०३ दर्शपूर्णमासयोः स्तुतिः

०९ दर्शपूर्णमासयोः स्तुतिः ...{Loading}...

प्रजापतिर्ऋषिः

अग्निहोत्रादीनां सोमयागसमता

मूलम् (संयुक्तम्)

प्र॒जाप॑तिर्य॒ज्ञान॑सृजताग्निहो॒त्रञ्चा॑ग्निष्टो॒मञ्च॑ पौर्णमा॒सीञ्चो॒क्थ्य॑ञ्चामावा॒स्या॑ञ्चातिरा॒त्रञ्च


भास्करोक्त-विनियोगः

1अथ दर्शपूर्णमासयोर् महाफलत्वं ख्यापयितुम् आह - प्रजापतिरित्यादि ॥

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर् य॒ज्ञान् अ॑सृजत -
अग्निहो॒त्रञ् चा॑ग्निष्टो॒मञ् च॑
पौर्णमा॒सीञ् चो॒क्थ्य॑ञ् च
अमावा॒स्या॑ञ् चातिरा॒त्रञ् च॑ ।

Keith

Prajapati created the sacrifices, the Agnihotra, the Agnistoma, the full moon sacrifice, the Ukthya, the new moon sacrifice and the Atiratra.

मूलम्

प्र॒जाप॑तिर्य॒ज्ञान॑सृजत -
अग्निहो॒त्रञ्चा॑ग्निष्टो॒मञ्च॑ ..
पौर्णमा॒सीञ्चो॒क्थ्य॑ञ्च ..
अ॒मा॒वा॒स्या॑ञ्चातिरा॒त्रञ्च॑ ।

पद-पाठः

प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । य॒ज्ञान् । अ॒सृ॒ज॒त॒ ।
अ॒ग्नि॒हो॒त्रमित्य॑ग्नि-हो॒त्रम् । च॒ ।
अ॒ग्नि॒ष्टो॒ममित्य॑ग्नि-स्तो॒मम् । च॒ ।
पौ॒र्ण॒मा॒सीमिति॑ पौर्ण-मा॒सीम् । च॒ । उ॒क्थ्य॑म् । च॒ ।
अ॒मा॒वा॒स्या॑मित्य॑मा-वा॒स्या॑म् । च॒ । अ॒ति॒रा॒त्रमित्य॑ति-रा॒त्रम् । च॒ ।

भट्टभास्कर-टीका

अग्निहोत्रं व्याख्यातम् ।
अग्निष्टोम एकाहानां प्रकृतिभूतं कर्म । अग्नेस्स्तोमः यज्ञायज्ञीयं सामाग्निष्टोमम्; तत्प्रधानत्वात् तत्-संस्थमपि कर्माग्निष्टोम उच्यते । ‘अग्नेस्तुत्स्तोमसोमाः’ इति षत्वम् ।
पूर्णश्चन्द्रः पूर्णमाः, तत्सम्बन्धिनी तिथिः शुक्लपञ्चदशी पौर्णमासी, तस्यां क्रियमाणमपि कर्माभेदेन पौर्णमासीत्युच्यते ।
उक्थ्यः क्रतुः अग्निष्टोम-विकारः पञ्चदशस्तोत्रः ।

अमा सह सूर्याचन्द्रमसावस्यां वस्त इत्यमावास्या । ‘अमावस्यदन्यतरस्याम्’ इति निपात्यते । कृष्णपञ्चदश्युच्यते । पूर्ववत्कर्मण्यभेदेन वर्तते ।
अतिरात्रोप्य् अग्निष्टोमविकारः एकोनत्रिशत्स्तोत्रः, रात्रिपर्यायातिरेकाद् अतिरात्रः । ‘अहस्सर्वैक’ इत्यच्समासान्तः ।

सायण-टीका

अष्टमे यज्ञायुधसंभृतिरुक्ता। नवमे द्वादशद्वंद्वसंपत्तिरुच्‍यते। प्रथमं तावदानुष्ठातॄणां फलाधिक्याय वेदनविशेषविधिमुन्नेतुं प्रस्तौति –

