०१ दशहोतृमन्त्रस्य क्रत्वर्थपुरुषार्थप्रयोगौ ...{Loading}...
प्राजापत्यं काण्डम् - होतृब्राह्मणम्
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिरकामयत प्र॒जास्सृ॑जे॒येति॑ ।
स ए॒तन्दश॑होतारमपश्यत् ।
मूलम्
प्र॒जाप॑तिरकामयत प्र॒जास्सृ॑जे॒येति॑ ।
स ए॒तन्दश॑होतारमपश्यत् ।
भट्टभास्कर-टीका
1 अथ होतॄणां ब्राह्मणं, प्राजापत्यं काण्डम् - प्रजापतिरकामयतेत्यादि ॥ दशहोतारमिति ‘चित्तिः स्रुक्’ नैक इत्यादिकम् ।
सायण-टीका
आरण्यकाण्डस्य तृतीय-प्रपाठके प्रथमानुवाके दश-होत्राख्यः “चित्तिः स्रुक्” इत्यादि-होम-मन्त्र आम्नातः । तस्य विधिरस्मिन् प्रथमानुवाके ऽभिधीयते ।
होतृ-मन्त्राणां च प्रयोग-व्यवस्था सूत्र-कारेण विस्पष्टं दर्शिता -
त इमे चतुर्होतारो यत्र होमार्थाः सग्रहाः सस्वाहाकारास्तत्र प्रयुज्येरन्, यत्राहोमार्था अग्रहा अस्वाहाकारा यत्र जपा याजमानास्तेषां ये विहार-संयुक्ता आहिताग्नेस्तान्मतीयादुभयोरितरान् इति ।
चतुर्-होतृ-शब्दः कृत्स्न-होतृ-मन्त्र-विषयः । एतच्च प्रश्नोत्तराभ्यां विस्पष्टमाम्नास्यते । एतेषु चतुर्-होतृ-मन्त्रेषु यावन्ति पूर्व-भागे होम-साधन-नामानि श्रूयन्ते तेषां प्राधान्येन दश-होतृ-मन्त्रत्वम् । उपरि-भागो ग्रह-शब्द-वाच्यः । तस्यान्ते स्वाहा-कारः पठितः । तौ ग्रह-स्वाहा-कारौ होमेष्वेव । जपादौ तद्रहितो होतृ-भाग एव प्रयोक्तव्यः । विहार आहवनीयादि-युक्तं कर्म । तद्विषय-विधिषु आहिताग्निरेवाधिकारीतरेषु त्वनाहिताग्निरपि । अत एव तेषां क्रत्वर्थः पुरुषार्थश्चेत्युभय-विधः प्रयोगो विद्यते । एवं सत्यत्र पुरुषार्थ-प्रयोगं तावदादौ विधत्ते -
प्र॒जाप॑तिरकामयत प्रजाः सृ॑जेयेति ।
स एतं दश॑होतारमपश्यत् ।
तं मन॑साऽनु॒द्रुत्य॑ दर्भ-स्तम्बेऽजुहोत् ।
ततो वै स प्रजा असृजत ।
ता अस्मात्सृष्टा अपक्रामन् ।
ता ग्रहणागृह्णात् ।
तद् ग्रहस्य ग्रहत्वम् ।
यः कामये॑त प्र॒जायेयेति॑ ।
स दश-होतारं मन॑साऽनुद्रुत्य दर्भ-स्तम्बे जुहुयात् ।
प्रजाप॑तिर्वै दश-होता (१) ।
प्र॒जाप॑तिरे॒व भू॒त्वा प्रजायते, इति ॥
पुरा कदाचित्प्रजापतिः प्रजा उत्पादयितुं कामयमानस्तदुपायं वेदेषु परीक्ष्य दश-होत्राख्यं मन्त्रमपश्यत् । स च मन्त्र आरण्यकाण्ड एवं समाम्नातः –
चित्तिः स्रुक् ।
चित्तमाज्यम् ।
वाग्वेदिः ।
आधीतं बर्हिः ।
केतोऽग्निः ।
विज्ञातमग्निः ।
वाक्पतिर्होता ।
मन उपवक्ता ।
प्राणो हविः ।
सामाध्वर्युः इति ।
अत्र चित्ति-चित्त-शब्दाभ्यां निर्विकल्पक-सविकल्पक-भेद-जनकावन्तःकरण-भेदौ विवक्षितौ । वाक् प्रसिद्धा । आधीतमुच्चार्यमाणम् । केत-विज्ञात-शब्दाभ्यां निर्विकल्पक-सविकल्पक-विज्ञान-विषयावभिधीयेते । वाक्-पति-शब्देन वाचः प्रवर्तकः कण्ठ-तालुादि-स्थानेषु संयुज्यमानो वायुरुच्यते । मनः-प्राणौ प्रसिद्धौ । साम-शब्देन तद्धेतुः स्वरोच्चारण-शक्तिरुच्यते । एवं चित्त्यादयो दश शरीरगताः पदार्थ-विशेषाः, स्रुगादयो दश पदार्था होम-निष्पादकाः । अग्नि-शब्द-द्वयेनाऽऽहवनीय-गार्हपत्यौ विवक्षितौ । उपवक्तृ-शब्देन अनुवचन-कर्तुर्होतुः पुरा प्रैष-वक्ता मैत्रावरुणो विवक्षितः । चित्त्यादयः शारीर-पदार्थाः स्रुगादि-रूपा इति वाक्यार्थः । अस्मिन्मन्त्रे स्रुगादीनां होम-साधनानां दशानामभिहितत्वादयं मन्त्रो दश-होतेत्युच्यते । सोऽयं मन्त्रस्य पूर्व-भागः ।
