०६ आहवनीयाद्युपस्थान-ब्राह्मणम् ...{Loading}...
प्रजापतिर्ऋषिः
आहवनीयाद्युपस्थानमन्त्राणां (व्याख्यानम्)ब्राह्मणम्
मूलम् (संयुक्तम्)
अग॑न्म॒ सुव॒स्सुव॑रग॒न्मेत्या॑ह सुव॒र्गमे॒व लो॒कमे॑ति स॒न्दृश॑स्ते॒ मा छि॑त्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ मा वृ॒क्षीत्या॑ह यथाय॒जुरे॒वैतत्
विश्वास-प्रस्तुतिः
“अग॑न्म॒ सुव॒स्, सुव॑र् अग॒न्मे"त्य् आ॑ह ।
सुव॒र्गम् ए॒व लो॒कम् ए॑ति ।
Keith
‘We have come to the heaven: to the heaven we have come’, he says;
verily he goes to the world of heaven.
मूलम्
अग॑न्म॒ सुव॒स्सुव॑रग॒न्मेत्या॑ह ।
सुव॒र्गमे॒व लो॒कमे॑ति ।
भट्टभास्कर-टीका
1अगन्म सुवरित्याहवनीयोपस्थानम् ॥
सायण-टीका
आप्यायनादिमन्त्राः पञ्चमे व्याख्याताः। उपस्थानादिमन्त्राः षष्ठे व्याख्यायन्ते।
तत्राऽऽहवनीयोपस्थानमन्त्रस्य पूर्वभागं व्याचष्टे-
अगन्मेति। द्विरुक्त्याऽऽदरस्य प्रतीतेः सर्वथा प्राप्नोत्येव।
विश्वास-प्रस्तुतिः
“स॒न्दृश॑स् ते॒ ते॒ मा छि॑त्सि ।
यत् ते॒ तप॒स् तस्मै॑ ते॒ मा वृ॒क्षी"त्य् आ॑ह।
यथाय॒जुर् ए॒वैतत् ।
Keith
‘May I not be cut off from seeing thee; what heat is thine, to that of thee may I not be brought low’, he says; that is according to the text.
मूलम्
स॒न्दृश॑स्ते॒ ते॒ मा छि॑त्सि ।
यत्ते॒ तप॒स्तस्मै॑ ते॒ मा वृ॒क्षीत्या॑ह
यथाय॒जुरे॒वैतत् ।
भट्टभास्कर-टीका
यथा यजुर् इति । यथा यजुर्वदति तथैवेतत्सम्पद्यते । देवसन्दर्शनादनुध्यानलक्षणादविच्छेदनं, तपसश्च देवपरिचरणलक्षणादविच्छेदनमिति ॥
सायण-टीका
उत्तरभागं व्याचष्टे -
संदृश इति। अस्मियजुषि तपःशब्ददर्शनात्तपसश्च विच्छिन्नो मा भूवमिति यत्प्रतीयत एतद्यजुरनतिक्रम्य तथैव प्रार्थ्यते।
मूलम् (संयुक्तम्)
सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धे॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॑स्ते
विश्वास-प्रस्तुतिः
“सु॒भूर् अ॑सि॒ - श्रेष्ठो॑ रश्मी॒नाम्।
आ॒यु॒र्धा अ॒स्यायु॑र्मे धे॒ही"त्य् आ॑ह ।
आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते ।
Keith
‘Thou art good, the best of rays;
thou art life bestowing, bestow life upon me’, he says;
verily he invokes this blessing.
मूलम्
सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम्।
आ॒यु॒र्धा अ॒स्यायु॑र्मे धे॒हीत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।
भट्टभास्कर-टीका
2सुभूरित्यादित्योपस्थानम् ॥ आशिषं ‘आयुर्मे धेहि वर्चो मयि धेहि’ इत्येतां आशास्ते । अनेन मन्त्रेण लभते च यथाशासनमिति भावः ॥
सायण-टीका
आदित्योपस्थानमन्त्रं व्याचष्टे-
सुभूरसीति। आयुर्मे धेहीत्यनेनाऽऽशीः प्रतीयते।
मूलम् (संयुक्तम्)
प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते॒ यः [25]वि॒ष्णु॒क्र॒मान्क्रम॑ते सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माᳵ क्र॒म्यन्ते॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै वि॑ष्णुक्र॒मान्क्र॑मेत॒ य इ॒माल्ँ लो॒कान्भ्रातृ॑व्यस्य सव्ँ॒विद्य॒ पुन॑रि॒मल्ँ लो॒कम्प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरो॒हो यदाहे॒दम॒हम॒मुम्भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो॑ऽस्यै दि॒व इती॒माने॒व लो॒कान्भ्रातृ॑व्यस्य सव्ँ॒विद्य॒ पुन॑रि॒मल्ँ लो॒कम्प्र॒त्यव॑रोहति
विश्वास-प्रस्तुतिः
प्र वा ए॒षो॑ ऽस्माल् लो॒काच् च्य॑वते॒
यो वि॑ष्णुक्र॒मान् क्रम॑ते ।
सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माᳵ क्र॒म्यन्ते॑ ।
Keith
He falls away from this world,
who [1] takes the steps of Visnu,
for from the world of heaven the steps of Visnu are taken.
