०८ शेषाहुत्यनु-मन्त्रण-व्याख्यानम्

०४ शेषाहुत्यनु-मन्त्रण-व्याख्यानम् ...{Loading}...

विस्तारः (द्रष्टुं नोद्यम्)
  • (अनसूय-सूक्तवाक-स्रुग्व्यूहन-परिधिविमोक-शंयुवाक-पत्नीसंयाजाद्यनुमन्त्रणब्राह्मणम्)
    • अनूयाजादिशेषाहुत्यनुमन्त्रणमन्त्राणाम् आप्यायनादिमन्त्राणाम् उपस्थानादिमन्त्राणां (सं १-६-४,५,६ अनुवाकाम्नातानां) ब्राह्मणम्
      अन्तरान्तरा तत्तदनुबन्धिनां केषाञ्चिदर्थानां विधिभिः सहितम्

प्रजापतिर्ऋषिः

विश्वास-प्रस्तुतिः

“बर्हि᳓षो ऽह᳓न् देव-यज्य᳓या प्रजा᳓वान् भूयासम्” इ᳓त्य् आह ।
बर्हि᳓षा वै᳓ प्रजा᳓-पतिᳶ प्रजा᳓ असृजत ।
ते᳓नैव᳓ प्रजा᳓स् सृजते ।

Keith

‘By I sacrifice to the divine strew, may I be possessed of children’, he says;
by the strew Prajapati created offspring,
verily he creates offspring.

मूलम्

ब॒र्हिषो॒ऽहन्दे॑वय॒ज्यया॑ प्र॒जावा॑न्भूयास॒मित्या॑ह ।
ब॒र्हिषा॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
तेनै॒व प्र॒जास्सृ॑जते ।

पद-पाठः

ब॒र्हिषः॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑देव-य॒ज्यया॑ । प्र॒जावा॒निति॑प्र॒जा-वा॒न् । भू॒या॒स॒म् । इति॑ । आ॒ह॒ ।
ब॒र्हिषा॑ । वै । प्र॒जाप॑ति॒रिति॑प्र॒जा-प॒तिः॒ । प्र॒जाइति॑प्र-जाः । अ॒सृ॒ज॒त॒ ।
तेन॑ । ए॒व । प्र॒जाइति॑प्र-जाः । सृ॒ज॒ते॒ ।

भट्टभास्कर-टीका

1अथानूयाजानाम् अनुमन्त्रण-मन्त्राः - बर्हिषोहमित्याद्याः ।
गताः ।

सायण-टीका

तृतीयेऽन्वाहार्योऽभिहितः। चतुर्थे शेषाहुतीनामनुमन्त्रणमन्त्रा व्याख्यायन्ते। तत्रानूयाजमन्त्रान्व्याचष्टे- बर्हिषोऽहमिति।
बर्हिषा बर्हिर्यागानुमन्त्रणेन। एवमितरत्रोभयत्र।

विश्वास-प्रस्तुतिः

“न᳓राशँ᳓सस्याह᳓न् देव-यज्य᳓या पशुमा᳓न् भूयासम्” इ᳓त्य् आह ।
न᳓राशँ᳓सेन वै᳓ प्रजा᳓पतिᳶ पशू᳓न् असृजत ।
ते᳓नैव᳓ पशू᳓न्त् सृजते ।

Keith

‘By sacrifice to the god Naraśansa, may I be possessed of cattle’, he says;
by Naraśansa Prajapati created cattle; verily he creates cattle.

मूलम्

“नरा॒शँस॑स्या॒हन् दे॑वय॒ज्यया॑ पशु॒मान् भू॑यास॒म्” इत्य् आ॑ह ।
नरा॒शँसे॑न॒ वै प्र॒जाप॑तिᳶ प॒शून॑सृजत ।
तेनै॒व प॒शून्त् सृ॑जते ।

पद-पाठः

नरा॒शँस॑स्य । अ॒हम् । दे॒व॒य॒ज्ययेति॑देव-य॒ज्यया॑ । प॒शु॒मानिति॑पशु-मान् । भू॒या॒स॒म् । इति॑ । आ॒ह॒ ।
नरा॒शँसे॑न । वै । प्र॒जाप॑ति॒रिति॑प्र॒जा-प॒तिः॒ । प॒शून् । अ॒सृ॒ज॒त॒ । तेन॑ । ए॒व । प॒शून् । सृ॒ज॒ते॒ ।

भट्टभास्कर-टीका

नरैश्शंसनीयो नराशंसः । द्वितीया अनूयाजदेवता । छान्दसं पूर्वपदस्य दीर्घत्वम् उत्तरपदाद्युदात्तत्वं च ॥

विश्वास-प्रस्तुतिः

“अग्ने᳓स् स्विष्टकृ᳓तो ऽह᳓न् देव-यज्य᳓या᳓ ऽऽयुष्मान्
यज्ञे᳓न प्रतिष्ठा᳓ङ् गमेयम्” इ᳓त्य् आह ।
आ᳓युर् एवा᳓त्म᳓न् धत्ते,
प्र᳓ति यज्ञे᳓न तिष्ठति ।

Keith

‘By sacrifice to the god, Agni Svistakrt, may I attain security through the sacrifice, having long life’, he says;
verily he confers life on himself,
and finds support through the sacrifice.

