भोगाय प्रबोध उत्पद्यते तथा सर्वान् प्राणिनः स्व-स्व-कर्म-फलं भोजयितुम् ईदृशो विचारः परमात्मनः प्रादुर् अभूत् । तथा-विध-विचार-युक्तं तत् परमात्म-तत्त्व-रूपं नाम-रूप-सृष्टि-साधन-रूपं तपो ऽकुरुत । नात्र तपः कृच्छ्र-चान्द्रायणादि-रूपम् । किंतु सृष्टव्य-पदार्थ-विशेष-विषयं पर्यालोचनम् । अत एवाथर्वणिका आमनन्ति—
“यः सर्वज्ञः सर्व-विद्यस्य ज्ञान-मयं तपः”
इति । कृच्छ्रादि-रूपत्व-अभावाद् अशरीरस्यापि सर्व-शक्ति-युक्तस्य पर्यालोचनम् उपपन्नम् । तादृशीं शक्तिं च श्वेताश्वतराः आमनन्ति—
“परा ऽस्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च”
इति । तच्-छक्ति-वशाद् एवेन्द्रिय-निरपेक्ष-व्यवहारं चात एवाऽऽमनन्ति—
“अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः”
इति । तस्माद् अचिन्त्य-शक्ति-परमेश्वरस्य लीला-विशेषो यथा-वचनम् अवबोद्धव्यः । वचनं चात्राऽऽआरण्यक आम्नायते—
“स तं मणिम् अविन्दत् । सो ऽनङ्गुलिर् आवयत् । सो ऽग्रीवः प्रत्यमुञ्चत्”
इति । तेन मानसं तपः कृतवान् इत्य् अर्थः ।
विश्वास-प्रस्तुतिः
तस्मा॑त्तेपा॒नाद्धू॒मो॑ऽजायत ।
तद्भूयो॑ऽतप्यत । तस्मा॑त्तेपा॒नाद॒ग्निर॑जायत ।
मूलम्
तस्मा॑त्तेपा॒नाद्धू॒मो॑ऽजायत ।
तद्भूयो॑ऽतप्यत । तस्मा॑त्तेपा॒नाद॒ग्निर॑जायत ।
भट्टभास्कर-टीका
2 तस्मादित्यादि ॥ तेपानात् तप्तवतः, लिटः कानजादेशः । धूमाग्नी गतौ ।
सायण-टीका
तादृशात् तस्मात् परमेश्वरात् स्व-संकल्पानुसारेण कश्चिद् धूम उदपद्यत । एवम् अग्न्यादयो ऽपि संकल्पाद् उत्पन्नाः । अग्निर् अङ्गारवान् ।
विश्वास-प्रस्तुतिः
तद्भूयो॑ऽतप्यत ॥ 50 ॥
तस्मा॑त्तेपा॒नाज्ज्योति॑रजायत ।
मूलम्
तद्भूयो॑ऽतप्यत ॥ 50 ॥
तस्मा॑त्तेपा॒नाज्ज्योति॑रजायत ।
भट्टभास्कर-टीका
ज्योतिः प्रकाशः ।
सायण-टीका
ज्योतिर् अङ्गार-निष्ठ-प्रकाशः ।
विश्वास-प्रस्तुतिः
तद्भूयो॑ऽतप्यत । तन्मा॑त्तेपा॒नाद॒र्चिर॑जायत ।
मूलम्
तद्भूयो॑ऽतप्यत । तन्मा॑त्तेपा॒नाद॒र्चिर॑जायत ।
भट्टभास्कर-टीका
अर्चिः ज्वाला ।
सायण-टीका
अर्चिर् ज्वाला ।
विश्वास-प्रस्तुतिः
तद्भूयो॑ऽतप्यत । तस्मा॑त्तेपा॒नान्मरी॑चयोऽजायन्त ।
मूलम्
तद्भूयो॑ऽतप्यत । तस्मा॑त्तेपा॒नान्मरी॑चयोऽजायन्त ।
भट्टभास्कर-टीका
मरीचयः शिखाः ।
सायण-टीका
मरीचयः सर्वत्र प्रसृत-प्रभा-द्रव्यम् ।
विश्वास-प्रस्तुतिः
तद्भूयो॑ऽतप्यत । तस्मा॑त्तेपा॒नादु॑दा॒रा अ॑जायन्त ।
मूलम्
तद्भूयो॑ऽतप्यत । तस्मा॑त्तेपा॒नादु॑दा॒रा अ॑जायन्त ।
भट्टभास्कर-टीका
उदाराः अधिष्ठानं भित्वा बहिर्गता दीप्तयः ।
सायण-टीका
उदारा उल्वण-ज्वालाः ।
विश्वास-प्रस्तुतिः
तद्भूयो॑ऽतप्यत । तद॒भ्रमि॑व॒ सम॑हन्यत ।
मूलम्
तद्भूयो॑ऽतप्यत । तद॒भ्रमि॑व॒ सम॑हन्यत ।
भट्टभास्कर-टीका
अथ तद्धूमादि सर्वं अभ्रमिव समहन्यत संहतमभवत् तपो वेगाध्मातं धूमादिभावेन परिणतं संहतमिव तदभवत् मूर्तमिव तदभवत् ।
सायण-टीका
तत् सर्वं धूम-ज्वालादिकं संघात-रूपं कठिनम् अभूत् । यथा—“धूम-ज्योतिः-सलिल-मरुतां संनिपातः क्व मेघः” इति तद्वत् ।
विश्वास-प्रस्तुतिः
तद्व॒स्तिम॑भिनत् ॥ 51 ॥
मूलम्
तद्व॒स्तिम॑भिनत् ॥ 51 ॥
