०७ अन्वाहार्याभिधानब्राह्मणम्

०३ अन्वाहार्याभिधानब्राह्मणम् ...{Loading}...

विस्तारः (द्रष्टुं नोद्यम्)

प्रजापतिर्ऋषिः

  • ऐष्टिकयाजमानब्राह्मणशेषः
    • अन्वाहार्यस्य विधिः,

परोक्ष-प्रीतिः

भास्करोक्त-विनियोगः

1अथान्वाहार्यं विधास्यन्नाह -परोक्षं वा इत्यादि ॥

विश्वास-प्रस्तुतिः

परो᳓क्षव्ँ वा᳓ अन्ये᳓ देवा᳓ इज्य᳓न्ते ।
प्रत्य᳓क्षम् अन्ये᳓ ।

Keith

Secretly offering is made to one set of gods, openly to another.

मूलम्

प॒रोक्षव्ँ॒ वा अ॒न्ये दे॒वा इ॒ज्यन्ते॑ ।
प्र॒त्यक्ष॑म॒न्ये ।

पद-पाठः

प॒रोक्ष॒मिति॑परः-अक्ष॑म् । वै । अ॒न्ये । दे॒वाः । इ॒ज्यन्ते॑ । प्र॒त्यक्ष॒मिति॑प्रति-अक्ष॑म् । अ॒न्ये ।

भट्टभास्कर-टीका

अक्ष्णः परस्तात् परोक्षम् । ‘परोक्षे लिट्’ इति निपातनाद्रूपसिद्धिः ।

अक्षमक्षं प्रति प्रत्यक्षम्, यथार्थोऽव्ययीभावः । उभयत्रापि ‘कूलतीरतूल’ इत्यादिना उत्तरपदाद्युदात्तत्वम्, ‘एकान्याभ्यां समर्थाभ्याम्’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते ।

सायण-टीका

द्वितीया इडायाः प्रशंसोक्ता। तृतीयेऽन्वाहार्य उच्‍यते। तस्य दानं विधातुं प्रस्तौति- परोक्षमिति। परोक्षमिति क्रियाविशेषणम्। अग्नीन्द्रादीनामदृश्यमानत्वात्तद्यागः परोक्षः। ऋत्विजां दृश्यमानत्वात्तद्यागः प्रत्यक्षः।

विश्वास-प्रस्तुतिः

य᳓द् +++(परोक्षं यष्टव्यान्)+++ य᳓जते,
य᳓ एव᳓ देवाᳶ᳓ परो᳓क्षम् इज्य᳓न्ते,
ता᳓न् एव᳓ त᳓द् यजति
य᳓द् अन्वाहार्य᳙म् आह᳓रति।

Keith

The gods who receive offering secretly, he thus offers to them in sacrifice; in that he brings the Anvaharya mess–

मूलम्

यद्यज॑ते॒ य ए॒व दे॒वाᳶ प॒रोक्ष॑मि॒ज्यन्ते॒ ताने॒व तद्य॑जति॒ यद॑न्वाहा॒र्य॑मा॒हर॑ति।

पद-पाठः

यत् । यज॑ते । ये । ए॒व । दे॒वाः । प॒रोक्ष॒मिति॑परः-अक्ष॑म् । इ॒ज्यन्ते॑ । तान् । ए॒व । तत् । य॒ज॒ति॒ ।
यत् । अ॒न्वा॒हा॒र्य॑मित्य॑नु-आ॒हा॒र्य॑म् । आ॒हर॒तीत्या॑-हर॑ति ।

भट्टभास्कर-टीका

यद्यजते इत्यादि । यागेन परोक्षं यष्टव्यान् यजते । प्रत्यक्षयष्टव्यानन्वाहार्याहरणेन प्रीणयति ।

सायण-टीका

अन्वाहार्यदानं विधत्ते- यदन्वाहार्यमिति। अन्वाहार्य पक्व ओदनस्तामाहरत्यृत्विग्भ्यो दद्यात्।

ब्राह्मण-प्रीतिः

विश्वास-प्रस्तुतिः

एते᳓ वै᳓ देवाᳶ᳓ प्रत्य᳓क्षय्ँ
य᳓द् ब्राह्मणा᳓स् -
ता᳓न् एव᳓ ते᳓न प्रीणाति ।

Keith

the Brahmans are the gods openly–them he verily delights.

