११ १-०६-९२ आश्रावणादिमन्त्रविधिः ...{Loading}...
आश्रावणादि
विश्वास-प्रस्तुतिः
यो वै स॑प्तद॒शम् प्र॒जाप॑तिय्ँ य॒ज्ञम् अ॒न्वाय॑त्तव्ँ॒ वेद॒,
प्रति॑ य॒ज्ञेन॑ तिष्ठति॒,
न य॒ज्ञाद् भ्रँ॑शते ।
Keith
He who knows the seventeenfold Prajapati as connected with the sacrifice
rests secure through the sacrifice,
and falls not away from the sacrifice.
मूलम्
यो वै स॑प्तद॒शम्प्र॒जाप॑तिय्ँ य॒ज्ञम॒न्वाय॑त्तव्ँ॒ वेद॒,
प्रति॑ य॒ज्ञेन॑ तिष्ठति,
न य॒ज्ञाद्भ्रँ॑शते ।
पद-पाठः
यः । वै । स॒प्त॒द॒शमिति॑ सप्त-द॒शम् । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । य॒ज्ञम् । अ॒न्वाय॑त्त॒मित्य॑नु-आय॑त्तम् । वेद॑ ।
प्रतीति॑ । य॒ज्ञेन॑ । ति॒ष्ठ॒ति॒ ।
न । य॒ज्ञात् । भ्रँ॒श॒ते॒ ।
भट्टभास्कर-टीका
1यो वा इत्यादि ॥ सप्तदशाक्षर-समूहात्मा प्रजापतिः सप्तदशः । समूहे छान्दसो डः । परिमाणो वा ‘तस्य पूरणे’ इति डट् । अवयवधर्मेण समुदायो व्यपदिश्यते, सप्तदशसु प्रथमादीनामपि सप्तदशत्वात् । यज्ञमन्वायत् , तमनुप्रविष्टम् ॥
मूलम् (संयुक्तम्)
आ श्रा॑व॒येति॒ चतु॑रक्षर॒मस्तु॒ श्रौष॒डिति॒ चतु॑रक्षरय्ँ॒यजेति॒ द्व्य॑क्षरय्ँ॒ये यजा॑मह॒ इति॒ पञ्चा॑क्षरन्द्व्यक्ष॒रो व॑षट्का॒र ए॒ष वै स॑प्तद॒शᳶ प्र॒जाप॑तिर्य॒ज्ञम॒न्वाय॑त्तो॒ य ए॒वव्ँ वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद्भ्रँ॑शते॒
विश्वास-प्रस्तुतिः
आ श्रा॑व॒येति॒ चतु॑र्-अक्षरम् +++(अध्वर्योः)+++।
अस्तु॒ श्रौष॒ड् इति॒ चतु॑र्-अक्षरम् +++(अग्नीधः)+++।
यजेति॒ द्व्य्-अ॑क्षरम् +++(अध्वर्योः)+++।
ये यजा॑मह॒ इति॒ पञ्चा॑क्षरं +++(होतुः)+++,
द्व्य्-अक्ष॒रो व॑षट्-का॒रः +++(अध्वर्योः)+++।
Keith
‘Do thou proclaim’ has four syllables;
‘Be it proclaimed’ has four syllables;
‘Utter’ has two syllables;
‘We that do utter’ has five syllables;
the Vasat has two syllables;
मूलम्
आ श्रा॑व॒येति॒ चतु॑रक्षरम् ।
अस्तु॒ श्रौष॒डिति॒ चतु॑रक्षरम् ।
यजेति॒ द्व्य॑क्षरम् ।
ये यजा॑मह॒ इति॒ पञ्चा॑क्षरं,
द्व्यक्ष॒रो व॑षट्का॒रः ।
पद-पाठः
एति॑ । श्रा॒व॒य॒ । इति॑ । चतु॑रक्षर॒मिति॒ चतुः॑-अ॒क्ष॒र॒म् ।
अस्तु॑ । श्रौष॑ट् । इति॑ । चतु॑रक्षर॒मिति॒ चतुः॑-अ॒क्ष॒र॒म् ।
यज॑ । इति॑ । द्व्य॑क्षर॒मिति॒ द्वि-अ॒क्ष॒र॒म् ।
ये । यजा॑महे । इति॑ । पञ्चा॑क्षर॒मिति॒ पञ्च॑-अ॒क्ष॒र॒म् ।
द्व्य॒क्ष॒र इति॑ द्वि-अ॒क्ष॒रः । व॒ष॒ट्का॒र इति॑ वषट्-का॒रः ।
भट्टभास्कर-टीका
2आ श्रावयेत्यादि ॥ “तुभ्यम् इदं दीयत” इति देवताविशेषम् आभिमुख्येन “आ श्रावयेति” चतुरक्षरम् अध्वर्योः ।
अस्तु श्रौषट् एवमेतत्कर्तव्यमिति चतुरक्षरम् अग्नीधः ।
“यज इमां देवतां” यष्टुं याज्यां ब्रूहीति द्व्यक्षरं अध्वर्योर् एव ।
ये यजामहे य एव वयंस्मः त एव यजामहे कस्त्वां यष्टुमर्हतीति यागसङ्कल्पाय पञ्चाक्षरं होतुः ।
वषट्क्रियते हविर्दीयतेनेनेति वषट्कारो वौषट्शब्दो द्व्यक्षरो होतुरेव ।
विश्वास-प्रस्तुतिः
ए॒ष वै स॑प्तद॒शᳶ प्र॒जाप॑तिर् य॒ज्ञम् अ॒न्वाय॑त्तः ।
य ए॒वव्ँ वेद॒, प्रति॑ य॒ज्ञेन॑ तिष्ठति॒
न य॒ज्ञाद् भ्रँ॑शते ।
Keith
this is the seventeenfold Prajapati as connected with the sacrifice;
he who knows thus rests secure through the sacrifice and does not fall away from the sacrifice.