प्रजापतिरिति। अत्राग्निहोत्रपौर्णमास्यमावास्यायागा अल्पैर्द्रव्यमन्त्रक्रिया-विशेषैः साध्या अत एवाल्पफलाः। अग्निष्टोमोक्थ्यातिरात्रयागा बहुभिर्द्रव्य-मन्त्रक्रियाविशेषैः साध्या अत एवाधिकफलाः।

विश्वास-प्रस्तुतिः

तान् उद॑मिमीत ।

याव॑द् अग्निहो॒त्रम् आसी॒त्,
तावा॑न् अग्निष्टो॒मः ।

याव॑ती पौर्णमा॒सी तावा॑न् उ॒क्थ्यः॑ ।
याव॑त्य् अमावा॒स्या॑ तावा॑न् अतिरा॒त्रः ।

य ए॒वव्ँ वि॒द्वान् अ॑ग्नि-हो॒त्रञ् जु॒होति॒,
याव॑द् अग्निष्टो॒मेनो॑पा॒प्नोति॒
ताव॒द् उपा॑ऽऽप्नोति ।

य ए॒वव्ँ वि॒द्वान् पौ॑र्णमा॒सीय्ँ यज॑ते॒
याव॑द् उ॒क्थ्ये॑नोपा॒प्नोति॒
ताव॒द् उपा॑ऽऽप्नोति ।

य ए॒वव्ँ वि॒द्वान् अ॑मावा॒स्या॑य्ँ॒ यज॑ते॒,
याव॑द् अतिरा॒त्रेणो॑पा॒प्नोति॒
ताव॒द् उपा॑ऽऽप्नोति ।

Keith

These he meted out;
the Agnistoma was the size of the Agnihotra,
the Ukthya that of the full moon sacrifice,
the Atiratra that of the new moon sacrifice.

He who knowing thus offers the Agnihotra obtains as much as by offering the Agnistoma;
he who knowing thus offers the full moon sacrifice obtains as much as by offering the Ukthya [1];
he who knowing thus offers the new moon sacrifice obtains as much as by offering the Atiratra.

मूलम्

तानुद॑मिमीत ।

याव॑दग्निहो॒त्रमासी॒त्तावा॑नग्निष्टो॒मः ।

याव॑ती पौर्णमा॒सी तावा॑नु॒क्थ्यः॑ ।

याव॑त्यमावा॒स्या॑ तावा॑नतिरा॒त्रः ।

य ए॒वव्ँवि॒द्वान॑ग्निहो॒त्रञ्जु॒होति॑ ।

याव॑दग्निष्टो॒मेनो॑पा॒प्नोति॒ ताव॒दुपा॑ऽऽप्नोति ।

य ए॒वव्ँवि॒द्वान्पौ॑र्णमा॒सीय्ँयज॑ते ।
याव॑दु॒क्थ्ये॑नोपा॒प्नोति॒ ताव॒दुपा॑ऽऽप्नोति ।

य ए॒वव्ँवि॒द्वान॑मावा॒स्याय्ँ॑यज॑ते ।
याव॑दतिरा॒त्रेणो॑पा॒प्नोति॒ ताव॒दुपा॑ऽऽप्नोति ।

पद-पाठः

तान् । उदिति॑ । अ॒मि॒मी॒त॒ ।

याव॑त् । अ॒ग्नि॒हो॒त्रमित्य॑ग्नि-हो॒त्रम् । आसी॑त् । ़

तावा॑न् । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः ।

याव॑ती । पौ॒र्ण॒मा॒सीति॑ पौर्ण-मा॒सी । तावा॑न् । उ॒क्थ्यः॑ ।

याव॑ती । अ॒मा॒वा॒स्येत्य॑मा-वा॒स्या॑ । तावा॑न् । अ॒ति॒रा॒त्र इत्य॑ति-रा॒त्रः ।

यः । ए॒वम् । वि॒द्वान् । अ॒ग्नि॒हो॒त्रमित्य॑ग्नि-हो॒त्रम् । जु॒होति॑ ।

याव॑त् । अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि-स्तो॒मेन॑ । उ॒पा॒प्नोतीत्यु॑प-आ॒प्नोति॑ ।
ताव॑त् । उपेति॑ । आ॒प्नो॒ति॒ ।