विश्वास-प्रस्तुतिः
तम्मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे॑ऽजुहोत् ।
मूलम्
तम्मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे॑ऽजुहोत् ।
भट्टभास्कर-टीका
अनुद्रुत्य अक्षरक्रमेण स्मृत्वा ।
सायण-टीका
उत्तर-भागस्तु ग्रह-शब्द-वाच्य एवम् आम्नातः —
वाचस्पते विधे नामन् ।
विधेम ते नाम ।
विधेस्त्वमस्माकं नाम ।
वाचस्पतिः सोमं पिबतु ।
अस्मासु नृम्णं धात् स्वाहा इति ।
हे वाचस्पते, वाचः पालक, हे विधे, हे जगद्-विधातर्, हे नामन्, सर्वस्य वशीकर्तः, ते तव नाम विधेम, अस्मद्-अनुग्रह-कारी देवोऽयमित्येवं प्रसिद्धिं कुर्मः । यद्वा नमनं प्रह्वी-भावं सम्पादयामः । त्वम् अप्यस्माकं नाम विधेः, देवेषु मध्ये “यजमानोऽयं यथा-शास्त्रं हुतवान्” इति प्रसिद्धिं कुरु । अयं वाचस्पतिर्मदीयेषु यागेषु सोम-सदृशमाज्यं पिबतु । अस्मासु होम-कर्तृषु नृम्णमपेक्षितं धनं धाद्वाचस्पतिः सम्पादयतु । इमं वृत्तान्तमुद्दिश्य जुहुधीति स्वकीया वागाह ।
अत्र “वाचस्पते” इत्यादि “नृम्णं धाद्” इत्यन्तो ग्रह-भागः । तेन ग्रह-भागेन स्वाहा-कारेण च सहितं तं दश-होतृ-मन्त्रं मनसोच्चार्य कस्मिंश्चिद्दर्भ-स्तम्ब आज्येन हुतवान् ।
विश्वास-प्रस्तुतिः
ततो॒ वै स प्र॒जा अ॑सृजत ।
ता अ॑स्मात्सृ॒ष्टा अपा॑क्रामन् ।
ता ग्रहे॑णागृह्णात् ।
तद्ग्रह॑स्य ग्रह॒त्वम् ।
मूलम्
ततो॒ वै स प्र॒जा अ॑सृजत ।
ता अ॑स्मात्सृ॒ष्टा अपा॑क्रामन् ।
ता ग्रहे॑णागृह्णात् ।
तद्ग्रह॑स्य ग्रह॒त्वम् ।
भट्टभास्कर-टीका
ततो वा इत्यादि । गतम् ।
‘वाचस्पते विधे नामन्'1 इत्यादिना ग्रहत्वं, गृह्यतेऽनेनेति ग्रहः ।
सायण-टीका
ततो होम-सामर्थ्यात् स प्रजापतिः कामिताः प्रजाः ससर्ज । ताः सृष्टाः प्रजाः अनुराग-रहिताः अस्मात्प्रजापतेरपक्रान्ताः । स च प्रजापतिः “वाचस्पते” इत्यादि-ग्रह-भाग-पठन-सामर्थ्येन ताः प्रजाः पुनरगृह्णात् । ततो गृह्णात्यनेनेति व्युत्पत्त्या ग्रहत्वं सम्पन्नम् ।
मूलम्
यᳵ का॒मये॑त॒ प्रजा॑ये॒येति॑ । स दश॑होतार॒म्मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे जु॑हुयात् ।
विश्वास-प्रस्तुतिः
यᳵ का॒मये॑त॒ प्रजा॑ये॒येति॒ स दश॑होतार॒म्मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे जु॑हुयात् ।
मूलम्
यᳵ का॒मये॑त॒ प्रजा॑ये॒येति॒ स दश॑होतार॒म्मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे जु॑हुयात् ।
भट्टभास्कर-टीका
य इत्यादि प्रजाकामस्य दशहोतृविधिः ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते ।
मूलम्
प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते ।
भट्टभास्कर-टीका
प्रजापतिर्वा इति । ‘इन्द्रस्यात्मानं दशधा चरन्तम्’ इति लिङ्गात् ।