मूलम्
प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते॒
यो वि॑ष्णुक्र॒मान्क्रम॑ते ।
सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माᳵ क्र॒म्यन्ते॑ ।
भट्टभास्कर-टीका
3प्र वा एष इत्यादि ॥ हेतुमाह - सुवर्गायेति । उक्तमुपस्थानान्तं विष्णुक्रमाणां क्रमणम् ।
सायण-टीका
विष्णुक्रमणां स्वर्गार्थत्वाद्विष्णुक्रमैरस्माल्लोकात्प्रच्युतिर्भवति।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
स त्वै वि॑ष्णुक्र॒मान् क्र॑मेत॒
य इ॒माल्ँ लो॒कान् भ्रातृ॑व्यस्य सव्ँ॒विद्य
पुन॑र् इ॒मल्ँ लो॒कम् प्र॑त्यव॒रोहे॒द्
इति॑ ।
Keith
The theologians say, ‘He indeed would take the steps of Visnu who after acquiring these worlds of his foe should descend again to this world.’
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒
स त्वै वि॑ष्णुक्र॒मान्क्र॑मेत॒
य इ॒माल्ँ लो॒कान्भ्रातृ॑व्यस्य सव्ँ॒विद्य पुन॑रि॒मल्ँ लो॒कम्प्र॑त्यव॒रोहे॒दिति॑ ।
भट्टभास्कर-टीका
तत्रैवायं विशेष उच्यते - ब्रह्म वदितुं शीलं येषान्ते आहुः । स विष्णुक्रमान् क्रमितुमर्हति य इमान् लोकान् पृथिवीप्रभृतीन् भ्रातृव्येण निजसुकृतैरार्जितान् संविद्य लब्ध्वा आत्मसात्कृत्य तत्रतत्रारुह्य पुनरिमं मनुष्यलोकं प्रत्यवरोहेदिति ।
सायण-टीका
तस्याः प्रच्युतेः परिहारोपायं ब्रह्मवादिनः परस्परमेवमाहुः — यो यजमानो वैरिण इमाल्ँ लोकांस्तेन संपादितान्वैरिनिःसारणेन लब्ध्वा विष्णुक्रमैः स्वर्गारोहणादूर्ध्वं पुनरिमं मनुष्यलोकं प्रत्यवरोहेत्स एव यजमानो विष्णुक्रमेषु चतुर इति।
विश्वास-प्रस्तुतिः
ए॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरो॒हो यद् आह॑ -
+इ॒दम् अ॒हम् अ॒मुम् भ्रातृ॑व्यम्
आ॒भ्यो दि॒ग्भ्यो॑
ऽस्यै दि॒व
इति॑।
इ॒मान् ए॒व लो॒कान् भ्रातृ॑व्यस्य सव्ँ॒विद्य॒
पुन॑र् इ॒मल्ँ लो॒कम् प्र॒त्य्-अव॑रोहति।
Keith
This is his return descent to this world,
in that he says,‘Here do I exclude my enemy N. N. from these quarters, from this sky’;
verily having acquired these worlds of his foe he descends again to this world.
मूलम्
ए॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरो॒हो यदाहे॒दम॒हम॒मुम्भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो॑ऽस्यै दि॒व इती॒माने॒व लो॒कान्भ्रातृ॑व्यस्य सव्ँ॒विद्य॒ पुन॑रि॒मल्ँ लो॒कम्प्र॒त्यव॑रोहति
भट्टभास्कर-टीका
एष वा इत्यादि । इदमहमित्यस्य मन्त्रस्य वचनं भ्रातृव्यलोकानां संवेदनस्य पुनरिह प्रत्यवरोहस्य च साधनमित्यर्थः । आभ्यो दिग्भ्योस्यै दिव इति द्वयोरुपादानेन सर्वान्भ्रातृव्यस्य लोकानुपलक्षयंस्तेषां भूयस्त्वं गमयति । हस्ताग्रेण निदर्शयन्निदंशब्दं प्रयुङ्क्ते ॥
सायण-टीका
मन्त्रं व्याचष्टे- एष वा इति। इदमहमित्यादिमन्त्रमाहेति यदेष एव पाठोऽस्य भूलोकस्य संबन्धी प्रत्यवरोहः।
मूलम् (संयुक्तम्)
सं [26]ज्योति॑षाऽभूव॒मित्या॑हा॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्यै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्त॒ इत्या॑ह
विश्वास-प्रस्तुतिः
“सञ्ज्योति॑षा ऽभूव॒म्” इत्य् आ॑ह ।
अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति ।
Keith
‘I have been united [2] with the light’, he says;
verily he rests on this world.
