०३ चतुर्होृपञ्चहोतृमन्त्रग्रहभागयोः पुरुषार्थप्रयोगः ...{Loading}...
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ ।
मूलम्
प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ ।
भट्टभास्कर-टीका
1 प्रजापतिरित्यादि ॥ प्रजायेय प्रभूतस्स्यां इत्यकामयत ।
सायण-टीका
द्वितीये चतुर्-होत्रादि-मन्त्राणाम् क्रत्वर्थ-प्रयोगो दर्शितः । तत्राऽऽदौ तावदनुक्त-काल-विशेषाणां कर्मणां सामान्येन शुक्ल-पक्षम् अन्वय-व्यतिरेकाभ्यां विधत्ते-
प्रजापतिरकामयत प्रजायेयेति । स तपोऽतप्यत । स त्रिवृतं स्तोममसृजत । तं पञ्चदश-स्तोमो मध्यत उदतृणत् । तौ पूर्वपक्षश्चापरपक्षश्चाभवताम् । पूर्व-पक्षं देवा अन्वसृज्यन्त । अपर-पक्षम् अन्वसुराः । ततो देवा अभवन् । पराऽसुराः । यं कामयेत वसीयान्त्स्यादिति (१) । तं पूर्व-पक्षे याजयेत् । वसीयानेव भवति । यं कामयेत पापीयान्त्स्यादिति । तम् अपर-पक्षे याजयेत् । पापीयानेव भवति । तस्मात् पूर्व-पक्षोऽपर-पक्षात् करुण्यतरः|, इति ।
विश्वास-प्रस्तुतिः
स तपो॑ऽतप्यत ।
मूलम्
स तपो॑ऽतप्यत ।
भट्टभास्कर-टीका
स तप्त्वा त्रिवृतं स्तोममसृजत ।
सायण-टीका
सिसृक्षुः प्रजापतिस्तत्-साधनं तपोऽनुष्ठाय तपः-सामर्थ्येन नव-संख्याकाभिर्-ऋग्भिर्-उपेतं त्रिवृन्नामकं स्तोममसृजत् ।
विश्वास-प्रस्तुतिः
स त्रि॒वृतँ॒ स्तोम॑मसृजत । तम्प॑ञ्चद॒शस्स्तोमो॑ मध्य॒त उद॑तृणत् ।
मूलम्
स त्रि॒वृतँ॒ स्तोम॑मसृजत । तम्प॑ञ्चद॒शस्स्तोमो॑ मध्य॒त उद॑तृणत् ।
भट्टभास्कर-टीका
अथ तं त्रिवृतं पञ्चदशस्तोमो मध्यत उदतृणत् मध्ये उद्भिद्यानुप्राविशत् । प्रथमं प्रजापतेस्तपस्विनस्तावत्त्रिवृदाविरभूत्, पुनरपि तपोबलात्स एव त्रिवृत् पञ्चदशेनाविर्भूतेन मध्यत उत्तृण्णमहापरिणाम (त्रिंशत्) चतुर्विशत्यवयवः संजातः ।
सायण-टीका
तं च सृष्टं स्तोममपरः पञ्चदशस्तोमः केनापि वैरेण मध्ये विच्छिन्नमकरोत् ।
विश्वास-प्रस्तुतिः
तौ पू॑र्वप॒क्षश्चा॑परप॒क्षश्चा॑भवताम् ।
मूलम्
तौ पू॑र्वप॒क्षश्चा॑परप॒क्षश्चा॑भवताम् ।
भट्टभास्कर-टीका
अथ तथा एकीभूतौ द्वेधा भूत्वा द्वादशावयवौ (पञ्चदशावयवौ) पूर्वपक्षावपरपक्षावभवताम् ।
सायण-टीका
तावेतौ त्रिवृत्स्तोमस्य पूर्वोत्तरभागौ शुक्लकृष्णपक्षरूपेण परिणतौ ।
मूलम्
पू॒र्व॒प॒क्षन्दे॒वा अन्वसृ॑ज्यन्त । अ॒प॒र॒प॒क्षमन्वसु॑राः ।
विश्वास-प्रस्तुतिः
पू॒र्व॒प॒क्षन्दे॒वा अन्वसृ॑ज्यन्त , अपरप॒क्षमन्वसु॑राः ।
मूलम्