यः । ए॒वम् । वि॒द्वान् । पौ॒र्ण॒मा॒सीमिति॑ पौर्ण-मा॒सीम् । यज॑ते ।
याव॑त् । उ॒क्थ्ये॑न । उ॒पा॒प्नोतीत्यु॑प-आ॒प्नोति॑ ।
ताव॑त् । उपेति॑ । आ॒प्नो॒ति॒ ।

। यः । ए॒वम् । वि॒द्वान् । अ॒मा॒वा॒स्या॑मित्य॑मा-वा॒स्या॑म् । यज॑ते ।
याव॑त् । अ॒ति॒रा॒त्रेणेत्य॑ति-रा॒त्रेण॑ । उ॒पा॒प्नोतीत्यु॑प-आ॒प्नोति॑ ।
ताव॑त् । उपेति॑ । आ॒प्नो॒ति॒ ।

भट्टभास्कर-टीका

तानित्यादि । ऊर्ध्वमानमुन्मानं तुलापरिच्छेदः । तत्राग्निहोत्रादिभिस्तुल्यगौरवात् अग्निष्टोमादयो दृश्यन्ते । तस्मादेवं विदित्वाग्निहोत्रादिकं कुर्वन्नग्निष्टोमादिफलमाप्नोति । प्रासङ्गिकमग्निहोत्रग्रहणम्, उन्मानेन सहभावात् ॥

सायण-टीका

तानुभयविधान्यज्ञान्प्रजापतिः सृष्ट्वा कनिष्ठपुत्रे पितेव कनीयःस्वग्निहोत्रादिष्वनुग्रहेण तुलया त्रीणि द्वंद्वान्युन्मितवान्। तदनुग्रहादग्निहोत्रादीनामग्नीष्टोमादिसमानि संपन्नानि।
वेदनविशेषविधिमुन्नयति-
य एवं विद्वानिति। प्रजापत्यनुग्रहादग्निहोत्रादीनामग्निष्टोमादिसाम्यं जानतः समानफलत्वकथनात्फलाधिक्यायानुष्ठातृभिरग्निष्टोमादिसाम्यं भावयेदिति विधिरुन्नीयते। विद्यया युक्तस्य कर्मणः फलाधिक्यं छन्दोगा आमनन्ति - “यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति” इति। लोकेऽपि राज्ञा ग्रामेषु प्रेरिते राजमुद्राधारिणि नीचे कस्मिंश्चिद्भृत्ये राजत्वमुपचरन्तीनां प्रजानां भृत्यचित्तप्रसादेन फलाधिक्यमुपलभामहे। काण्वैश्च बृहदारण्यकस्य पञ्चमाध्याये कानिचिदुपासनान्यथ संपद इति वाक्येनाऽऽम्नायते। स्वल्पे कर्मण्यधिककर्मत्वस्य मनसा संपादनं संपत्। एतदेवाभिप्रेत्य सर्वेषु स्मृतिपुराणागमेषु शालग्रामप्रतिमादौ विष्ण्वादिबुद्धिर्विहिता। तस्मादेतद्वाक्यमग्निहोत्रादावग्निष्टोमादिसंपादनविधिपरम्। यद्यपि पूर्वमीमांसायां द्वितीयाध्याये य एवं विद्वान्पौर्णमासीं यजत इत्यस्य विद्वद्वाक्यस्य विधायकत्वं निराकृत्यानुवादत्वमुक्तं तथाऽपि कर्मविधेरेव तत्र निराकरणात्संपद्बुद्धयुन्नीतो न कोऽपि विरोधः। भावनाविधिपरत्वे वाक्यमतेत्कर्म-प्रकरणादुत्कृष्येतेति चेत्। उत्कृष्यतां नाम। अग्निचयनप्रकरणपठितानां मनश्चिदाद्युपास्तीनां प्रकरणोत्कर्षस्य व्यासेनैव निर्णीतत्वात्। अन्यपरस्या-न्यार्थत्वाद्दर्शपूर्णमासौ प्रशंसितुमत्र पाठोऽस्तु।