मूलम्
ए॒ष वै स॑प्तद॒शᳶ प्र॒जाप॑तिर्य॒ज्ञम॒न्वाय॑त्तः ।
य ए॒वव्ँ वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति
न य॒ज्ञाद्भ्रँ॑शते ।
पद-पाठः
ए॒षः । वै । स॒प्त॒द॒श इति॑ सप्त-द॒शः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । य॒ज्ञम् । अ॒न्वाय॑त्त॒ इत्य॑नु-आय॑त्तः ।
यः । ए॒वम् । वेद॑ ।
प्रतीति॑ । य॒ज्ञेन॑ । ति॒ष्ठ॒ति॒ ।
न । य॒ज्ञात् । भ्रँ॒श॒ते॒ ।
भट्टभास्कर-टीका
एष वा इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
यो वै य॒ज्ञस्य॒ प्राय॑णम्प्रति॒ष्ठाम् [39]उ॒दय॑नव्ँ॒वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सँ॒स्थाङ्ग॑च्छ॒त्या श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒र ए॒तद्वै य॒ज्ञस्य॒ प्राय॑णमे॒षा प्र॑ति॒ष्ठैतदु॒दय॑नय्ँ॒य ए॒वव्ँ वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सँ॒स्थाङ्ग॑च्छति
विश्वास-प्रस्तुतिः
यो वै य॒ज्ञस्य॒ प्राय॑णम्+++(=आदि)+++ प्रति॒ष्ठाम् उ॒दय॑नव्ँ॒+++(=अन्त्यम्)+++ वेद॒, प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सँ॒स्थाङ् ग॑च्छति ।
Keith
He who knows the beginning, the support, the end of the sacrifice [1]
reaches the end with a secure and uninjured sacrifice.
मूलम्
यो वै य॒ज्ञस्य॒ प्राय॑णम् प्रति॒ष्ठाम् उ॒दय॑नव्ँ॒ वेद॒,
प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सँ॒स्थाङ्ग॑च्छति ।
पद-पाठः
यः । वै । य॒ज्ञस्य॑ । प्राय॑ण॒मिति॑ प्र-अय॑नम् । प्र॒ति॒ष्ठामिति॑ प्रति-स्थाम् । [39] उ॒दय॑न॒मित्यु॑त्-अय॑नम् । वेद॑ ।
प्रति॑ष्ठिते॒नेति॒ प्रति॑-स्थि॒ते॒न॒ । अरि॑ष्टेन । य॒ज्ञेन॑ । सँ॒स्थामिति॑ सम्-स्थाम् । ग॒च्छ॒ति॒ ।
भट्टभास्कर-टीका
3यो वै यज्ञस्येत्यादि ॥ प्रायणं प्रारम्भः प्रवेशनम् ।
प्रतिष्ठा स्थितिः ।
उदयनं संस्था समाप्तिः ।
विश्वास-प्रस्तुतिः
आ श्रा॑वय, +अस्तु॒ श्रौष॒ड्, यज॒, ये यजा॑महे, वषट्का॒रः -
ए॒तद् वै य॒ज्ञस्य॒ प्राय॑णम्, ए॒षा प्र॑ति॒ष्ठैतद् उ॒दय॑नम्।
य ए॒वव्ँ वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सँ॒स्थाङ् ग॑च्छति ।
Keith
‘Do thou proclaim’; ‘Be it proclaimed’; ‘Utter’; ‘We that do utter’; the Vasat call,
these are the beginning, the support, the end of the sacrifice;
he who knows thus reaches the end with a secure and uninjured sacrifice.
मूलम्
आ श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रः -
ए॒तद्वै य॒ज्ञस्य॒ प्राय॑णमे॒षा प्र॑ति॒ष्ठैतदु॒दय॑नम्।
य ए॒वव्ँ वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सँ॒स्थाङ्ग॑च्छति ।
पद-पाठः
एति॑ । श्रा॒व॒य॒ । अस्तु॑ । श्रौष॑ट् । यज॑ । ये । यजा॑महे । व॒ष॒ट्का॒र इति॑ वषट्-का॒रः ।
ए॒तत् । वै । य॒ज्ञस्य॑ । प्राय॑ण॒मिति॑ प्र-अय॑नम् ।
ए॒षा । प्र॒ति॒ष्ठेति॑ प्रति-स्था ।
ए॒तत् । उ॒दय॑न॒मित्यु॑त्-अय॑नम् ।
यः । ए॒वम् । वेद॑ । प्रति॑ष्ठिते॒नेति॒ प्रति॑-स्थि॒ते॒न॒ । अरि॑ष्टेन । य॒ज्ञेन॑ । सँ॒स्थामिति॑ सम्-स्थाम् । ग॒च्छ॒ति॒ ।
भट्टभास्कर-टीका
एतत्त्रयात्मिकमाश्रावयादिकम् । तस्मादत्रैव समस्तो यागस्समाप्तः, एतच्छेषतया सर्वमन्यत्क्रियत इति । अरिष्टः हिसारहितः ॥
दोहरूपकम्
मूलम् (संयुक्तम्)
यो वै सू॒नृता॑यै॒ दोहव्ँ॒वेद॑ दु॒ह ए॒वैनाय्ँ॑ य॒ज्ञो वै सू॒नृताऽऽश्रा॑व॒येत्यैवैना॑मह्व॒दस्तु॑ [40]श्रौष॒डित्यु॒पावा॑स्रा॒ग्यजेत्युद॑नैषी॒द्ये यजा॑मह॒ इत्युपा॑सदद्वषट्का॒रेण॑ दोग्ध्ये॒ष वै सू॒नृता॑यै॒ दोहो॒ य ए॒वव्ँ वेद॑ दु॒ह ए॒वैना॑म्
विश्वास-प्रस्तुतिः
यो वै सू॒नृता॑यै॒ +++(→[यज्ञ-वाक्])+++ दोहव्ँ॒ वेद॑ - दु॒हय् +++(←“लोपस् त आत्मनेपदेषु”)+++ ए॒वैनाँ॑म् +++(स्वर्गादिप्राप्त्या)+++।
Keith
He who knows the milking of the generous one milks her indeed.