मूलम्

अ॒ग्नेस्स्वि॑ष्ट॒कृतो॒ऽहन्दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेय॒मित्याह ।
आयु॑रे॒वात्मन्ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति ।

पद-पाठः

अ॒ग्नेः । स्वि॒ष्ट॒कृत॒इति॑स्विष्ट-कृतः॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑देव-य॒ज्यया॑ । आयु॑ष्मान् । य॒ज्ञेन॑ । प्र॒ति॒ष्ठामिति॑प्रति-स्थाम् । ग॒मे॒य॒म् । इति॑ । आ॒ह॒ ।

आयुः॑ । ए॒व । आ॒त्मन् । ध॒त्ते॒ । प्रतीति॑ । य॒ज्ञेन॑ । ति॒ष्ठ॒ति॒ ।

विश्वास-प्रस्तुतिः

दर्शपूर्णमास᳓योर् वै᳓ (15) देवा᳓ उ᳓ज्जितिम् अ᳓नू᳓दजयन् ।
दर्शपूर्णमासा᳓भ्याम् अ᳓सुरान् अ᳓पानुदन्त ।

Keith

With the victory of the new and full moon sacrifices [1] the gods conquered, and by means of the new and full moon sacrifices they drove away the Asuras.

मूलम्

द॒र्श॒पू॒र्ण॒मा॒सयो॒र्वै (15) दे॒वा उज्जि॑ति॒मनूद॑जयन् ।
द॒र्श॒पू॒र्ण॒मा॒साभ्या॒मसु॑रा॒नपा॑नुदन्त ।

पद-पाठः

द॒र्श॒पू॒र्ण॒मा॒सयो॒रिति॑दर्श-पू॒र्ण॒मा॒सयोः॑ । वै । दे॒वाः । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । अ॒ज॒य॒न् । द॒र्श॒पू॒र्ण॒मा॒साभ्या॒मिति॑दर्श-पू॒र्ण॒मा॒साभ्या॑म् । असु॑रान् । अपेति॑ । अ॒नु॒द॒न्त॒ ।

भट्टभास्कर-टीका

2दर्शपूर्णमासयोर्वा इत्यादि ॥ दर्शपूर्णमासयोर्या उज्जितिः उच्छ्रिता जितिः दर्शपूर्णमासनिमित्ता वा । तामनु देवाः उदजयन् । लक्षणेनोः कर्मप्रवचनीयत्वं, ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।

सायण-टीका

सूक्तवाकानुमन्त्रणमन्त्रं व्याचष्टे- दर्शपूर्णमासयोरिति। अनुष्ठितयोर्दर्शपूर्णमासयोरनेनोज्जितिमन्त्रपाठेनोज्जितिरुत्कर्षः संपूर्णता भवति।

विश्वास-प्रस्तुतिः

“अग्ने᳓र् अह᳓म् उ᳓ज्जितिम् अ᳓नू᳓ज्जेषम्” इ᳓त्य् आ᳓ह᳓ ।
दर्शपूर्णमास᳓योर् एव᳓ देव᳓तानाय्ँ य᳓जमान उ᳓ज्जितिम् अ᳓नू᳓ज्जयति ।
दर्शपूर्णमा᳓सा᳓भ्याम् भ्रा᳓तृव्यान् अ᳓प नुदते ।

Keith

‘May I be victorious through the victory of Agni’, he says; verily through the victory of the deities in the new and full moon sacrifices the sacrificer is victorious, and by means of the new and full moon offerings drives away his enemies.

मूलम्

अ॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑ष॒मित्याह ।
द॒र्श॒पू॒र्ण॒मा॒सयो॑रे॒व दे॒वता॑नाय्ँ॒यज॑मान॒ उज्जि॑ति॒मनूज्ज॑यति ।
द॒र्श॒पू॒र्ण॒मासाभ्या॒म्भ्रातृ॑व्या॒नप॑ नुदते ।

पद-पाठः

अ॒ग्नेः । अ॒हम् । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् । इति॑ । आ॒ह॒ ।
द॒र्श॒पू॒र्ण॒मा॒सयो॒रिति॑दर्श-पू॒र्ण॒मा॒सयोः॑ । ए॒व । दे॒वता॑नाम् । यज॑मानः । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । ज॒य॒ति॒ ।
द॒र्श॒पू॒र्ण॒मा॒साभ्या॒मिति॑दर्श-पू॒र्ण॒मा॒साभ्या॑म् । भ्रातृ॑व्यान् । अपेति॑ । नु॒द॒ते॒ ।

