०२ दक्षिणतः पृथिवी होता

०२ दक्षिणतः पृथिवी होता ...{Loading}...

होता

भास्करोक्त-विनियोगः

दक्षिणतः प्राञ्चं चतुर्होतारमुपदधाति - पृथिवी होतेति ॥
‘पृथिवी होता, तया देवतया’ इत्यादिरुपधानक्रमः सर्वत्र ॥

विश्वास-प्रस्तुतिः

पृ॒थि॒वी होता॑ ।

भट्टभास्कर-टीका

पृथिव्या होतृत्वं आसीनत्वसाम्यात् ।
होताऽप्यासीनश्शंसति ।
पृथिवी च आसीना भवति, ‘आस्त इव हीयं’ इति ।

मूलम्

पृ॒थि॒वी होता॑ ।

विश्वास-प्रस्तुतिः

द्यौर् अ॑ध्व॒र्युः ।

भट्टभास्कर-टीका

दिवश्चाध्वर्युत्वं तिष्ठत्त्वसाम्यात् । तिष्ठन् ह्यध्वर्युः प्रतिगृह्णाति । द्यौश्च तिष्ठन्ती भवति, ‘तिष्ठतीव ह्यसौ'10 इति

मूलम्

द्यौर॑ध्व॒र्युः ।

विश्वास-प्रस्तुतिः

रु॒द्रो॑ऽग्नीत् ।

भट्टभास्कर-टीका

रुद्रोऽग्नीत् रुद्रः अग्निः प्राणो वा, स एवाग्नीत् । गतम् ।

मूलम्

रु॒द्रो॑ऽग्नीत् ।

विश्वास-प्रस्तुतिः

बृह॒स्पति॑र् उपव॒क्ता ।

भट्टभास्कर-टीका

बृहस्पतिरेवोपवक्ता बृहतां कर्मणां पातृत्वात् ।

मूलम्

बृह॒स्पति॑रुपव॒क्ता ।

ग्रहेष्टका

भास्करोक्त-विनियोगः

अथ ग्रहेष्टकामुपदधाति - वाचस्पत इति ॥

विश्वास-प्रस्तुतिः

वाच॑स्पते वा॒चो वी॒र्ये॑ण
संभृ॑ततमेन +आय॑क्ष्यसे
यज॑मानाय॒ वार्य॑म्
सुव॒स् कर् अ॑स्मै ।
वा॒चस्पति॒स् सोमं॑ पिबतु
ज॒जन॒द् इन्द्र॑म् इन्द्रि॒याय॒ स्वाहा॑ ॥ (2)

भट्टभास्कर-टीका

हे वाचस्पते! प्रजापते! वाचो वीर्येण तेन मन्त्रेण चतुर्होत्रात्मना सर्ववाङ्मयसारेण सम्भृततमेन अतिशयेनैकत्र सम्भृतेन आयक्ष्यसे आभिमुख्येन इज्यसे, त्वमेव सङ्गन्यसे वा । व्यत्ययेन वर्तमाने लृट् । यद्वा - यक्ष पूजायां इत्यस्मात्कर्मणि लट् ।
स त्वं अस्मै यजमानाय वार्यं वरणीयं स्रुवः सुखं आकः आभिमुख्येन कुरु । करोतेश्छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक्, ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः । यद्वा – लेटि शपो लुक् । वाचस्पतिस्सोमं पिबति पिबत्विति व्याख्यातम् । लिङर्थे लेट् । जजनत् जनयतु इन्द्रं यजमानं कर्मेश्वरं इन्द्रियाय वीर्यार्थं वीर्यस्याश्रयोऽयं यथा स्यादिति । स्वाहेति गतम् । जनेर्लेटि शपः श्लुः, अडागमः । दर्शपूर्णमासादिष्वस्य विनियोगः ॥

इत्यारण्यके तृतीये द्वितीयोनुवाकः ॥

मूलम्

वाच॑स्पते वा॒चो वी॒र्ये॑ण ।
संभृ॑ततमे॒नाय॑क्ष्यसे ।
यज॑मानाय॒ वार्य॑म् ।
आसुव॒स्कर॑स्मै ।
वा॒चस्पति॒स्सोमं॑ पिबतु ।
ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहा॑ ॥ (2)