सायण-टीका
प्रजापति-वदन्योऽपि होमं कृत्वा प्रजापति-सामर्थ्यं प्राप्य प्रजोत्पत्तिं करोति । सोऽयं विधिः सूत्र-कारेण संगृहीतः -
“यः कामयेत प्रजायेयेति स द्वादश-गृहीतेन स्रुचं पूरयित्वा दश-होतारं मनसाऽनुद्रुत्य दर्भ-स्तम्बे स-ग्रहं जुहुयात् अर्धं वा पूर्वेण ग्रहेण अर्धमुत्तरेण”
इति ।
विश्वास-प्रस्तुतिः
मन॑सा जुहोति । मन॑ इव॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ ।
पू॒र्णया॑ जुहोति । पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ ।
मूलम्
मन॑सा जुहोति । मन॑ इव॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ ।
पू॒र्णया॑ जुहोति । पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ ।
भट्टभास्कर-टीका
मन इवेति । सर्वात्मचारित्वात् । प्रजापतेराप्त्यै प्रजापतित्वस्यावाप्त्यै, प्रजापतिरेव भूत्वा यथा तथा प्रजास्सृजेत् ।
सायण-टीका
मानसं मन्त्रोच्चारणं प्रशंसति-
मन॑सा जुहोति ।
मन॑ इव हि प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै, इति ।
यथाऽस्मदीयं मनः सङ्कल्प-मात्रेण मनो-राज्य-गतान् गिरि-नद्यादीन् सृजति, एवं प्रजापतिरपि सङ्कल्प-मात्रेण सृजतीति तत्-साम्यतो मानसं उच्चारणं प्रजापतेराप्त्यै भवति ।
विधत्ते-
पूर्णया जुहोति ।
पूर्ण ईव हि प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै, इति ।
द्वादश-गृहीतेन आज्येन या स्रुक्-पूर्णा तया जुहुयात् । सर्वात्मकत्वात् प्रजापतेः पूर्णत्वम् ।
विश्वास-प्रस्तुतिः
न्यू॑नया जुहोति ।
न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत ।
प्र॒जानाँ॒ सृष्ट्यै॑ ॥ 2 ॥
मूलम्
न्यू॑नया जुहोति ।
न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत ।
प्र॒जानाँ॒ सृष्ट्यै॑ ॥ 2 ॥
भट्टभास्कर-टीका
न्यूनयेति । चतुर्गृहीतया स्रुचा, सामर्थ्याद्विकल्पः पूर्णया चतुर्गृहीतया वा ।
न्यूनाद्धीति । सर्वविकल्पशून्यान्मूलकारणात् । तस्मान्न्यूनत्वं प्रजानां सृष्ट्यै भवति ।
सायण-टीका
पक्षान्तरं विधत्ते-
न्यूनया जुहोति ।
न्यूनाद्धि प्रजापतिः प्रजा असृ॑जत ।
प्रजानां सृष्ट्यै (२),
इति ।
चतुर्-गृहीतेन आज्येन युक्ता या इयम् अपूर्णा स्रुक् तया जुहुयात् । सृष्टेः प्राक् प्रजापतेः स्वरूपं सर्व-जगद्-बीजावस्था-पन्नम् अव्याकृतं सर्व-विशेष-राहित्येन न्यूनं, तस्माद् एव अव्याकृताद् व्याकृत-रूपाः प्रजाः सृष्टवान् । अतो न्यूनया होमः प्रजा-सृष्ट्यै भवति । पूर्णत्व-न्यूनत्व-पक्षौ समबलत्वाद्विकल्पितौ ।
ग्रह-सहितेन होतृ-मन्त्रेण सर्व-द्रव्यं सकृद्धोतव्यमित्येकः पक्षः ।
होतृभागेना(णा)र्धं हुत्वा पुनरर्धं ग्रहभागेन(ण) होतव्यमिति द्वितीयः पक्षः । ताविमौ पक्षौ सूत्रोक्तौ ।
विश्वास-प्रस्तुतिः
द॒र्भ॒स्त॒म्बे जु॑होति ।
मूलम्
द॒र्भ॒स्त॒म्बे जु॑होति ।
भट्टभास्कर-टीका
दर्भस्तम्ब इत्यादि । गतम् ।
सायण-टीका
अथ होमाधारं विधत्ते-
दर्भस्तम्बे जुहोति ।
मूलम्
