०९ पत्नीष्टकाः सेनेन्द्रस्य

०९ पत्नीष्टकाः सेनेन्द्रस्य ...{Loading}...

भास्करोक्त-विनियोगः

1अथ पत्नीष्टकाः सेनेन्द्रस्येत्याद्याः ॥ पूर्ववद्विनियोगः ।

विश्वास-प्रस्तुतिः

सेनेन्द्र॑स्य +++([पत्नी] सा त्वाम् उपदधाति)+++।

भट्टभास्कर-टीका

‘देवानां पत्नयः’ इत्यन्ते वचनात् इन्द्रस्य सेना पत्नी पालयित्रीति केचित् । पत्न्येवेत्यन्ये ।
सा त्वामुपदधातीति सर्वत्र ।

सेनादयो गताः । संज्ञाश्चैताः ।

मूलम्

सेनेन्द्र॑स्य ।

विश्वास-प्रस्तुतिः

धेना॒ बृह॒स्पतेः॑ ।

मूलम्

धेना॒ बृह॒स्पतेः॑ ।

विश्वास-प्रस्तुतिः

प॒त्थ्या॑ पू॒ष्णः ।

मूलम्

प॒त्थ्या॑ पू॒ष्णः ।

विश्वास-प्रस्तुतिः

वाग् वा॒योः ।

मूलम्

वाग्वा॒योः ।

विश्वास-प्रस्तुतिः

दी॒क्षा सोम॑स्य ।

मूलम्

दी॒क्षा सोम॑स्य ।

विश्वास-प्रस्तुतिः

पृ॒थि॒व्य् अ॒॑ग्नेः ।

मूलम्

पृ॒थि॒व्य॑ग्नेः ।

विश्वास-प्रस्तुतिः

वसू॑नाङ् गाय॒त्री ।

मूलम्

वसू॑नाङ्गाय॒त्री ।

विश्वास-प्रस्तुतिः

रु॒द्राणा॑न् त्रि॒ष्टुक् ।

मूलम्

रु॒द्राणा॑न्त्रि॒ष्टुक् ।

विश्वास-प्रस्तुतिः

आ॒दि॒त्याना॒ञ् जग॑ती ।

मूलम्

आ॒दि॒त्याना॒ञ्जग॑ती ।

विश्वास-प्रस्तुतिः

विष्णो॑र् अनु॒ष्टुक् ।
(13)

मूलम्

विष्णो॑रनु॒ष्टुक् ।
(13)

विश्वास-प्रस्तुतिः

वरु॑णस्य वि॒राट् ।

मूलम्

वरु॑णस्य वि॒राट् ।

विश्वास-प्रस्तुतिः

य॒ज्ञस्य॑ प॒ङ्क्तिः ।

मूलम्

य॒ज्ञस्य॑ प॒ङ्क्तिः ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑ते॒र् अनु॑मतिः ।

मूलम्

प्र॒जाप॑ते॒रनु॑मतिः ।

विश्वास-प्रस्तुतिः

मि॒त्रस्य॑ श्र॒द्धा ।

मूलम्

मि॒त्रस्य॑ श्र॒द्धा ।

विश्वास-प्रस्तुतिः

स॒वि॒तुः प्रसू॑तिः ।

मूलम्

स॒वि॒तुः प्रसू॑तिः ।

विश्वास-प्रस्तुतिः

सूर्य॑स्य॒ मरी॑चिः ।

मूलम्

सूर्य॑स्य॒ मरी॑चिः ।

विश्वास-प्रस्तुतिः

च॒न्द्रम॑सो रोहि॒णी ।

मूलम्

च॒न्द्रम॑सो रोहि॒णी ।

विश्वास-प्रस्तुतिः

ऋषी॑णाम् अरुन्ध॒ती ।

मूलम्

ऋषी॑णामरुन्ध॒ती ।

विश्वास-प्रस्तुतिः

प॒र्जन्य॑स्य वि॒द्युत् ।

मूलम्

प॒र्जन्य॑स्य वि॒द्युत् ।

साधारण-पत्न्यः

विश्वास-प्रस्तुतिः

चत॑स्रो॒ दिशः॑,

भट्टभास्कर-टीका

चतस्रो दिश इत्याद्यास्साधारणपत्न्यः ।

मूलम्

चत॑स्रो॒ दिशः॑ ।

विश्वास-प्रस्तुतिः

चत॑स्रोऽवान्तरदि॒शाः,

भट्टभास्कर-टीका

अवान्तरदिशाः कोणदिशः । आकारस्समासान्तः ।

मूलम्

चत॑स्रोऽवान्तरदि॒शाः ।

विश्वास-प्रस्तुतिः

अह॑श्च॒ रात्रि॑श्च,

मूलम्

अह॑श्च॒ रात्रि॑श्च ।

विश्वास-प्रस्तुतिः

कृ॒षिश्च॒ वृष्टि॑श्च,

मूलम्

कृ॒षिश्च॒ वृष्टि॑श्च ।

विश्वास-प्रस्तुतिः

त्विषि॒श् चाप॑चितिश् च,

भट्टभास्कर-टीका

त्विषिः दीप्तिः । अपचितिः पूजा ।

मूलम्

त्विषि॒श्चाप॑चितिश्च ।

विश्वास-प्रस्तुतिः

आप॒श् चौष॑धयश् च,

मूलम्

आप॒श्चौष॑धयश्च ।

विश्वास-प्रस्तुतिः

ऊर्क् च॑ सू॒नृता॑ च दे॒वानां॒ पत्न॑यः ।
(14)

भट्टभास्कर-टीका

ऊर्क् अन्नं रसो वा । सूनृता प्रियसत्यात्मा वाक् । सर्वेषां देवानां एतेषां एता दिगादयस्साधारण्यः पत्न्यः । छान्दसं ह्रस्वत्वम् । सामर्थ्याच्च साधारण्य इति गम्यते ॥ इत्यारण्यके तृतीये नवमोऽनुवाकः ॥

मूलम्

ऊर्क्च॑ सू॒नृता॑ च दे॒वानां॒ पत्न॑यः ।
(14)