मूलम्

ए॒ते वै दे॒वाᳶ प्र॒त्यक्षय्ँ॒यद्ब्रा॑ह्म॒णास्ताने॒व तेन॑ प्रीणाति ।

पद-पाठः

ए॒ते । वै । दे॒वाः । प्र॒त्यक्ष॒मिति॑प्रति-अक्ष॑म् । यत् । ब्रा॒ह्म॒णाः । तान् । ए॒व । तेन॑ । प्री॒णा॒ति॒ ।

भट्टभास्कर-टीका

एते वै देवाः प्रत्यक्षमिति । वर्तन्त इति शेषः ।

सायण-टीका

प्रत्यक्षं वर्तन्त इति शेषः।

छिद्र-पूर्तिः

विश्वास-प्रस्तुतिः

अ᳓थो द᳓क्षिणैवा᳓स्यैषा᳓ ।
अ᳓थो यज्ञ᳓स्यैव᳓ छिद्र᳓म् अ᳓पिदधाति ।

Keith

This is his sacrificial fee: verily he mends the rent in the sacrifice;

मूलम्

अथो॒ दक्षि॑णै॒वास्यै॒षा ।
अथो॑ य॒ज्ञस्यै॒व छि॒द्रमपि॑दधाति ।

पद-पाठः

अथो॒इति॑ । दक्षि॑णा । ए॒व । अ॒स्य॒ । ए॒षा । अथो॒इति॑ । य॒ज्ञस्य॑ । ए॒व । छि॒द्रम् । अपीति॑ । द॒धा॒ति॒ ।

भट्टभास्कर-टीका

अथो अपि च दक्षिणैवास्य यागस्यैषा यदन्वाहार्याहरणम् ।
अपि च ; यज्ञस्य यच्छिद्रं प्रमादालस्यादिना छिन्नं तदपिदधाति पूरयति ॥

सायण-टीका

अन्वाहार्यस्य दक्षिणारूपत्वेन यज्ञच्छिद्रपिधायकत्वेन च त प्रशंसति- अथ दक्षिणेति।

विश्वास-प्रस्तुतिः

य᳓द् वै᳓ यज्ञ᳓स्य क्रूरय्ँ᳓ य᳓द् वि᳓लिष्टं
त᳓द् अन्वाहार्ये᳙ण [11] +अन्वा᳓हरति ।
त᳓द् अन्वाहार्य᳙स्यान्वाहार्यत्व᳓म् ।

Keith

whatever in the sacrifice is harsh or is injured, that he makes good (anvaharati) [1] with the Anvaharya mess, and that is why it has its name.

मूलम्

यद्वै य॒ज्ञस्य॑ क्रू॒रय्ँयद्विलि॑ष्टं॒ तद॑न्वाहा॒र्ये॑ण [11] +अ॒न्वाह॑रति ।
तद॑न्वाहा॒र्य॑स्यान्वाहार्य॒त्वम् ।

पद-पाठः

यत् । वै । य॒ज्ञस्य॑ । क्रू॒रम् । यत् । विलि॑ष्ट॒मिति॒वि-लि॒ष्ट॒म् । तत् । अ॒न्वा॒हा॒र्ये॑णेत्य॑नु-आ॒हा॒र्ये॑ण । अ॒न्वाह॑र॒तीत्य॑नु-आह॑रति ।

तत् । अ॒न्वा॒हा॒र्य॑स्येत्य॑नु-आ॒हा॒र्य॑स्य । अ॒न्वा॒हा॒र्य॒त्वमित्य॑न्वहार्य-त्वम् ।

भट्टभास्कर-टीका

2अधुना छिद्रापिधानं समर्थयते - यद्वा इत्यादि ॥ यज्ञस्य यत्क्रूरं मात्रातीतं क्रियते यच्च विलिष्टं न्यूनं क्रियते । लिश अल्पीभावे । तदन्वाहार्येणान्वाहरति हीनं पुनरन्वाहरति ।
यद्वा - अनुक्रमेणाहृत्य नाशयति । तदन्वाहार्यत्वमस्य । करणे ण्यत् । तस्माच्छिद्रापिधानमेतत् इति । अन्वाहार्यः ओदनविशेषः ॥