ए॒तस्मा॒द्वै योने॑ᳶ प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
यस्मा॑दे॒व योने॑ᳶ प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत ।
तस्मा॑दे॒व योने॒ᳶ प्रजा॑यते ।
विश्वास-प्रस्तुतिः
यस्मा॑दे॒व योने॑ᳶ प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत॒ तस्मा॑दे॒व योने॒ᳶ प्रजा॑यते ।
मूलम्
यस्मा॑दे॒व योने॑ᳶ प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत॒ तस्मा॑दे॒व योने॒ᳶ प्रजा॑यते ।
भट्टभास्कर-टीका
योनिः कारणम् ॥
सायण-टीका
एतस्माद्वै योनेः प्रजाप॑तिः प्रजा अंसृजत ।
यस्मा॑दे॒व योनेः प्र॒जाप॑तिः प्र॒जा असृ॑जत ।
तस्मा॑दे॒व यः प्र॒जा॑यते इति ।
भूमिष्ठ-दर्भ-स्तम्बस्य प्रजा-योनित्वम् । तथा च पञ्चम-काण्डे समाम्नातम् -
यद्वा अस्या अमृतं यद्वीर्यं तद्दर्भास्तस्मिञ्जुहोति प्रैव जायते
इति ।
विश्वास-प्रस्तुतिः
ब्रा॒ह्म॒णो द॑क्षिण॒त उपा॑स्ते ।
ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा ।
मूलम्
ब्रा॒ह्म॒णो द॑क्षिण॒त उपा॑स्ते ।
ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा ।
भट्टभास्कर-टीका
2 उपद्रष्टेति ॥ हिताहितज्ञः साक्षी उपद्रष्टा ।
सायण-टीका
विधत्ते-
ब्राह्मणो दक्षिणतः उपास्ते ।
ब्राह्मणो वै प्रजानाम् उपद्रष्टा ।
उपद्रष्टुमत्येव प्रजायते, इति ।
होम-काले कश्चिद् ब्राह्मणो दक्षिण-भागे स्थापनीयः । उपद्रष्टा हिताहितस्य प्रजानाम् उपदेष्टा ।
विश्वास-प्रस्तुतिः
उ॒प॒द्र॒ष्टु॒मत्ये॒व प्रजा॑यते । ग्रहो॑ भवति । प्र॒जानाँ॑ सृ॒ष्टाना॒न्धृत्यै॑ ।
मूलम्
उ॒प॒द्र॒ष्टु॒मत्ये॒व प्रजा॑यते । ग्रहो॑ भवति । प्र॒जानाँ॑ सृ॒ष्टाना॒न्धृत्यै॑ ।
भट्टभास्कर-टीका
उपद्रष्टुमतीति । बहूपद्रष्टृके देशे प्रजायते प्रजा उत्पादयति । छान्दसो वर्णव्यत्ययः ॥
सायण-टीका
उपद्रष्टा उपद्रष्टुमति हिताहित-द्रष्टृ-युक्ते देशे प्रजायते ।
ग्रह-भागं प्रशंसति-
ग्रहो भवति ।
प्रजानां सृष्टानां धृत्यै, इति ।
यथा प्रजापतिरपक्रान्ताः प्रजा ग्रह-भागेण धृतवान् एवं यजमानोऽपि ।
मूलम्
यम्ब्रा॑ह्म॒णव्ँ वि॒द्याव्ँ वि॒द्वाँसय्ँ॒यशो॒ नर्च्छेत् ॥ 3 ॥
सोऽर॑ण्यम्प॒रेत्य॑ ।
द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॑ ।
ब्रा॒ह्म॒णन्द॑क्षिण॒तो नि॒षाद्य॑ ।
चतु॑र्होतॄ॒न्व्याच॑क्षीत ।
विश्वास-प्रस्तुतिः
यम्ब्रा॑ह्म॒णव्ँ वि॒द्याव्ँ वि॒द्वाँसय्ँ॒यशो॒ नर्च्छे॒त्त् सोऽर॑ण्यम्प॒रेत्य॑ दर्भस्त॒म्बमु॒द्ग्रथ्य॑ ब्राह्म॒णन्द॑क्षिण॒तो नि॒षाद्य॒ चतु॑र्होतॄ॒न्व्याच॑क्षीत ।
मूलम्
यम्ब्रा॑ह्म॒णव्ँ वि॒द्याव्ँ वि॒द्वाँसय्ँ॒यशो॒ नर्च्छे॒त्त् सोऽर॑ण्यम्प॒रेत्य॑ दर्भस्त॒म्बमु॒द्ग्रथ्य॑ ब्राह्म॒णन्द॑क्षिण॒तो नि॒षाद्य॒ चतु॑र्होतॄ॒न्व्याच॑क्षीत ।
भट्टभास्कर-टीका
3 यं ब्राह्मणमित्यादि ॥ यं ब्राह्मणं विशिष्टां विद्यां विद्वांसं जानन्तं तदनुरूपं यशो नर्च्छेत्, सोऽरण्यमनुप्रविश्य दर्भस्तम्बमूर्ध्वग्रन्थिकं बध्वा तत्रासीनस्सन् ब्राह्मणं दक्षिणतो निषाद्य सादयित्वा चतुर्होतॄन् दशहोत्रादीन् सर्वान् व्याचक्षीत विशिष्टमाचक्षीत विशिष्टेन शब्देन पठेत् ।