भट्टभास्कर-टीका

दर्शपूर्णमासयोरेवेति । दर्शपूर्णमासयोर्या देवता अग्न्यादयः तासामुज्जितिमनु यजमान उज्जयति । सूक्तवाके ‘अग्नेरहम्’ इत्युज्जितीनां वचनात् । अग्नेरहमिति चोपलक्षणं ‘सोमस्याहम्’ इत्यदीनां सर्वासामुज्जितीनाम् ॥

सायण-टीका

तां च यज्ञोज्जितिमनु देवा अप्युत्कर्षेणाजयन्। ताभ्यां च संपूर्णाभ्यां दर्शपूर्णमासाभ्यामसुरान्निराचक्रुः।

सायणोक्त-विनियोगः

स्रुग्व्यूहनानुमन्त्रणं विधत्ते-

विश्वास-प्रस्तुतिः

वा᳓जवतीभ्याव्ँ +++(दर्वी)+++ व्यू᳙हति ।
अ᳓न्नव्ँ वै᳓ वा᳓जो᳓, ऽन्नम् एवा᳓वरुन्धे ।

Keith

With two verses containing the word ‘strength’,
he accompanies the separation (of the ladles)
strength is food, verily he wins food;

मूलम्

वाज॑वतीभ्या॒व्व्ँयू॑हति ।
अन्नव्ँ॒ वै वाजोऽन्न॑मे॒वाव॑रुन्धे ।

पद-पाठः

वाज॑वतीभ्या॒मिति॒वाज॑-व॒ती॒भ्या॒म् । वीति॑ । ऊ॒ह॒ति॒ । अन्न॑म् । वै । वाजः॑ । अन्न॑म् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

8वाजवतीभ्यामित्यादि ॥ ‘वाजस्य मा प्रसवेन’ इत्यादिभ्यां स्रुचौ व्यूहाति विश्लेष्यति ।

सायण-टीका

वाजवतीभ्यामिति। व्यूहति अध्वर्युणा क्रियमाणमनुमन्त्रयेदित्यर्थः।

विश्वास-प्रस्तुतिः

द्वा᳓भ्याम्प्र᳓तिष्ठित्यै ।

Keith

(he uses) two, for support.

मूलम्

द्वाभ्या॒म्प्रति॑ष्ठित्यै ।

पद-पाठः

द्वाभ्या॑म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।

भट्टभास्कर-टीका

अध्वर्युणा क्रियमाणमनुमन्त्रयते - द्वाभ्यां व्यूहनं प्रतिष्ठित्यै भवति । द्वाभ्यां हि पुरुषः प्रतिष्ठति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ॥

सायण-टीका

पादद्वयेनैव प्रकर्षेण स्थित्यर्थं मन्त्रद्वित्वमित्याह- द्वाभ्यामिति।

विश्वास-प्रस्तुतिः

यो᳓ वै᳓ यज्ञ᳓स्य द्वौ᳓ दो᳓हौ विद्वा᳓न् य᳓जते,
उभय᳓तः [16] एव᳓ यज्ञ᳓न् दुहे - पुर᳓स्ताच् चोप᳓रिष्टाच् च ।

Keith

He who sacrifices knowing the two milkings of the sacrifice milks thus the sacrifice on both sides [2], in front and behind.

मूलम्

यो वै य॒ज्ञस्य॒ द्वौ दोहौ॑ वि॒द्वान् यज॑ते ।
उभ॒यतः॑ [16] ए॒व य॒ज्ञन्दु॑हे पु॒रस्ता॑च्चो॒परि॑ष्टाच्च ।

पद-पाठः

यः । वै । य॒ज्ञस्य॑ । द्वौ । दोहौ॑ । वि॒द्वान् । यज॑ते । उ॒भ॒यतः॑ । ए॒व । य॒ज्ञम् । दु॒हे॒ । पु॒रस्ता॑त् । च॒ । उ॒परि॑ष्टात् । च॒ ।

भट्टभास्कर-टीका

4यो वै यज्ञस्येत्यादि ॥ उभयतः यज्ञं दुग्धे पुरस्तादुपरिष्टाच्च । पूर्ववत्तलोपः ।

सायण-टीका

कालविशिष्टमेमा अग्मन्निति मन्त्रपाठं विधातुं प्रस्तौति- यो वा इति।

विश्वास-प्रस्तुतिः

एष᳓ वा᳓ अन्यो᳓ यज्ञ᳓स्य, दो᳓ह इ᳓डायाम् अन्यः᳓ +++(दोहः)+++ ।

Keith

this is one milking of the sacrifice, another is in the Ida.