भट्टभास्कर-टीका
अथ तदात्मनो वस्तिं अधःप्रदेशमभिनत् ।
सायण-टीका
तत् च घनी-भूतं वस्तु परमात्मनो वस्ति-स्थानम् आसीत् । वस्ति-शब्दार्थश् च आम्नायैर् दर्शितः—
“मूत्राशयो धनुर्-वक्रो वस्तिर् इत्य् अभिधीयते” ।
विश्वास-प्रस्तुतिः
स स॑मु॒द्रो॑ऽभवत् ।
मूलम्
स स॑मु॒द्रो॑ऽभवत् ।
भट्टभास्कर-टीका
अथ तेन यत् स्रुतमुदकं तत्समुद्रोऽभवत् ।
सायण-टीका
अथ समुद्रोत्पत्तिं दर्शयति—
तद् वस्तिम् अभिनत् । स समुद्रो ऽभवत् । तस्मात् समुद्रस्य न पिबन्ति । प्रजननम् इव हि मन्यन्ते । तस्मात् पशोर् जायमानाद् आपः पुरस्ताद् यन्ति,
इति । यद् एतत् समुद्र-पर्यन्तस्य वस्तुनः स्रष्टुः परमात्मनो रूपं वस्ति-स्थानीयं तस्य भेदम् अकरोत् । परितो मूत्राशये पूर्णे सति यथा लोके मेहन-द्वारा अम्भः-सृतिस् तद्वत् । स च प्रभिन्न-वस्ति-गतो जल-संघः समुद्र-रूपेण प्रादुर् अभूत् ।
विश्वास-प्रस्तुतिः
तस्मा॑त्समु॒द्रस्य॒ न पि॑बन्ति ।
मूलम्
तस्मा॑त्समु॒द्रस्य॒ न पि॑बन्ति ।
भट्टभास्कर-टीका
तस्मात्समुद्रजलं न पिबन्ति । कर्मणस्संप्रदानत्वमुक्तं, चतुर्थ्यर्थे षष्ठी ।
सायण-टीका
यस्मात् समुद्रस्य जलं प्रजननम् इव गर्भाशय-गतम् उदकम् इवास्पृश्यं मन्यन्ते तस्माच् छिष्टाः समुद्रस्य जलं न पिबन्ति ।
[[P422]]
विश्वास-प्रस्तुतिः
प्र॒जन॑नमिव॒ हि मन्य॑न्ते ।
मूलम्
प्र॒जन॑नमिव॒ हि मन्य॑न्ते ।
भट्टभास्कर-टीका
तस्मात्प्रजननमिव, यस्मान्मन्यन्ते तस्माद्गर्भस्य प्रजननं गर्भोदकम् ।
सायण-टीका
यस्माद् अस्ति प्रजनने गर्भाशये जलम्
विश्वास-प्रस्तुतिः
तस्मा॑त्प॒शोर्जाय॑माना॒दाप॑ᳶ पु॒रस्ता॑द्यन्ति ।
मूलम्
तस्मा॑त्प॒शोर्जाय॑माना॒दाप॑ᳶ पु॒रस्ता॑द्यन्ति ।
भट्टभास्कर-टीका
तस्मादद्यत्वेऽपि पशोर्जायमानात् पूर्वं आपो यन्ति निर्गच्छन्ति, पश्चात्पशुर्निर्गच्छति ।
सायण-टीका
तस्माल् लोके जायमानात् पशोः पुरस्ताद् आप एव निर्गच्छन्ति ।
विश्वास-प्रस्तुतिः
तद्दश॑हो॒ताऽन्व॑सृज्यत । प्र॒जाप॑ति॒र्वै दश॑होता ।
मूलम्
तद्दश॑हो॒ताऽन्व॑सृज्यत । प्र॒जाप॑ति॒र्वै दश॑होता ।
भट्टभास्कर-टीका
अथ तदनु वस्तिभेदानन्तरमेव दशहोता प्रजापतिरन्वसृज्यत उदपादि अजायत, प्रजाः भूतेन्द्रियाणि, यस्तेषामुत्पत्तिहेतुस्स प्रजापतिर्दशहोता ॥
सायण-टीका
अथ प्रकृतस्य होतृ-मत्रस्य सृष्टिम् आह—
तद् दश-होता ऽन्वसृज्यत । प्रजापतिर् वै दशहोता,
इति । ततस् तत्-समुद्र-पर्यन्तं सृष्टं जगत्-तत्-पश्चाच्-चित्तिः स्रुग्-इत्यादिर् दश होता ऽसृज्यत । तन्-मन्त्र-प्रतिपाद्य-आकार-युक्त-प्रजापतिर् एवात्र दशहोता ।
मूलम्
य ए॒वन्तप॑सो वी॒र्यव्ँ॑वि॒द्वाँस्तप्य॑ते । भव॑त्ये॒व ।
विश्वास-प्रस्तुतिः
य ए॒वन्तप॑सो वी॒र्यव्ँ॑वि॒द्वाँस्तप्य॑ते॒ भव॑त्ये॒व ।
मूलम्
य ए॒वन्तप॑सो वी॒र्यव्ँ॑वि॒द्वाँस्तप्य॑ते॒ भव॑त्ये॒व ।
भट्टभास्कर-टीका
य एवमित्यादि । पूर्वोक्तस्य तपसः सामर्थ्यं विद्वान् यः स्वयं तपः करोति सोऽयमैश्वर्यं प्राप्नोत्येव ॥
सायण-टीका
यथोक्तस्य परमात्म-तपसो वेदनं प्रशंसति—
य एवं तपसो वीर्यं विद्वान्स् तप्यते भवत्य् एव,