सायण-टीका
इत्थं प्रजा-कामस्य प्रयोगम् अभिधाय अथ यशस्-कामस्य प्रयोगं विधत्ते-
यं ब्राह्मणं विद्यां विद्वांसं यशो नर्च्छेत् (३), सोऽरण्यं परेत्य, दर्भ-स्तम्बम् उद्ग्रथ्य, ब्राह्मणं दक्षिणतो निषाद्य चतुर्होतॄन् व्याचक्षीत ।
मूलम्
ए॒तद्वै दे॒वाना॑म्पर॒मङ्गुह्य॒म्ब्रह्म॑ । यच्चतु॑र्होतारः ।
विश्वास-प्रस्तुतिः
ए॒तद्वै दे॒वाना॑म्पर॒मङ्गुह्य॒म्ब्रह्म॒ यच्चतु॑र्होतारः ।
मूलम्
ए॒तद्वै दे॒वाना॑म्पर॒मङ्गुह्य॒म्ब्रह्म॒ यच्चतु॑र्होतारः ।
भट्टभास्कर-टीका
एतद्वा इत्यादि गतम् ।
सायण-टीका
एतद्वै देवानां परमं गुह्यं ब्रह्म॑ ।
यच्चतु॑र्होतारः ।
तदेव प्रकाशं गमयति ।
तदे॑नं प्रकाशं गतम् ।
प्रकाशं प्रजानां गमयति, इति ।
वेद-शास्त्र-विद्यां तां जानन्तं ब्राह्मणं यदि तद्-अनुरूपं यशो न प्राप्नुयात् तदा स ब्राह्मणोऽरण्यम् अनुप्रविश्य दर्भ-स्तम्बम् ऊर्ध्व-ग्रन्थिकं बध्नीत । तत्र आसीनः सन् कञ्चिद् विशिष्टं ब्राह्मणं दक्षिण-भागे उपवेश्य तत्-समीपे होतृ-मन्त्रान् विस्पष्टम् उच्चारयेत् । “चित्तिः स्रुक्” इत्यादिको दश-होता, “पृथिवी होता” इत्यादिकश्च चतुर्-होता, “अग्निर्होता” इत्यादिकः पञ्च-होता, “सूर्यं ते चक्षुः” इत्यादिकः षड्-ढोता, “महा-हविर्-होता” इत्यादिकः सप्त-होता । एते सर्वेऽपि होतृ-मन्त्राः चतुर्-होतृ-शब्देन छत्रि-न्यायेन उपलक्षिताः । अन्यथा बहुवचनानुपपत्तेः । चतुर्-होतृ-शब्दस्य एव सर्वोपलक्षकत्वम् । न तु दश-होत्रादि-शब्दस्य इत्ययम् अर्थ उपरिष्टाद् विस्पष्टी भविष्यति ।
अत्र होम-विधानाभावाद् ग्रह-भाग-स्वाहाकार-भागौ न प्रयोक्तव्यौ । यत् ते चतुर्-होतारो मन्त्राः, एतद् एव देवानाम् उत्कृष्टं गोप्यं ब्रह्म । देवाः परस्मिन् ब्रह्मणि यादृशं गौरवं तादृशम् एतेषु कुर्वन्ति ।
विश्वास-प्रस्तुतिः
तदे॒व प्र॑का॒शङ्ग॑मयति ।
मूलम्
तदे॒व प्र॑का॒शङ्ग॑मयति ।
भट्टभास्कर-टीका
तदेवेति । तत् देवानां ब्रह्म देवानां प्रकाशीकृतम् ।
सायण-टीका
तदेव देवाभिमन्त्र-रूपं ब्रह्म देवेषु मध्ये विद्वांसमेनं प्रकाशं गमयति ।
मूलम्
तदे॑नम्प्रका॒शङ्ग॒तम् । प्र॒का॒शम्प्र॒जाना॑ङ्गमयति ।
विश्वास-प्रस्तुतिः
तदे॑नम्प्रका॒शङ्ग॒तम् प्र॑का॒शम्प्र॒जाना॑ङ्गमयति ।
मूलम्
तदे॑नम्प्रका॒शङ्ग॒तम् प्र॑का॒शम्प्र॒जाना॑ङ्गमयति ।
सायण-टीका
ततो देवेषु ख्यातिं गतम् एनं ब्राह्मणं देवानुग्रह-युक्तं पुनः प्रजानां मध्ये प्रकाशं गमयति । ततो लोक-द्वय-प्रख्यातो भवति ।
मूलम्
द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॒ व्याच॑ष्टे ॥ 4 ॥
अ॒ग्नि॒वान् वै द॑र्भस्त॒म्बः ।
अ॒ग्नि॒वत्ये॒व व्याच॑ष्टे ।
ब्रा॒ह्म॒णो द॑क्षिण॒त उपा॑स्ते ।
ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा ।
उ॒प॒द्र॒ष्टु॒मत्ये॒वैनय्ँ॒यश॑ ऋच्छति ।
विश्वास-प्रस्तुतिः
