०३ पश्चात् अग्निर् होता ...{Loading}...
होता
भास्करोक्त-विनियोगः
1पश्चाद् उदञ्चं पञ्चहोतारम् उपदधाति - अग्निर्होतेति ॥
विश्वास-प्रस्तुतिः
अ॒ग्निर् होता॑ ।
भट्टभास्कर-टीका
देवानां आह्वातृत्वादग्नेर्होतृत्वम् ।
मूलम्
अ॒ग्निर्होता॑ ।
विश्वास-प्रस्तुतिः
अ॒श्विना॑ऽध्व॒र्यू ।
भट्टभास्कर-टीका
कर्मठत्वात् अश्विनौ अध्वर्यू अध्वरस्य नेतारौ अध्वर्युः प्रतिप्रस्थाता च ।
मूलम्
अ॒श्विना॑ऽध्व॒र्यू ।
विश्वास-प्रस्तुतिः
त्वष्टा॒ऽग्नीत् ।
भट्टभास्कर-टीका
त्वष्टा अग्नीत् आग्नीध्रः उत्तेजनहेतुत्वात्, अग्नीधश्च विहरणादिकृत्त्वात् ।
मूलम्
त्वष्टा॒ऽग्नीत् ।
विश्वास-प्रस्तुतिः
मि॒त्र उ॑पव॒क्ता ।
मूलम्
मित्र उपवक्ता ब्रह्मा, कर्मसाक्षित्वात् ॥
मूलम्
मि॒त्र उ॑पव॒क्ता ।
ग्रहेष्टका
भास्करोक्त-विनियोगः
2अथ ग्रहेष्टकाम् उपदधाति ॥
विश्वास-प्रस्तुतिः
सोम॒स् +++(वल्ली-रूपेण)+++ सोम॑स्य पुरो॒-गाः ।
शु॒क्रश् शु॒क्रस्य॑ पुरो॒-गाः ।
श्रा॒तास्+++(=पक्वाः)+++ त॑ इन्द्र॒ सोमाः॑ ।
वाता॑पेर्+++(←वात+आप्)+++ हवन॒-श्रुत॒स् +++(←श्रुत् ←श्रु [त इन्द्र])+++ स्वाहा॑ ।
भट्टभास्कर-टीका
सोमो वल्ली सोमस्य पुरोगाः प्रधानभूतः ओषधीशत्वात् ।
शुक्रः सोमरसः सर्व-रस-प्रधान-भूतः
शुक्र एव वा ।
ताभ्यामेव ते सोमाः श्राताः पक्वाः साधुसम्पादिताः हे इन्द्र !
वातापेः वात-तुल्य-गमनस्य हवनश्रुतः अह्वानस्य श्रोतुः, भक्तवत्सलस्येति यावत् । एवं भूतस्य तवेति । स्वाहेति गतम् । चातुर्मास्यादिषु विनियोगः ॥
इत्यारण्यके तृतीये तृतीयोनुवाकः ॥
मूलम्
सोम॒स् सोम॑स्य पुरो॒गाः ।
शु॒क्रश्शु॒क्रस्य॑ पुरो॒गाः ।
श्रा॒तास्त॑ इन्द्र॒ सोमाः॑ ।
वाता॑पेर्हवन॒श्रुत॒स्स्वाहा॑ ।
(3)