मूलम्
सञ्ज्योति॑षाऽभूव॒मित्या॑ह ।
अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
4सं ज्योतिषेत्यात्माभिमर्शनम् ॥ प्रतितिष्ठतीति । प्रतिष्ठयाभिदीप्त्या सङ्गच्छते ॥
सायण-टीका
आत्माभिमर्शनमन्त्रं व्याचष्टे-
संज्योतिषेति। एतल्लोकप्रापके(ण) ज्योतिषा संगतोऽहमित्येव मन्त्रे प्रतीयमानत्वात्।
मूलम् (संयुक्तम्)
असौ वा आ॑दि॒त्य इन्द्र॒स्तस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते
विश्वास-प्रस्तुतिः
“ऐ॒न्द्रीम् आ॒वृत॑म् अ॒न्वाव॑र्त॒” इत्या॑ह ।
अ॒सौ वा आ॑दि॒त्य इन्द्रः॑ ।
तस्यै॒वाऽऽवृत॒म् अनु॑ प॒र्याव॑र्तते ।
Keith
‘I turn the turning of Indra’, he says; Indra is yonder sun; verily he turns his turning.
मूलम्
ऐ॒न्द्रीमा॒वृत॑म॒न्वाव॑र्त॒ इत्या॑ह ।
अ॒सौ वा आ॑दि॒त्य इन्द्रः॑ ।
तस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते ।
भट्टभास्कर-टीका
5ऐन्द्रीमावृतमित्युदक्पर्यावर्तनमन्त्रः ॥ असौ वा इत्यादि । ईश्वरत्वादिन्द्र आदित्यः।
तस्यावृतं पर्यावृत्तिं तेन पूर्वं कृतं यजमानोनुपर्यावर्तते । लक्षणेऽनोः कर्मप्रवचनीयत्वम् ।
सायण-टीका
प्रदक्षिणावृत्तिमन्त्रं व्याचष्टे-
ऐन्द्रीमिति। परमैश्वर्ययोगादादित्यस्येन्द्रत्वम्।
विश्वास-प्रस्तुतिः
दक्षि॒णा प॒र्याव॑र्तते।
स्वम् ए॒व वी॒र्य॑म् अनु॑ प॒र्याव॑र्तते ।
तस्मा॒द् दक्षि॒णो ऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः।
Keith
He turns to the right; verily he revolves round his own strength; therefore the right side of a man is the stronger;
मूलम्
स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते ।
तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः।
भट्टभास्कर-टीका
दक्षिणा दक्षिणेन शरीरभागेन प्रदक्षिणमिति यावत् । ‘दक्षिणादाच्’ ।
स्वमेवेत्यादि । आत्मनश्शरीरस्य दक्षिण एकदेशो वीर्यावत्तरः इतरस्मात् । छान्दसं दीर्घत्वम् । ‘दक्षिणस्यादिगाख्यायाम्’ इत्याद्युदात्तत्वम् ।
सायण-टीका
प्रदक्षिणावृत्तिं विधत्ते-
दक्षिणेति। दक्षिणा प्रादक्षिण्येन। द्रक्षिणभागमवस्थाप्य वामभागस्य परिभ्रमणात्प्रादक्षिण्यम्। पुरुषस्य दक्षिणाभागे सामर्थ्यातिशयसद्भावात्तदेवानुसृत्याऽऽवृत्तिः कृता भवति। यस्माद्दक्षिणभागे वीर्यं श्रुतेरभिप्रेतं तस्माल्लोकेषु सर्वेषु व्यापारेषु दक्षिणहस्तस्यैव वीर्यातिशय उपलभ्यते।
विश्वास-प्रस्तुतिः
अथो॑ आदि॒त्यस्यै॒वाऽऽवृत॒म् अनु॑ प॒र्याव॑र्तते।
Keith
verily also he turns the turning of the sun.