दर्शपूर्णमासयोस्स्तुतिः

विश्वास-प्रस्तुतिः

प॒र॒मे॒ष्ठिनो॒ वा ए॒ष य॒ज्ञोऽग्र॑ आसीत् ।
तेन॒ स प॑र॒माङ् काष्ठा॑म् अगच्छत् ।

Keith

This sacrifice was in the beginning Paramesthin’s, and by means of it he reached the supreme goal.

मूलम्

प॒र॒मे॒ष्ठिनो॒ वा ए॒ष य॒ज्ञोऽग्र॑ आसीत् ।
तेन॒ स प॑र॒माङ् काष्ठा॑म् अगच्छत् ।

पद-पाठः

प॒र॒मे॒ष्ठिनः॑ । वै । ए॒षः । य॒ज्ञः । अग्रे॑ । आ॒सी॒त् ।

तेन॑ । सः । प॒र॒माम् । काष्ठा॑म् । अ॒ग॒च्छ॒त् ।

भट्टभास्कर-टीका

2पुनरपि दर्शपूर्णमासयोस्स्तुतिः - परमेष्ठिन इत्यादि ॥ परमे महिम्नि तिष्ठतीति परमेष्ठी । उणादिषु निपात्यते । सर्वदेवतासमष्टिः परमात्मोच्यते । तस्यैष यज्ञो दर्शश्च पूर्णमासश्च अग्रे आदावासीत् ।

तेन स परमां काष्ठां परमैश्वर्यकाष्ठामगच्छत् ।

विश्वास-प्रस्तुतिः

तेन॑ प्र॒जाप॑तिन् नि॒रवा॑साययत् ।
तेन॑ प्र॒जाप॑तिᳶ पर॒माङ् काष्ठा॑म् अगच्छत् ।

तेनेन्द्र॑न् नि॒रवा॑साययत् ।
तेनेन्द्रᳶ॑ पर॒माङ् काष्ठा॑म् अगच्छत् ।

तेना॒ग्नी-षोमौ॑ नि॒रवा॑साययत् ।
तेना॒ग्नीषोमौ॑ पर॒माङ् काष्ठा॑म् अगच्छताम् ।

Keith

He furnished Prajapati with it,
and by means of it Prajapati reached the supreme goal.

He furnished Indra with it,
and by means of it Indra reached the supreme goal.

He furnished Agni and Soma with it, and by means of it Agni and Soma reached the supreme goal.

मूलम्

तेन॑ प्र॒जाप॑तिन्नि॒रवा॑साययत् ।
तेन॑ प्र॒जाप॑तिᳶ पर॒माङ्काष्ठा॑मगच्छत् ।

तेनेन्द्र॑न्नि॒रवा॑साययत् ।
तेनेन्द्रᳶ॑ पर॒माङ्काष्ठा॑मगच्छत् ।

तेना॒ग्नीषोमौ॑ नि॒रवा॑साययत् ।
तेना॒ग्नीषोमौ॑ पर॒माङ्काष्ठा॑मगच्छताम् ।

पद-पाठः

तेन॑ । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । नि॒रवा॑सायय॒दिति॑ निः-अवा॑साययत् ।
तेन॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प॒र॒माम् । काष्ठा॑म् । अ॒ग॒च्छ॒त् ।

तेन॑ । इन्द्र॑म् । नि॒रवा॑सायय॒दिति॑ निः-अवा॑साययत् । तेन॑ । इन्द्रः॑ । प॒र॒माम् । काष्ठा॑म् । अ॒ग॒च्छ॒त् ।