इति । पूर्वोक्तस्य तपः-सामर्थ्यं विद्वान् यः स्वयं तपः करोति सो ऽयम् ऐश्वर्यं प्राप्नोत्येव ।
मूलम्
तद्वा इ॒दमाप॑स्सलि॒लमा॑सीत् ।
सो॑ऽरोदीत्प्र॒जाप॑तिः ॥ 52 ॥
स कस्मा॑ अज्ञि ।
यद्य॒स्या अप्र॑तिष्ठाया॒ इति॑ ।
यद॒प्स्व॑वाप॑द्यत ।
सा पृ॑थि॒व्य॑भवत् ।
यद्व्यमृ॑ष्ट ।
तद॒न्तरि॑क्षमभवत् ।
यदू॒र्ध्वमु॒दमृ॑ष्ट ।
सा द्यौर॑भवत् ।
यदरो॑दीत् ।
तद॒नयो॑ रोद॒स्त्वम् ॥ 53 ॥
य ए॒वव्ँ वेद॑ ।
नास्य॑ गृ॒हे रु॑दन्ति ।
ए॒तद्वा ए॒षाल्ँ लो॒काना॒ञ्जन्म॑ ।
य ए॒वमे॒षाल्ँ लो॒काना॒ञ्जन्म॒ वेद॑ ।
नैषु लो॒केष्वार्ति॒मार्च्छ॑ति ।
विश्वास-प्रस्तुतिः
तद्वा इ॒दमाप॑स्सलि॒लमा॑सीत् ।
मूलम्
तद्वा इ॒दमाप॑स्सलि॒लमा॑सीत् ।
भट्टभास्कर-टीका
3 अथ लोकत्रयसृष्टिं दर्शयति - तद्वा इवादि ॥ तदिदं परमात्मना सृष्टं जगत् समुद्ररूपेण सलिलमासीत् । तस्मिन् सलिले पृथिवीमिश्रणं वारयितुमाप इत्युक्तम् ।
सायण-टीका
अथ लोक-त्रय-सृष्टिं दर्शयति—
तद्वा इदम् आपः सलिलम् आसीत् । सो ऽरोदीत् प्रजापतिः (३) । स कस्मा अज्ञि । यद्यस्या अप्रतिष्ठाया इति । यद् अप्स्व् अवापद्यत । सा पृथिव्य् अभवत् । यद् व्यमृष्ट । तद् अन्तरिक्षम् अभवत् । यद् ऊर्ध्वम् उदमृष्ट । सा द्यौर् अभवत् । यद् अरोदीत् । तद् अनयो रोदस्त्वम् (४) । य एवं वेद । नास्य गृहे रुदन्ति । एतद् वा एषां लोकानां जन्म । य एवम् एषां लोकानां जन्म वेद । नैषु लोकेष्व् आर्तिम् आर्च्छति । स इमां प्रतिष्ठाम् अविन्दत,
इति । तद् इदं परमात्मना सृष्टं जगत्-समुद्र-रूपेण सलिलम् आसीत् । तस्मिन् सलिले पृथिवी-मिश्रणं वारयितुम् आप इत्य् उक्तम् । केवलं जलम् एवाऽऽसीद् इत्य् अर्थः ।
विश्वास-प्रस्तुतिः
सो॑ऽरोदीत्प्र॒जाप॑ति॒स् “स कस्मा॑ अज्ञि॒, “यद्य॒स्या अप्र॑तिष्ठाया॒” इति॑ ।
मूलम्
सो॑ऽरोदीत्प्र॒जाप॑ति॒स् “स कस्मा॑ अज्ञि॒, “यद्य॒स्या अप्र॑तिष्ठाया॒” इति॑ ।
भट्टभास्कर-टीका
केवलं जलमेवासीदित्यर्थः तदिदं निरन्तरं जलं दृष्ट्वा दशहोतृरूपः स प्रजापतिररोदीत् । रुदतस्तस्यायमभिप्रायः - यद्यहमप्रतिष्ठाया अवस्थातुमयोग्यायाः अविद्यमानायाः अस्याः पृथिव्यास्सकाशात् किमपि प्राणिजातं स्रष्टुं न शक्नोमि, तर्हि तादृशस्सोहं कस्मा अज्ञि किमर्थमुत्पादितोस्मीति ।
सायण-टीका
तद् इदं निरन्तरं जलं दृष्ट्वा दश-होतृ-रूपः स प्रजापतिर् अरोदीत् । रुदतस् तस्यायम् अभिप्रायः, यद्य् अहम् अप्रतिष्ठाया अवस्थातुम् अयोग्याया अविद्यमानाया अस्याः पृथिव्याः सकाशात् किम् अपि प्राणि-जातं स्रष्टुं न शक्नोमि तर्हि तादृशः सो ऽहं कस्मा अज्ञि किम्-अर्थम् उत्पादितो ऽस्मीति
विश्वास-प्रस्तुतिः
यद॒प्स्व॑वाप॑द्यत॒ सा पृ॑थि॒व्य॑भवत् ।
मूलम्
यद॒प्स्व॑वाप॑द्यत॒ सा पृ॑थि॒व्य॑भवत् ।
भट्टभास्कर-टीका
रुदतस्तस्य यन्नेत्रजलादिकं समुद्ररूपास्वप्सु पतितं तत् घनीभूतं पृथिव्यभवत् ।
सायण-टीका
रुदतस् तस्य यन्-नेत्र-जलादिकं समुद्र-रूपास्व् अप्सु पतितं तद् घनी-भूतं पृथिव्य् अभवत् ।
[[P423]]
विश्वास-प्रस्तुतिः
यद्व्यमृ॑ष्ट॒ तद॒न्तरि॑क्षमभवत् ।
मूलम्
यद्व्यमृ॑ष्ट॒ तद॒न्तरि॑क्षमभवत् ।
भट्टभास्कर-टीका