द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॒ व्याच॑ष्टे - “अ॒ग्नि॒वान् वै द॑र्भस्त॒म्बः , अ॑ग्नि॒वत्ये॒व व्याच॑ष्टे, ब्राह्म॒णो द॑क्षिण॒त उपा॑स्ते , ब्राह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा , उपद्रष्टु॒मत्ये॒वैनय्ँ॒यश॑ ऋच्छति ।
मूलम्
द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॒ व्याच॑ष्टे - “अ॒ग्नि॒वान् वै द॑र्भस्त॒म्बः , अ॑ग्नि॒वत्ये॒व व्याच॑ष्टे, ब्राह्म॒णो द॑क्षिण॒त उपा॑स्ते , ब्राह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा , उपद्रष्टु॒मत्ये॒वैनय्ँ॒यश॑ ऋच्छति ।
भट्टभास्कर-टीका
एनं प्रजानां प्रकाशं गमयति विद्यानुरूपं, गतमन्यत् ॥
सायण-टीका
उक्त-दर्भ-स्तम्बं प्रशंसति-
द॒र्भ-स्तम्बम् उद्ग्रथ्य व्याच॑ष्टे (४) ।
अग्निवान् वै दर्भ-स्तम्बः ।
अग्निवत्येव व्याच॑ष्टे, इति ।
यथाऽग्निर्-होमाधारः, तद्वद् दर्भ-स्तम्बोऽपि तत्र होमाधारत्वेन विहितः ।
ततोऽग्निमत्त्वं, हिताहित-साक्षित्वेन उपवेशितं ब्राह्मणं प्रशंसति-
ब्राह्मणो दक्षिणत उपाऽऽस्ते ।
ब्राह्मणो वै प्रजानाम् उपद्रष्टा ।
उपद्रष्टुमत्येवैनं यश ऋच्छति, इति ।
इदं हितम्, इदम् अहितम् इति ब्राह्मणः प्रजाभ्य उपदिशति, तस्मादयम् उपद्रष्टा । तथा-विध-ब्राह्मणैर्युक्त एव देशे विद्वांसम् एनं यशः प्राप्नोति ।
मूलम्
ई॒श्व॒रन्तय्ँ यशोर्तो॒रित्या॑हुः । यस्यान्ते॑ व्या॒चष्ट॒ इति॑ ।
विश्वास-प्रस्तुतिः
“ई॒श्व॒रन्तय्ँ यशोर्तो॒"रित्या॑हुः । यस्यान्ते॑ व्या॒चष्ट॒ इति॑ ।
मूलम्
“ई॒श्व॒रन्तय्ँ यशोर्तो॒"रित्या॑हुः । यस्यान्ते॑ व्या॒चष्ट॒ इति॑ ।
भट्टभास्कर-टीका
4 ईश्वरमित्यादि ॥ यस्य समीपे अयं व्याचष्टे तमेवास्य यशः अर्तोः गन्तुमीश्वरस्स्यादित्याहुः ।
सायण-टीका
अथ साक्षिणे ब्राह्मणाय गो-दानं विधत्ते-
ईश्वरं तं यशोऽर्तोरित्याहुः ।
यस्यां ते व्याचष्ट इति ।
वरस्तस्मै देयः ।
यदेवैनं तत्रोपा॒नम॑ति ।
तदे॒वाव॑रुन्धे, इति ।
विश्वास-प्रस्तुतिः
वर॒स्तस्मै॒ देयः॑ ।
मूलम्
वर॒स्तस्मै॒ देयः॑ ।
भट्टभास्कर-टीका
तस्मात् तस्मै ब्राह्मणाय वरो देयः ।
सायण-टीका
यं ब्राह्मणं सन्निधाप्य होतॄन् पठति, तमेव ब्राह्मणं तद्यशोऽर्तोरीश्वरं प्राप्तुं समर्थम् ।
मूलम्
यदे॒वैन॒न्तत्रो॑प॒नम॑ति । तदे॒वाव॑ रुन्धे ॥ 5 ॥
विश्वास-प्रस्तुतिः
यदे॒वैन॒न्तत्रो॑प॒नम॑ति॒ तदे॒वाव॑ रुन्धे ॥ 5 ॥
मूलम्
यदे॒वैन॒न्तत्रो॑प॒नम॑ति॒ तदे॒वाव॑ रुन्धे ॥ 5 ॥
भट्टभास्कर-टीका
यदेव यश एनं ब्राह्मणं तस्मिन् कर्मण्युपनमति तत् स्वयमेवावरुन्धे ॥
सायण-टीका
अतस्तस्मै गो-दानेन यद्यश एनं ब्राह्मणं प्राप्नोति, तत् स्वयमेव स्वीकरोति ।
विश्वास-प्रस्तुतिः
अ॒ग्निमा॒दधा॑नो॒ दश॑होत्रा॒ऽरणि॒मव॑ दध्यात् । प्रजा॑तमे॒वैन॒मा ध॑त्ते । तेनै॒वोद्द्रुत्या॑ग्निहो॒त्रञ्जु॑हुयात् ।
मूलम्
अ॒ग्निमा॒दधा॑नो॒ दश॑होत्रा॒ऽरणि॒मव॑ दध्यात् । प्रजा॑तमे॒वैन॒मा ध॑त्ते । तेनै॒वोद्द्रुत्या॑ग्निहो॒त्रञ्जु॑हुयात् ।
भट्टभास्कर-टीका
5 अग्निमादधान इत्यादि ॥ प्रजातं प्रभूतमग्निं आधत्ते तेनैव दशहोत्रा उद्द्रुत्य समीपं गत्वा अग्निहोत्रं जुहुयात् ।
विश्वास-प्रस्तुतिः