तेन॑ । अ॒ग्नीषोमा॒वित्य॒ग्नी-सोमौ॑ । नि॒रवा॑सायय॒दिति॑ निः-अवा॑साययत् ।
तेन॑ । अ॒ग्नीषोमा॒वित्य॒ग्नी-सोमौ॑ । प॒र॒माम् । काष्ठा॑म् । अ॒ग॒च्छ॒ता॒म् । [30]

भट्टभास्कर-टीका

तेन यज्ञेन स परमेष्ठी प्रजापतिं जगतां स्रष्टारं निरवासाययत् देवतान्तरेभ्यो व्यावृत्तमुत्कर्षिणमकरोत् । निरवसानमुत्कर्षः ।
यथा - तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्ति’ इति । निरवपूर्वात्स्यतेर्णिचि शाच्छासाह्वा’ इति युक्, गतिद्वयमप्याख्यातेन समस्यते, गतिर्गर्तौ’ इति प्रथमोनुदात्तः, `उदात्तवता च तिङा सह’ इति समास(निषेधः) । एवं सर्वत्र ।

सायण-टीका

पुनरपि दर्शपूर्णमासौ प्रशंसति-
परमेष्ठिनो वा इति। परमे पदे सत्यलोके तिष्ठतीति परमेष्ठी चतुर्मुखः। तस्य चाग्रे पूर्वस्मिन्कल्पे यजमानत्वेनावस्थितस्यैष यज्ञो दर्शपूर्णमासयज्ञः प्रवृत्तः। तेन चेश्वरार्पणबुद्ध्याऽनुष्ठितेन स यजमानः परमां काष्ठामिदं परमेष्ठित्वपदं प्राप्तवान्। प्रजापतिर्दक्षादिः। तं पूर्वस्मिञ्जन्मनि तेनोत्तमफलहेतुदर्शपूर्णमासोपदेशेन निरवासाययत्तोषितवाननुष्ठानाय प्रेरितवान्वा।

विश्वास-प्रस्तुतिः

य [30] ए॒वव्ँ वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते
पर॒माम् ए॒व काष्ठा॑ङ् गच्छति ।

Keith

He who [2] knowing thus offers the new and full moon sacrifices reaches the supreme goal.

मूलम्

य [30] ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते
पर॒मामे॒व काष्ठा॑ङ्गच्छति ।

पद-पाठः

यः ।[30] ए॒वम् । वि॒द्वान् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । यज॑ते ।
प॒र॒माम् । ए॒व । काष्ठा॑म् । ग॒च्छ॒ति॒ ।

भट्टभास्कर-टीका

या प्राणिनां सदा निरतिशयानन्द-निर्वृत्ति-दायिनी शाश्वती पुनर्जन्मच्छेदिनी सा परमा काष्ठा,
तां गच्छति प्राप्नोत्येव ।

सायण-टीका

स च तस्मिञ्जन्मनि यजमानस्तेनानुष्ठानेन परमां काष्ठां दक्षत्वपदं प्राप्तवान्। एवमितरत्र योज्यम्। अत एव दर्शपूर्णमासयोः स्वर्गकामार्थत्वमाम्नातं मीमांसकैर्विचारितं च।

द्वादशद्वन्द्वसम्पत्तिः

विश्वास-प्रस्तुतिः

यो वै प्रजा॑तेन य॒ज्ञेन॒ यज॑ते॒
प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ।
“द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रो,
द्वाद॑श द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयो॒स्,
तानि॑ स॒म्पाद्या॒नी"त्य् आ॑हुः ।

Keith

He who sacrifices with an abundant offering is multiplied with offspring, with cattle, with pairings.
‘The year has twelve months,
there are twelve pairs of new and full moon sacrifices;
these are to be produced’, they say.

