०५ ध्रुवाप्यायनादिमन्त्रब्राह्मणम् ...{Loading}...
प्रजापतिर्ऋषिः
ध्रुवाप्यायन-यजमानभागप्राशन-पूर्णपात्रनिनयन-विष्णुक्रमादिमन्त्रब्राह्मणम्
मूलम् (संयुक्तम्)
ध्रु॒वाव्ँ वै रिच्य॑मानाय्ँ य॒ज्ञोऽनु॑ रिच्यते य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जा ध्रु॒वामा॒प्याय॑मानाय्ँ य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जा आ प्या॑यतान्ध्रु॒वा घृ॒तेनेत्या॑ह ध्रु॒वामे॒वाऽऽप्या॑ययति॒ तामा॒प्याय॑मानाय्ँ य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जाᳶ प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मिँ॑ स्त्वा दधामि स॒ह यज॑माने॒नेति॑ [21]आ॒ह
विश्वास-प्रस्तुतिः
ध्रु॒वाव्ँ वै रिच्य॑मानाय्ँ य॒ज्ञो ऽनु॑ रिच्यते,
य॒ज्ञय्ँ यज॑मानो॒, यज॑मानम् प्र॒जाः।
Keith
Through the emptying of the Dhruva the sacrifice is emptied,
through the sacrifice the sacrificer,
through the sacrificer offspring.
मूलम्
ध्रु॒वाव्ँ वै रिच्य॑मानाय्ँ य॒ज्ञो ऽनु॑ रिच्यते,
य॒ज्ञय्ँ यज॑मानो॒, यज॑मानम् प्र॒जाः।
विश्वास-प्रस्तुतिः
ध्रु॒वाम् आ॒प्याय॑मानाय्ँ य॒ज्ञो ऽन्वा प्या॑यते,
य॒ज्ञय्ँ यज॑मानो॒ यज॑मानम् प्र॒जाः।
Keith
Through the swelling of the Dhruva, the sacrifice is made to swell,
through the sacrifice the sacrificer,
through the sacrificer offspring.
मूलम्
ध्रु॒वाम् आ॒प्याय॑मानाय्ँ य॒ज्ञो ऽन्वा प्या॑यते,
य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जाः।
विश्वास-प्रस्तुतिः
“आ प्या॑यतान् ध्रु॒वा घृ॒तेने"त्या॑ह -
ध्रु॒वाम् ए॒वाऽऽप्या॑ययति ।
Keith
‘Let the Dhruva swell with ghee’, he says; verily he makes the Dhruva to swell;
मूलम्
आ प्या॑यतान्ध्रु॒वा घृ॒तेनेत्या॑ह - ध्रु॒वामे॒वाऽऽप्या॑ययति ।
भट्टभास्कर-टीका
1आप्यायताम् इति ध्रुवाया आप्यायमानाया अनुमन्त्रणम् ।
सायण-टीका
चतुर्थे शेषाहुत्यनुमन्त्रणमन्त्रा व्याख्याताः। पञ्चमे त्वाप्यायनादिमन्त्रा व्याख्यायन्ते। तत्राऽऽप्यायनमन्त्रं व्याख्यातुमन्वयव्यतिरेकाभ्यां प्रस्तौति-
ध्रुवां वा इति। ध्रुवायां रिक्तायां यज्ञस्यासंपूर्त्या यजमानस्य फलाभावात्त-दीयप्रजाया अन्नाद्यभाव इति व्यतिरेकः। एवमन्वये योज्यम्।
विश्वास-प्रस्तुतिः
ताम् आ॒प्याय॑मानाय्ँ य॒ज्ञो ऽन्वा प्या॑यते
य॒ज्ञय्ँ यज॑मानो॒
यज॑मानम् प्र॒जाः।
Keith
through its swelling the sacrifice is made to swell, through the sacrifice the sacri ficer, throuoh the sacrificer offspring.