ह॒विर्नि॑र्व॒प्स्यन्दश॑होतारव्ँ॒ व्याच॑क्षीत ।
प्रजा॑तमे॒वैन॒न्निर्व॑पति ।
सा॒मि॒धे॒नीर॑नुव॒क्ष्यन्दश॑होतारव्ँ॒ व्याच॑क्षीत ।
मूलम्
ह॒विर्नि॑र्व॒प्स्यन्दश॑होतारव्ँ॒ व्याच॑क्षीत ।
प्रजा॑तमे॒वैन॒न्निर्व॑पति ।
सा॒मि॒धे॒नीर॑नुव॒क्ष्यन्दश॑होतारव्ँ॒ व्याच॑क्षीत ।
भट्टभास्कर-टीका
हविर्निर्वप्स्यन्नित्यादि गतम् ।
सायण-टीका
तत् एवं पुरुषार्थ-प्रयोग-द्वयम् अभिधाय क्रत्वर्थं दश-होतृ-मन्त्रस्य प्रयोग-चतुष्टयं क्रमेण विधत्ते-
अग्निम् आदधानो दर्शहोत्रारणिमर्वदध्यात्।
प्र॒जा॑त॒मे॒वैन॒म् अध॑त्ते ।
तेनैवदत्याग्निहोत्रं जु॑हुयात् ।
प्र॒जा॑त॒मे॒वैन॑ज्जुहोति ।
हविर्निर्वप्स्यन् दश॑होतारं व्याच॑क्षीत ।
प्रजातम् एव एनं निर्वपति ।
स॒मिधेनीः अ॑नु॒व॒क्ष्यन् दश॑होतारं व्याच॑क्षीत ।
सामिधेनीः एव सृष्ट्वा आरभ्य प्रत॑नुते ।
अथो॑ य॒ज्ञो वै दश॑होता ।
य॒ज्ञम् ए॒व त॑नुते (६), इति ।
प्रजातं प्रभूतम् आधेयोऽग्निर्होतव्यं निर्वपणीयं च हविर्दश-होतृ-मन्त्रेण वर्धते ।
विश्वास-प्रस्तुतिः
सा॒मि॒धे॒नीरे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते ।
मूलम्
सा॒मि॒धे॒नीरे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते ।
भट्टभास्कर-टीका
सृष्ट्वेति । समिधामाधानार्थास्सृष्ट्वा आरम्भप्रभृति विस्तारयति ।
सायण-टीका
तथा सामिधेनीरेव दशहोतृपाठेन सृष्ट्वा तदनुष्ठानं प्रारभ्य विस्तारयति ।
विश्वास-प्रस्तुतिः
अथो॑ य॒ज्ञो वै दश॑होता । य॒ज्ञमे॒व त॑नुते ॥ 6 ॥ ़
मूलम्
अथो॑ य॒ज्ञो वै दश॑होता । य॒ज्ञमे॒व त॑नुते ॥ 6 ॥ ़
भट्टभास्कर-टीका
अपिच स्वयं यज्ञ एवायं दशहोता, तस्माद्यज्ञ एव विस्तारितो भवति ॥
सायण-टीका
अपि च दश-होतृ-मन्त्रस्य यज्ञ-साधनत्वेन यज्ञ-रूपत्वाद् यज्ञमेव विस्तारयति ।
यदुक्तं सूत्र-कारेण -
दश-होत्राऽभिचरन् यजेत स्व-कृते इरिणे प्रदरे वा जुहुयात्
इति ।
विश्वास-प्रस्तुतिः
अ॒भि॒चर॒न्दश॑होतारञ्जुहुयात् ।
मूलम्
अ॒भि॒चर॒न्दश॑होतारञ्जुहुयात् ।
भट्टभास्कर-टीका
6 अभिचरन्निसादि ॥ स्वतन्त्रमिदम् ।
सायण-टीका
तदिदं पुरुषार्थत्वेन विधत्ते -
अभिचरन् दश-होतारं जुहुयात् । नव वै पुरुषे प्राणाः । नाभिर्दशमी । स-प्राणम् एवैनम् अभिचरति । एतावद्वै पुरुषस्य स्वम् । यावत् प्राणाः । यावदेवास्यास्ति तद्-अभिचरति, इति ।
विश्वास-प्रस्तुतिः
अ॒भि॒चर॒न्दश॑होतारञ्जुहुयात् । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी ।
मूलम्
अ॒भि॒चर॒न्दश॑होतारञ्जुहुयात् । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी ।
भट्टभास्कर-टीका
नाभिना दशत्वान्वयात् प्राणादिदशकसहितमेनमभिचरितव्यमभिचरति व्यापादयति,
विश्वास-प्रस्तुतिः
सप्रा॑णमे॒वैन॑म॒भि च॑रति ।
मूलम्
सप्रा॑णमे॒वैन॑म॒भि च॑रति ।
भट्टभास्कर-टीका
किंच प्राणा एवास्य स्वं आत्मीयं धन क्षेत्रादि, तदपि नाशयति ।
सायण-टीका
शिरसि च्छिद्राणि सप्त, अधस्तने द्वे छिद्रे, तेषु सञ्चरन्तः प्राणाः नव-संख्याकाः, तद्-अपेक्षया नाभेर्दशमत्वम् । एवं सति होतृ-मन्त्र-गतया दश-संख्यया सर्व-प्राण-युक्तम् एव एनं शत्रुम् उद्दिश्य अभिचारः कृतो भवति ।
