०६ वाग् होता ...{Loading}...
होता
भास्करोक्त-विनियोगः
1उत्तरतः प्राञ्चं षढ्ढोतारमुपदद्धाति - वाग्घोतेति ॥ ‘वाग्घोता षढ्ढोतॄणां’ इत्येतद्-ब्राह्मणोक्तत्वाद् अयमेवोत्तरत इत्येके ।
क्रमाम्नानात् ‘सूर्यं ते’ इत्ययमेव, न ‘वाग्घोता’ इति । द्वयोरपि स्तुतिरित्यन्ये । अपरे तु विकल्प इत्याहुः ।
विश्वास-प्रस्तुतिः
वाग् घोता॑ ।
भट्टभास्कर-टीका
वागेव मदीया मम होता
मूलम्
वाग्घोता॑ ।
विश्वास-प्रस्तुतिः
दी॒क्षा पत्नी॑ ।
भट्टभास्कर-टीका
शस्त्रादिवाक्स्थानीया दीक्षा नियमपरम्परा सैव पत्नी ।
मूलम्
दी॒क्षा पत्नी॑ ।
विश्वास-प्रस्तुतिः
वातो॑ऽध्व॒र्युः ।
भट्टभास्कर-टीका
वातः प्राणः स एव अध्वर्युः कर्तृत्वात् ।
मूलम्
वातो॑ऽध्व॒र्युः ।
विश्वास-प्रस्तुतिः
आपो॑ऽभिग॒रः ।
भट्टभास्कर-टीका
आपोऽभिगरः आभिगरिता ब्रह्मा । यद्वा - अभिगरणं उद्देशादिर्यजमानव्यापारः, तद्धेतुत्वात् ।
मूलम्
आपो॑ऽभिग॒रः ।
विश्वास-प्रस्तुतिः
मनो॑ ह॒विः ।
भट्टभास्कर-टीका
मनो हविः आज्यादि, तृप्तिहेतुत्वात् ।
मूलम्
मनो॑ ह॒विः ।
विश्वास-प्रस्तुतिः
तप॑सि जुहोमि ।
भट्टभास्कर-टीका
तपसि अग्निस्थानीये तत् मनोहविः जुहोमि स्थापयामि अविनाशेन प्रवर्तयामि इति सूचितं हविग्रहणेन ॥
मूलम्
तप॑सि जुहोमि ।
ग्रहः
विश्वास-प्रस्तुतिः
भूर् भुव॒स् सुवः॑ ।
ब्रह्म॑ स्वयं॒-भु ।
ब्रह्म॑णे स्वयं॒-भुवे॒ स्वाहा॑ ।
(6)
भट्टभास्कर-टीका
2अथ ग्रहः ॥ भूरादयस्सर्वेऽपि लोकाः ब्रह्मैव स्वयम्भु, स्वयमेव ब्रह्म भूरादिरूपेण भवतीति । अहं च मदीयः च यज्ञः सर्वं तदेव । तस्मै ब्रह्मणे स्वयम्भुवे स्वाहा स्वाहुतं भव, सुष्ठूपहिता वा भव ॥ इत्यारण्यके तृतीये षष्ठोऽनुवाकः ॥
मूलम्
भूर्भुव॒स्सुवः॑ ।
ब्रह्म॑ स्वयं॒भु ।
ब्रह्म॑णे स्वयं॒भुवे॒ स्वाहा॑ ।
(6)