मूलम्
अथो॑ आदि॒त्यस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते।
भट्टभास्कर-टीका
अथो अपि च । पुनर्वचनं प्रादक्षिण्यफलप्रदर्शनार्थम् ॥
सायण-टीका
किंच, आदित्यो मेरुं प्रदक्षिणी करोति तदप्यत्रानुसृतं भवति।
मूलम् (संयुक्तम्)
सम॒हम्प्र॒जया॒ सम्मया॑ प्र॒जेत्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते
विश्वास-प्रस्तुतिः
“सम् अ॒हम् प्र॒जया॒ सम् मया॑ प्र॒जे"त्या॑ह ।
आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते ।
Keith
‘May I be united with offspring, offspring with me’, he says; verily [3] he invokes this blessing.
मूलम्
सम॒हम्प्र॒जया॒ सम्मया॑ प्र॒जेत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।
भट्टभास्कर-टीका
6समहमित्युपस्थानमन्त्रः ॥ आशिषमिति । ससाधनां क्रियामुपसर्ग आहेति योग्यभूतगमनक्रियोपस्थानात् प्रजया सङ्गसीयेति लाभादेवमुक्तम् ॥
सायण-टीका
विपर्ययेणाऽऽवृत्तिमन्त्रं व्याचष्टे-
समहमिति। स्वयं यथा प्रजादिना संगच्छते तथा प्रजादिरपि स्वेन संगच्छत इत्येतदुभयं द्वितीयावृत्त्या प्रार्थ्यते।
मूलम् (संयुक्तम्)
समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यास॒मित्या॑ह यथाय॒जुरे॒वैतत्
विश्वास-प्रस्तुतिः
“समि॑द्धो अग्ने मे दीदिहि।
स॒मे॒द्धा ते॑ अग्ने दीद्यास॒म्” इत्य् आ॑ह ।
य॒था॒य॒जुर् ए॒वैतत् ।
Keith
‘Kindled, O Agni, shine for me;
kindling thee, O Agni, may I shine’,
he says;
that is according to the text.
मूलम्
समि॑द्धो अग्ने मे दीदिहि।
स॒मे॒द्धा ते॑ अग्ने दीद्यास॒मित्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
भट्टभास्कर-टीका
7समिद्ध इति समिदाधानम् ॥ यथायजुरेवैतद्भवति । दीद्यासमिति दीप्तिमत्त्वाशासनम् ॥
सायण-टीका
समिदाधानमन्त्रं स्पष्टार्थत्वेन व्याचष्टे - समिद्ध इति।
मूलम् (संयुक्तम्)
वसु॑मान् य॒ज्ञो वसी॑यान्भूयास॒मित्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॑स्ते
विश्वास-प्रस्तुतिः
“वसु॑मान् य॒ज्ञो वसी॑यान् भूयास॒म्” इत्या॑ह ।
आ॒शिष॑मे॒वैताम् आ शा॑स्ते ।
Keith
‘Be rich the sacrifice; may I be rich’, he says;
verily he invokes this blessing.
मूलम्
वसु॑मान् य॒ज्ञो वसी॑यान्भूयास॒मित्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।
भट्टभास्कर-टीका
8वसुमानित्युपस्थानम् ॥ आशिषमिति । वसीयान् भूयासमित्यनेनैतामाशिषमाशास्ते । लभते च यथाशासनमिति ॥
वसु॑मान् य॒ज्ञो वसी॑यान्भूयासम् ।
सायण-टीका
आहवनीयोपस्थानमन्त्रं व्याचष्टे-
वसुमानिति। वसीयानतिशयेन धनवान्।
मूलम् (संयुक्तम्)
ब॒हु वै गार्ह॑पत्य॒स्यान्ते॑ मि॒श्रमि॑व चर्यत आग्निपावमा॒नीभ्या॒ङ्गार्ह॑पत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्निम्पु॑नी॒त आ॒त्मान॒न्द्वाभ्या॒म्प्रति॑ष्ठित्यै
विश्वास-प्रस्तुतिः
ब॒हु वै गार्ह॑पत्य॒स्यान्ते॑ मि॒श्रम् इ॑व चर्यते ।
आ॒ग्नि॒-पा॒व॒मा॒नीभ्या॒ङ् गार्ह॑पत्य॒म् उप॑ तिष्ठते ।
Keith
Within the Garhapatya much variegated work is performed; with two verses to Agni, the purifier, he pays reverence to the Garhapatya;
मूलम्
ब॒हु वै गार्ह॑पत्य॒स्यान्ते॑ मि॒श्रमि॑व चर्यते ।