मूलम्

ए॒ष वा अ॒न्यो य॒ज्ञस्य॒ दोह॒ इडा॑याम॒न्यः +++(दोहः)+++ ।

पद-पाठः

ए॒षः । वै । अ॒न्यः । य॒ज्ञस्य॑ । दोहः॑ । इडा॑याम् । अ॒न्यः ।

भट्टभास्कर-टीका

एष वा इत्यादि । एष वक्ष्यमाणो यज्ञस्यैको दोहः, इडायामेको दोहः । तत्रेडायां स प्रथमेनुवाके उक्तः ‘सा मे सत्याशीः’ इति ॥

सायण-टीका

एष इदानीमेव वक्ष्यामाण एमा अग्मन्नितिमन्त्रपाठः पृथग्दोहः। पूर्वमिडायामुक्तः सा मे सत्याऽऽशीरिति मन्त्रपाठः पृथग्दोहः।

विश्वास-प्रस्तुतिः

य᳓र्हि हो᳓ता य᳓जमानस्य ना᳓म गृह्णीया᳓त् त᳓र्हि ब्रूयाद् -
“आ᳓+इमा᳓ अग्मन्न् आशि᳓षो दो᳓हकामा” इ᳓ति।

Keith

When the Hotr utters the name of the sacrificer, then he should say,
‘Hither these blessings have come, fain for milking’;

मूलम्

यर्हि॒ होता॒ यज॑मानस्य॒ नाम॑ गृह्णी॒यात् तर्हि॑ ब्रूया॒द्
एमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इति॑।

पद-पाठः

यर्हि॑ । होता॑ । यज॑मानस्य । नाम॑ । गृ॒ह्णी॒यात् । तर्हि॑ । ब्रू॒या॒त् ।
एति॑ । इ॒माः । अ॒ग्म॒न् । आ॒शिष॒इत्या॑-शिषः॑ । दोह॑कामा॒इति॒दोह॑-का॒माः॒ । इति॑ ।

भट्टभास्कर-टीका

5अत्र द्वितीयं दोहं विदधाति - यर्हि होतेत्यादि ॥ ‘आ शास्ते यं यजमानोसौ’ इत्यदश्शब्दस्य स्थाने यदा यजमानस्य नाम गृह्णाति तदा ब्रूयाद्यजमानः - एमा अग्मन् इत्यादि ।

सायण-टीका

विधत्ते- यर्हि होतेति।
होता सूक्तवाकं पठन्नाशास्तेऽयं यजमानोऽसाविति यदा नाम गृह्णाति तदानीमेमा अग्मन्निति मन्त्रं पठेत्।

विश्वास-प्रस्तुतिः

सँ᳓स्तुता एव᳓ देव᳓ता दुहे᳓ ।

Keith

verily he milks the deities which he praises together;

मूलम्

सँस्तु॑ता ए॒व दे॒वता॑ दु॒हे ।

पद-पाठः

सँस्तु॑ता॒इति॒सम्-स्तु॒ताः॒ । ए॒व । दे॒वताः॑ । दु॒हे॒ ।

भट्टभास्कर-टीका

संस्तुताः ‘अग्निमावह’ अग्निरिदं हविरजुषत’ इत्यादिषु बहुशस्सङ्कीर्तिताः । दर्शपूर्णमासदेवतास्सर्वा एव दुग्धे ।

सायण-टीका

या देवताः “अग्निमग्न आवह” “अग्निरिदं हविरजुषत” इत्यादिना होत्रा बहुशः संस्तुताः सर्वा अप्यनेन मन्त्रपाठेन यजमानो दुग्धे।

विश्वास-प्रस्तुतिः

अ᳓थो उभय᳓त एव᳓ यज्ञ᳓न् दुहे - पुर᳓स्ताच् चोप᳓रिष्टाच्च ।

Keith

verily he milks the sacrifice on both sides, in front and behind.

मूलम्

अथो॑ उभ॒यत॑ ए॒व य॒ज्ञन्दु॑हे पु॒रस्ता॑च्चो॒परि॑ष्टाच्च ।

पद-पाठः

अथो॒इति॑ । उ॒भ॒यतः॑ । ए॒व । य॒ज्ञम् । दु॒हे॒ । पु॒रस्ता॑त् । च॒ । उ॒परि॑ष्टात् । च॒ ।

भट्टभास्कर-टीका

अथो अपि च उभयतः पुरस्तादुपरिष्टाच्च यज्ञं दुग्धे ॥

सायण-टीका

किंचेडाकालीनो दोह इदानींतनो दोह इत्युभयमपि संपादितं भवति।

विश्वास-प्रस्तुतिः

“रो᳓हितेन त्वा ऽग्नि᳓र् देव᳓ताङ् गमयत्व्” इ᳓त्य् आह ।
एते᳓ वै᳓ देवाश्वाः᳓ [17]।
य᳓जमानᳶ प्रस्तरः᳓।

Keith

‘With the red steed may Agni convey thee to the god’, he says;
these are the steeds of the gods [3],
the straw is the sacrificer;