पू॒र्व॒प॒क्षन्दे॒वा अन्वसृ॑ज्यन्त , अपरप॒क्षमन्वसु॑राः ।
भट्टभास्कर-टीका
तत्र पूर्वपक्षं प्रादुर्भूतमनु देवा असृज्यन्त, अपरपक्षमन्वसुरा असृज्यन्त ।
सायण-टीका
तत्र शुक्ल-पक्षम् अनु देवानां सृष्टत्वात् तेषां चैश्वर्ययुक्तत्वात् पूर्व-पक्षे यागं कुर्वाणो धनिको भवति । अपर-पक्षे तु विपरीतः ।
विश्वास-प्रस्तुतिः
ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः ।
मूलम्
ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः ।
भट्टभास्कर-टीका
ततस्तथोत्पन्ने मध्ये देवा अभवन् प्रभूता आसन्, असुराः पराभूता विनष्टा आसन् ।
मूलम्
यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दिति॑ ॥ 14 ॥
तम्पू॑र्वप॒क्षे या॑जयेत् ।
वसी॑याने॒व भ॑वति ।
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दिति॒ तम्पू॑र्वप॒क्षे या॑जये॒द् वसी॑याने॒व भ॑वति ।
मूलम्
यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दिति॒ तम्पू॑र्वप॒क्षे या॑जये॒द् वसी॑याने॒व भ॑वति ।
भट्टभास्कर-टीका
यस्मादेवं तस्मात् यं कामयेत । वसीयान् इत्यादि । गतम् । वसुमत्तरो वसीयान्, ।
मूलम्
यङ्का॒मये॑त॒ पापी॑यान्त्स्या॒दिति॑ ।
तम॑परप॒क्षे या॑जयेत् ।
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त॒ पापी॑यान्त्स्या॒दिति॒ तम॑परप॒क्षे या॑जयेत् ।
पापी॑याने॒व भ॑वति ।
मूलम्
यङ्का॒मये॑त॒ पापी॑यान्त्स्या॒दिति॒ तम॑परप॒क्षे या॑जयेत् ।
पापी॑याने॒व भ॑वति ।
भट्टभास्कर-टीका
पापतरः पापीयान् करुण्यतरः करणे साधुतरः कर्मयोग्यतरः । छान्दसो वर्णविकारः । ‘तत्र साधुः’ हति यत् । इत्थं तपसा विश्वं सृष्टवान् । स एव प्रजापतिरयं दशहोतेति । कि बहुना चतुर्होत्रादिकं लोकपर्यन्तं विश्वं प्रजापतिरेव ।
सायण-टीका
तस्मादनुक्तकालविशेषेषु कर्मसु पूर्वपक्षः करुण्यतरोऽतिशयेन प्रशस्तः ।
विश्वास-प्रस्तुतिः
तस्मा॑त्पूर्वप॒क्षो॑ऽपरप॒क्षात्क॑रु॒ण्य॑तरः ।
प्र॒जाप॑ति॒र्वै दश॑होता ।
चतु॑र्होता॒ पञ्च॑होता ।
षड्ढो॑ता स॒प्तहो॑ता ।
ऋ॒तव॑स्सव्ँवत्स॒रः ॥ 15 ॥
प्र॒जाᳶ प॒शव॑ इ॒मे लो॒काः ।
मूलम्
तस्मा॑त्पूर्वप॒क्षो॑ऽपरप॒क्षात्क॑रु॒ण्य॑तरः ।
प्र॒जाप॑ति॒र्वै दश॑होता ।
चतु॑र्होता॒ पञ्च॑होता ।
षड्ढो॑ता स॒प्तहो॑ता ।
ऋ॒तव॑स्सव्ँवत्स॒रः ॥ 15 ॥
प्र॒जाᳶ प॒शव॑ इ॒मे लो॒काः ।
मूलम्
य ए॒वम्प्र॒जाप॑तिम्ब॒होर्भूयाँ॑सव्ँ॒वेद॑ । ब॒होरे॒व भूया॑न्भवति ।
विश्वास-प्रस्तुतिः