मूलम्
ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् । याव॑त्प्रा॒णाः । याव॑दे॒वास्यास्ति॑ । तद॒भि च॑रति ।
विश्वास-प्रस्तुतिः
ए॒ताव॒द्वै पुरु॑षस्य॒ स्व॒म् याव॑त्प्रा॒णाः ।
याव॑दे॒वास्यास्ति॒ तद॒भि च॑रति ।
स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा॑ ।
मूलम्
ए॒ताव॒द्वै पुरु॑षस्य॒ स्व॒म् याव॑त्प्रा॒णाः ।
याव॑दे॒वास्यास्ति॒ तद॒भि च॑रति ।
स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा॑ ।
भट्टभास्कर-टीका
स्वकृत इत्यादि । स्वाभाविके इरिणे ऊषरे जुहोति, प्रदरे भूविवरे वा ।
सायण-टीका
अपि च प्राणा इति यावदस्ति, एतावदेव पुरुषस्य मुख्यं स्वम् । अतस्तत्सर्वमुद्दिश्याभिचारः कृतो भवति ।
विश्वास-प्रस्तुतिः
ए॒तद्वा अ॒स्यै निर्ऋ॑तिगृहीतम् ।
मूलम्
ए॒तद्वा अ॒स्यै निर्ऋ॑तिगृहीतम् ।
भट्टभास्कर-टीका
एतत्खलु पृथिव्यास्संबन्धि निरृतिगृहीतं अलक्ष्म्या परिगृहीतम् । तस्मान्निर्ऋतिपरिगृहीते देशे हुत्वा एनं निर्ऋत्या ग्राहयति
सायण-टीका
होम-देशं विधत्ते-
स्व-कृते इरिणे जुहोति प्रदरे वा ।
एतद्वा अस्यै निर्ऋति-गृहीतम् ।
निर्ऋति-गृहीत एवैनं निर्ऋत्या ग्राहयति, इति ।
इरिणमु(मू)षर-स्थानं तच्च स्व-कृतं स्वयमेव सिद्धं न तु गार्हपत्याहवनीयाद्यायतनवद् उपनिवपनेन सम्पादितम् । प्रदरो भू-छिद्रम् । अनयोर्मध्य एकस्मिन् जुहुयात् । एतच्च उभयं निर्ऋत्या राक्षस-रूपया देवतया गृहीतं स्थानम् । अतः तस्मिन्नेव स्थान एनं वैरिणं निर्ऋत्या ग्राहयति ।
मूलम्
यद्वा॒चᳵ क्रू॒रम् । तेन॒ वष॑ट्करोति ।
विश्वास-प्रस्तुतिः
यद्वा॒चᳵ क्रू॒रम् तेन॒ वष॑ट्करोति ।
वा॒च ए॒वैन॑ङ्क्रू॒रेण॒ प्र वृ॑श्चति ।
ता॒जगार्ति॒मार्च्छ॑ति ॥ 7 ॥
मूलम्
यद्वा॒चᳵ क्रू॒रम् तेन॒ वष॑ट्करोति ।
वा॒च ए॒वैन॑ङ्क्रू॒रेण॒ प्र वृ॑श्चति ।
ता॒जगार्ति॒मार्च्छ॑ति ॥ 7 ॥
भट्टभास्कर-टीका
यद्वाचः कूरं ‘खट् फट् जहि’ इत्यादिकं तेन वषट्करोति, वाचः क्रूरेणांशेन एनं प्रकर्षेण वृश्चति, तदमिमेवार्तिं गच्छति योऽभिचरितव्यः ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके द्वितीयप्रपाठके प्रथमोऽनुवाकः ॥
सायण-टीका
विधत्ते-
यद् वाचः क्रूरम् ।
तेन वषट्करोति ।
वाच एवैनं क्रूरेण प्रवृ॑श्चति ।
ताजगार्तिमार्च्छति, इति ॥
[[दर्शहोता सृष्ट्या ऋच्छेद्व्याचष्टे रुन्ध एव तनुते निर्ऋतिगृहीतं|दशहोता सृष्ट्या ऋच्छेद् व्याचष्टे रुन्धे एव तनुते निर्ऋति-गृहीतं]] पञ्च च ॥
आरण्यकाण्डे क्रूराणि समाम्नातानि, “खट् फट् जहि । छिन्धी भिन्धी हन्धी कट् । इति वाचः क्रूराणि” इति । तेषां मध्ये केनचित् क्रूरेण दश-होतृ-मन्त्रान्ते वषट्कार-कृत्यं सम्पादयेत् । ततस्तेन क्रूरेणैनं शत्रुं छिनत्ति । तदानीमेवासौ मरणं गच्छति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभापयेद्वितीयकाण्डे द्वितीयप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