मूलम्
तामा॒प्याय॑मानाय्ँ य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जा
भट्टभास्कर-टीका
तामाप्यायमानां स्तोतुमाह - ध्रुवां वा इत्यादि ॥ अनोर्लक्षणे कर्मप्रवचनीयत्वम् । रिचिर् रेचने, रौधादिकः, कर्मकर्तरि यक् व्यत्ययेनाद्युदात्तत्वम् । ‘अचः कर्तृयकि’ इति वा व्यत्ययेनानजन्तस्य भवति । श्यन्वा व्यत्ययेन । ओ प्यायी वृद्धौ । गतमन्यत् ॥
सायण-टीका
मन्त्रं व्याचष्टे - आ प्यायतिमिति।
विश्वास-प्रस्तुतिः
प्र॒जाप॑तेर् वि॒भान् नाम॑ लो॒कः ।
“तस्मिँ॑स् त्वा दधामि स॒ह यज॑माने॒ने"त्या॑ह ।
Keith
‘Prajapati’s is the world called Vibhan. In it I place thee along with the sacrificer’, he says [1];
मूलम्
प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कः ।
तस्मिँ॑ स्त्वा दधामि स॒ह यज॑माने॒नेत्या॑ह ।
मूलम् (संयुक्तम्)
अ॒यव्ँ वै प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मि॑न्ने॒वैन॑न्दधाति स॒ह यज॑मानेन॒ रिच्य॑त इव॒ वा ए॒तद्यद्यज॑ते॒ यद्य॑जमानभा॒गम्प्रा॒श्ञात्या॒त्मान॑मे॒व प्री॑णात्ये॒तावा॒न्वै य॒ज्ञो यावा॑न्यजमानभा॒गो य॒ज्ञो यज॑मानो॒ यद्य॑जमानभा॒गम्प्रा॒श्ञाति॑ य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ष्ठापयति
विश्वास-प्रस्तुतिः
अ॒यव्ँ वै प्र॒जाप॑तेर् वि॒भान् नाम॑ लो॒कः ।
तस्मि॑न्न् ए॒वैन॑न् दधाति स॒ह यज॑मानेन ।
Keith
the world of Prajapati, named Vibhan, is this (world); verily he places it in it along with the sacrificer.
मूलम्
अ॒यव्ँ वै प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कः ।
तस्मि॑न्ने॒वैन॑न्दधाति स॒ह यज॑मानेन ।
भट्टभास्कर-टीका
2प्रजापतेर्विभानिति ॥ यजमानप्राशनमन्त्रः । अयं लोको मनुष्यलोकः सूर्यादिभिर्विविधं भातीति विभान् ।
सायण-टीका
यजमानभागप्राशनमन्त्रं व्याचष्टे-
प्रजापतेरिति। विशेषेण कर्मभूमित्वेन भातीति विभानयं भूलोकः। एनं यजमानभागम्।
विश्वास-प्रस्तुतिः
रिच्य॑त इव॒ वा ए॒तद् यद् यज॑ते ।
यद् य॑जमानभा॒गम् प्रा॒श्ञाति॒,
आ॒त्मान॑म् ए॒व प्री॑णाति ।
Keith
In that he sacrifices he is as it were emptied; in that he eats the sacrificer’s portion, he fills himself.
मूलम्
रिच्य॑त इव॒ वा ए॒तद्यद्यज॑ते ।
यद्य॑जमानभा॒गम्प्रा॒श्ञाति॒
आ॒त्मान॑मे॒व प्री॑णाति ।
भट्टभास्कर-टीका
रिच्यत इवेत्यादि । नियमैः कर्शितत्वात् रिच्यत इव यजमानः । स आत्मीयभागप्राशनेनात्मानं तर्पयति ।
सायण-टीका
यजमानस्य रिक्तीकरणनिवारणेन भागप्राशनं प्रशंसति-
रिच्यत इति। यजत इति यत्, एतेन पुरोडाशाज्यसांनाय्यद्रव्यहोमे यजमानो रिक्त इव भवति। भागप्राशनेन तु प्रीतस्तं क्लेशं जहाति।
विश्वास-प्रस्तुतिः
ए॒तावा॒न् वै य॒ज्ञो, यावा॑न् यजमान-भा॒गः।
य॒ज्ञो यज॑मानः ।
यद् य॑जमानभा॒गम् प्रा॒श्ञाति॒
य॒ज्ञ ए॒व य॒ज्ञम् प्रति॑ष्ठापयति ।
Keith
The sacrifice is the size of the sacrificer’s portion,
the sacrificer is the sacrifice;
in that he eats the sacrificer’s portion,
he places the sacrifice in the sacrifice.