य ए॒वम्प्र॒जाप॑तिम्ब॒होर्भूयाँ॑सव्ँ॒वेद॑ ब॒होरे॒व भूया॑न्भवति ।
मूलम्
य ए॒वम्प्र॒जाप॑तिम्ब॒होर्भूयाँ॑सव्ँ॒वेद॑ ब॒होरे॒व भूया॑न्भवति ।
भट्टभास्कर-टीका
एवं दशहोत्रादिरूपेण प्रजापतिं बहोरपि भूयांसं अतिशयेन विपुलतरं प्रजापतिं यो वेद स बहोर्भूयान् भवति ॥
सायण-टीका
अथ प्रसङ्गात् स्रष्टुः प्रजापतेः सर्वात्मकत्वेन स्तुवन् तद्-अनुसन्धानं पुरुषार्थतया विधत्ते-
प्रजापतिर्वै दश-होता ।
चतुर्-होता पञ्च-होता ।
षड्-होता सप्त-होता ।
ऋतवः संवत्सरः ( २ ) ।
प्रजाः पशवः इमे लोकाः ।
य एवं प्रजापतिं
बहोर्-भूयासं वेद ।
बहोरेव भूयान् भवति इति ।
प्रजापतेर्-दश-होतृ-प्रभृति-लोक-पर्यन्त-सर्व-वस्त्वात्मकत्वेनास्य बहोरप्यतिशयेन बहुत्वम् । तादृशं विदित्वा ध्यानं कुर्वन् स्वयम् अपि तादृशो भवति ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर्देवासु॒रान॑सृजत ।
स इन्द्र॒मपि॒ नासृ॑जत ।
मूलम्
प्र॒जाप॑तिर्देवासु॒रान॑सृजत ।
स इन्द्र॒मपि॒ नासृ॑जत ।
भट्टभास्कर-टीका
2 प्रजापतिर्देवासुरानित्यादि ॥ इन्द्रं नासृजत अपिशब्दात्तस्य भागभूतान् ऋत्वादीनपि नासृजत् ।
सायण-टीका
अथ चतुर्-होतृ-मन्त्रस्य पुरुषार्थ-प्रयोगं विधातुं प्रस्तौति-
प्रजापतिर्-देवासुरान् असृजत । स इन्द्रम् अपि न असृजत । तं देवा अब्रुवन् । इन्द्रो नो जनय इति । [[सो॑ ऽ- ब्रवीत्|सोऽब्रवीत्]] । यथाऽहं युष्मान् तपसाऽसृक्षि । [[एव - मिन्द्रं जनयध्वमिति|एवमिन्द्रं जनयध्वमिति]] ( ३ ) । ते तपोऽतप्यन्त । ते आत्मनि इन्द्रम् अपश्यन् । तम् अब्रुवन् । जायस्वेति । सोऽब्रवीत् । किं भागधेयम् अभिजनिष्ये इति । ऋतून् संवत्सरम् । प्रजाः पशून् । इमान् लोकान् इति अब्रुवन् । तं वै माम् आहुत्या प्रजनयत इति अब्रवीत् ( ४ ) । तं चतुर्होत्रा प्राजनयन्, इति ।
प्रजापतिः देवान् असुरान् च सृष्ट्वा देव-स्वामिनम् इन्द्रं न असृजत । अपि-शब्दात् असुर-स्वामिनम् अपि न असृजत ।
मूलम्
तन्दे॒वा अ॑ब्रुवन् । इन्द्र॑न्नो जन॒येति॑ । सो॑ऽब्रवीत् । यथा॒ऽहय्ँ यु॒ष्माँस्तप॒साऽसृ॑क्षि । ए॒वमिन्द्र॑ञ्जनयध्व॒मिति॑ ॥ 16 ॥
विश्वास-प्रस्तुतिः
तन्दे॒वा अ॑ब्रुव॒न्न् - “इन्द्र॑न्नो जन॒ये"ति॑ । सो॑ऽब्रवी॒द् - “यथा॒ऽहय्ँ यु॒ष्माँस्तप॒साऽसृ॑क्ष्य् ए॒वमिन्द्र॑ञ्जनयध्व॒"मिति॑ ॥ 16 ॥
मूलम्
तन्दे॒वा अ॑ब्रुव॒न्न् - “इन्द्र॑न्नो जन॒ये"ति॑ । सो॑ऽब्रवी॒द् - “यथा॒ऽहय्ँ यु॒ष्माँस्तप॒साऽसृ॑क्ष्य् ए॒वमिन्द्र॑ञ्जनयध्व॒"मिति॑ ॥ 16 ॥