आ॒ग्नि॒पा॒व॒मा॒नीभ्या॒ङ्गार्ह॑पत्य॒मुप॑ तिष्ठते ।
भट्टभास्कर-टीका
8बहु वा इत्यादि ॥ गार्हपत्यस्यान्ते समीपे मिश्रमिव पापशबलमिव बहु चर्यते परद्रोहचिन्तादि(षु) । क्षुद्रजन्तुवधादि च । येन अग्निरप्यपूतस्स्यात् ; तस्मादाग्निपावमानीभ्यामृग्भ्यां ‘अग्न आयूंषि पवसे’ इत्याभ्यां गार्हपत्यमुपतिष्ठते ।
सायण-टीका
विधत्ते-
बहु वा इति। गार्हपत्योऽजस्रं धार्यते। तथा सति एतत्संनिधौ बहुविधजन्तुपातकं संभाव्यते। अतो यजमानेन गार्हपत्यस्य समीपे पापमिश्रमिव होमादिकर्मानुष्ठीयते।
विश्वास-प्रस्तुतिः
पु॒नात्य् ए॒वाग्निम्, पुनी॒त आ॒त्मान॑म्।
Keith
verily he purifies the fire, he purifies himself;
मूलम्
पु॒नात्ये॒वाग्निम्, पुनी॒त आ॒त्मान॑म्।
भट्टभास्कर-टीका
पुनात्येवाग्निं पुनीते चैवात्मानम् । कर्त्रभिप्रायत्वादुत्तरत्रात्मनेपदम्, सतिशिष्टोपि विकरणस्वरः लसार्वधातुकस्वरेण बाध्यते इत्याद्युदात्तत्वम् । पुनातीत्यत्र तस्य पित्त्वाद्विकरणस्वरः । समानवाक्ये पदात्परत्वाभावादुभयत्रापि निघाताभावः ।
सायण-टीका
ततोऽग्न आयूंषीत्याद्याभ्यामग्निपवमानदेवकाभ्यां शुद्धिहेतुभ्यामग्न्युपस्थाने वह्नेः स्वस्य च शुद्धिर्भवति।
विश्वास-प्रस्तुतिः
द्वाभ्या॒म् प्रति॑ष्ठित्यै +++(उपतिष्ठते)+++ ।
Keith
(he uses) two for support.
मूलम्
द्वाभ्या॒म्प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
द्वाभ्यामिति । उपतिष्ठत इत्येव । प्रतिष्ठित्या इति । द्वित्वान्वयात् पद्भ्यामिव प्रतिष्ठितो भवति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
“अग्ने॑ गृहपत॒” इत्य् आ॑ह [28]।
य॒था॒य॒जुर् ए॒वैतत् ।
Keith
‘O Agni, lord of the house’, he says [4];
that is according to the text.
मूलम्
अग्ने॑ गृहपत॒ इत्या॑ह [28]।
य॒था॒य॒जुरे॒वैतत् ।
भट्टभास्कर-टीका
10अग्ने गृहपते इत्युपस्थानमेव ॥ यथायजुरिति । सुगृहपतित्वावाप्तिर्ज्योतिष्मदपत्यलाभश्चेत्येतद्यथायजुर्भवत्येव ॥
सायण-टीका
अन्यमपि गार्हपत्योपस्थानमन्त्रं व्याचष्टे-
अग्ने गृहपत इति। तदिदं मन्त्रब्राह्मणं स्पष्टार्थं पूर्वप्रपाठके व्याख्यातं च। तत्र नाम गृह्णातीति विधिः।
मूलम् (संयुक्तम्)
श॒तँ हिमा॒ इत्या॑ह श॒तन्त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैन॑ङ्करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रोऽजा॑त॒स्स्यात्ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रः [29]जा॒तस्स्यात्तेज॑ ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति॒
विश्वास-प्रस्तुतिः
“श॒तँ हिमा॒” इत्या॑ह ।
“श॒तन् त्वा॑ हेम॒न्तान् इ॑न्धिषी॒ये"ति॒ वावैतद् आ॑ह ।
Keith
‘For a hundred winters’, he says;
‘for a hundred winters may I kindle thee’, he says in effect.
मूलम्
श॒तँ हिमा॒ इत्या॑ह ।
श॒तन्त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह ।
भट्टभास्कर-टीका
11शतं हिमा इत्यादि ॥ व्याख्यातं अग्निहोत्राग्न्य्-उपस्पाने ‘सम्पश्यामि’ इत्यत्र ॥
विश्वास-प्रस्तुतिः
पु॒त्रस्य॒ नाम॑ गृह्णात्य् - अन्ना॒दम् ए॒वैन॑ङ्करोति ।
Keith
He utters the name of his son; verily he makes him an eater of food.