मूलम्

यो वै प्रजा॑तेन य॒ज्ञेन॒ यज॑ते॒
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रो
द्वाद॑श द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयो॒स्तानि॑ स॒म्पाद्या॒नीत्या॑हुः ।

पद-पाठः

यः । वै । प्रजा॑ते॒नेति॒ प्र-जा॒ते॒न॒ । य॒ज्ञेन॑ । यज॑ते ।
प्रेति॑ । प्र॒जयेति॑ प्र-जया॑ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ ।
द्वाद॑श । मासाः॑ । सव्ँ॒व॒त्स॒र इति॑ सम्-व॒त्स॒रः ।
द्वाद॑श । द्व॒न्द्वानीति॑ द्वम्-द्वानि॑ । द॒र्श॒पू॒र्ण॒मा॒सयो॒रिति॑ दर्श-पू॒र्ण॒मा॒सयोः॑ ।
तानि॑ । स॒म्पाद्या॒नीति॑ सम्-पाद्या॑नि । इति॑ । आ॒हुः॒ ।

भट्टभास्कर-टीका

यो वा इत्यादि । प्रजातो जातप्रजः । यथा संवत्सरस्य द्वादश मासाः, एवं द्वादश द्वन्द्वानि दर्शपूर्णमासयोस्सन्ति, तानि सम्पाद्यानि क्रियाविशेषैर् इत्याहुः । द्वेद्वे संयुक्ते द्वन्द्वं यज्ञपात्रयोगे निपात्यते ॥

सायण-टीका

द्वंद्वसंपादनं विधातुं प्रस्तौति-
यो वै प्रजातेनेति। प्रजातेनात्यन्तविस्तृतेन प्रजादिभिः विस्तृतो जायते। द्वादशमासोपेतसंवत्सरसाम्येन द्वादशद्वंद्वोपेतस्य यज्ञस्य प्रसृतत्वम्।

विश्वास-प्रस्तुतिः

व॒त्सञ् चो॑पावसृ॒जति॑ ।
उ॒खाञ् चाधि॑ श्रयति ।

Keith

He lets the calf go free and puts the pot on the fire:

मूलम्

व॒त्सञ्चो॑पावसृ॒जति॑ ।
उ॒खाञ्चाधि॑ श्रयति ।

पद-पाठः

व॒त्सम् । च॒ । उ॒पा॒व॒सृ॒जतीत्यु॑प-अ॒व॒सृ॒जति॑ ।
उ॒खाम् । च॒ । अधीति॑ । श्र॒य॒ति॒ ।

भट्टभास्कर-टीका

3अथ तानि दर्शयति - वत्सं चेत्यादि ॥ एतैः क्रियाविशेषैः द्वन्द्वानि सम्पद्यन्ते; तेन द्वन्द्वबहुत्वेपि द्वन्द्वसम्पादनक्रियापेक्षं द्वादशत्वं वेदितव्यम् । वत्समुपावसृजति मातृसकाशं प्रापयाति । अनेनोपावसर्जनेन मातृवत्सयोः द्वन्द्वभावस्सम्पद्यते । एवं सर्वत्र द्रष्टव्यम् । एतानि याजमानप्रकरणगतान्यपि अध्वर्युणैव कर्तव्यानि । उक्तं च - ‘याजमाने समाख्यानात्कर्मणि याजमानं स्युः’ इत्यत्र ।

उखामधिश्रयति, अङ्गारेषु कुम्भीं स्थापयति ।

सायण-टीका

द्वंद्वानि विधत्ते -
वत्सं चोपावसृजतीति। गां दोग्धुमध्वर्युरयक्ष्मा वः प्रजयेति मन्त्रेण वत्सं बन्धनान्मुञ्चेत्। क्षीरं श्रपयितुं मातरिश्वनो घर्म इति मन्त्रेणोखां गार्हपत्ये स्थापयेत्।

विश्वास-प्रस्तुतिः

अव॑ च॒ हन्ति॑ । दृ॒षदौ॑ च स॒माह॑न्ति ।

मूलम्

अव॑ च॒ हन्ति॑ । दृ॒षदौ॑ च स॒माह॑न्ति ।

पद-पाठः

अवेति॑ । च॒ । हन्ति॑ ।
दृ॒षदौ॑ । च॒ । स॒माह॒न्तीति॑ सम्-आह॑न्ति ।

Keith

he puts down (the rice), and beats the millstones together;