मूलम्
यो वै सू॒नृता॑यै॒ दोहव्ँ॒वेद॑ दु॒ह ए॒वैनाँ॑म् ।
पद-पाठः
यः । वै । सू॒नृता॑यै । दोह॑म् । वेद॑ । दु॒हे । ए॒व । ए॒ना॒म् ।
भट्टभास्कर-टीका
4यो वै सूनृताया इत्यादि ॥ प्रियसत्यात्मिका वाक् सूनृता ।
तत्-तुल्यत्वात् तत्-साधनत्वाद् वा अभेदेन यज्ञ उच्यते ।
‘यज्ञो वै सूनृता’ इति गोत्वेन रूप्यते ।
एनां सूनृतां यज्ञं दुहे दुग्धे अभिमतं स्वर्गादिकम् ।
‘लोपस्त आत्मनेपदेषु’ इति तलोपः ।
विश्वास-प्रस्तुतिः
य॒ज्ञो वै सू॒नृता - ऽऽश्रा॑व॒येत्यैवैना॑म् अह्वत्+++(=आह्वयत्)+++ ।
Keith
The generous one is the sacrifice; (with the words) ‘Do thou proclaim’, he calls her;
मूलम्
य॒ज्ञो वै सू॒नृताऽऽश्रा॑व॒येत्यैवैना॑मह्वत् ।
पद-पाठः
य॒ज्ञः । वै । सू॒नृता॑ ।
एति॑ । श्रा॒व॒य॒ । इति॑ । एति॑ । ए॒व । ए॒ना॒म् । अ॒ह्व॒त् ।
भट्टभास्कर-टीका
एवैनाम् अह्वत् एनाम् आह्वयत् दोग्धुम् । छान्दसो लुङ्, ‘लिपिसिचिह्वश्च’ इत्यङ् ।
विश्वास-प्रस्तुतिः
“अस्तु॒ श्रौष॒ड्” इत्य् उ॒पावा॑स्राक्+++(←सृज्)+++ +++(वत्सम्)+++।
Keith
with ‘Be it proclaimed’ [2], he lets (the calf) go up to her;
मूलम्
अस्तु॒ श्रौष॒डित्यु॒पावा॑स्राक् ।
पद-पाठः
अस्तु॑ । [40] श्रौष॑ट् । इति॑ । उ॒पावा॑स्रा॒गित्यु॑प-अवा॑स्राक् ॥
भट्टभास्कर-टीका
उपावास्राक् उपसृजति वत्सम् । सृजतेर्लुङि । ‘बहुलं छन्दसि’ इतीडभावः, ‘सृजिदृशोः’ इत्यमागमः, ‘वदव्रज’ इति वृद्धिः ।
विश्वास-प्रस्तुतिः
यजेत्य् उद॑नैषीत् +++(दोह-पात्रम्)+++।
Keith
with ‘Utter’, he raises (the pail);
मूलम्
यजेत्युद॑नैषीत् ।
पद-पाठः
यज॑ । इति॑ । उदिति॑ । अ॒नै॒षी॒त् ।
भट्टभास्कर-टीका
उदनैषीत् उन्नयति पात्रम् ।
विश्वास-प्रस्तुतिः
ये यजा॑मह॒ इत्य् उपा॑सदत् +++(गोपार्श्वे)+++।
Keith
with ‘We that do utter’, he sits down beside her,
मूलम्
ये यजा॑मह॒ इत्युपा॑सदत्।
पद-पाठः
ये । यजा॑महे । इति॑ । उपेति॑ । अ॒स॒द॒त् ।
भट्टभास्कर-टीका
उपासदत् उपसीदति ।
विश्वास-प्रस्तुतिः
व॒ष॒ट्-का॒रेण॑ दोग्ध्यि ।
ए॒ष वै सू॒नृता॑यै॒ दोहः॑।
य ए॒वव्ँ वेद॑ - दु॒ह ए॒वैना॑म्।
Keith
and with the Vasat call he milks.
This is the milking of the generous one; he who knows thus milks her indeed.