भट्टभास्कर-टीका
तमित्यादि । युष्मानहमिव यूयमेव तपसा इन्द्रं जनयध्वमिति ।
सायण-टीका
तत इन्द्रसृष्ट्यर्थं देवैः प्रार्थितः सृष्टिसाधनं तप उपदिदेश ।
विश्वास-प्रस्तुतिः
ते तपो॑ऽतप्यन्त ।
त आ॒त्मन्निन्द्र॑मपश्यन् ।
मूलम्
ते तपो॑ऽतप्यन्त ।
त आ॒त्मन्निन्द्र॑मपश्यन् ।
मूलम्
तम॑ब्रुवन् ।
जाय॒स्वेति॑ ।
विश्वास-प्रस्तुतिः
तम॑ब्रुव॒न्न् “जाय॒स्वे"ति॑ ।
मूलम्
तम॑ब्रुव॒न्न् “जाय॒स्वे"ति॑ ।
भट्टभास्कर-टीका
ते च तपस्तप्यमाना आत्मनीन्द्रं दृष्ट्वा जायस्वेति तमब्रुवन् ।
सायण-टीका
ततो देवास्तपस्तप्त्वा स्वहृदय एवावस्थितमिन्द्रं दृष्ट्वा जायस्वेति प्रार्थितवन्तः ।
मूलम्
सो॑ऽब्रवीत् । किम्भा॑ग॒धेय॑म॒भि ज॑निष्य॒ इति॑ ।
विश्वास-प्रस्तुतिः
सो॑ऽब्रवी॒त् - “किम्भा॑ग॒धेय॑म॒भि ज॑निष्य॒ “इति॑ ।
मूलम्
सो॑ऽब्रवी॒त् - “किम्भा॑ग॒धेय॑म॒भि ज॑निष्य॒ “इति॑ ।
भट्टभास्कर-टीका
अथेन्द्रोऽब्रवीत् - किं भागधेयमभि किं भागं लब्धुं जनिष्य इति ।
सायण-टीका
इन्द्रश्च भागधेयं आकाङ्क्षन्, ऋत्वादि-लोक-पर्यन्तं जगत् स्व-भोग्यत्वेन देवेभ्यो लब्ध्वा स्वोत्पादन-हेतुम् आहुतिम् उपदिदेश । ते च देवाश्चतुर्-होत्राहुत्या तम् इन्द्रम् अजनयन् ।
मूलम्
ऋ॒तून्त्स॑वँत्स॒रम् । प्र॒जाᳶ प॒शून् । इ॒माल्ँ लो॒कानित्य॑ब्रुवन् ।
विश्वास-प्रस्तुतिः
“ऋ॒तून्त्स॑वँत्स॒रम् प्र॒जाᳶ प॒शून् इ॒माल्ँ लो॒का"नित्य॑ब्रुवन् ।
मूलम्
“ऋ॒तून्त्स॑वँत्स॒रम् प्र॒जाᳶ प॒शून् इ॒माल्ँ लो॒का"नित्य॑ब्रुवन् ।
भट्टभास्कर-टीका
ऋतूनित्यादि । ऋत्वादिकं सर्वे तव भागधेयमस्तु सर्वस्य त्वं स्वामीहेति ।
विश्वास-प्रस्तुतिः
तव्ँ वै “माऽऽहु॑त्या॒ प्र ज॑नय॒ते"त्य॑ब्रवीत् ॥ 17 ॥
मूलम्
तव्ँ वै “माऽऽहु॑त्या॒ प्र ज॑नय॒ते"त्य॑ब्रवीत् ॥ 17 ॥
भट्टभास्कर-टीका
अथेन्द्रो देवानब्रवीत् - मां कयाचिदाहुत्या प्रजनयतेति ।
सायण-टीका
इन्द्रश्च भागधेयमाकाङ्क्षन, ऋत्वादिलोकपर्यन्तं जगत्स्वभोग्यत्वेन देवेभ्यो लब्ध्वा स्वोत्पादन हेतुमाहुतिमुपदिदेश ।
विश्वास-प्रस्तुतिः
तञ्चतु॑र्होत्रा॒ प्राज॑नयन् ।
मूलम्
तञ्चतु॑र्होत्रा॒ प्राज॑नयन् ।
भट्टभास्कर-टीका
देवाश्च तं चतुर्होत्रा प्राजनयन् ।
सायण-टीका
ते च देवाश्चतुर्होत्राहुत्या तमिन्द्रमजनयन् ।
मूलम्
यᳵ का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑ । स चतु॑र्होतारञ्जुहुयात् ।
विश्वास-प्रस्तुतिः