मूलम्
पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैन॑ङ्करोति ।
विश्वास-प्रस्तुतिः
“तामा॒शिष॒म् आ शा॑से॒ -
तन्त॑वे॒ ज्योति॑ष्मती॒म्” इति॑ ब्रूया॒द्
यस्य॑ पु॒त्त्रोऽजा॑त॒स् स्यात्।
ते॑ज॒स्व्य् ए॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते ।
Keith
‘This prayer I utter, bringing light for the race’, he should say
who has no son born to him, verily is born to him a brilliant and resplendent son.
मूलम्
तामा॒शिष॒म् आ शा॑से॒ -
तन्त॑वे॒ ज्योति॑ष्मती॒म् इति॑ ब्रूया॒द्
यस्य॑ पु॒त्त्रोऽजा॑त॒स् स्यात्,
ते॑ज॒स्व्य् ए॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते ।
भट्टभास्कर-टीका
किञ्च - तामाशिषं, अनागताभिप्रेतार्थप्रार्थनमाशीः, तामाशासे प्रार्थये ।
यद्वा - आशासनीया आयुरादिसर्वसम्पदाशीः, तामाशासे । ‘आशासः क्वौ’ इतीत्वम् ।
कीदृशीं? ज्योतिष्मतीं दीप्तिमतीं ब्रह्मवर्चसप्रधानाम् ।
कस्मै? तन्तवे अजातापत्यविषयमिदं; अमुष्मा इति वक्ष्यमाणस्य सन्निहितापत्यविषयत्वात् । अमुष्मा इति सन्निहितानाम् अपत्यानां साधारणो निर्देशः ।
तस्मै सहस्र-किरणाय भास्कराय गोविन्दाय च तां ज्योतिष्मतीम् आशिषमाशासे । ‘पुत्रस्य नाम गृह्णाति’ इत्यादि ब्राह्मणम् ॥
सायण-टीका
तद्ग्रहणे प्रकारविशेषमाहाऽऽपस्तम्बः —
“तन्तव इत्यजातस्यामुष्मा इति जातस्य” इति।
अजातस्य पुत्रस्य विशेषनामभावात्तन्तव इत्येतदेव सामान्यनाम गृह्णीयात्। जातस्य पुत्रस्य त्वमुष्मा इत्यनेन विशेषनामनिर्देशो विवक्ष्यते।
विश्वास-प्रस्तुतिः
तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्
यस्य॑ पु॒त्त्रो जा॒तस् स्यात्।
तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सन् द॑धाति ॥
Keith
‘This prayer I utter, bringing light to N. N.’, he should say who has a son born [5];
verily he bestows upon him brilliance and splendour.
मूलम्
तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्
यस्य॑ पु॒त्त्रो जा॒तस् स्यात्।
तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सन् द॑धाति ॥
विश्वास-प्रस्तुतिः
यो वै य॒ज्ञम् प्र॒युज्य॒ न वि॑मु॒ञ्चत्य् - अ॑प्रतिष्ठा॒नो वै स भ॑वति।
Keith
He, who having yoked the sacrifice does not let it free, becomes without a support.
मूलम्
यो वै य॒ज्ञम्प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वति।
भट्टभास्कर-टीका
1यो वै यज्ञमित्यादि ॥ गतम् । अप्रतिष्ठानः प्रतिष्ठारहितः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ।
सायण-टीका
यज्ञविमोकमन्त्रं व्याचष्टे - यो वै यज्ञमिति।
विश्वास-प्रस्तुतिः
कस्त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्च॒त्व् इत्य् आ॑ह ।
प्र॒जाप॑ति॒र् वै कᳶ, प्र॒जाप॑तिनै॒वैनय्ँ॑ यु॒नक्ति॑ ।
प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्यै ।
Keith
‘Who yoketh thee? Let him set thee free’, he says;
Who (ka) is Prajapati;
verily by Prajapati he yokes him,
by Prajapati he lets him free, for support.
मूलम्
कस्त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्च॒त्वित्या॑ह ।
प्र॒जाप॑ति॒र्वै कᳶ प्र॒जाप॑तिनै॒वैनय्ँ॑यु॒नक्ति॑ ।
प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
कस्त्वेति यज्ञविमोकः । प्रजापतिनैवैनं युनक्ति कस्त्वा युनक्ति स त्वा युनक्त्विति प्रजापतिरेव त्वां योक्तुमर्हति ; अतस्स एव त्वां युनक्त्विति, पूर्वं प्रजापतिनैव योगः कारितः ।
एवमत्रापि प्रजापतिनैव विमुञ्चति - कस्त्वा युनक्ति स त्वा विमुञ्चत्विति । प्रजापतिर्हि त्वां युनक्ति स्म । अतस्स एव त्वां विमुञ्चतु । तेन युक्तं त्वां कोन्यो मोक्तुं शक्नोतीति भावः । एवं हि क्रियमाणं प्रतिष्ठित्यै भवति, इतरथा अप्रतिष्ठानस्स्यात् ; अन्येन विमोकस्याविमोकतुल्यत्वात् अप्रतिष्ठान एवेति । उक्तस्स्वरः । ‘चादिलोपे विभाषा’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते ॥
विश्वास-प्रस्तुतिः
ई॒श्व॒रव्ँ वै व्र॒तम् अवि॑सृष्टम् प्र॒दहः॑ ।
“अग्ने॑ व्रतपते व्र॒तम् अ॑चारिष॒म्” इत्या॑ह ।
व्र॒तम् ए॒व [30] वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय ।
Keith
The vow if not released is liable to consume (the sacrificer);
‘O Agni, lord of vows, I have performed my vow’, he says;
verily he releases his vow [6], for atonement, to prevent burning.