मूलम्
व॒ष॒ट्का॒रेण॑ दोग्ध्यि ।
ए॒ष वै सू॒नृता॑यै॒ दोहो॒ य ए॒वव्ँ वेद॑ दु॒ह ए॒वैना॑म्।
पद-पाठः
व॒ष॒ट्का॒रेणेति॑ वषट्-का॒रेण॑ । दो॒ग्धि॒ ।
ए॒षः । वै । सू॒नृता॑यै । दोहः॑ ।
यः । ए॒वम् । वेद॑ ।
दु॒हे । ए॒व । ए॒ना॒म् ।
भट्टभास्कर-टीका
दोग्धा । ऌदित्वादङ् । आश्रावयाद्युक्तिरभिमतसिध्यै सूनृताह्वानादिकृत् ॥
देवस्त्राख्यानम्
मूलम् (संयुक्तम्)
दे॒वा वै स॒त्रमा॑सत॒ तेषा॒न्दिशो॑ऽदस्य॒न्त ए॒तामा॒र्द्राम्प॒ङ्क्तिम॑पश्य॒न्ना श्रा॑व॒येति॑ पुरोवा॒तम॑जनय॒न्नस्तु॒ श्रौष॒डित्य॒ब्भ्रँ सम॑प्लावय॒न्यजेति॑ वि॒द्युत॑म् [41]अ॒ज॒न॒य॒न्, ये यजा॑मह॒ इति॒ प्राव॑र्षयन्न॒भ्य॑स्तनयन्वषट्का॒रेण॒ ततो॒ वै तेभ्यो॒ दिश॒ᳶ प्राप्या॑यन्त॒ य ए॒वव्ँ वेद॒ प्रास्मै॒ दिशᳶ॑ प्यायन्त
विश्वास-प्रस्तुतिः
दे॒वा वै स॒त्रम् आ॑सत ।
Keith
The gods performed a sacrificial session;
मूलम्
दे॒वा वै स॒त्रमा॑सत ।
पद-पाठः
दे॒वाः । वै । स॒त्त्रम् । आ॒स॒त॒ ।
भट्टभास्कर-टीका
5देवा वा इत्यादि ॥ सत्रासनं क्रतुविशेषः एकादशरात्रादिः, तमकुर्वत । आस्थानकर्मा वा इदानीमयमास्तिः ।
विश्वास-प्रस्तुतिः
तेषा॒न् दिशो॑ ऽदस्यन्+++(←दसु उपक्षये)+++ ।
Keith
the quarters were dried up;
मूलम्
तेषा॒न्दिशो॑ऽदस्यन् ।
पद-पाठः
तेषा॑म् । दिशः॑ । अ॒द॒स्य॒न् ।
भट्टभास्कर-टीका
दिशः प्रागाद्या अदस्यन् उपक्षीणविभवा अभूवन् । दसु उपक्षये ।
विश्वास-प्रस्तुतिः
त ए॒ताम् आ॒र्द्राम् प॒ङ्क्तिम् अ॑पश्यन् ।
“आ श्रा॑व॒ये"ति॑ पुरो-वा॒तम् अ॑जनयन् ।
“अस्तु॒ श्रौष॒ड्” इत्य् अ॒भ्रँ सम॑प्लावयन् ।
“यजे"ति॑ वि॒द्युत॑म् [41]अजनयन् ।
“ये यजा॑मह॒” इति॒ प्राव॑र्षयन् ।
अ॒भ्य॑स्तनयन् वषट्-का॒रेण॑ ।
ततो॒ वै तेभ्यो॒ दिश॒ᳶ प्राप्या॑यन्त ।
य ए॒वव्ँ वेद॒ प्रास्मै॒ दिशᳶ॑ प्यायन्ते ।
Keith
they discerned this moist set of five; (with the words)
‘Do thou proclaim’, they produced the east wind;
with ‘Be it proclaimed’, they caused the clouds to mass together;
with ‘Utter’ they begat [3] the lightning;
with ‘We that do sacrifice’ they made rain to fall,
and with the Vasat call they caused the thunder to roll.
Then for them the quarters were made to swell;
for him who knows thus the quarters are made to swell.
मूलम्
त ए॒तामा॒र्द्राम्प॒ङ्क्तिम॑पश्यन् ।
आ श्रा॑व॒येति॑ पुरोवा॒तम॑जनयन् ।
अस्तु॒ श्रौष॒डित्य॒ब्भ्रँ सम॑प्लावयन् ।
यजेति॑ वि॒द्युत॑म् [41]अजनयन् ।
ये यजा॑मह॒ इति॒ प्राव॑र्षयन् ।
अ॒भ्य॑स्तनयन्वषट्का॒रेण॑ ।
ततो॒ वै तेभ्यो॒ दिश॒ᳶ प्राप्या॑यन्त ।
य ए॒वव्ँ वेद॒ ।
प्रास्मै॒ दिशᳶ॑ प्यायन्ते ।
पद-पाठः
ते । ए॒ताम् । आ॒र्द्राम् । प॒ङ्क्तिम् । अ॒प॒श्य॒न् ।
एति॑ । श्रा॒व॒य॒ । इति॑ । पु॒रो॒वा॒तमिति॑ पुरः-वा॒तम् । अ॒ज॒न॒य॒न् ।
अस्तु॑ । श्रौष॑ट् । इति॑ । अ॒भ्रम् । समिति॑ । अ॒प्ला॒व॒य॒न् ।
यज॑ । इति॑ । वि॒द्युत॒मिति॑ वि-द्युत॑म् । [41] अ॒ज॒न॒य॒न् ।
ये । यजा॑महे । इति॑ । प्रेति॑ । अ॒व॒र्ष॒य॒न् ।
अ॒भीति॑ । अ॒स्त॒न॒य॒न् । व॒ष॒ट्का॒रेणेति॑ वषट्-का॒रेण॑ ।
ततः॑ । वै । तेभ्यः॑ । दिशः॑ । प्रेति॑ । अ॒प्या॒य॒न्त॒ ।
यः । ए॒वम् । वेद॑ । प्रेति॑ । अ॒स्मै॒ । दिशः॑ । प्या॒य॒न्ते॒ ।
भट्टभास्कर-टीका
आर्द्रामार्द्रयित्रीम् आ समन्ताद्रात्रीं लोकानां वर्षहेतुं अक्षरपङ्क्तिमपश्यन् । गतमन्यत् ॥
छान्दसः प्रजापतिः
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिन् त्वो॒-वेद॑
प्र॒जाप॑तिस् त्वव्ँ-वेद । +++(→चादिलोपे विभाषा।)+++
Keith
One knows Prajapati,
Prajapati knows one;
मूलम्
प्र॒जाप॑तिन्त्वो॒वेद॑ ।
प्र॒जाप॑तिस्त्वव्ँवेद ।
पद-पाठः
प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । त्वो॒वेदेति॑ त्वः-वेद॑ ।
प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । त्वव्ँ॒वे॒देति॑ त्वम्-वे॒द॒ ।
भट्टभास्कर-टीका
6प्रजापतिमित्यादि ॥ प्रजापतिं कश्चिद् वेद ज्ञातवान् । प्रजापतिर् अपि कं चिद् वेद ।
`त्वसमसीमनेमेत्यनुच्चानि’ इति त्व-शब्दस्यानुदात्तत्वात् तस्याख्यातेनैकपद्यं मन्यन्ते पदकाराः । +++(5)+++
तत्र ‘चादिलोपे विभाषा’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते ।
विश्वास-प्रस्तुतिः
यम् प्र॒जाप॑ति॒र् वेद॒
स पुण्यो॑ भवति ।
Keith
whom Prajapati knows, he becomes pure.