यᳵ का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॒ स चतु॑र्होतारञ्जुहुयात् ।
मूलम्
यᳵ का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॒ स चतु॑र्होतारञ्जुहुयात् ।
भट्टभास्कर-टीका
य इत्यादि । गतम् ॥ वीरः पुत्रादिः ।
सायण-टीका
इदानीं विधत्ते-
यः कामयेत वीरो म आजायेतेति ।
स चतुर्होतारं जुहुयात् ।
प्रजापतिर्वै चतुर्होता ।
प्रजापतिरेव भूत्वा प्रजायते ।
जजनदिन्द्रम्-इन्द्रियाय स्वाहेति ग्रहेण जुहोति ।
आऽस्य वीरो जायते ।
वीरं हि देवा एतयाऽऽहुत्या प्राजनयन्, इति ।
वीरो लौकिक-वैदिक-कर्मसु शूरः पुत्रः । पृथिवी होतेत्यादि-बृहस्पतिरुपवक्तेत्यन्तश्-चतुर्होता । उपरितन इन्द्रियाय स्वाहेत्यन्तो ग्रह-भागस्तेन सर्वेणापि चतुर्होतारं जुहुयादिति होमो विहितः ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑ति॒र्वै चतु॑र्होता ।
प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते ।
ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहेति॒ ग्रहे॑ण जुहोति ।
आऽस्य॑ वी॒रो जा॑यते ।
वी॒रँ हि दे॒वा ए॒तयाऽऽहु॑त्या॒ प्राज॑नयन् ।
मूलम्
प्र॒जाप॑ति॒र्वै चतु॑र्होता ।
प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते ।
ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहेति॒ ग्रहे॑ण जुहोति ।
आऽस्य॑ वी॒रो जा॑यते ।
वी॒रँ हि दे॒वा ए॒तयाऽऽहु॑त्या॒ प्राज॑नयन् ।
भट्टभास्कर-टीका
प्रजापतिर्वा इति । तस्य सर्वात्मनोक्तत्वात् ॥
सायण-टीका
जजनत्-इन्द्रम्-इत्यादि-ग्रह-भागान्तः एक-होमः इत्येकः पक्षः । होतृ-भागेन ग्रह-भागेन च चाऽऽहुति-द्वयं वाक्याभ्यां विधीयते इत्यपरः पक्षः । तदुभयं सूत्र-कार आह-
यः कामयेत वीरो म आजायेतेति । स चतुर्होतारं जुहुयाच्चतुर्गृहीतेनाज्येनार्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण ।
इति ।
मूलम्
आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के॑ऽस्पर्धन्त ।
व॒यम्पूर्वे॑ सुव॒र्गल्ँ लो॒कमि॑याम व॒यम्पूर्व॒ इति॑ ॥ 18 ॥
विश्वास-प्रस्तुतिः
आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के॑ऽस्पर्धन्त - “व॒यम्पूर्वे॑ सुव॒र्गल्ँ लो॒कमि॑याम व॒यम्पूर्व॒” इति॑ ॥ 18 ॥
मूलम्
आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के॑ऽस्पर्धन्त - “व॒यम्पूर्वे॑ सुव॒र्गल्ँ लो॒कमि॑याम व॒यम्पूर्व॒” इति॑ ॥ 18 ॥
भट्टभास्कर-टीका
त आ॑दि॒त्या ए॒तम्पञ्च॑होतारमपश्यन् ।