मूलम्
ए॒तावा॒न् वै य॒ज्ञो यावा॑न् यजमानभा॒गः।
य॒ज्ञो यज॑मानः ।
यद्य॑जमानभा॒गम्प्रा॒श्ञाति॒
य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ष्ठापयति ।
भट्टभास्कर-टीका
एतावानित्यादि । प्राधान्याद्यज्ञो यजमान इति तदधीनत्वात्तन्निवृत्तेः ॥
सायण-टीका
यज्ञप्रतिष्ठाहेतुत्वेनापि तदेव प्रशंसति-
एतावानिति। यजमानस्य भागो यावानस्ति एतावानेवेह लोके यजमान-स्योपयुक्तो यज्ञोऽवशिष्टस्य देवैत्विग्भिश्च भक्ष्यमाणत्वात्। स्वयं च यज्ञस्वामित्वेन यज्ञात्मकः। तथा सति यजमानेन भागे प्राशिते यज्ञ एव यज्ञः प्रतिष्ठापितो भवति।
मूलम् (संयुक्तम्)
ए॒तद्वै सू॒यव॑सँ॒ सोद॑कय्ँ॒यद्ब॒र्हिश्चाऽऽप॑श्चै॒तत् [22]यज॑मानस्या॒ऽऽयत॑नय्ँ॒यद्वेदि॒र्यत्पू॑र्णपा॒त्रम॑न्तर्वे॒दि नि॒नय॑ति॒ स्व ए॒वाऽऽयत॑ने सू॒यव॑सँ॒ सोद॑कङ्कुरुते
विश्वास-प्रस्तुतिः
ए॒तद् वै सू॒यव॑सँ॒ सोद॑कं - यद् ब॒र्हिश् चाऽऽप॑श् च ।
मूलम्
ए॒तद्वै सू॒यव॑सँ॒ सोद॑कं यद्ब॒र्हिश्चाऽऽप॑श्च ।
भट्टभास्कर-टीका
3एतद्वा इत्यादि ॥ पूणपात्रविधिः । सूयवसं सोदकं चानेनेतत्क्रियते, यद्बर्हिश्चापश्च संयोज्यन्ते ।
सायण-टीका
पूर्णपात्रस्य निनयनं विधातुं प्रस्तौति –
एतद्वा इति।
विश्वास-प्रस्तुतिः
ए॒तत् [22] यज॑मानस्या॒ऽऽयत॑नं यद् वेदिः॑।
यत् पू॑र्णपा॒त्रम् अ॑न्तर्वे॒दि नि॒नय॑ति॒,
स्व ए॒वाऽऽयत॑ने सू॒यव॑सँ॒ सोद॑कङ् कुरुते ।
Keith
There is good grass and good water where the strew and the waters are [2];
the Vedi is the abode of the sacrificer;
in that he places the full bowl within the Vedi, he establishes good grass and good water in his own abode.
मूलम्
ए॒तत् [22] यज॑मानस्या॒ऽऽयत॑नय्ँ यद्वेदिः॑।
यत्पू॑र्णपा॒त्रम॑न्तर्वे॒दि नि॒नय॑ति॒,
स्व ए॒वाऽऽयत॑ने सू॒यव॑सँ॒ सोद॑कङ्कुरुते ।
भट्टभास्कर-टीका
किञ्च - एतद्यजमानस्यायतनं गृहं यद्वेदिः तस्माद्यदिदमन्तर्वेदि प्रणीतासु पूर्णपात्रमानयति तदेतत्स्व एवायतने आत्मार्थं सूयवसं सोदकं च कुरुते ॥
सायण-टीका
वेदेर्हविर्धारणेन यजमानस्थानत्वम्। एतच्च स्थानं बर्हिषाऽऽ-स्तीर्णत्वात्समीचीनतृणोपेतं प्रणीतानामत्र स्थापितत्वादुदकोपेतं च।विधत्ते-
यत्पूर्णपात्रमिति। सूवयसं तृणसमृद्धिं सोदमुकदसमृद्धिं च कुरुते।
मूलम् (संयुक्तम्)
सद॑सि॒ सन्मे॑ भूया॒ इत्या॒हाऽऽपो॒ वै य॒ज्ञ आपो॒ऽमृतय्ँ॑ य॒ज्ञमे॒वामृत॑मा॒त्मन्ध॑त्ते
विश्वास-प्रस्तुतिः
“सद॑सि॒ सन्मे॑ भूया॒” इत्या॑ह ।
Keith
‘Thou art real, be real for me’, he says;
मूलम्
सद॑सि॒ सन्मे॑ भूया॒ इत्या॑ह ।
भट्टभास्कर-टीका
4तत्र सदसि सन्मे इति पूर्णपात्र अनीयमाने यजमानो जपति ॥
सायण-टीका
निनयनमन्त्रं व्याचष्टे-
सदसिति।
विश्वास-प्रस्तुतिः
आपो॒ वै य॒ज्ञः ।
आपो॒ ऽमृतय्ँ॑, य॒ज्ञम् ए॒वामृत॑म् आ॒त्मन् ध॑त्ते ।
Keith
the sacrifice is the waters,
ambrosia is the water;
verily he bestows upon himself the sacrifice and the waters.