मूलम्
यम्प्र॒जाप॑ति॒र्वेद॒ स पुण्यो॑ भवति ।
पद-पाठः
यम् । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वेद॑ ।
सः । पुण्यः॑ । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
यमित्यादि । एतं प्रचरन्तं प्रजापतिर्वेदेति ।
विश्वास-प्रस्तुतिः
ए॒ष वै छ॑न्द॒स्यᳶ॑ प्र॒जाप॑ति॒र् - आ श्रा॑व॒यास्तु॒ श्रौष॒ड्, यज॒, ये यजा॑महे, वषट्का॒रः ।
य ए॒वव्ँ वेद॒ पुण्यो॑ भवति ।
Keith
This is the Prajapati of the texts, ‘Do thou proclaim’, ‘Be it proclaimed’, ‘Utter’, ‘We that do utter’, the Vasat call; he who knows thus becomes pure.
मूलम्
ए॒ष वै छ॑न्द॒स्यᳶ॑ प्र॒जाप॑ति॒रा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रः ।
य ए॒वव्ँ वेद॒ पुण्यो॑ भवति ।
पद-पाठः
ए॒षः । वै । छ॒न्द॒स्यः॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ ।
एति॑ । श्रा॒व॒य॒ । अस्तु॑ । श्रौष॑ट् । यज॑ । ये । यजा॑महे । व॒ष॒ट्का॒र इति॑ वषट्-का॒रः ।
यः । ए॒वम् । वेद॑ ।
पुण्यः॑ । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
छन्दस्य इति । ‘अक्षरसमूहे छन्दस उपसङ्ख्यानम्’ इति यत् । आश्रावयादीनां छन्दसां वीर्यत्वात् यथोक्तम् - ‘य एवं छन्दसां वीर्यम्’ इत्यादि । तत्रैषां छन्दसां वीर्यत्वमुक्तम्, अत्र तु तत्समूहस्य प्रजापतित्वमिति विवेकः । +++(मूले एवंवेद इति वर्तते । पूर्वतनस्थलेष्वपि वेद- वित् इत्यनयोः पृथङ् निर्देशः दृश्यते । अत्र वेद इत्यस्य स्थाने वित् इति पाठः कथं घटत इति विचारणीयम्)+++ एवंविदनुष्ठाता पुण्यो भवति, न चेत्पापकृत् । यत्किञ्चित्पापकृदपीति केचित् ॥
अनुमन्त्रणानि
प्रयाजः
मूलम् (संयुक्तम्)
व॒स॒न्तम् [42]ऋ॒तू॒नाम्प्री॑णा॒मीत्या॑ह॒र्तवो॒ वै प्र॑या॒जा ऋ॒तूने॒व प्री॑णाति॒ ते॑ऽस्मै प्री॒ता य॑थापू॒र्वङ्क॑ल्पन्ते॒ कल्प॑न्तेऽस्मा ऋ॒तवो॒ य ए॒वव्ँ वेद
विश्वास-प्रस्तुतिः
“व॒स॒न्तम् [42] ऋ॑तू॒नाम् प्री॑णा॒मी"त्य् आ॑ह ।
ऋ॒तवो॒ वै प्र॑या॒जा - ऋ॒तून् ए॒व प्री॑णाति ।
ते॑ऽस्मै प्री॒ता य॑थापू॒र्वङ् क॑ल्पन्ते ।
कल्प॑न्ते ऽस्मा ऋ॒तवो॒ य ए॒वव्ँ वेद॑ ।
Keith
‘Of the seasons spring [4] I delight’, he says;
the fore-sacrifices are the seasons;
verily he delights the seasons;
they delighted place themselves in order for him;
the seasons are in order for him who knows thus.