सायण-टीका

अन्वाहार्यशब्दं निर्वक्ति- यद्वै यज्ञस्येति।
अतिरिक्तं कर्मणो यच्च हीनमित्यस्मिन्प्रायश्चित्ताहुतिमन्त्रे प्रोक्तमधिकं यज्ञाङ्गमत्र क्रूरं, न्यूनं विलिष्टं, तदुभयमनेनान्वाहार्यदानेनानुकूलं यथा भवति तथाऽऽहरति समादधति। तस्मादन्वाहार्यत आनुकुल्येन समाधीयतेऽनेनेत्यन्वाहार्यः।

विश्वास-प्रस्तुतिः

देव-दूता᳓ वा᳓ एते᳓ य᳓द् ऋत्वि᳓जः।,
य᳓द् अन्वाहार्य᳙म् आह᳓रति
देवदूता᳓न् एव᳓ प्रीणाति ।

Keith

Now the priests are the messengers of the gods; in that he brings the Anvaharya mess, he delights the messengers of the gods.

मूलम्

दे॑वदू॒ता वा ए॒ते यदृ॒त्विजो॒ यद॑न्वाहा॒र्य॑मा॒हर॑ति देवदू॒ताने॒व प्री॑णाति ।

पद-पाठः

दे॒व॒दू॒ताइति॑देव-दू॒ताः । वै । ए॒ते । यत् । ऋ॒त्विजः॑ । यत् । अ॒न्वा॒हा॒र्य॑मित्य॑नु-आ॒हा॒र्य॑म् । आ॒हर॒तीत्या॑-हर॑ति ।
दे॒व॒दू॒तानिति॑देव-दू॒तान् । ए॒व । प्री॒णा॒ति॒ ।

भट्टभास्कर-टीका

3देवदूता इत्यादि ॥ गतम् ॥

सायण-टीका

ऋत्विक्प्रीतिहेतुत्वे पुनः प्रशंसति-देवदूता इति।

अपरिमित-पूर्तिः

विश्वास-प्रस्तुतिः

प्रजा᳓पतिर् देवे᳓भ्यो यज्ञा᳓न् व्या᳓दिशत् ।
स᳓ रिरिचानो᳙ +++(←रिक्तीभवन्न् [ऽहम् इति])+++ ऽमन्यत ।
स᳓ एत᳓म् अन्वाहार्य᳙म् अ᳓भक्तम् अपश्यत् ।
त᳓म् आत्म᳓न्न् अधत्त ।
स᳓ वा᳓ एष᳓ प्राजापत्यो᳓ य᳓द् अन्वाहार्यः᳙ ।

Keith

Prajapati distributed the sacrifice to the gods; he reflected that he was empty; he perceived this Anvaharya mess unallotted; he conferred it upon himself. The Anvaharya is connected with Prajapati;

मूलम्

प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् ।
स रि॑रिचा॒नो॑ऽमन्यत ।
स ए॒तम॑न्वाहा॒र्य॑मभ॑क्तमपश्यत् ।
तमा॒त्मन्न॑धत्त ।
स वा ए॒ष प्रा॑जाप॒त्यो यद॑न्वाहा॒र्यः॑ ।

पद-पाठः

प्र॒जाप॑ति॒रिति॑प्र॒जा-प॒तिः॒ । दे॒वेभ्यः॑ । य॒ज्ञान् । व्यादि॑श॒दिति॑वि-आदि॑शत् ।
सः । रि॒रि॒चा॒नः । अ॒म॒न्य॒त॒ ।
सः । ए॒तम् । अ॒न्वा॒हा॒र्य॑मित्य॑नु-आ॒हा॒र्य॑म् । अभ॑क्तम् । अ॒प॒श्य॒त् ।
तम् । आ॒त्मन् । अ॒ध॒त्त॒ ।
सः । वै । ए॒षः । प्रा॒जा॒प॒त्यइति॑प्राजा-प॒त्यः । यत् । अ॒न्वा॒हा॒र्य॑इत्य॑नु-आ॒हा॒र्यः॑ ।