मूलम्
आपो॒ वै य॒ज्ञः ।
आपो॒ऽमृतय्ँ॑ य॒ज्ञमे॒वामृत॑मा॒त्मन्ध॑त्ते ।
भट्टभास्कर-टीका
आपो वा इत्यादि । गतम् । यज्ञममृतं चात्मनि स्थापयति अनेन मन्त्रेण । सदादिपदैर्यज्ञामृते अभिधीयेते इति भावः ॥
सायण-टीका
अपां यज्ञसाधनत्वाद्यज्ञत्वं, जीवनहेतुत्वाच्चामृतत्वं, तस्मादपोऽ-भिलक्ष्य सन्मे भूया इत्युक्ते सति यज्ञरूपममृतं स्वस्मिन्धारयति।
मूलम् (संयुक्तम्)
सर्वा॑णि॒ वै भू॒तानि॑ व्र॒तमु॑प॒यन्त॒मनूप॑ यन्ति॒ प्राच्या॑न्दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒मित्या॑है॒ष वै द॑र्शपूर्णमा॒सयो॑रवभृ॒थः [23]यान्ये॒वैन॑म्भू॒तानि॑ व्र॒तमु॑प॒यन्त॑मनूप॒यन्ति॒ तैरे॒व स॒हाव॑भृ॒थमवै॑ति
विश्वास-प्रस्तुतिः
सर्वा॑णि॒ वै भू॒तानि॑ व्र॒तम् उ॑प॒यन्त॒म् अनूप॑ यन्ति ।
Keith
All creatures attend him who is performing the vow.
मूलम्
सर्वा॑णि॒ वै भू॒तानि॑ व्र॒तमु॑प॒यन्त॒मनूप॑ यन्ति ।
भट्टभास्कर-टीका
5सर्वाणीत्यादि ॥ व्रतोपायनकाल एवैनमनु सर्वाणि भूतानि देवादीनि उपयन्ति उपगच्छन्ति । इदानीं तैस्सर्वैस्सहावभृथमवैति ।
सायण-टीका
व्युत्सेचनमन्त्रं व्याचष्टे-
सर्वाणीति। यो यजमानो यज्ञव्रतमुपैति तमनु देवपित्रादीनि सर्वाणि भूतानि व्रतं प्रारभन्ते। अतो देवपित्रादिमार्जनप्रतिपादकेनानेन मन्त्रेण तैः सर्वैर्भूतैः सहैवावभृथं प्राप्नोति।
विश्वास-प्रस्तुतिः
“प्राच्या॑न् दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒म्” इत्या॑ह ।
एष वै द॑र्शपूर्णमा॒सयो॑र् अवभृ॒थः ।
यान्य् ए॒वैन॑म् भू॒तानि॑ व्र॒तम् उ॑प॒यन्त॑म् अनूप॒यन्ति॒,
तैरे॒व स॒हाव॑भृ॒थम् अवै॑ति ।
Keith
‘In the eastern quarter may the gods, the priests, make (me) bright’, he says;
this is the concluding bath of the new and full moon sacrifices [3].
He goes to the bath along with the creatures which attend him as he performs the vow.