भट्टभास्कर-टीका

अवहन्ति व्रीहीनुलूखले ।
दृषदौ च समाहन्ति शम्यया ।

सायण-टीका

अव रक्षो दिव इति शाखान्तरमन्त्रेण व्रीहीनवहन्यात्। इषमा वदेति मन्त्रेण पाषाणेन शम्यया वा पेषणार्थं दृषदुपले समाहन्यात्।

विश्वास-प्रस्तुतिः

अधि॑ च॒ वप॑ते ।
क॒पाला॑नि॒ चोप॑ दधाति ।

Keith

he scatters (the grains) and collects the potsherds;

मूलम्

अधि॑ च॒ वप॑ते ।
क॒पाला॑नि॒ चोप॑ दधाति ।

पद-पाठः

अधीति॑ । च॒ । वप॑ते ।
क॒पाला॑नि । च॒ । उपेति॑ । द॒धा॒ति॒ ।

भट्टभास्कर-टीका

अधिवपति दृषदि तण्डुलान् ।
कपालान्य् उपदधात्य् अङ्गारेषु ।

सायण-टीका

देवस्य त्वेत्यादिमन्त्रेण पेषणाय दृषदि तण्डुलानधिवपेत्। ध्रुवमसीत्यादिभिर्मन्त्रैः पुरोडाशश्रपणायाग्नौ कपालान्युपदध्यात्।

विश्वास-प्रस्तुतिः

पु॒रो॒डाश॑ञ् च [31] +अ॒धि॒श्रय॑ति,
आज्य॑ञ्च +++(अधिश्रयति)+++ ।

Keith

the cake [3] he puts on the fire and the melted butter;

मूलम्

पु॒रो॒डाश॑ञ्च [31] +अ॒धि॒श्रय॑ति।
आज्य॑ञ्च +++(अधिश्रयति)+++ ।

पद-पाठः

पु॒रो॒डाश॑म् । च॒ । [31] अ॒धि॒श्रय॒तीत्य॑धि-श्रय॑ति ।
आज्य॑म् । च॒ ।

भट्टभास्कर-टीका

पुरोडाशं चाधिश्रयति कपालेषु ।
आज्यं चाधिश्रयतीत्येव ।

सायण-टीका

घर्मोऽसीति मन्त्रेण तेषु कपालेषु पुरोडाशमधिश्रयेत्। अग्निस्ते तेज इति मन्त्रेणाऽऽज्यमाहवनीयेऽधिश्रयेत्।

विश्वास-प्रस्तुतिः

स्त॒म्ब॒य॒जुश् च॒ हर॑ति । +++(सतृणं पुरीषम्)+++ अ॒भि च॑ गृह्णाति ।

Keith

he throws the clump of grass, and gathers it in;

मूलम्

स्त॒म्ब॒य॒जुश्च॒ हर॑ति । अ॒भि च॑ गृह्णाति ।

पद-पाठः

स्त॒म्ब॒य॒जुरिति॑ स्तम्ब-य॒जुः । च॒ । हर॑ति ।
अ॒भीति॑ । च॒ । गृ॒ह्णा॒ति॒ ।

भट्टभास्कर-टीका

स्तम्बयजुर्हरति ।
सतृणं पुरीषम् अभिगृह्णाति ।

सायण-टीका

चिकीर्षितवेदिस्थाने पृथिवि देवयजनीत्यादिभिर्मन्त्रैः स्तम्बयजुर्हरेत्। अररुस्ते दिवमिति मन्त्रेणाऽऽग्नीध्रोऽञ्जलिना सतृणपांसूनुत्करे प्रक्षिप्तानभिगृह्णीयात्।

विश्वास-प्रस्तुतिः

वेदि॑ञ् च परिगृ॒ह्णाति॑ ।
पत्नी॑ञ् च॒ सन्न॑ह्यति ।

Keith

he surrounds the Vedi and he girds the wife (of the sacrificer);