तस्याः पृथिव्याः उपर्युच्चावचभावं वारयितुं विविधं मार्जनं कृतवान् । तच्च मृष्टं स्थानमन्तरिक्षमभूत् ।
सायण-टीका
तस्याः पृथिव्या उपरि उच्चावच-भावं वारयितुं विविधं मार्जनं कृतवान् । तच् च सृष्टं स्थानम् अन्तरिक्षम् अभूत् ।
विश्वास-प्रस्तुतिः
यदू॒र्ध्वमु॒दमृ॑ष्ट॒ सा द्यौर॑भवत् ।
मूलम्
यदू॒र्ध्वमु॒दमृ॑ष्ट॒ सा द्यौर॑भवत् ।
भट्टभास्कर-टीका
ततो हस्तमूर्ध्वं प्रसार्य यत्स्थानममृष्ट सा द्यौरभवत् ।
सायण-टीका
ततो हस्तम् ऊर्ध्वं प्रसार्य यत् स्थानम् अमृष्ट सा द्यौर् अभवत् ।
विश्वास-प्रस्तुतिः
यदरो॑दी॒त् तद॒नयो॑ रोद॒स्त्वम् ॥ 53 ॥
मूलम्
यदरो॑दी॒त् तद॒नयो॑ रोद॒स्त्वम् ॥ 53 ॥
भट्टभास्कर-टीका
यस्मात्प्रजापतिररोदीत् तेन च रोदनेन द्यावाथिव्यौ उत्पन्नो । तस्माद्रोदश्शब्दाभिधेयत्वं तयोत्संपन्नम् ।
सायण-टीका
यस्मात् प्रजापतिर् अरोदीत् तेन च रोदनेन द्यावा-पृथिव्याव् उत्पन्नौ । तस्माद् रोदः-शब्दाभिधेयत्वं तयोः संपन्नम् ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेद॒ नास्य॑ गृ॒हे रु॑दन्ति ।
मूलम्
य ए॒वव्ँ वेद॒ नास्य॑ गृ॒हे रु॑दन्ति ।
भट्टभास्कर-टीका
तं प्रकारं वेदितुर्गृहे बन्धुमरणाभावान्न केऽपि रुदन्ति । योऽयं लोकत्रयजन्मप्रकारं वेद तद्वेत्ता लोकत्रये नाशं न प्राप्नोति ।
सायण-टीका
तं प्रकारं वेदितुर् गृहे बन्धु-मरण-अभावान् न के ऽपि रुदन्ति । यो ऽयं लोक-त्रय-जन्म-प्रकारं वेद तद्-वेत्ता लोक-त्रये नाशं न प्राप्नोति ।
विश्वास-प्रस्तुतिः
ए॒तद्वा ए॒षाल्ँ लो॒काना॒ञ्जन्म॑ । य ए॒वमे॒षाल्ँ लो॒काना॒ञ्जन्म॒ वेद॒ नैषु लो॒केष्वार्ति॒मार्च्छ॑ति ।
मूलम्
ए॒तद्वा ए॒षाल्ँ लो॒काना॒ञ्जन्म॑ । य ए॒वमे॒षाल्ँ लो॒काना॒ञ्जन्म॒ वेद॒ नैषु लो॒केष्वार्ति॒मार्च्छ॑ति ।
भट्टभास्कर-टीका
स प्रजापतिरिमां पृथिवीं प्रतिष्ठां स्रक्ष्यमाणप्राण्याधारभूतामलभत ॥
सायण-टीका
स प्रजापतिर् इमां पृथिवीं प्रतिष्ठां स्रक्ष्यमाण-प्राणि-आधार-भूताम् आलभत ।
विश्वास-प्रस्तुतिः
स इ॒माम्प्र॑ति॒ष्ठाम॑विन्दत । स इ॒माम्प्र॑ति॒ष्ठाव्ँ वि॒त्वाऽका॑मयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो॑ऽन्तर्वा॑नभवत् ।
मूलम्
स इ॒माम्प्र॑ति॒ष्ठाम॑विन्दत । स इ॒माम्प्र॑ति॒ष्ठाव्ँ वि॒त्वाऽका॑मयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो॑ऽन्तर्वा॑नभवत् ।
भट्टभास्कर-टीका
4 अथ तस्यां पृथिव्यामासुरसुष्टिं दर्शयति - स इमामित्यादि ॥ स प्रजापतिः इमां भूमिं स्रक्ष्यमाणप्राण्याधारयोग्यां लब्ध्या प्रजोत्पादनं कामयमानः तदुपायपर्यालोचनरूपं तपः कृत्वा स्वयमेव देहान्तरेण गर्भवानभूत् ।
सायण-टीका
अथ तस्यां पृथिव्याम् असुर-सृष्टिं दर्शयति—
स इमां प्रतिष्ठां वित्त्वा ऽकामयत प्रजायेय इति । स तपो ऽतप्यत । सो ऽन्तर्वान् अभवत् । स जघनाद् असुरान् असृजत (५) । तेभ्यो मृन्-मये पात्रे ऽन्नम् अदुहत् । या ऽस्य सा तनूर् आसीत् । ताम् अपोहत । सा तमिस्रा ऽभवत्,
इति । प्रजापतिर् इमां भूमिं स्रक्ष्यमाण-प्राण्याधार-योग्यां लब्ध्वा प्रजोत्पादनं कामयमानस् तद्-उपाय-पर्यालोचन-रूपं तपः कृत्वा स्वयम् एव देहान्तरेण गर्भवान् अभूत् ।
विश्वास-प्रस्तुतिः