मूलम्

रोहि॑तेन त्वा॒ऽग्निर्दे॒वता॑ङ्गमय॒त्वित्या॑ह ।
ए॒ते वै दे॑वा॒श्वाः [17]।

यज॑मानᳶ प्रस्त॒रः।

पद-पाठः

रोहि॑तेन । त्वा॒ । अ॒ग्निः । दे॒वता॑म् । ग॒म॒य॒तु॒ । इति॑ । आ॒ह॒ ।
ए॒ते । वै । दे॒वा॒श्वाइति॑देव-अ॒श्वाः ।

यज॑मानः । प्र॒स्त॒र इति॑ प्र-स्त॒रः ।

भट्टभास्कर-टीका

6"रोहितेन त्वे"ति प्रस्तरस्य प्रह्रियमाणस्यानुमन्त्रणम् ॥
तत्रैते रोहितादयः देवानाम् अग्न्यादीनाम् अश्वाः ।
प्रस्तीर्यत इति प्रस्तरः । ‘ऋदोरप्’ । थाथादिनोत्तरपदान्तोदात्तत्वं, प्राधान्यात्ताच्छब्द्यम् ।

सायण-टीका

प्रस्तरानुमन्त्रणमन्त्रं व्याचष्टे- रोहितेनेति। यजमानवद्यागसाधनत्वात्प्रस्तरे यजमानत्वोपचारः।

विश्वास-प्रस्तुतिः

य᳓द् एतैᳶ᳓ प्रस्तर᳓म् प्रह᳓रति,
देवाश्वै᳓र् एव᳓ य᳓जमानँ सुवर्गल्ँ᳓ लोक᳓ङ् गमयति ।

Keith

in that he casts forward the straw with them,
he makes the sacrificer to go by the steeds of the gods to the world of heaven.

मूलम्

यदे॒तैᳶ प्र॑स्त॒रम्प्र॒हर॑ति देवा॒श्वैरे॒व यज॑मानँ सुव॒र्गल्ँ लो॒कङ्ग॑मयति ।

पद-पाठः

यत् । ए॒तैः । प्र॒स्त॒रमिति॑प्र-स्त॒रम् । प्र॒हर॒तीति॑प्र-हर॑ति । दे॒वा॒श्वैरिति॑देव-अ॒श्वैः । ए॒व । यज॑मानम् । सु॒व॒र्गमिति॑सुवः-गम् । लो॒कम् । ग॒म॒य॒ति॒ ।

भट्टभास्कर-टीका

यदेतैरित्यादि । एतैरनुमन्त्र्यमाणं प्रस्तरं प्रहरन्नग्निः देवाश्वैर्यजमानं स्वर्गं प्रापयति ॥

विश्वास-प्रस्तुतिः

“वि᳓ ते मुञ्चामि रशना᳓+++(=शिरस्सूत्राणि)+++ वि᳓ रश्मी᳓न्” इ᳓त्य् आह ।
एष᳓ वा᳓ अग्ने᳓र् विमोक᳓स्, ते᳓नैवै᳓नव्ँ वि᳓ मुञ्चति ।

Keith

‘I unyoke thy head ropes, thy reins’, he says;
that is the unyoking of Agni; verily thereby he unyokes him.

मूलम्

वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीनित्या॑ह ।
ए॒ष वा अ॒ग्नेर्वि॑मो॒कस्तेनै॒वैनव्ँ॒वि मु॑ञ्चति ।

पद-पाठः

वीति॑ । ते॒ । मु॒ञ्चा॒मि॒ । र॒श॒नाः । वीति॑ । र॒श्मीन् । इति॑ । आ॒ह॒ ।
ए॒षः । वै । अ॒ग्नेः । वि॒मो॒कइति॑वि-मो॒कः ।
तेन॑ । ए॒व । ए॒न॒म् । वीति॑ । मु॒ञ्च॒ति॒ ।

भट्टभास्कर-टीका

7वि ते मुञ्चामीति परिधीनां विमुच्यमानानाम् अनुमन्त्रणम् ॥ एष मन्त्रोग्निविमोको नाम ॥

सायण-टीका

परिधिविमोकानुमन्त्रणमन्त्रं व्याचष्टे- वि ते मुञ्चामीति।
ते रशना विमुञ्चामीत्यग्निमुद्दिश्याभिधानादयमग्नेर्विमोकः।

विश्वास-प्रस्तुतिः

“वि᳓ष्णोः शय्ँयो᳓र् अह᳓न् देवयज्य᳓या
यज्ञे᳓न प्रतिष्ठा᳓ङ् गमेयम्” इ᳓त्य् आह ।
यज्ञो᳓ वै᳓ वि᳓ष्णुर्, यज्ञ᳓ एवा᳓न्ततᳶ᳓ प्र᳓ति तिष्ठति ।

Keith

‘By sacrifice to the god Visnu, by the sacrifice may I attain health and wealth and security’, he says; Visnu is the sacrifice; verily the sacrifice finds support at the end.