मूलम्
ई॒श्व॒रव्ँ वै व्र॒तमवि॑सृष्टम् प्र॒दहः॑ ।
अग्ने॑ व्रतपते व्र॒तम॑चारिष॒मित्या॑ह ।
व्र॒तमे॒व [30] वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय ।
भट्टभास्कर-टीका
13ईश्वरमित्यादि ॥ अविसृष्टं प्रदहः प्रकर्षेण दग्धुमीश्वरं शक्तम् । ‘ईश्वरे तोसुन्कसुनौ’ इति कसुन् । अग्रे व्रतपते इति व्रतविमोकः ॥
सायण-टीका
ईश्वर वा इति। यत्व्रतं गृहीतं सन्न विसृष्टं तद्व्रतं प्रदहो यजमानं प्रदग्धुमीश्वरं समर्थम्। अग्ने व्रतपत इत्यादिमन्त्रपाठ एव व्रतविसर्गः। तेन शीतं सन्तं न दहति।
विश्वास-प्रस्तुतिः
परा॒ङ् वाव य॒ज्ञ ए॑ति॒, न नि व॑र्तते ।
पुन॒र् यो वै य॒ज्ञस्य॑ पुनर्-आल॒म्भव्ँ वि॒द्वान् यज॑ते॒,
तम् अ॒भि नि व॑र्तते ।
Keith
The sacrifice goes away, and turns not back;
to him who sacrifices knowing the restoration of the sacrifice it does turn back;
मूलम्
परा॒ङ्वाव य॒ज्ञ ए॑ति॒ न नि व॑र्तते ।
पुन॒र्यो वै य॒ज्ञस्य॑ पुनराल॒म्भव्ँवि॒द्वान् यज॑ते॒ तम॒भि नि व॑र्तते ।
भट्टभास्कर-टीका
14पराङित्यादि ॥ युक्तमुक्तो गौरिव पराचीनगतिरेव यज्ञो मुक्तो गच्छति न पुनर्निवर्तते । किं सर्वत्र? नेत्याह - यो यज्ञस्य पुनरालम्भं विद्वान्यजते तमभि तदाभिमुख्येन निवर्तत एव ।
सायण-टीका
पुनरालम्भमन्त्रं व्याख्यातुं प्रस्तौति-
पराङिति। पराङ्वाव विमुख एव पुनर्न निवर्तते, पुनरालम्भमन्त्रवादिनं यजमानं प्रति तु पुनर्निवर्तते, पुनरप्यसावनुतिष्ठतीत्यर्थः।
विश्वास-प्रस्तुतिः
“य॒ज्ञो ब॑भूव॒, स आ ब॑भू॒वे"त्य् आ॑ह ।
ए॒ष वै य॒ज्ञस्य॑ पुनराल॒म्भः ।
तेनै॒वैन॒म् पुन॒र् आल॑भते ।
Keith
‘The sacrifice hath become, it hath come into being’, he says;
this is the restoration of the sacrifice, and thereby he restores it.