स ज॒घना॒दसु॑रानसृजत ॥ 54 ॥
मूलम्
स ज॒घना॒दसु॑रानसृजत ॥ 54 ॥
भट्टभास्कर-टीका
तस्य गर्भयुक्तस्य जघनभागादसुरानसृजत ।
सायण-टीका
तस्य गर्भ-युक्तस्य जघन-भागाद् असुरान् असृजत ।
विश्वास-प्रस्तुतिः
तेभ्यो॑ मृ॒न्मये॒ पात्रेऽन्न॑मदुहत् ।
मूलम्
तेभ्यो॑ मृ॒न्मये॒ पात्रेऽन्न॑मदुहत् ।
भट्टभास्कर-टीका
तेभ्यः कस्मिंश्चिन्मृत्पात्रे भोजनार्थमन्नं प्रक्षिप्य दत्तवान् ।
सायण-टीका
तेभ्यः कस्मिंश्चिन् मृत्-पात्रे भोजनार्थम् अन्नं प्रक्षिप्य दत्तवान् ।
मूलम्
याऽस्य॒ सा त॒नूरासी॑त् । तामपा॑हत ।
विश्वास-प्रस्तुतिः
याऽस्य॒ सा त॒नूरासी॒त् तामपा॑हत ।
मूलम्
याऽस्य॒ सा त॒नूरासी॒त् तामपा॑हत ।
भट्टभास्कर-टीका
ततोऽसुराणामुत्पादिका या स्वीया तनूस्तां विनाशितवान् ।
सायण-टीका
ततो ऽसुराणाम् उत्पादिका या स्वकीया तनूस् तां विनाशितवान् ।
विश्वास-प्रस्तुतिः
सा तमि॑स्राऽभवत् ।
मूलम्
सा तमि॑स्राऽभवत् ।
भट्टभास्कर-टीका
सा तनूश्शरीराकारं परित्यज्य तमोयुक्ता रात्रिरभवत् ॥
सायण-टीका
सा तनुः शरीर-आकारं परित्यज्य तमो-युक्ता रात्रिर् अभवत् ।
विश्वास-प्रस्तुतिः
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो॑न्तर्वा॑नभवत् ।
मूलम्
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो॑न्तर्वा॑नभवत् ।
भट्टभास्कर-टीका
5 अथ मनुष्यादिसृष्टिं दर्शयति - सोकामयतेत्यादि ॥
सायण-टीका
अथ मनुष्यादि-सृष्टिं दर्शयति—
सो ऽकामयत प्रजायेयेति । स तपो ऽतप्यत । सो ऽन्तर्वान् अभवत् । स प्रजननाद् एव प्रजा असृजत । तस्माद् इमा भूयिष्ठाः । प्रजननाच् चैना असृजत (६) । ताभ्यो दारु-मये पात्रे पयो ऽदुहत् । या ऽस्य सा तनूर् आसीत् । ताम् अपाहत । सा ज्योत्स्ना ऽभवत्
इति ।
[[P424]]
मूलम्
स प्र॒जन॑नादे॒व प्र॒जा अ॑सृजत । तस्मा॑दि॒मा भूयि॑ष्ठाः । प्र॒जन॑ना॒द्ध्ये॑ना॒ असृ॑जत ॥ 55 ॥
विश्वास-प्रस्तुतिः
तस्मा॑दि॒मा भूयि॑ष्ठाःᳶ प्र॒जन॑ना॒द्ध्ये॑ना॒ असृ॑जत ॥ ताभ्यो॑ दारु॒मये॒ पात्रे॒ पयो॑ऽदुहत् ।
मूलम्
तस्मा॑दि॒मा भूयि॑ष्ठाःᳶ प्र॒जन॑ना॒द्ध्ये॑ना॒ असृ॑जत ॥ ताभ्यो॑ दारु॒मये॒ पात्रे॒ पयो॑ऽदुहत् ।
भट्टभास्कर-टीका
प्रजननात्प्रजोत्पादनसमर्थाद्द्वारात् हि यस्मादुत्पादनसामर्थ्यं कारणं तस्मात्प्रजा अत्यन्तबहुलाः ।
सायण-टीका
प्रजननात् प्रजोत्पादन-समर्थाद् द्वाराद् धि यस्माद् उत्पादन-सामर्थ्यं कारणं तस्मात् प्रजा अत्यन्त-बहुलाः ।
मूलम्
याऽस्य॒ सा त॒नूरासी॑त् । तामपा॑हत । सा जोत्स्ना॑ऽभवत् ।
विश्वास-प्रस्तुतिः
याऽस्य॒ सा त॒नूरासी॑त् तामपा॑हत । सा जोत्स्ना॑ऽभवत् ।
मूलम्
याऽस्य॒ सा त॒नूरासी॑त् तामपा॑हत । सा जोत्स्ना॑ऽभवत् ।
भट्टभास्कर-टीका
जोत्स्ना चन्द्रप्रकाशः । अन्यत्पूर्ववद्व्याख्येयम् ॥
सायण-टीका
ज्योत्स्ना चन्द्र-प्रकाशा । अन्यत् पूर्ववद् व्याख्येयम् ।
विश्वास-प्रस्तुतिः
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो॑ऽन्तर्वा॑नभवत् । स उ॑पप॒क्षाभ्या॑मे॒वर्तून॑सृजत । तेभ्यो॑ रज॒ते पात्रे॑ घृ॒तम॑दुहत् ।
मूलम्