मूलम्
व॒स॒न्तम् [42] ऋ॑तू॒नाम्प्री॑णा॒मीत्या॑ह ।
ऋ॒तवो॒ वै प्र॑या॒जा ऋ॒तूने॒व प्री॑णाति ।
ते॑ऽस्मै प्री॒ता य॑थापू॒र्वङ्क॑ल्पन्ते ।
कल्प॑न्तेऽस्मा ऋ॒तवो॒ य ए॒वव्ँ वेद॑ ।
पद-पाठः
व॒स॒न्तम् । [42] ऋ॒तू॒नाम् । प्री॒णा॒मि॒ । इति॑ । आ॒ह॒ ।
ऋ॒तवः॑ । वै । प्र॒या॒जा इति॑ प्र-या॒जाः ।
ऋ॒तून् । ए॒व । प्री॒णा॒ति॒ । ते । अ॒स्मै॒ । प्री॒ताः । य॒था॒पू॒र्वमिति॑ यथा-पू॒र्वम् । क॒ल्प॒न्ते॒ ।
ते । अ॒स्मै॒ । प्री॒ताः । य॒था॒पू॒र्वमिति॑ यथा-पू॒र्वम् । क॒ल्प॒न्ते॒ ।
कल्प॑न्ते । अ॒स्मै॒ । ऋ॒तवः॑ ।
यः । ए॒वम् । वेद॑ ।
भट्टभास्कर-टीका
7वसन्तमित्यादयः प्रयाजानुमन्त्रणमन्त्राः ॥ पञ्चत्वान्वयाल्लोकस्थितिहेतुत्वाच्च प्रयाजा ऋतवः । प्रथममिज्यन्त इति प्रयाजाः । ‘प्रयाजानुयाजौ यज्ञाङ्गे’ इति कुत्वाभावः, थाथादिना उत्तरपदान्तोदात्तत्वम् । कल्पन्ते अविपर्यासेन प्रवर्तन्ते ॥
आज्यभागौ
मूलम् (संयुक्तम्)
अ॒ग्नीषोम॑योर॒हन्दे॑वय॒ज्यया॒ चक्षु॑ष्मान्भूयास॒मित्या॑हा॒ग्नीषोमा॑भ्याव्ँ॒ वै य॒ज्ञश्चक्षु॑ष्मा॒न्ताभ्या॑मे॒व चक्षु॑रा॒त्मन्ध॑त्ते
विश्वास-प्रस्तुतिः
“अ॒ग्नीषोम॑योर् अ॒हन् दे॑व-य॒ज्यया॒ चक्षु॑ष्मान् भूयास॒म्” इत्य् आ॑ह ।
अ॒ग्नीषोमा॑भ्याव्ँ॒ वै य॒ज्ञश् चक्षु॑ष्मा॒न्,
ताभ्या॑म् ए॒व चक्षु॑र् आ॒त्मन् ध॑त्ते ।
Keith
‘By sacrifice to the gods, Agni and Soma, may I be possessed of sight’, he says;
the sacrifice is possessed of sight through Agni and Soma;
verily by means of them he confers sight upon himself.
मूलम्
अ॒ग्नीषोम॑योर॒हन्दे॑वय॒ज्यया॒ चक्षु॑ष्मान्भूयास॒मित्या॑ह ।
अ॒ग्नीषोमा॑भ्याव्ँ॒ वै य॒ज्ञश्चक्षु॑ष्मा॒न्ताभ्या॑मे॒व चक्षु॑रा॒त्मन्ध॑त्ते ।
पद-पाठः
अ॒ग्नीषोम॑यो॒रित्य॒ग्नी-सोम॑योः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । चक्षु॑ष्मान् । भू॒या॒स॒म् । इति॑ । आ॒ह॒ ।
अ॒ग्नीषोमा॑भ्या॒मित्य॒ग्नी-सोमा॑भ्याम् । वै । य॒ज्ञः । चक्षु॑ष्मान् ।
ताभ्या॑म् । ए॒व । चक्षुः॑ । आ॒त्मन् । ध॒त्ते॒ ।
भट्टभास्कर-टीका
8अग्नीषोमयोरित्याज्यभागानुमन्त्रणम् ॥ ‘ईदग्नेः’ इतीत्वम्, ‘अग्नेस्तुत्स्तोमसोमाः’ इति षत्वम्, ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
पुरोडाशः
विश्वास-प्रस्तुतिः
“अ॒ग्नेर् अ॒हन् दे॑वय॒ज्यया॑ ऽन्ना॒दो भू॑यास॒म्” इत्य् आ॑ह ।
अ॒ग्निर् वै दे॒वाना॑म् अन्ना॒दस्,
तेनै॒व [43] +अ॒न्नाद्य॑म् आ॒त्मन् ध॑त्ते ।
Keith
‘By sacrifice to the god Agni, may I be an eater of food’, he says;
Agni is among the gods the eater of food;
verily by means of him [5] he confers the eating of food upon himself.
मूलम्
अ॒ग्नेर॒हन्दे॑वय॒ज्यया॑न्ना॒दो भू॑यास॒मित्या॑ह । अ॒ग्निर्वै दे॒वाना॑मन्ना॒दस्तेनै॒व [43] +अ॒न्नाद्य॑मा॒त्मन्ध॑त्ते ।
पद-पाठः
अ॒ग्नेः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । अ॒न्ना॒द इत्य॑न्न-अ॒दः । भू॒या॒स॒म् । इति॑ । आ॒ह॒ ।
अ॒ग्निः । वै । दे॒वाना॑म् । अ॒न्ना॒द इत्य॑न्न-अ॒दः ।
तेन॑ । ए॒व । [43] अ॒न्नाद्य॒मित्य॑न्न-अद्य॑म् । आ॒त्मन् । ध॒त्ते॒ ।
भट्टभास्कर-टीका
9अग्नेरहमित्याग्नेयस्य पुरोडाशस्यानुमन्त्रणम् - अग्निर्वा इत्यादि ॥ देवानाम्मध्येग्निरन्नादः अन्नस्यात्ता, हविषां भोक्तृत्वात् । अणपवादः, पचाद्यच् ।
अन्नाद्यं अन्नस्यादनमन्नाद्यं अन्नादनसामर्थ्यम् । छान्दसो भावे क्यच् [प्] । यद्वा - अन्नात्मकमदनीयमन्नाद्यम् । ‘गदमदचरयमश्च’ इति चकारस्यानुक्तसमुच्चयार्थत्वाद्यत् ॥
उपांशुयाजः
मूलम् (संयुक्तम्)
दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुन्द॑भेय॒मित्या॑ह ए॒तया॒ वै दब्ध्या॑ दे॒वा असु॑रानदभ्नुव॒न्तयै॒व भ्रातृ॑व्यन्दभ्नोति
विश्वास-प्रस्तुतिः
“दब्धि॑र् असि ।
अद॑ब्धो भूयासम्, अ॒मुन्+++(←नामनिर्देशः)+++ द॑भेय॒म्” इत्य् आ॑ह ।
ए॒तया॒ वै दब्ध्या॑ दे॒वा असु॑रान् अदभ्नुवन् ।
तयै॒व भ्रातृ॑व्यन् दभ्नोति ।
Keith
‘Thou art a deceiver; may I be undeceived; may I deceive N. N.’, he says; by that deceit the gods deceived the Asuras; verily by this he deceives his foe.