मूलम्
य॒ज्ञो ब॑भूव॒ स आ ब॑भू॒वेत्या॑ह ।
ए॒ष वै य॒ज्ञस्य॑ पुनराल॒म्भः ।
तेनै॒वैन॒म्पुन॒राल॑भते ।
भट्टभास्कर-टीका
यज्ञो बभूवेत्यादि यज्ञस्य पुनरालम्भः ॥
सायण-टीका
मन्त्रं व्याचष्टे-
यज्ञ इति। एष वै मन्त्रपाठ एव।
मूलम् (संयुक्तम्)
अन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड्य आहि॑ताग्नि॒स्सन्न॑स॒भᳶ प॒शव॒ᳵ खलु॒ वै ब्रा॑ह्म॒णस्य॑ स॒भेष्ट्वा प्राङु॒त्क्रम्य॑ ब्रूया॒द्गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञ इत्यव॑ स॒भाँ रु॒न्धे प्र स॒हस्र॑म्प॒शूना॑प्नो॒त्यास्य॑ प्र॒जायाव्ँ॑वा॒जी जा॑यते ॥ [31]
विश्वास-प्रस्तुतिः
अन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड्,
य आहि॑ताग्नि॒स् सन्न् अ॑स॒भः ।
Keith
Excellence has not been obtained by him
who having established a fire has no retinue;
मूलम्
अन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड्य आहि॑ताग्नि॒स्सन्न॑स॒भः ।
भट्टभास्कर-टीका
15अनवरुद्धेति ॥ विराड् अन्नं असभः अपशुस् स्यात् । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ।
सायण-टीका
गोमतीमन्त्रं विधातुं प्रस्तौति-
अनवरुद्धा इति। यो यजमान आहिताग्निरपि सन्सभारहितो भवेत्, एतस्य यजमानस्य विराड्विशेषेण राजमाना स्वोचितसभा कदाचिदप्यनवरुद्धाऽस्वाधीना भवति। यागकाले सभाहीनस्य लोकव्यावहारकालेऽपि सभा न संभवेदित्यर्थः। नात्र राज्ञ इवामात्यस्वभटरूपा सभा ब्राह्मणस्योचिता, किं तर्हि यज्ञनिष्पादका द्विपदश्चतुष्पादश्च पशवोऽस्य सभा॥
विश्वास-प्रस्तुतिः
प॒शव॒ᳵ खलु॒ वै ब्रा॑ह्म॒णस्य॑ स॒भा।
इ॒ष्ट्वा प्राङु॒त्क्रम्य॑ ब्रूया॒द् -
“गोमाँ॑ अ॒ग्ने , अवि॑माँ, अ॒श्वी य॒ज्ञ”
इति॑।
अव॑ स॒भाँ रु॒न्धे ।
Keith
cattle indeed are the retinue of a Brahman. Having sacrificed,
he should step forward to the east and say, ‘Rich in cattle, in sheep, O Agni, in horses is the sacrifice’;
he wins his retinue,
मूलम्
प॒शव॒ᳵ खलु॒ वै ब्रा॑ह्म॒णस्य॑ स॒भेष्ट्वा प्राङु॒त्क्रम्य॑ ब्रूया॒द् .. गोमाँ॑ अ॒ग्ने , अवि॑माँ अ॒श्वी, य॒ज्ञ इत्यव॑ स॒भाँ रु॒न्धे ।
भट्टभास्कर-टीका
पशवः खल्वित्यादि । द्विपादश्चतुष्पादश्च तस्मादिष्ट्वा प्राङुत्क्रम्य उदेत्य ‘गोमाँ अग्ने’ इत्यादिकां गोमतीमृचं ब्रूयात् जपेत्, अवरुन्धे च सभाम् ।
सायण-टीका
मन्त्रं विधत्ते-
इष्ट्वा प्राङिति। भूमनिन्दाप्रशंसास्विति वैयाकरणैरुक्तत्वाद्गोमानित्यादिको मतुप्प्रत्ययो बाहुल्यवाची।
विश्वास-प्रस्तुतिः
प्र स॒हस्र॑म् प॒शून् आ॑प्नोति ।
Keith
he obtains a thousand cattle,
मूलम्
प्र स॒हस्र॑म्प॒शूना॑प्नोति ।
भट्टभास्कर-टीका
प्राप्नोति च सहस्रं पशून् ।
सायण-टीका
अतः सहस्रप्राप्तिर्युक्ता।
विश्वास-प्रस्तुतिः
आस्य॑ प्र॒जायाव्ँ॑ वा॒जी जा॑यते ॥
Keith
in his offspring a strong one is born.
मूलम्
आस्य॑ प्र॒जायाव्ँ॑वा॒जी जा॑यते ॥
भट्टभास्कर-टीका
आजायते वाजी अस्य प्रजासु । वाजी अन्नवान् पुरुषः । पूर्ववत्प्रथमा तिङ्विभक्तिर्न निहन्यते । ‘बर्हिषोहम्’ इत्यनुवाकान्ते तु ‘प्र सहस्रं पशूनाप्नोति’ इत्येकैव तिङ्विभक्तिः ; आजायत इत्यस्या वेदितृविषयत्वात् । तस्माच्चलोपाभावादुभयमपि तत्र निहन्यते ॥
इति सप्तमे षष्ठोनुवाकः ॥
सायण-टीका
इडावान्प्रजावानिति मन्त्रेऽभिधानादस्य प्रजायामन्नवतः पुत्रस्योत्पत्तिर्युक्ता॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके
षष्ठोऽनुवाकः॥६॥