मूलम्
प्राच्या॑न्दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒मित्या॑ह ।
एष वै द॑र्शपूर्णमा॒सयो॑रवभृ॒थः ।
यान्ये॒वैन॑म्भू॒तानि॑ व्र॒तमु॑प॒यन्त॑मनूप॒यन्ति॒
तैरे॒व स॒हाव॑भृ॒थमवै॑ति ।
भट्टभास्कर-टीका
कः पुनरयमवभृथ इत्याह – प्राच्यामित्यादि । अनेन मन्त्रेण यद्दिशां व्युत्सेचनम् ॥
मूलम् (संयुक्तम्)
विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒माल्ँ लो॒कान॑नपज॒य्यम॒भ्य॑जय॒न् यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒माल्ँ लो॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णो॒ᳵ क्रमो॑ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्ष॒ञ्जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒श्छन्दो॑भिरे॒वेमाल्ँ लो॒कान् य॑थापू॒र्वम॒भि ज॑यति ॥ [24]
विश्वास-प्रस्तुतिः
विष्णु॑-मुखा॒ वै दे॒वाश् छन्दो॑भिर् इ॒माल्ँ लो॒कान् अ॑नपज॒य्यम् अ॒भ्य॑जयन् ।
Keith
Headed by Visnu the gods won these worlds by the metres so as to be irrecoverable;
मूलम्
विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒माल्ँ लो॒कान॑नपज॒य्यम॒भ्य॑जयन् ।
भट्टभास्कर-टीका
6विष्णुमुखा इत्यादि ॥ विष्णुक्रमाणां क्रमणविधिः । ते च ‘विष्णोः क्रमोसि’ इत्यादयः । विष्णुमुखाः विष्णुप्रधानाः । अनपजय्यमन्यैरपजेतुमशक्यम् । क्रियाविशेषणम्, ‘अचो यत्’ ‘क्षय्यजय्यौ शक्यार्थे’ इति अयादेशः, ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् ।
सायण-टीका
विष्णुक्रमान्विधत्ते-
विष्णुमुखा इति। देवाः पूर्वं स्वेषु विष्णुमेव मुख्यं कृत्वा छन्दोभिमानिदेवैः सहिता अन्यैर्जेतुं यथा न शक्यते तथा लोकानजयन्।
विश्वास-प्रस्तुतिः
यद् वि॑ष्णु-क्र॒मान् क्रम॑ते॒,
विष्णु॑र् ए॒व भू॒त्वा यज॑मान॒श्
छन्दो॑भिर् इ॒माल्ँ लो॒कान् अ॑नपज॒य्यम् अ॒भि ज॑यति ।
Keith
in that he takes the steps of Visnu the sacrificer becoming Visnu wins these worlds by the metres so as to be irrecoverable.
मूलम्
यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श् छन्दो॑भिरि॒माल्ँ लो॒कान॑नपज॒य्यम॒भि ज॑यति ।
सायण-टीका
अतो यजमानो विष्णुक्रमान्क्रमत इति यत्स विष्णुरेव भूत्वेमाल्ँ लोकानभिजयति।
विश्वास-प्रस्तुतिः
“विष्णो॒ᳵ क्रमो॑ऽस्य् अभिमाति॒-हे"त्य् आ॑ह ।
गा॒य॒त्री वै पृ॑थि॒वी ।
त्रैष्टु॑भम् अ॒न्तरि॑क्षम् ।
जाग॑ती॒ द्यौः ।
आनु॑ष्टुभी॒र् दिशः॑ ।
Keith
‘Thou art the step of Visnu, smiting imprecations’, he says; the earth is the Gayatri, the atmosphere is connected with the Tristubh, the sky is the Jagati, the quarters are connected with the Anustubh;
मूलम्
विष्णो॒ᳵ क्रमो॑ऽस्यभिमाति॒हेत्या॑ह ।
गा॒य॒त्री वै पृ॑थि॒वी ।
त्रैष्टु॑भम॒न्तरि॑क्षम् ।
जाग॑ती॒ द्यौः ।
आनु॑ष्टुभी॒र्दिशः॑ ।
भट्टभास्कर-टीका
विष्णोः क्रमोसीति । चतुर्णां क्रमाणां ग्रहणम् । त्रिष्टुब्जगत्यनुष्टुप्शब्देभ्य उत्सादित्वादञ् । आनुष्टुभीः अनुष्टुब्भ्यः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ।
सायण-टीका
तत्रत्यान्मन्त्रान्व्याचष्टे-
विष्णोः क्रम इति।
विश्वास-प्रस्तुतिः
छन्दो॑भिर् ए॒वेमाल्ँ लो॒कान् य॑थापू॒र्वम् अ॒भि ज॑यति ॥ [24]
Keith
verily by the metres he wins these worlds in order.
मूलम्
छन्दो॑भिरे॒वेमाल्ँ लो॒कान् य॑थापू॒र्वम॒भि ज॑यति ॥ [24]
भट्टभास्कर-टीका
छन्दोभिरेवेत्यादि । गायत्र्यादयः पृथिव्यादीनां कारणानि ; कारणेन च कार्यजयस्सुकर इति भावः ।
यथापूर्वमिति । अनपजय्यमित्यर्थः । अनुक्रमेण वा ॥
इति सप्तमे पञ्चमोनुवाकः ॥
सायण-टीका
गायत्रादिच्छन्दोदेवानां पृथिव्यादिलोकस्वामित्वेन तैः सह लोकानां जेतुं शक्यतया मन्त्रेषु गायत्रेण छन्दसेत्यादि पठितमित्यभिप्रायः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके
पञ्चमोऽनुवाकः॥५॥