मूलम्

विष्णोः॑ शय्ँ॒योर॒हन्दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेय॒मित्या॑ह ।
य॒ज्ञो वै विष्णु॑र्य॒ज्ञ ए॒वान्त॒तᳶ प्रति॑ तिष्ठति ।

पद-पाठः

विष्णोः॑ । शय्ँ॒योरिति॑शम्-योः । अ॒हम् । दे॒व॒य॒ज्ययेति॑देव-य॒ज्यया॑ । य॒ज्ञेन॑ । प्र॒ति॒ष्ठामिति॑प्रति-स्थाम् । ग॒मे॒य॒म् । इति॑ । आ॒ह॒ ।

य॒ज्ञः । वै । विष्णुः॑ । य॒ज्ञे । ए॒व । अ॒न्त॒तः । प्रतीति॑ । ति॒ष्ठ॒ति॒ ।

भट्टभास्कर-टीका

8शंयुवाकस्य उक्तस्यानुमन्त्रणं विष्णोरिति ॥

सायण-टीका

शंयुवाकानुमन्त्रणमन्त्रं व्याचष्टे- विष्णोरिति। यज्ञस्य फलव्याप्त्या विष्णुत्वम्। अन्ततः समाप्तिकाले।

विश्वास-प्रस्तुतिः

“सो᳓मस्याह᳓न् देव-यज्य᳓या सुरे᳓ताः [18]+ रे᳓तो धिषीये᳓“त्याह ।
सो᳓मो वै᳓ रेतोधा᳓स्, ते᳓नैव᳓ रे᳓त आत्म᳓न् धत्ते ।

Keith

‘By sacrifice to the god Soma, possessing good seed [4], may I impregnate seed’, he says;
Soma is the impregnator of seed;
verily he confers seed upon himself.

मूलम्

सोम॑स्या॒हन्दे॑वय॒ज्यया॑ सु॒रेताः॑ [18] +रेतो॑ धिषी॒येत्या॑ह ।
सोमो॒ वै रे॑तो॒धास्तेनै॒व रेत॑ आ॒त्मन्ध॑त्ते ।

पद-पाठः

सोम॑स्य । अ॒हम् । दे॒व॒य॒ज्ययेति॑देव-य॒ज्यया॑ । सु॒रेता॒इति॑सु-रेताः॑ । रेतः॑ । धि॒षी॒य॒ । इति॑ । आ॒ह॒ ।

सोमः॑ । वै । रे॒तो॒धा इति॑ रेतः-धाः । तेन॑ । ए॒व । रेतः॑ । आ॒त्मन् । ध॒त्ते॒ ।

भट्टभास्कर-टीका

9सोमस्याहमित्यादयः पत्नीसंयाजानुमन्त्रणमन्त्राः ॥

सायण-टीका

प्रथमस्य संयाजस्यानुमन्त्रणमन्त्रं व्याचष्टे-
सोमस्येति। गर्भाशये रेतोधारणं सोमस्यानुग्रहाद्भवति। ततः सोमो रेतोधाः।

विश्वास-प्रस्तुतिः

“त्व᳓ष्टुर् अह᳓न् देव-यज्य᳓या पशूनाँ᳓ रूप᳓म् पुषेयम्” इ᳓त्य् आह ।
त्व᳓ष्टा वै᳓ पशूना᳓म् मिथुना᳓नाँ रूप-कृ᳓त् ।
ते᳓नैव᳓ पशूनाँ᳓ रूप᳓म् आत्म᳓न् धत्ते।

Keith

‘By sacrifice to the god Tvastr, may I prosper the form of cattle’;
Tvastr is the form-maker of the pairings of cattle,
and thereby he confers upon himself the form of cattle.

मूलम्

त्वष्टु॑र॒हन्दे॑वय॒ज्यया॑ पशू॒नाँ रू॒पम्पु॑षेय॒मित्या॑ह ।
त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृत् ।
तेनै॒व प॑शू॒नाँ रू॒पमा॒त्मन्ध॑त्ते।

पद-पाठः

त्वष्टुः॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑देव-य॒ज्यया॑ । प॒शू॒नाम् । रू॒पम् । पु॒षे॒य॒म् । इति॑ । आ॒ह॒ ।
त्वष्टा॑ । वै । प॒शू॒नाम् । मि॒थु॒नाना॑म् । रू॒प॒कृदिति॑रूप-कृत् ।

तेन॑ । ए॒व । प॒शू॒नाम् । रू॒पम् । आ॒त्मन् । ध॒त्ते॒ ।

सायण-टीका

द्वितीयपत्नीसंयाजस्यानुमन्त्रणमन्त्रं व्याचष्टे-
त्वष्टुरिति। अन्यत्र “यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति” इत्याम्नानान्मनुष्यगवाश्वादिपशूनां स्त्रीपुरुषमिथुनात्मकानां रूपं त्वष्टा करोति।