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो॑ऽन्तर्वा॑नभवत् । स उ॑पप॒क्षाभ्या॑मे॒वर्तून॑सृजत । तेभ्यो॑ रज॒ते पात्रे॑ घृ॒तम॑दुहत् ।
मूलम्
याऽस्य॒ सा त॒नूरासी॑त् ॥ 56 ॥
तामपा॑हत ।
विश्वास-प्रस्तुतिः
याऽस्य॒ सा त॒नूरासी॒त् तामपा॑हत । सो॑ऽहोरा॒त्रयो॑स्स॒न्धिर॑भवत् ।
मूलम्
याऽस्य॒ सा त॒नूरासी॒त् तामपा॑हत । सो॑ऽहोरा॒त्रयो॑स्स॒न्धिर॑भवत् ।
भट्टभास्कर-टीका
6 अथ वसन्तादिकालाभिमानिपुरुषस्य सृष्टिं दर्शयति - सोकामयतेत्यादि । पूर्ववद्व्याख्येयम् ॥
सायण-टीका
अथ वसन्तादि-कालाभिमानि-पुरुषस्य सृष्टिं दर्शयति—
सो ऽकामयत प्रजायेयेति । स तपो ऽतप्यत । सो ऽन्तर्वान् अभवत् । स उपपक्षाभ्याम् ऋतून् असृजत । तेभ्यो रजते पात्रे घृतम् अदुहत् । या ऽस्य सा तनूर् आसीत् (७) । ताम् अपाहत । सो ऽहोरात्रयोः संधिर् अभवत्,
इति । पूर्ववद् व्याख्येयम् ।
विश्वास-प्रस्तुतिः
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ ।
स तपो॑ऽतप्यत ।
सो॑ऽन्तर्वा॑नभवत् ।
स मुखा॑द्दे॒वान॑सृजत ।
तेभ्यो॒ हरि॑ते॒ पात्रे॒ सोम॑मदुहत् ।
मूलम्
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ ।
स तपो॑ऽतप्यत ।
सो॑ऽन्तर्वा॑नभवत् ।
स मुखा॑द्दे॒वान॑सृजत ।
तेभ्यो॒ हरि॑ते॒ पात्रे॒ सोम॑मदुहत् ।
मूलम्
याऽस्य॒ सा त॒नूरासी॑त् । तामपा॑हत ।
विश्वास-प्रस्तुतिः
याऽस्य॒ सा त॒नूरासी॒त् तामपा॑हत । तदह॑रभवत् ॥ 57 ॥
मूलम्
याऽस्य॒ सा त॒नूरासी॒त् तामपा॑हत । तदह॑रभवत् ॥ 57 ॥
भट्टभास्कर-टीका
7 अथ देवसृष्टिं दर्शयति - सोकामयतेत्यादि । पूर्ववद्व्याख्येयम् ॥
सायण-टीका
अथ देव-सृष्टिं दर्शयति—
सो ऽकामयत प्रजायेयेति । स तपो ऽतप्यत । सो ऽन्तर्वान् अभवत् । स मुखाद् देवान् असृजत । तेभ्यो हरिते पात्रे सोमम् अदुहत् । या ऽस्य सा तनूर् आसीत् । ताम् अपाहत । तद् अहर् अभवत् (८),
इति । पूर्ववद् व्याख्येयम् ।
मूलम्
ए॒ते वै प्र॒जाप॑ते॒र्दोहाः॑ । य ए॒वव्ँ वेद॑ । दु॒ह ए॒व प्र॒जाः ।
विश्वास-प्रस्तुतिः
ए॒ते वै प्र॒जाप॑ते॒र्दोहा॒ य ए॒वव्ँ वेद॑ दु॒ह ए॒व प्र॒जाः ।
मूलम्
ए॒ते वै प्र॒जाप॑ते॒र्दोहा॒ य ए॒वव्ँ वेद॑ दु॒ह ए॒व प्र॒जाः ।
भट्टभास्कर-टीका
8 अथोक्तानामन्नपयोघृतसोमानां वेदनं प्रशंसति - एते वा इत्यादि ॥ गोभ्यः क्षीरमिव प्रजाभ्यो धनं लभत इत्यर्थः ॥
सायण-टीका
अथोक्तानाम् अन्न-पयो-घृत-सोमानां वेदनं प्रशंसति—
एते वै प्रजापतेर् दोहाः । य एवं वेद । दुह एव प्रजाः,
इति । गोभ्यः क्षीरम् इव प्रजाभ्यो धनं लभत इत्य् अर्थः ।
मूलम्
दिवा॒ वै नो॑ऽभू॒दिति॑ । तद्दे॒वाना॑न्देव॒त्वम् । य ए॒वन्दे॒वाना॑न्देव॒त्वव्ँ वेद॑ । दे॒ववा॑ने॒व भ॑वति ।
विश्वास-प्रस्तुतिः
दिवा॒ वै नो॑ऽभू॒दिति॒ तद्दे॒वाना॑न्देव॒त्वम् ।
य ए॒वन्दे॒वाना॑न्देव॒त्वव्ँ वेद॑ दे॒ववा॑ने॒व भ॑वति ।
मूलम्
दिवा॒ वै नो॑ऽभू॒दिति॒ तद्दे॒वाना॑न्देव॒त्वम् ।
य ए॒वन्दे॒वाना॑न्देव॒त्वव्ँ वेद॑ दे॒ववा॑ने॒व भ॑वति ।
भट्टभास्कर-टीका
9 देवतावेदनं प्रशंसति - दिवा वा इत्यादि ॥ देवानामुत्पादिका या प्रजापतेस्तनूः सेयमहोरूपेणग निष्पन्ना । अतो देवा हर्षादस्माकं दिवैवाभूदित्युच्चारितवन्तः । अतो दिवायोगेन देवत्वं संपन्नम् । तद्वेदिता देववान् प्रकाशवान् भवति ॥
