०८ अग्निर् यजुर्भिः

०८ अग्निर् यजुर्भिः ...{Loading}...

भट्टभास्कर-टीका

1अथ सम्भारयजूंषि अग्निर्यजुर्भिरित्यादीनि ॥ ‘हृदयं यजूंषि पत्न्यश्च’ इत्यादिषु विनियोगः । हृदयं ‘सुवर्णं धर्मं’ इत्यनुवाकः । एतानि यजूंषि । पत्न्यो वक्ष्यन्ते ‘सेनेन्द्रस्य’ इत्यादयः ।

विश्वास-प्रस्तुतिः

अ॒ग्निर् यजु॑र्भिः +++(सम्भरति)+++।

भट्टभास्कर-टीका

अग्निर्यजुर्भिः यज्ञं सम्भृतवान् । तैस्तद्वान् इत्यन्ये । अस्य यजुश्शब्दसम्बन्धित्वात् सर्वाणि यजूंषि ।

मूलम्

अ॒ग्निर्यजु॑र्भिः ।

विश्वास-प्रस्तुतिः

स॒वि॒ता स्तोमैः॑ ।

भट्टभास्कर-टीका

सविता स्तोमैः त्रिवृदादिभिः यज्ञं सम्भृतवान् । एवं सर्वत्र ।

मूलम्

स॒वि॒ता स्तोमैः॑ ।

विश्वास-प्रस्तुतिः

इन्द्र॑ उक्थाम॒दैः+++(=स्तोत्रशस्त्रैः)+++ ।

भट्टभास्कर-टीका

उक्थामदैः स्तोत्रशस्त्रैः ।

मूलम्

इन्द्र॑ उक्थाम॒दैः ।

विश्वास-प्रस्तुतिः

मि॒त्रावरु॑णाव् आ॒शिषा॑ ।

भट्टभास्कर-टीका

आशिषा प्रार्थनामन्त्रैः । गतमन्यत् ।

मूलम्

मि॒त्रावरु॑णाव् आ॒शिषा॑ ।

विश्वास-प्रस्तुतिः

अङ्गि॑रसो॒ धिष्णि॑यैर॒ग्निभिः॑ ।

मूलम्

अङ्गि॑रसो॒ धिष्णि॑यैर॒ग्निभिः॑ ।

विश्वास-प्रस्तुतिः

म॒रुत॑स् सदो–हविर्-धा॒नाभ्या॑म् ।

मूलम्

म॒रुत॑स्सदोहविर्धा॒नाभ्या॑म् ।

विश्वास-प्रस्तुतिः

आपः॒ प्रोक्ष॑णीभिः ।

मूलम्

आपः॒ प्रोक्ष॑णीभिः ।

विश्वास-प्रस्तुतिः

ओष॑धयो बर्हि॒षा॑ ।

मूलम्

ओष॑धयो बर्हि॒षा॑ ।

विश्वास-प्रस्तुतिः

अदि॑ति॒र् वेद्या॑ ।

मूलम्

अदि॑ति॒र्वेद्या॑ ।

विश्वास-प्रस्तुतिः

सोमो॑ दी॒क्षया॑ ।
(11)

मूलम्

सोमो॑ दी॒क्षया॑ ।
(11)

विश्वास-प्रस्तुतिः

त्वष्टे॒ध्मेन॑ ।

मूलम्

त्वष्टे॒ध्मेन॑ ।

विश्वास-प्रस्तुतिः

विष्णु॑र् य॒ज्ञेन॑ ।

भट्टभास्कर-टीका

विष्णुर्यज्ञेन तद्वान् ।

मूलम्

विष्णु॑र्य॒ज्ञेन॑ ।

विश्वास-प्रस्तुतिः

वस॑व॒ आज्ये॑न ।

मूलम्

वस॑व॒ आज्ये॑न ।

विश्वास-प्रस्तुतिः

आ॒दि॒त्या दक्षि॑णाभिः ।

मूलम्

आ॒दि॒त्या दक्षि॑णाभिः ।

विश्वास-प्रस्तुतिः

विश्वे॑ दे॒वा ऊ॒र्जा ।

मूलम्

विश्वे॑ दे॒वा ऊ॒र्जा ।

विश्वास-प्रस्तुतिः

पू॒षा स्व॑गा-का॒रेण॑ ।

भट्टभास्कर-टीका

स्वगाकारेण यथायथं हविस्स्वामिनां हविस्सम्बन्धकरणेन ।

मूलम्

पू॒षा स्व॑गाका॒रेण॑ ।

विश्वास-प्रस्तुतिः

बृह॒स्-पतिः॑ पुरो॒धया॑ ।

भट्टभास्कर-टीका

पुरोधया प्राधान्येन, ब्रह्मत्वेन वा उद्गीथेन उद्गानेन द्वितीयया चतुर्थ्या वा विभक्त्या ।

मूलम्

बृह॒स्पतिः॑ पुरो॒धया॑ ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर् उद्गी॒थेन॑ ।

मूलम्

प्र॒जाप॑तिरुद्गी॒थेन॑ ।

विश्वास-प्रस्तुतिः

अ॒न्तरि॑क्षं प॒वित्रे॑ण ।

भट्टभास्कर-टीका

पवित्रेण दशापवित्रेण ।

मूलम्

अ॒न्तरि॑क्षं प॒वित्रे॑ण ।

विश्वास-प्रस्तुतिः

वा॒युः पात्रैः॑ ।

भट्टभास्कर-टीका

पात्रैः उर्ध्वपात्रैः

मूलम्

वा॒युः पात्रैः॑ ।

विश्वास-प्रस्तुतिः

अ॒हँ श्र॒द्धया॑ ।+++(5)+++
(12)

भट्टभास्कर-टीका

अहं श्रद्धया सर्वदा यजे इति ॥ इत्यारण्यके तृतीये अष्टमोऽनुवाकः ॥

मूलम्

अ॒हँ श्र॒द्धया॑ ।
(12)