विश्वास-प्रस्तुतिः

“देवा᳓नाम् प᳓त्नीर्, अग्नि᳓र् गृह᳓पतिर् यज्ञ᳓स्य मिथुन᳓म् ।
त᳓योर् अह᳓न् देवयज्य᳓या मिथुने᳓न प्र᳓ भूयासम्” इ᳓त्य् आह ।

एत᳓स्माद् वै᳓ मिथुना᳓त् प्रजा᳓पतिर् मिथुने᳓न [19] प्रा᳓जायत ।
त᳓स्माद् एव᳓ य᳓जमानो मिथुने᳓न प्र᳓ जायते ।

Keith

‘The wives of the gods, Agni, the lord of the house, are the pair of the sacrifice; by sacrifice to these deities may I be propagated with a pair.’

मूलम्

दे॒वाना॒म्पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नम् ।
तयो॑र॒हन्दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यास॒मित्या॑ह ।

ए॒तस्मा॒द्वै मि॑थु॒नात्प्र॒जाप॑तिर्मिथु॒नेन॑ [19] +प्राजा॑यत ।
तस्मा॑दे॒व यज॑मानो मिथु॒नेन॒ प्र जा॑यते ।

पद-पाठः

दे॒वाना॑म् । पत्नीः॑ ।
अ॒ग्निः । गृ॒हप॑ति॒रिति॑गृ॒ह-प॒तिः॒ ।
य॒ज्ञस्य॑ । मि॒थु॒नम् ।
तयोः॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑देव-य॒ज्यया॑ । मि॒थु॒नेन॑ । प्रेति॑ । भू॒या॒स॒म् । इति॑ । आ॒ह॒ ।
ए॒तस्मा॑त् । वै । मि॒थु॒नात् । प्र॒जाप॑ति॒रिति॑प्र॒जा-प॒तिः॒ ।
मि॒थु॒नेन॑ । प्रेति॑ । अ॒जा॒य॒त॒ ।
तस्मा॑त् । ए॒व । यज॑मानः । मि॒थु॒नेन॑ । प्रेति॑ । जा॒य॒ते॒ ।

भट्टभास्कर-टीका

मिथुनेन प्रजायत इति। मिथुनेन प्रजावान् भवेत् । तस्मात्पूर्वोक्ताद्यज्ञस्य मिथुनाद्यजमानो मिथुनेन प्रजावान् भवति ॥

सायण-टीका

तृतीयचतुर्थपत्नीसंयाजयोरेकीकारेणानुमन्त्रणमन्त्रं व्याचष्टे - देवानामिति।

विश्वास-प्रस्तुतिः

“वेदो᳙ऽसि, वि᳓त्तिर् असि, विदे᳓ये᳓“त्य् आह ।
वेदे᳓न वै᳓ देवा᳓ अ᳓सुराणाव्ँ वित्तव्ँ᳓ वे᳓द्यम् अविन्दन्त ।
त᳓द् वेद᳓स्य वेदत्व᳓म् ।

Keith

‘Thou art the bundle, thou art gain, may I gain’, he says;
by the bundle (vedena) the gods won (avindanta) the desirable wealth of the Asuras,
and that is why the bundle has its name.

मूलम्

वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देयेत्या॑ह ।

वे॒देन॒ वै दे॒वा असु॑राणाव्ँवि॒त्तव्ँवेद्य॑मविन्दन्त ।

तद्वे॒दस्य॑ वेद॒त्वम् ।

पद-पाठः

वे॒दः । अ॒सि॒ । वित्तिः॑ । अ॒सि॒ । वि॒देय॑ । इति॑ । आ॒ह॒ ।
वे॒देन॑ । वै । दे॒वाः । असु॑राणाम् । वि॒त्तम् । वेद्य॑म् । अ॒वि॒न्द॒न्त॒ ।
तत् । वे॒दस्य॑ । वे॒द॒त्वमिति॑वेद-त्वम् ।

भट्टभास्कर-टीका

10वेदोसीति वेदेऽन्तर्वेदि विधीयमाने यजमानं वाचयति ॥ वित्तं लब्धं वेद्यं लब्धुं योग्यं च धनं वेदादलभन्त देवाः ।
‘विदेर्वीत्तश्च विन्नश्च’ इति पाक्षिको नत्वाभावः, विद्यते लभ्यतेनेनेति करणे घञ् । उञ्छादित्वादन्तोदात्तत्वम् ।

सायण-टीका

वेदाभिमर्शनमन्त्रं व्याचष्टे- वेदोऽसीति।
वित्तं पूर्वलब्धं धनं, वेद्यमितः परं लब्धव्यं, तदुभयमसुरसंबन्धि यत्र क्वापि निक्षिप्तं, तदुभयं देवाः कदाचिद्वेदेन भूमिं संमृजन्तोऽलभन्त। ततो विद्यते वित्तमनेनेति व्युत्पत्त्या वेदत्वं निष्पन्नम्।

विश्वास-प्रस्तुतिः

य᳓द्-यद् भ्रा᳓तृव्यस्याभिध्या᳓येत्
त᳓स्य ना᳓म गृह्णीयात् ।
त᳓द् एवा᳓स्य स᳓र्वव्ँ वृङ्क्ते ।

Keith

Whatever of his foe’s he may covet, the name of that he should utter; verily he wing it all from him.