तम्पु॒रा प्रा॑तरनुवा॒कादाग्नी॑ध्रेऽजुहवुः ।
ततो॒ वै ते पूर्वे॑ सुव॒र्गल्ँ लो॒कमा॑यन् ।
भट्टभास्कर-टीका
3 आदित्या इत्यादि ॥ प्रथमतस्स्वर्गगमने मात्सर्ययुक्ताः आदित्याः यागमध्ये प्रातरनुवाकशस्त्रपाठात्पुरा पञ्चहोत्रा हुत्वा, प्रतिस्पर्धिभ्योऽङ्गिरोभ्यः पूर्वमेव स्वर्गं प्राप्ताः ।
सायण-टीका
अथ क्रतुमध्य एव गोदोहनेन पशुकामस्येत्यादिवत् पुरुषार्थं पञ्च-होतृ-मन्त्रेण ग्रह-होमं विधत्ते -
आदित्याश्चाङ्गिरसश्च सुवर्गे लोकेऽस्पर्धन्त ।
वयं पूर्वं सुवर्गे [[लोकर्मयाम|लोकम् अयाम]] वयं पूर्वमिति ( ५ ) ।
त आदित्या एतं पञ्च-होतारम् अपश्यन् ।
तं पुरा प्रतिरनुवाकाद् [[आशी घेऽजुहवुः|आग्नीध्रेऽजुहवुः]] ।
ततो वै ते पूर्वं सुवर्गं लोकम् आयन् ।
यः सुव-कामः स्यात् ।
स पञ्च-होतारं पुरा प्रातरनुवाकाद् आग्नीध्रे जुहुयात् ।
संवत्सरो वै पञ्च-होता ।
संवत्सरः सुवर्गो लोकः ।
संवत्सर एवर्तुषु प्रतिष्ठाय सुवर्गं लोकम् एति, इति ।
प्रथमतः स्वर्ग-गमने मात्सर्य-ग्रस्ता आदित्याः याग-मध्ये प्रातरनुवाक-शस्त्र-पाठात् पुरा पञ्च-होत्रा हुत्वा प्रतिस्पर्विभ्योऽङ्गिरोभ्यः पूर्वमेव स्वर्गं प्राप्ताः । अतोऽन्योऽपि तथा हुत्वा स्वर्गे माप्नोति ।
मूलम्
यस्सु॑व॒र्गका॑म॒स्स्यात् । स पञ्च॑होतारम्पु॒रा प्रा॑तरनुवा॒कादाग्नी॑ध्रे जुहुयात् ।
विश्वास-प्रस्तुतिः
यस्सु॑व॒र्गका॑म॒स्स्या॒त्त् स पञ्च॑होतारम्पु॒रा प्रा॑तरनुवा॒कादाग्नी॑ध्रे जुहुयात् ।
मूलम्
यस्सु॑व॒र्गका॑म॒स्स्या॒त्त् स पञ्च॑होतारम्पु॒रा प्रा॑तरनुवा॒कादाग्नी॑ध्रे जुहुयात् ।
मूलम्
सव्ँ॒व॒त्स॒रो वै पञ्च॑होता । सव्ँ॒व॒त्स॒रस्सु॑व॒र्गो लो॒कः । सव्ँ॒व॒त्स॒र ए॒वर्तुषु॑ प्रति॒ष्ठाय॑ । सु॒व॒र्गल्ँ लो॒कमे॑ति ।
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रो वै पञ्च॑होता , सव्ँ॒व॒त्स॒रस्सु॑व॒र्गो लो॒कस् सव्ँव॒त्स॒र ए॒वर्तुषु॑ प्रति॒ष्ठाय॑ सुव॒र्गल्ँ लो॒कमे॑ति ।
मूलम्
सव्ँ॒व॒त्स॒रो वै पञ्च॑होता , सव्ँ॒व॒त्स॒रस्सु॑व॒र्गो लो॒कस् सव्ँव॒त्स॒र ए॒वर्तुषु॑ प्रति॒ष्ठाय॑ सुव॒र्गल्ँ लो॒कमे॑ति ।
भट्टभास्कर-टीका
य इत्यादि । तस्मात्संवत्सरे ऋतुषु च प्रतिष्ठाय तत्तत्कामसाध्येषु कर्मसु कर्तृत्वेन स्थित्वा स्वर्गं गच्छति ॥
सायण-टीका
संवत्सरस्य सर्वात्मकप्रजापतिरूपत्वेन पञ्चहोतृत्वं स्वर्गलोकरूपत्वं च द्रष्टव्यम् ।
मूलम्
ते॑ऽब्रुव॒न्नङ्गि॑रस आदि॒त्यान् ॥ 19 ॥
क्व॑ स्थ ।