भट्टभास्कर-टीका

4प्रजापतिरित्यादि ॥ व्यादिशत् विभज्याददात् ।
स प्रजापतिर्व्यादिष्टयज्ञो रिक्तोहमित्यमन्यत ।
ततोऽन्वाहार्यमविभक्तमपश्यत् ।
तमात्मन्येवाधत्त स्थापयामास ।
तस्मादयं प्राजापत्य एव ।

सायण-टीका

प्रजापतिभागत्वेन पुनस्तं प्रशंसति- प्रजापतिरिति। आग्नेयाग्नीषोमीयपुरोडाशान्यागानग्न्यादिदेवेभ्यो विभज्य दत्त्वा स्वकीययागराहित्येन रिक्तमात्मानं मन्यमानः प्रजापतिरभक्तं देवेभ्यो विभज्यासमर्पितं दृष्ट्वा तमात्मनि स्थापितवान्। ततोऽन्वाहार्यः प्राजापत्यः।

विश्वास-प्रस्तुतिः

य᳓स्यैवव्ँ᳓ विदु᳓षो ऽन्वाहार्य᳙ आह्रिय᳓ते
साक्षा᳓द् एव᳓ प्रजा᳓पतिम् ऋध्नोति ।
अ᳓परिमितो निरु᳓प्यो᳓,
ऽपरिमितᳶ प्रजा᳓पतिᳶ,
प्रजा᳓पतेर् [12] आ᳓प्त्यै ।

Keith

he, who knowing thus brings the Anvaharya, assuredly enjoys Prajapati. An unlimited amount should be poured out, Prajapati is unlimited; (verily it serves) to win Prajapati [2].

मूलम्

यस्यै॒वव्ँवि॒दुषो॑ऽन्वाहा॒र्य॑ आह्रि॒यते॑ सा॒क्षादे॒व प्र॒जाप॑तिमृध्नोति ।
अप॑रिमितो नि॒रुप्योऽप॑रिमितᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑तेः [12] +आप्त्यै॑ ।

पद-पाठः

यस्य॑ । ए॒वम् । वि॒दुषः॑ । अ॒न्वा॒हा॒र्य॑इत्य॑नु-आ॒हा॒र्यः॑ । आ॒ह्रि॒यत॒इत्या॑-ह्रि॒यते॑ । सा॒क्षादिति॑स-अ॒क्षात् । ए॒व । प्र॒जाप॑ति॒मिति॑प्र॒जा-प॒ति॒म् । ऋ॒ध्नो॒ति॒ ।

अप॑रिमित॒इत्यप॑रि-मि॒तः॒ । नि॒रुप्य॒इति॑निः-उप्यः॑ । अप॑रिमित॒इत्यप॑रि-मि॒तः॒ । प्र॒जाप॑ति॒रिति॑प्र॒जा-प॒तिः॒ । नप्र॒जाप॑ते॒रिति॑प्र॒जा-प॒तेः॒ । आप्त्यै॑ ।

भट्टभास्कर-टीका

यस्यैवमित्यादि । गतम् । अपरिमितत्वं प्रजापतेराप्त्यै च भवति ; तस्याप्यपरिमितत्वात् ॥

सायण-टीका

तस्यान्वाहार्यस्य बाहुल्यसंपादनं विधत्ते- अपरिमित इति। सर्वदेवस्वामित्वेन व्याप्तिबाहुल्यात्प्रजापतेरपरिमितत्वम्।

शत्रुनाशः

विश्वास-प्रस्तुतिः

देवा᳓ वै᳓ य᳓द् यज्ञे᳓ ऽकुर्वत,
त᳓द् अ᳓सुरा अकुर्वत।
ते᳓ देवा᳓ एत᳓म् प्राजापत्य᳓म् अन्वाहार्य᳙म् अपश्यन्।
त᳓म् अन्वा᳓हरन्त।
त᳓तो देवा᳓ अ᳓भवन् +++(→चादिलोपे विभाषा)+++, प᳓रा᳓सुरा ।
य᳓स्यैवव्ँ᳓ विदु᳓षो ऽन्वाहार्य᳙ आह्रिय᳓ते,
भ᳓वत्यात्म᳓ना
प᳓रा ऽस्य भ्रा᳓तृव्यो +++(परा-)+++भवति।

Keith

Whatever the gods did in the sacrifice, the Asuras did; the gods perceived the Anvaharya connected with Prajapati; they seized it - then the gods prospered, the Asuras were defeated; he who knowing thus brings the Anvaharya prospers himself, his foe is defeated.