मूलम्

यद्य॒द्भ्रातृ॑व्यस्याभि॒ध्याये॒त्
तस्य॒ नाम॑ गृह्णीयात् ।
तदे॒वास्य॒ सर्वव्ँ॑वृङ्क्ते ।

पद-पाठः

यद्य॒दिति॒यत्-य॒त् । भ्रातृ॑व्यस्य । अ॒भि॒ध्याये॒दित्य॑भि-ध्याये॑त् । तस्य॑ । नाम॑ । गृ॒ह्णी॒या॒त् । तत् । ए॒व । अ॒स्य॒ । सर्व॑म् । वृ॒ङ्क्ते॒

भट्टभास्कर-टीका

यद्यद्भ्रातृव्यस्य सम्बन्धि गृहक्षेत्रादि तद् अभिध्यायेत् “इदं ममास्त्व्” इति मनसा काङ्क्षेत्, “मेदम् अस्य भूयाद्” इति वा ।

सायण-टीका

विधत्ते-यद्यद् भ्रातृव्येति। वैरिणः संबन्धि यद्गृहक्षेत्रादिकं यजमानो ममास्त्वित्यभिध्यायेत्तस्य सर्वस्य नामधेयं मन्त्रमध्ये गृहीत्वा विदेयेत्येतत्पदं पठेत्।

विश्वास-प्रस्तुतिः

घृत᳓वन्तङ् कुलायि᳓नँ+++(=नीडिनं)+++ राय᳓स्पो᳓षँ सहस्रि᳓णव्ँ
वेदो᳓ ददातु वाजि᳓नम् इ᳓त्य् आह। प्र᳓ सह᳓स्रम् पशू᳓न् आप्नोति ।

Keith

‘May the bundle bestow increase of wealth, rich in ghee, rich in houses, a thousandfold, strong’, he says;
he obtains a thousand cattle.

मूलम्

घृ॒तव॑न्तङ्कुला॒यिनँ॑ रा॒यस्पोषँ॑ स॒ह॒स्रिणव्ँ॑ वे॒दो द॑दातु वा॒जिन॒मित्या॑ह ।
प्र स॒हस्र॑म्प॒शूना॑प्नोति ।

पद-पाठः

घृ॒तव॑न्त॒मिति॑घृ॒त-व॒न्त॒म् । कु॒ला॒यिन॑म् । रा॒यः । पोष॑म् । स॒ह॒स्रिण॑म् । वे॒दः । द॒दा॒तु॒ । वा॒जिन॑म् । इति॑ । आ॒ह॒ ।
प्रेति॑ । स॒हस्र॑म् । प॒शून् । आ॒प्नो॒ति॒ ।

भट्टभास्कर-टीका

यं द्विष्यात् तस्य नामधेयं विदेयेत्यतः पुरा गृह्णीयात् ।
तत्सर्वमस्य वृङ्क्ते स्वयमेव गृह्णाति । वृजी वर्जने, रौधादिकः ।
यद्वा - तत्सर्वं तस्य वर्जयति नाशयति ।

सायण-टीका

एतस्य मन्त्रस्यान्त्यभागे सहस्रिणमिति पदस्योच्‍चारणं प्रशंसति - घृतवन्तमिति।

विश्वास-प्रस्तुतिः

आ᳓ऽस्य प्रजा᳓याव्ँ वाजी᳓ जायते य᳓ एवव्ँ᳓ वे᳓द ॥ [20]

Keith

In his offspring a strong one is born who knows thus.

मूलम्

आऽस्य॑ प्र॒जायाव्ँ॑वा॒जी जा॑यते॒ य ए॒वव्ँ वेद॑ ॥ [20]

पद-पाठः

एति॑ । अ॒स्य॒ । प्र॒जाया॒मिति॑प्र-जाया॑म् । वा॒जी । जा॒य॒ते॒ । यः । ए॒वम् । वेद॑॥[20]

भट्टभास्कर-टीका

वेदितुः प्रजासु वाजी जायते अन्नवानेव सर्वं आजीजायते, सर्वत्र वा जायते ॥

इति सप्तमे चतुर्थोनुवाकः ॥

सायण-टीका

मन्त्रार्थवेदनं प्रशंसति- आऽस्येति। प्रजायां संततौ सर्वतः पुत्रोऽन्नसंमृद्धो जायते॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके
चतुर्थोऽनुवाकः॥४॥