मूलम्
दब्धि॑रसि ।
अद॑ब्धो भूयासम॒मुन्द॑भेय॒मित्या॑ह ।
ए॒तया॒ वै दब्ध्या॑ दे॒वा असु॑रानदभ्नुवन् ।
तयै॒व भ्रातृ॑व्यन्दभ्नोति ।
पद-पाठः
दब्धिः॑ । अ॒सि॒ ।
अद॑ब्धः । भू॒या॒स॒म् ।
अ॒मुम् । द॒भे॒य॒म् । इति॑ । आ॒ह॒ ।
ए॒तया॑ । वै । दब्ध्या॑ । दे॒वाः । असु॑रान् । अ॒द॒भ्नु॒व॒न् ।
तया॑ । ए॒व । भ्रातृ॑व्यम् । द॒भ्नो॒ति॒ ।
भट्टभास्कर-टीका
10दब्धिरसीत्युपांशुयाजस्यानुमन्त्रणम् - एतया वा इत्यादि ॥ दब्ध्या दम्भनेन शत्रूणां दम्भनहेतुना । उपांशुयाजेन देवा असुरानदभ्नुवन् हिंसितवन्तः ॥
अग्नीषोमीयौ
मूलम् (संयुक्तम्)
अ॒ग्नीषोम॑योर॒हन्दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यास॒मित्या॑हा॒ग्नीषोमा॑भ्याव्ँ॒वा इन्द्रो॑ वृ॒त्रम॑ह॒न्ताभ्या॑मे॒व भ्रातृ॑व्यँ स्तृणुते
विश्वास-प्रस्तुतिः
“अ॒ग्नीषोम॑योर् अ॒हन् दे॑व-य॒ज्यया॑ वृत्र॒-हा भू॑यास॒म्” इत्य् आ॑ह ।
अ॒ग्नीषोमा॑भ्याव्ँ॒ वा इन्द्रो॑ वृ॒त्रम् अ॑ह॒न्,
ताभ्या॑म् ए॒व भ्रातृ॑व्यँ स्तृणुते ।
Keith
‘By sacrifice to the gods, Agni and Soma, may I be a slayer of foes’, he says;
by means of Agni and Soma Indra slew Vrtra;
verily by means of them he lays low his foe.
मूलम्
अ॒ग्नीषोम॑योर॒हन्दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यास॒मित्या॑ह ।
अ॒ग्नीषोमा॑भ्याव्ँ॒वा इन्द्रो॑ वृ॒त्रम॑ह॒न्ताभ्या॑मे॒व भ्रातृ॑व्यँ स्तृणुते ।
पद-पाठः
अ॒ग्नीषोम॑यो॒रित्य॒ग्नी-सोम॑योः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । वृ॒त्र॒हेति॑ वृत्र-हा । भू॒या॒स॒म् । इति॑ । आ॒ह॒ ।
अ॒ग्नीषोमा॑भ्या॒मित्य॒ग्नी-सोमा॑भ्याम् । वै । इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न् । ताभ्या॑म् । ए॒व । भ्रातृ॑व्यम् । स्तृ॒णु॒ते॒ ।
ऐन्द्राग्नम्
भट्टभास्कर-टीका
11अग्नीषोमयोरित्यग्नीषोमीयस्यानुमन्त्रणम् ॥ स्तृणुते नाशयति ॥
मूलम् (संयुक्तम्)
इ॒न्द्रा॒ग्नि॒योर॒हन्दे॑वय॒ज्यये॑न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑वान्ना॒दो भ॑व॒तीन्द्र॑स्य [44]अ॒हन्दे॑वय॒ज्यये॑न्द्रिया॒वी भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑व भ॑वति
विश्वास-प्रस्तुतिः
इ॒न्द्रा॒ग्नि॒योर् अ॒हन् दे॑वय॒ज्यये॑न्द्रिया॒व्य् अ॑न्ना॒दो भू॑यास॒म्
इत्य् आ॑ह।
इ॒न्द्रि॒या॒व्य् ए॒॑वान्ना॒दो भ॑व॒ति।
Keith
‘By sacrifice to the gods, Indra and Agni, may I be powerful and an eater of food’, he says; verily he becomes powerful and an eater of food.
मूलम्
इ॒न्द्रा॒ग्नि॒योर् अ॒हन् दे॑वय॒ज्यये॑न्द्रिया॒व्य् अ॑न्ना॒दो भू॑यास॒म् इत्य् आ॑ह।
इ॒न्द्रि॒या॒व्य् ए॑वान्ना॒दो भ॑व॒ति।
इ॒न्द्रा॒ग्नि॒योरिती॑न्द्र-अ॒ग्नि॒योः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । इ॒न्द्रि॒या॒वी । अ॒न्ना॒द इत्य॑न्न-अ॒दः । भू॒या॒स॒म् । इति॑ । आ॒ह॒ ।
इ॒न्द्रि॒या॒वी । ए॒व । अ॒न्ना॒द इत्य॑न्न-अ॒दः । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
12इन्द्राग्नियोरहमित्यैन्द्राग्नस्यानुमन्त्रणम् - इन्द्रियाव्येवेत्यादि ॥
इन्द्रेणेन्द्रियावी, अग्निनान्नादश्च भवति । ‘बहुलं छन्दसि’ इति विनिः, ‘अन्येभ्योपि दृश्यते’ इति दीर्घत्वम् ॥
ऐन्द्रम्
विश्वास-प्रस्तुतिः
“इन्द्र॑स्य [44]+अ॒हन् दे॑वय॒ज्यये॑न्द्रिया॒वी भू॑यास॒म्” इत्य् आ॑ह।
इ॒न्द्रि॒या॒व्ये॒॑व भ॑वति।
Keith
‘By sacrifice to the god Indra, may I be powerful’, he says;
verily he becomes powerful.
