०७ अन्वाधानादि ...{Loading}...
देवतापरिग्रह-अग्न्यन्वाधान-व्रतोपयनयनादिविधिः,
प्राजापत्यकाण्डे ऐष्टिक-याजमान-ब्राह्मणम् , किञ्चिद् आध्वर्यवब्राह्मणं च
प्रजापतिर्ऋषिः
अन्वाधानम्
भास्करोक्त-विनियोगः
1अतः परं दर्शपूर्णमासयोर्याजमानब्राह्मणं प्राजापत्यमेव काण्डम् । तत्राग्न्यन्वाधानं विधातुमाह - यथा वा इत्यादि ॥
मूलम् (संयुक्तम्)
यथा॒ वै स॑मृतसो॒मा ए॒वव्ँवा ए॒ते स॑मृतय॒ज्ञा यद्द॑र्शपूर्णमा॒सौ कस्य॒ वाह॑ दे॒वा य॒ज्ञमा॒ गच्छ॑न्ति॒ कस्य॑ वा॒ न ब॑हू॒नाय्ँयज॑मानानाय्ँ॒यो वै दे॒वता॒ᳶ पूर्वᳶ॑ परिगृ॒ह्णाति॒ स ए॑ना॒श्श्वो भू॒ते य॑जत ए॒तद्वै दे॒वाना॑मा॒यत॑नय्ँ॒यदा॑हव॒नीयो॑ऽन्त॒राग्नी प॑शू॒नाङ्गार्ह॑पत्यो मनु॒ष्या॑णामन्वाहार्य॒पच॑नᳶ पितृ॒णाम॒ग्निङ्गृ॑ह्णाति॒ स्व ए॒वायत॑ने दे॒वता॒ᳶ परि॑ [21]गृ॒ह्णा॒ति॒ ताश्श्वो भू॒ते य॑जते
विश्वास-प्रस्तुतिः
यथा॒ वै स॑म्+++(→युगपत्)+++-ऋत-सो॒मा+++(→सोमयागा)+++
ए॒वव्ँ वा ए॒ते स॑म्+++(→युगपत्)+++-ऋत-य॒ज्ञा यद् द॑र्शपूर्णमा॒सौ ।
Keith
Even as the Soma (sacrifices) come together in competition, so the new and full moon (sacrifices) are sacrifices which come together in competition.
मूलम्
यथा॒ वै स॑मृतसो॒मा
ए॒वव्ँ वा ए॒ते स॑मृतय॒ज्ञा
यद् द॑र्शपूर्णमा॒सौ ।
पद-पाठः
यथा॑ । वै । स॒मृ॒त॒सो॒मा इति॑ समृत-सो॒माः ।
ए॒वम् । वै । ए॒ते । स॒मृ॒त॒य॒ज्ञा इति समृत-य॒ज्ञाः ।
यत् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ ।
भट्टभास्कर-टीका
यथा समृतानां सम्प्राप्तानां पूर्वपरिगृहीतानां सोमास् सोमयागाः, केचित् सवादयोपि भवन्ति । यथा ‘पूर्वो वाचं पूर्वो देवताः पूर्वश् छन्दांसि वृङ्क्ते’ इति । एवम् एते दर्शपूर्णमास-याजिनः समृतयज्ञाः सम्भूतयज्ञाः पूर्वपरिगृहीतानां देवानां भवन्ति । उभयत्रापि शाक-पार्थिवत्वात्-समासः ।
सायण-टीका
एतैः षड्भिरनुवाकैर्याजमानमन्त्र उदीरिताः। अथानुवाकपञ्चकेन याजमान-ब्राह्मणमुच्यते। तत्रास्मिन्सप्तमानुवाके देवतापरिग्रहादिर्विधीयते। आहवनीयादिष्वग्निष्वध्वर्युणाऽन्वाधीयमानेषु तस्मिन्नन्वाधानकाले यजमानोऽच्छिद्रकाण्डाम्नातानग्निं गृह्णामीत्यादिमन्त्राञ्जपेत्। सोऽयं देवतापरिग्रहः। असौ चाऽऽपस्तम्बसूत्रे विस्पष्टः।
आपस्तम्बो ह्यग्निं गृह्णामीत्यादिमन्त्रानुच्चर्येदमाह – ‘आहवनीयेऽन्वधीयमाने जपति’ इति। अन्तराऽग्नी पशव इति मन्त्रमुच्चार्येदमाह – ‘अन्तराऽग्नी तिष्ठञ्जपति’ इति। इह प्रजा इत्यादिमन्त्रद्वयमुच्चार्येदमाह – ‘गार्हपत्यम्’ इति।
अन्वाधीयमानमनुमन्त्रयत इति शेषः।
अयं पितृणामिति मन्त्रमुच्चार्येदमाह – ‘दक्षिणाग्निम्’ इति।
अत्रापि पूर्ववद्वाक्यशेषः।
तमिमं देवतापरिग्रहं विधातुमादौ प्रस्तौति-
यथा वा इति। एकस्मिन्नेव काले संहत्य प्राप्ताः समृतसोमाः सोमयागा एकस्मिन्नेव वसन्तर्तौ बहूनां यजमानानां सोमयागाः संहत्य प्राप्यन्त एवमेव बहूनां यजमानानामेते दर्शपूर्णमासा यज्ञा एकस्मिन्नेव पर्वणि संहत्य प्राप्यन्ते।
विश्वास-प्रस्तुतिः
कस्य॒ वाऽह॑ दे॒वा य॒ज्ञम् आ॒ गच्छ॑न्ति॒ +++(←चादिषु च)+++
कस्य॑ वा॒ न?