मूलम्

दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत ।
तदसु॑रा अकुर्वत ।
ते दे॒वा ए॒तम्प्रा॑जाप॒त्यम॑न्वाहा॒र्य॑मपश्य॒न्तम॒न्वाह॑रन्त ।
ततो॑ दे॒वा अभ॑व॒न्परासु॑राः ।
यस्यै॒वव्ँवि॒दुषो॑ऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॑ ।
परा॑स्य॒ भ्रातृ॑व्यो भवति ।

पद-पाठः

दे॒वाः । वै । यत् । य॒ज्ञे । अकु॑र्वत ।
तत् । असु॑राः । अ॒कु॒र्व॒त॒ ।
ते । दे॒वाः । ए॒तम् । प्रा॒जा॒प॒त्यमिति॑प्राजा-प॒त्यम् । अ॒न्वा॒हा॒र्य॑मित्य॑नु-आ॒हा॒र्य॑म् । अ॒प॒श्य॒न् ।
तम् । अ॒न्वाह॑र॒न्तेत्य॑नु-आह॑रन्त ।
ततः॑ । दे॒वाः । अभ॑वन् । परेति॑ । असु॑राः ।
यस्य॑ । ए॒वम् । वि॒दुषः॑ । अ॒न्वा॒हा॒र्य॑इत्य॑नु-आ॒हा॒र्यः॑ । आ॒ह्रि॒यत॒इत्या॑-ह्रि॒यते॑ । भव॑ति । आ॒त्मना॑ ।
परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

5देवा वा इत्यादि ॥ गतम् । भवत्यात्मना भूतिमान् सम्पद्यते । अस्य भ्रातृव्यः पराभवति विनष्टो भवति ॥

सायण-टीका

स्वविजयहेतुत्वेन वैरिपराजयहेतुत्वेन च पुनः प्रशंसति - देवा वा इति।

इस्टापूर्ती

विश्वास-प्रस्तुतिः

यज्ञे᳓न वा᳓ इष्टी᳓, पक्वे᳓न पूर्ती᳓ +++(यजमानः)+++।
य᳓स्यैवव्ँ᳓ विदु᳓षो ऽन्वाहार्य᳙ आह्रिय᳓ते, स᳓ त्वेवे᳓ष्टापूर्ती᳓।

Keith

By the sacrifice there is offering, by the cooked food satisfying. He who knowing thus brings the Anvaharya, accomplishes at once sacrifice and satisfaction.

मूलम्

य॒ज्ञेन॒ वा इ॒ष्टी
प॒क्वेन॑ पू॒र्ती ।
यस्यै॒वव्ँवि॒दुषो॑ऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्वे॑वेष्टा॑पू॒र्ती ।

पद-पाठः

य॒ज्ञेन॑ । वै । इ॒ष्टी ।
प॒क्वेन॑ । पू॒र्ती ।
यस्य॑ । ए॒वम् । वि॒दुषः॑ । अ॒न्वा॒हा॒र्य॑इत्य॑नु-आ॒हा॒र्यः॑ । आ॒ह्रि॒यत॒इत्या॑-ह्रि॒यते॑ । सः । तु । ए॒व । इ॒ष्टा॒पू॒र्तीती॑ष्ट-पू॒र्ती ।

भट्टभास्कर-टीका

6यज्ञेन वा इत्यादि ॥ इष्टमनेनेतीष्टी । पूर्तमनेनेति पूर्ती । ‘इष्टादिभ्यश्च’ इतीनिप्रत्ययः, ‘नध्याख्या’ इति निष्ठानत्वाभावः, साधकतमत्वविवक्षायां ‘क्तस्येन्विषयस्य’ इति सप्तम्यभावः । अन्वाहार्यमाहरन्निष्टापूर्ती भवति । ‘अत इनिठनौ’ इतीनिप्रत्ययः, छान्दसं पूर्वपदस्य दीर्घत्वम् ॥