क्व॑ वस्स॒द्भ्यो ह॒व्यव्ँव॑क्ष्याम॒ इति॑ ।
विश्वास-प्रस्तुतिः
ते॑ऽब्रुव॒न्नङ्गि॑रस आदि॒त्यान् - “क्व॑ स्थ” , “क्व॑ वस्स॒द्भ्यो ह॒व्यव्ँव॑क्ष्याम॒” इति॑ ।
मूलम्
ते॑ऽब्रुव॒न्नङ्गि॑रस आदि॒त्यान् - “क्व॑ स्थ” , “क्व॑ वस्स॒द्भ्यो ह॒व्यव्ँव॑क्ष्याम॒” इति॑ ।
भट्टभास्कर-टीका
4 अथ अङ्गिरसः स्वर्गं गत्वा स्थितानादित्यानब्रुवन् - क्व यूयं स्थ कुत्र सद्भ्यो विद्यमानेभ्यो युष्मभ्यं वयं हव्यं वक्ष्याम इति, किमाधारान् युष्मान् हविषाऽऽराधयामः स्वर्गार्थमिति ।
सायण-टीका
अथ उक्त-होम-कर्त्रादित्य-प्रशंसामुखेन तदादित्य-ध्यानं फलाय विधत्ते-
तेऽब्रुवन् अङ्गिरसः आदित्यान् (६), क्व स्थ, क्व वः सद्भ्यो हव्यं वक्ष्याम इति ।
छन्दः स्वित्यब्रुवन्। गायत्र्यां त्रिष्टुभि जगत्यामिति ।
तस्मात् छन्दःसु सद्भ्यः आदित्येभ्यः आङ्गीरसीः प्रजा हव्यं वहन्ति ।
वहन्त्यस्मै प्रजा बलिम् ।
ऐनम् अप्रतिख्यातं गच्छति य एवं वेद, इति ।
ते पूर्वोक्ताः प्रथमतः स्वर्गप्राप्तिरहिता अङ्गिरस आदित्यान् पप्रच्छुः । हे आदित्याः, कुत्र यूयं स्थिताः? युष्मदर्थं हव्यं वोढुकामा वयं कुत्र स्थितेभ्यो युष्मभ्यं हविर्-वहनं करिष्याम इति ।
विश्वास-प्रस्तुतिः
“छन्द॒स्स्"वित्य॑ब्रुवन् ।
मूलम्
“छन्द॒स्स्"वित्य॑ब्रुवन् ।
भट्टभास्कर-टीका
अथादित्या अब्रुवन् - गायत्र्यादिषु छन्दस्सु स्मो वयमिति ।
सायण-टीका
ते चाऽऽदित्या गायत्र्यादिच्छन्दःसु वयं गूढाः स्थिता इत्यब्रुवन् ।
मूलम्
तस्मा॒च्छन्द॑स्सु स॒द्भ्य आ॑दि॒त्येभ्यः॑ । आ॒ङ्गी॒र॒सीᳶ प्र॒जा ह॒व्यव्ँव॑हन्ति ।
विश्वास-प्रस्तुतिः
तस्मा॒च्छन्द॑स्सु स॒द्भ्य आ॑दि॒त्येभ्य॑ आङ्गीर॒सीᳶ प्र॒जा ह॒व्यव्ँव॑हन्ति ।
मूलम्
तस्मा॒च्छन्द॑स्सु स॒द्भ्य आ॑दि॒त्येभ्य॑ आङ्गीर॒सीᳶ प्र॒जा ह॒व्यव्ँव॑हन्ति ।
भट्टभास्कर-टीका
तस्मादित्यादि । आङ्गीरसीः आङ्गिरस्याः अङ्गिरसां संतानप्रभवाः ।
सायण-टीका
तस्मादङ्गिरोगोत्रे समुत्पन्नाः प्रजा गायत्र्यादिच्छन्दांस्युच्चार्य तेष्वादित्यान्भावयन्तस्तेभ्यो हव्यं प्रयच्छन्ति ।
विश्वास-प्रस्तुतिः
“वह॑न्त्यस्मै प्र॒जा ब॒लिम् ।
ऐन॒मप्र॑तिख्यातङ्गच्छति”।
य ए॒वव्ँ वेद॑ ।
मूलम्
“वह॑न्त्यस्मै प्र॒जा ब॒लिम् ।
ऐन॒मप्र॑तिख्यातङ्गच्छति”।
य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
अथ वेदितुः स्तुतिः - अस्मै एवं वेदित्रे सर्वाः प्रजाः बलिं उपहारं वहन्ति, अप्रतिख्यातं च एनमागच्छतीति केचित् । समासासमासयोर्द्वयोरपि स्वरानुपपत्तिः समाधेया ॥