सायण-टीका
देवता-वेदनं प्रशंसति—
दिवा वै नो ऽभूतिः । तद् देवानां देवत्वम् । य एवं देवानां देवत्वं वेद । देववान् एव भवति,
इति । देवानाम् उत्पादिका या प्रजापतेस् तनूः सेयम् अहो-रूपेण निष्पन्ना । अतो देवा हर्षाद् अस्माकं दिवैवाभूद् इत्य् उच्चारितवन्तः । [[P425]] अतो दिवा-योगेन देवत्वं संपन्नम् । तद्-वेदिता देववान् प्रकाशवान् भवति ।
मूलम्
ए॒तद्वा अ॑होरा॒त्राणा॒ञ्जन्म॑ । य ए॒वम॑होरा॒त्राणा॒ञ्जन्म॒ वेद॑ । नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति ॥ 58 ॥
विश्वास-प्रस्तुतिः
य ए॒वम॑होरा॒त्राणा॒ञ्जन्म॒ वेद॒ नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति ॥ 58 ॥
मूलम्
य ए॒वम॑होरा॒त्राणा॒ञ्जन्म॒ वेद॒ नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति ॥ 58 ॥
भट्टभास्कर-टीका
10 तदेतद्देवासुरोत्पादकतनूभ्यामहोरात्रयोर्जन्म, तस्य वेदनं प्रशंसति - एतद्वा इत्यादि ॥
सायण-टीका
तद् एतद् एवासुरोत्पादक-तनूभ्याम् अहोरात्रयोर् जन्म, तस्य वेदनं प्रशंसति—
एता अहोरात्राणां जन्म । य एवम् अहोरात्राणां जन्म वेद । नाहोरात्रेष्व् आर्तिम् आर्च्छति (९),
इति ।
विश्वास-प्रस्तुतिः
अस॒तोऽधि॒ मनो॑ऽसृज्यत ।
मन॑ᳶ प्र॒जाप॑तिमसृजत ।
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
मूलम्
अस॒तोऽधि॒ मनो॑ऽसृज्यत ।
मन॑ᳶ प्र॒जाप॑तिमसृजत ।
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
मूलम्
तद्वा इ॒दम्मन॑स्ये॒व प॑र॒मम्प्रति॑ष्ठितम् । यदि॒दङ्किञ्च॑ । तदे॒तच्छ्वो॑वस्य॒सन्नाम॒ ब्रह्म॑ ।
विश्वास-प्रस्तुतिः
तद्वा इ॒दम्मन॑स्ये॒व प॑र॒मम्प्रति॑ष्ठित॒य्ँ॑ यदि॒दङ्किञ्च॒ तदे॒तच्छ्वो॑वस्य॒सन्नाम॒ ब्रह्म॑ ।
मूलम्
तद्वा इ॒दम्मन॑स्ये॒व प॑र॒मम्प्रति॑ष्ठित॒य्ँ॑ यदि॒दङ्किञ्च॒ तदे॒तच्छ्वो॑वस्य॒सन्नाम॒ ब्रह्म॑ ।
भट्टभास्कर-टीका
11 ‘तदसदेव सन्मनोकुरुत स्याम्’ इति प्रथमभावि परमात्मनो यन्मनः पूर्वमुक्तः तदेतन्मनः प्रशंसति - असतोऽधीत्यादि ॥ यत्किंचिदिदं जगदिदानीं दृश्यते तदिदं सर्व मूलकारणे परमात्ममनस्येव सम्यक्प्रतिष्ठितम् । सत्संकल्पाधीना असतः सृष्टिस्थितिप्रलयाः । तदेतत्संकल्पितार्थं मनः श्वोवस्यसनामकं ब्रह्म । यदुत्तरोत्तरदिने वसीयः अतिशयेन श्रेष्ठं श्वोवस्यसम् । द्विविधं हि ब्रह्म ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्येवंलक्षणं सजातीयविजातीयस्वगतभेदरहितत्वान्निजस्वरूपमात्रे पर्यवसितं सर्वजनैकरूपमेकं ब्रह्म । अत एव तदेतच्छ्वोवस्यसं न भवति निर्विकारत्वेन तस्य स्रष्टृत्वाभावात् । तदेव सर्वसृष्टिगोचरशक्तियुक्तं सत्सोपाधिकत्वेनान्यद्ब्रह्म भवति । संकल्पपरंपरया प्रतिक्षणमुत्तरोत्तराधिकजगत्स्रष्टृत्वादीदृग्ब्रह्मरूपत्वान्मनः प्रशस्तम् ॥
सायण-टीका
“तद् असद् एव सन् मनो ऽकुरुत स्याम्” इति प्रथम-भावि परमात्मनो यन् मनः पूर्वम् उक्तं तद् एतन् मनः प्रशंसति—
असतो ऽधि मनो ऽसृज्यत । मनः प्रजापतिम् असृजत । प्रजापतिः प्रजा असृजत । तद् वा इदं मनस्य् एव परमं प्रतिष्ठितम् । यदिदं किंच । तद् एतच् छ्वो-वस्यसं नाम ब्रह्म,