सायण-टीका

इष्टापूर्तकारित्वपूरणेन च पुनः प्रशंसंति- यज्ञेन वा इति। इष्टमाग्नेयादि श्रौतकर्म। पूर्तं वापीकूपादि स्मार्तकर्म। तत्राऽऽग्नेयादियागेनेष्टसंपत्तिः। पक्वेनान्वाहार्येण पूर्तसंपत्तिः।

मन्त्र-निरुक्तयः

विश्वास-प्रस्तुतिः

प्रजा᳓पतेर् भागो᳙ऽसि [13] +इ᳓त्याह ।
प्रजा᳓पतिम् एव᳓ भागधे᳓येन स᳓मर्धयति ।

Keith

‘Thou art the portion of Prajapati’ [3], he says; verily he unites Prajapati with his own portion.

मूलम्

प्र॒जाप॑तेर्भा॒गो॑ऽसि [13] इत्या॑ह ।
प्र॒जाप॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति ।

पद-पाठः

प्र॒जाप॑ते॒रिति॑प्र॒जा-प॒तेः॒ । भा॒गः । अ॒सि॒ । इति॑ । आ॒ह॒ ।
प्र॒जाप॑ति॒मिति॑प्र॒जा-प॒ति॒म् । ए॒व । भा॒ग॒धेये॒नेति॑भाग-धेये॑न । समिति॑ । अ॒र्ध॒य॒ति॒ ।

भट्टभास्कर-टीका

7प्रजापतेरित्यादिरन्वाहार्यस्यासन्नस्यानुमन्त्रणमन्त्रः । गतमन्यत् । पाहीत्याशिषमाशास्ते ।

सायण-टीका

तस्याभिमर्शनमन्त्रप्रथमभागं व्याचष्टे-प्रजापतेरिति।

विश्वास-प्रस्तुतिः

ऊ᳓र्जस्वान् प᳓यस्वान् इ᳓त्य् आह ।
ऊ᳓र्जमेवा᳓स्मिन्प᳓यो दधाति ।

Keith

‘Full of strength and milk’, he says; verily he confers upon him strength and milk.

मूलम्

ऊर्ज॑स्वा॒न्पय॑स्वा॒नित्या॑ह ।
ऊर्ज॑मे॒वास्मि॒न्पयो॑ दधाति ।

पद-पाठः

ऊर्ज॑स्वान् । पय॑स्वान् । इति॑ । आ॒ह॒ ।
ऊर्ज॑म् । ए॒व । अ॒स्मि॒न् । पयः॑ । द॒धा॒ति॒ ।

सायण-टीका

द्वितीयभागं व्याचष्टे-ऊर्जस्वानिति।

विश्वास-प्रस्तुतिः

प्राणापानौ᳓ मे पाहि ।
समानव्यानौ᳓ मे पाही᳓त्याह ।
आशि᳓षमेवै᳓ता᳓म् आ᳓ शास्ते ।

Keith

‘Protect my expiration and inspiration; protect my breathing together and cross-breathing’, he says; verily he invokes this blessing.

मूलम्

प्रा॒णा॒पा॒नौ मे॑ पाहि ।
स॒मा॒न॒व्या॒नौ मे॑ पा॒हीत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।

पद-पाठः

प्रा॒णा॒पा॒नाविति॑प्राण-अ॒पा॒नौ । मे॒ । पा॒हि॒ ।
स॒मा॒न॒व्या॒नाविति॑समान-व्या॒नौ । मे॒ । पा॒हि॒ । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या॑-शिष॑म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ ।

सायण-टीका

तृतीयभागं व्याचष्टे- प्राणापानामिति। ऋत्विग्भिरन्वाहार्यस्य नीयमानत्वात्तेन स्वकीयप्राणादिपालनमाशीर्वाद एव।

विश्वास-प्रस्तुतिः

अ᳓क्षितोऽसि ।
अ᳓क्षित्यै त्वा,
मा᳓ मे क्षेष्ठाः ।
अमु᳓त्रामु᳓ष्मिल्ँ लोक᳓ इ᳓त्याह ।

Keith

‘Thou art imperishable, for imperishableness thee; mayst thou not perish for me, yonder, in yonder world’, he says.