सायण-टीका
एवम् आदित्य-वृत्तान्तं यः वेद, अस्मै वेदित्र सर्वाः प्रजाः पूजां वहन्ति । केन अपि अप्रतिख्यातम् एतम् आदित्य-समूहम् असौ वेदिता प्राप्नोति । अत्र य एवं वेद इति ज्ञान-विवक्षायाम् आदित्य-प्रशंसा । ध्यान-विवक्षायाम् उक्त-फल-प्राप्तिः । एवं सर्वत्र द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ।
त्रय॑ इ॒मे लो॒काः ।
अ॒सावा॑दि॒त्य ए॑कविँ॒शः ।
ए॒तस्मि॒न्वा ए॒ष श्रि॒तः ।
ए॒तस्मि॒न्प्रति॑ष्ठितः ।
मूलम्
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ।
त्रय॑ इ॒मे लो॒काः ।
अ॒सावा॑दि॒त्य ए॑कविँ॒शः ।
ए॒तस्मि॒न्वा ए॒ष श्रि॒तः ।
ए॒तस्मि॒न्प्रति॑ष्ठितः ।
भट्टभास्कर-टीका
5 द्वादश मासा इत्यादि ॥ एतस्मिन् पञ्चहोतरि एष एकविंश आदित्यः श्रितः, एतस्मिन् प्रतिष्ठितः स्थिरावस्थानश्च ।
सायण-टीका
प्रकारान्तरेणाऽऽदित्य-प्रशंसा-मुखेन ध्यानं विधत्ते-
द्वादश मासाः पञ्चर्तवः ।
त्रय इमे लोकाः ।
असावादित्य एकविंशः ।
एतस्मिन् वा एष श्रितः ।
एतस्मिन् प्रतिष्ठितः ।
य एवम् एतं श्रितं प्रतिष्ठितं वेद ।
प्रत्येव तिष्ठति ( ७ ), इति ॥
स्यादति॑ संवत्स॒रो ज॑न॒यध्वमितीत्यंव्रवत्पूर्व इत्या॑दि॒त्यानृतवः पट् च|स्याद् इति संवत्सरः, जनयध्वम् इति, इत्यब्रवीत् पूर्वम्, इति आदित्यान्, ऋतवः, षट् च ॥
इति कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मणे द्वितीयाष्टके द्वितीयाध्याये तृतीयोऽनुवाकः ॥ ३ ॥
मासाद्यपेक्षया योऽयम् एकविंशः आदित्यः स एषः एतस्मिन् प्रकृते पञ्च-होतृ-मन्त्रे श्रितः ।
मूलम्
य ए॒वमे॒तँ श्रि॒तम्प्रति॑ष्ठितव्ँ॒वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥20॥
विश्वास-प्रस्तुतिः
य ए॒वमे॒तँ श्रि॒तम्प्रति॑ष्ठितव्ँ॒वेद॒ प्रत्ये॒व ति॑ष्ठति ॥20॥
मूलम्
य ए॒वमे॒तँ श्रि॒तम्प्रति॑ष्ठितव्ँ॒वेद॒ प्रत्ये॒व ति॑ष्ठति ॥20॥
भट्टभास्कर-टीका
य एवमेतस्मिन् श्रितं प्रतिष्ठितं च यो वेद स प्रतितिष्ठत्येव ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके द्वितीयप्रपाठके तृतीयोऽनुवाकः ॥
सायण-टीका
तत्-विषयानुष्ठान-युक्तत्वात् । किं च एतस्मिन् मन्त्रे प्रतिष्ठितः तत्-जन्य-फल-भागित्वात् । तम् एतं पञ्च-होतृ-मन्त्रे श्रितं प्रतिष्ठितं च आदित्यं यो वेद स प्रतितिष्ठत्येव ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