मूलम्
“इन्द्र॑स्य [44]+अ॒हन् दे॑वय॒ज्यये॑न्द्रिया॒वी भू॑यास॒म्” इत्य् आ॑ह।
इ॒न्द्रि॒या॒व्ये॑व भ॑वति।
पद-पाठः
इन्द्र॑स्य । [44] अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । इ॒न्द्रि॒या॒वी । भू॒या॒स॒म् । इति॑ । आ॒ह॒ ।
इ॒न्द्रि॒या॒वी । ए॒व । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
13इन्द्रस्येत्यैन्द्रस्य सान्नाय्यस्यानुमन्त्रणम् ॥
माहेन्द्रम्
विश्वास-प्रस्तुतिः
“म॒हे॒न्द्रस्या॒हन् दे॑वय॒ज्यया॑ जे॒मान॑म् महि॒मान॑ङ् गमेय॒म्” इत्य् आ॑ह ।
जे॒मान॑म् ए॒व म॑हि॒मान॑ङ् गच्छति ।
Keith
‘By sacrifice to the god Mahendra, may I attain superiority and greatness’, he says;
verily he attains superiority and greatness.
मूलम्
म॒हे॒न्द्रस्या॒हन्दे॑वय॒ज्यया॑ जे॒मान॑म्महि॒मान॑ङ्गमेय॒मित्या॑ह ।
जे॒मान॑मे॒व म॑हि॒मान॑ङ्गच्छति ।
पद-पाठः
म॒हे॒न्द्रस्येति॑ महा-इ॒न्द्रस्य॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । जे॒मान॑म् । म॒हि॒मान॑म् । ग॒मे॒य॒म् । इति॑ । आ॒ह॒ ।
जे॒मान॑म् । ए॒व । म॒हि॒मान॑म् । ग॒च्छ॒ति॒ ।
भट्टभास्कर-टीका
14महेन्द्रस्येति माहेन्द्रस्य ॥ जेमा जेतृत्वं सर्वोत्कृष्टत्वम् । ‘तुश्छन्दसि’ इति जेतृशब्दादिमनिच्, छान्दस इकारलोपः, ‘तुरिष्ठेमेयस्सु’ इति तृलोपः । जनयितृत्वं वा । जनेश्छान्दसो जाभावः । ‘अन्येभ्योपि दृश्यन्ते’ इति वा व्यत्ययेन भावे जयतेर्मनिन्प्रत्ययः, छान्दसमन्तोदात्तत्वम् । महिमानं महत्त्वम् । मह पूजायाम् । सर्वेषां पूजार्हत्वम् । पूवर्वन्मनिन्प्रत्ययस्स्वरश्च ॥
स्विष्टकृत्
मूलम् (संयुक्तम्)
अ॒ग्नेस्स्वि॑ष्ट॒कृतो॒ऽहन्दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेय॒मित्या॒हायु॑रे॒वात्मन्ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति ॥ 45 ॥
विश्वास-प्रस्तुतिः
“अ॒ग्नेस् स्वि॑ष्ट॒कृतो॒ ऽहन् दे॑वय॒ज्यया ऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठाङ् ग॑मेय॒म्” इत्य् आ॒ह ।
आयु॑र् ए॒वात्मन् ध॑त्ते ।
प्रति॑ य॒ज्ञेन॑ तिष्ठति ।
Keith
‘By sacrifice to the god Agni Svistakrt, may I attain security through the sacrifice, enjoying long life’, he says;
verily he confers long life upon himself and attains security through the sacrifice.
मूलम्
अ॒ग्नेस्स्वि॑ष्ट॒कृतो॒ऽहन्दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेय॒मित्या॒ह ।
आयु॑रे॒वात्मन्ध॑त्ते ।
प्रति॑ य॒ज्ञेन॑ तिष्ठति ।
पद-पाठः
अ॒ग्नेः । स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट-कृतः॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । आयु॑ष्मान् । य॒ज्ञेन॑ । प्र॒ति॒ष्ठामिति॑ प्रति-स्थाम् । ग॒मे॒य॒म् । इति॑ । आ॒ह॒ ।
आयुः॑ । ए॒व । आ॒त्मन् । ध॒त्ते॒ ।
प्रतीति॑ । य॒ज्ञेन॑ । ति॒ष्ठ॒ति॒ ॥ [45]
भट्टभास्कर-टीका
15अग्नेस्स्विष्टकृत इति स्विष्टकृतोनुमन्त्रणम् ॥ आयुष्मान्दीर्घायुः । आयुर्दीर्घमात्मनि स्थापयति । प्रतियज्ञेन तिष्ठतीति । यज्ञेन या प्रतिष्ठा यजमानस्य भवति, ‘प्रति तिष्ठति प्रजया पशुभिर्यजमानः’ इति तामपि प्रतिष्ठां गच्छतीति । यद्वा - प्रतिष्ठेति परमात्मोच्यते । यज्ञेन यजनेन तं प्रतितिष्ठति प्राप्नोतीति ॥
इति षष्ठे एकादशोनुवाकः ॥