मूलम्

वेदि॑ञ्च परिगृ॒ह्णाति॑ ।
पत्नी॑ञ्च॒ सन्न॑ह्यति ।

पद-पाठः

वेदि॑म् । च॒ । प॒रि॒गृ॒ह्णातीति॑ परि-गृ॒ह्णाति॑ ।
पत्नी॑म् । च॒ । समिति॑ । न॒ह्य॒ति॒ ।

भट्टभास्कर-टीका

न्युप्तमञ्जलिनाग्नीध्रः वेदिं परिगृह्णाति ।
स्फ्येनोत्तरं परिग्राहम् ।
पत्नीं सन्नह्यति योक्त्रेण ।

सायण-टीका

वसवस्त्वा परिगृह्णन्त्वित्यादिभिर्मन्त्रैर्वेदिं परिगृह्णीयात्। आशासानेति मन्त्रेण योक्त्रेण पत्नीं संनह्येत्।

विश्वास-प्रस्तुतिः

प्रोक्ष॑णीश् चाऽऽसा॒दय॑ति,
आज्य॑ञ् च ।

Keith

he puts in place the anointing waters and the melted butter.

मूलम्

प्रोक्ष॑णीश्चाऽऽसा॒दय॑ति ।
आज्य॑ञ्च +++(अवसादयति)+++ ।

पद-पाठः

प्रोक्ष॑णी॒रिति॑ प्र-उक्ष॑णीः । च॒ । आ॒सा॒दय॒तीत्या॑-सा॒दय॑ति ।
आज्य॑म् । च॒ ।

भट्टभास्कर-टीका

प्रोक्षणीरप आसादयति ।
आज्यं चावसादयतीत्येव, स्रुग्-गृहीतमित्यर्थः ॥

सायण-टीका

ऋतसधस्थेति शाखान्तरमन्त्रेण स्फ्यनिष्पादितायां लेखायां प्रोक्षणीरासादयेत्। अग्नेर्जिह्वाऽसीति मन्त्रेण स्फ्यलेखायामाज्यं सादयेत्।

विश्वास-प्रस्तुतिः

ए॒तानि॒ वै द्वाद॑श द्व॒न्द्वानि॑ - दर्शपूर्णमा॒सयो॒स् तानि॑ ।

य ए॒वँ स॒म्पाद्य॒ यज॑ते॒
प्रजा॑तेनै॒व य॒ज्ञेन॑ यजते ।
प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ॥ [32]

Keith

These are the twelve pairs in the new and full moon sacrifices.
He, who thus sacrifices with these, sacrifices with an abundant offering and is multiplied with offspring,
with cattle, with pairings.

मूलम्

ए॒तानि॒ वै द्वाद॑श द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयो॒स्तानि॑ ।
य ए॒वँ स॒म्पाद्य॒ यज॑ते ।
प्रजा॑तेनै॒व य॒ज्ञेन॑ यजते ।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ॥ [32]

पद-पाठः

ए॒तानि॑ । वै । द्वाद॑श । द्व॒न्द्वानीति॑ द्वम्-द्वानि॑ । द॒र्श॒पू॒र्ण॒मा॒सयो॒रिति॑ दर्श-पू॒र्ण॒मा॒सयोः॑ ।
तानि॑ । यः । ए॒वम् । स॒म्पाद्येति॑ सम्-पाद्य॑ । यज॑ते ।
प्रजा॑ते॒नेति॒ प्र-जा॒ते॒न॒ । ए॒व । य॒ज्ञेन॑ । य॒ज॒ते॒ ।
प्रेति॑ । प्र॒जयेति॑ प्र-जया॑ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ ॥ [32]

भट्टभास्कर-टीका

4एतनि वा इत्यादि ॥ गतम् ॥

इति षष्ठे नवमोनुवाकः ॥

सायण-टीका

विहितानि द्वंद्वानि प्रशस्योपसंहरति-
एतानि वा इति। यद्यप्युक्तानां वत्सविमोकादीनां चतुर्दशत्वात्सप्तैवैतानि द्वंद्वानि तथाऽपि चकारैः पूर्वानुवाकोक्तेषु दशसु यज्ञायुधेषु समुच्चितेषु द्वादश संपद्यन्ते।