मूलम्

अक्षि॑तोऽसि ।
अक्षि॑त्यै त्वा॒ मा मे॑ क्षेष्ठाः ।
अ॒मुत्रा॒मुष्मिल्ँ॑ लो॒क इत्या॑ह ।

पद-पाठः

अक्षि॑तः । अ॒सि॒ ।
अक्षि॑त्यै । त्वा॒ । मा । मे॒ । क्षे॒ष्ठाः॒ ।
अ॒मुत्र॑ । अ॒मुष्मि॑न् । लो॒के । इति॑ । आ॒ह॒ ।

सायण-टीका

चतुर्थभागं व्याकुर्वन्नभिमर्शनं विधत्ते- अक्षितोऽसीति। स्वर्गस्य कर्मभूमित्वाभावान्न तत्साधनानुष्ठानेनान्नं संपादयितुं शक्यं, किंतु स्वगप्राप्ताः प्रजा इतः प्रदानमेतल्लोकानुष्ठितकर्मसंपादितमेवान्नं स्वर्गे लोक उपजीवन्ति। तस्मात्तत्र भूज्यमानमिदं क्षीयते। अक्षितोऽसीति मन्त्रेण यदभिमर्शनं तेनान्नस्याक्षयत्वप्रापणादन्नं न स्वर्गे क्षीयते॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके
तृतीयोऽनुवाकः॥३॥

विश्वास-प्रस्तुतिः

क्षी᳓यते वा᳓ अमु᳓ष्मिल्ँ लोके᳓ ।
अ᳓न्नम् इतᳶ᳓प्रदानँ
ह्य् अ᳙मु᳓ष्मिल्ँ लोके᳓ प्रजा᳓ उपजी᳓वन्ति ।

Keith

Food perishes in yonder world,
for given hence in yonder world people live upon it;

मूलम्

क्षीय॑ते॒ वा अ॒मुष्मिल्ँ॑ लो॒के ।
अन्न॑मि॒तᳶप्र॑दानँ॒ ह्य॑मुष्मिल्ँ॑ लो॒के प्र॒जा उ॑प॒जीव॑न्ति ।

पद-पाठः

क्षीय॑ते । वै । अ॒मुष्मि॑न् । लो॒के ।
अन्न॑म् । इ॒तᳶप्र॑दान॒मिती॒तः-प्र॒दा॒न॒म् । हि । अ॒मुष्मि॑न् । लो॒के ।
प्र॒जाइति॑प्र-जाः । उ॒प॒जीव॒न्तीत्यु॑प-जीव॑न्ति ।

भट्टभास्कर-टीका

इतः प्रदानमस्मिन् लोके यत्प्रत्तं तत्प्रजा अमुष्मिन् लोक उपजीवन्तीति । न तु तत्रोत्पाद्यते । तस्मात् क्षीयतेमुष्मिन् लोकेन्नं तस्मादनेनाभिमर्शनमक्षयत्वाय भवति ।

विश्वास-प्रस्तुतिः

य᳓द् एव᳓म् अभिमृश᳓त्य् अ᳓क्षितिम् एवै᳓नद् गमयति ।
ना᳓स्यामु᳓ष्मिल्ँ लोके᳓ ऽन्नङ् क्षीयते ॥ [14]

Keith

in that he touches thus, he makes it imperishable; his food perishes not in yonder world.

मूलम्

यदे॒वम॑भिमृ॒शत्यक्षि॑तिमे॒वैन॑द्गमयति ।
नास्या॒मुष्मिल्ँ॑ लो॒केऽन्न॑ङ्क्षीयते ॥ [14]

पद-पाठः

यत् । ए॒वम् । अ॒भि॒मृ॒शतीत्य॑भि-मृ॒शति॑ । अक्षि॑तिम् । ए॒व । ए॒न॒त् । ग॒म॒य॒ति॒ । न । अ॒स्य॒ । अ॒मुष्मि॑न् । लो॒के । अन्न॑म् । क्षी॒य॒ते॒॥[14]

भट्टभास्कर-टीका

अक्षितिः अक्षयः ॥

इति सप्तमे तृतीयोनुवाकः ॥