इति । यत् किंचिद् इदं जगद् इदानीं दृश्यते तद् इदं सर्वं मूल-कारणे परमात्म-मनस्य् एव सम्यक् प्रतिष्ठितम् । सत्-संकल्पाधीना असतः सृष्टि-स्थिति-प्रलयाः । तद् एतत् संकल्पितार्थं मनः श्वो-वस्यस-नामकं ब्रह्म । यद् उत्तरोत्तर-दिने वसीयो ऽतिशयेन श्रेष्ठं श्वो-वस्यसम् । द्विविधं हि ब्रह्म—“सत्यं ज्ञानम् अनन्तं ब्रह्म” इत्य् एवं-लक्षणं सजातीय-विजातीय-स्वगत-भेद-रहितत्वान् निज-स्वरूप-मात्रे पर्यवसितं सर्व-जनैकरूपम् एकं ब्रह्म । अत एव तद् एतच् छ्रेयस्यं न भवति । निर्विकारत्वेन तस्य स्रष्टृत्वाभावात् । तद् एव सर्व-सृष्टि-गोचर-शक्तियुक्तं सत् सोपाधिकत्वेन अन्यद् ब्रह्म भवति । संकल्प-परम्परया प्रति-क्षणम् उत्तरोत्तराधिक-जगत्-स्रष्टृत्वाद् ईदृग्-ब्रह्म-रूपत्वान् मनः प्रशस्तम् ।
विश्वास-प्रस्तुतिः
व्यु॒च्छन्ती॑व्युच्छन्त्यस्मै॒ वस्य॑सीवस्यसी॒ व्यु॑च्छति ।
मूलम्
व्यु॒च्छन्ती॑व्युच्छन्त्यस्मै॒ वस्य॑सीवस्यसी॒ व्यु॑च्छति ।
भट्टभास्कर-टीका
12 तदेतद्वृत्तान्तवेदनं प्रशंसति - व्युच्छन्तीत्यादि । यथोक्तं ब्रह्मसृष्टिप्रकारं विदित्वोपास्तेऽस्मै वेदित्रे प्रतिदिनं प्रभातं कुर्वती देवता पुनरधिकश्रेयस्करा सती प्रभातं करोति, दिनेदिने श्रेयोऽभिवर्धत इत्यर्थः ।
सायण-टीका
तद् एतद्-वृत्तान्त-वेदनं प्रशंसति—
व्युच्छन्तीं व्युच्छन्त्य् अस्मै वस्यसी-वस्यसी व्युच्छति । प्रजायते प्रजया पशुभिः । प्र परमेष्ठिनो मात्राम् आप्नोति । य एवं वेद (१०),
इति ।
[[P426]]
इदं धूमो ऽग्निर् जयोतिर् अर्चिर् मरीचय उदाराः, तद् अभ्रम् जघनात् सा तमिस्रा सप्रजननात् सा ज्योत्स्ना स उपपक्षाभ्यां सो ऽहोरात्रयोः संधिः स मुखात् तद् अहर् देववान् असतो ऽधि मृन्मये दारुमये रजते हरिते तेभ्यस् ताभ्यो द्वे ते ऽन्नं पयोघृतं सोमं य एवं वेदोपैनं, तस्य तावभिभ्रातृव्यान् अन्नम् अदुहत् पयो ऽदुहत् घृतम् अदुहत् सोमम् अदुहत् ॥
इति कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मणे द्वितीयाष्टके द्वितीयाध्याये नवमो ऽनुवाकः ॥ ९ ॥
यथोक्तं ब्रह्म-सृष्टि-प्रकारं विदित्वोपास्ते ऽस्मै वेदित्रे प्रति-दिनं प्रभातं कुर्वती देवता पुनर् अधिक-श्रेयस्करा सती प्रभातं करोति । दिने दिने श्रेयो वर्धत इत्य् अर्थः ।
विश्वास-प्रस्तुतिः
प्रजा॑यते प्र॒जया॑ प॒शुभिः॑ ।
प्र प॑रमे॒ष्ठिनो॒ मात्रा॑माप्नोति ।
य ए॒वव्ँ वेद॑ ॥ 59 ॥
मूलम्
प्रजा॑यते प्र॒जया॑ प॒शुभिः॑ ।
प्र प॑रमे॒ष्ठिनो॒ मात्रा॑माप्नोति ।
य ए॒वव्ँ वेद॑ ॥ 59 ॥
भट्टभास्कर-टीका
इह लोके प्रजापशुसंपन्नः परलोके परमेष्ठिनः प्रजापतेरैश्वर्यस्य या मात्रा परिच्छित्तिः तां सर्वामपि प्राप्नोति ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके द्वितीयप्रपाठके नवमोऽनुवाकः ॥
सायण-टीका
इह लोके प्रजा-पशु-संपन्नः पर-लोके परमेष्ठिनः प्रजापतेर् ऐश्वर्यस्य या मात्रा परिच्छित्तिस् तां सर्वाम् अपि प्राप्नोति ॥
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे द्वितीय-प्रपाठके नवमो ऽनुवाकः ॥ ९ ॥
-
क. ख. तत्र तद । ↩︎