Keith
Whose sacrifice then do the gods approach and whose not?
मूलम्
कस्य॒ वाह॑ दे॒वा य॒ज्ञमा॒ गच्छ॑न्ति॒
कस्य॑ वा॒ न?
पद-पाठः
कस्य॑ । वा॒ । अह॑ । दे॒वाः । य॒ज्ञम् । आ॒गच्छ॒न्तीत्या॑-गच्छ॑न्ति ।
कस्य॑ । वा॒ । न ।
भट्टभास्कर-टीका
कारणमाह - कस्य वेत्यादि । यजमानानां बहुत्वे कस्य यज्ञं देवा देवादय आगच्छेयुः कस्य न?
सायण-टीका
देवताश्चाग्न्यादयो या एकस्य यजमानस्य ताश्चान्यस्यापि। तथा सति देवानां मनसि संकटमुत्पद्यते। तत्संकटमहशब्देन द्योत्यते। देवानां पक्षपातस्यानुचितत्वात्। कस्य यजमानस्य यज्ञं देवा आगच्छन्ति कस्य वा यज्ञं नाऽऽगच्छन्तीति महदेतत्संकटम्।
विश्वास-प्रस्तुतिः
ब॒हू॒नाय्ँ यज॑मानानाय्ँ॒ यो वै दे॒वता॒ᳶ पूर्वᳶ॑ परिगृ॒ह्णाति॒,
स ए॑ना॒श् श्वो भू॒ते य॑जते ।
+++(ब॒हू॒नाम् - नामन्यतरस्याम् इति विभक्तिस्वरः)+++
Keith
He, who among many sacrificers first appropriates the gods, sacrifices to them when the next day comes.
मूलम्
ब॒हू॒नाय्ँयज॑मानानाय्ँ॒यो वै दे॒वता॒ᳶ पूर्वᳶ॑ परिगृ॒ह्णाति॒ स ए॑ना॒श्श्वो भू॒ते य॑जते ।
पद-पाठः
ब॒हू॒नाम् । यज॑मानानाम् । यः । वै । दे॒वताः॑ । पूर्वः॑ । प॒रि॒गृ॒ह्णातीति॑ परि-गृ॒ह्णाति॑ ।
सः । ए॒नाः॒ । श्वः । भू॒ते । य॒ज॒ते॒ ।
भट्टभास्कर-टीका
न हि प्रथमपरिगृहीतादृते नियमकारणं किञ्चिदस्ति तदेवाह - यो वा इत्यादि । पश्वादीनां देवतात्वमस्त्येव; ‘तस्मात्पूर्वेद्युरेव देवतापरिग्रहार्थमन्वाधानं कर्तव्यमिति । मन्त्रलिङ्गं च ‘ताः पूर्वः परिगृह्णामि’ इति ।
सायण-टीका
तस्य संकटस्यायं परिहारः — बहूनां यजमानानां मध्ये यो यजमान इतरेभ्यः पूर्वः प्रवृत्तो देवताः परिगृह्णाति स यजमान एताः परिगृहीता देवताः परेद्युर्यष्टुमर्हति। न च सर्वेऽपि यजमानाः परस्परमात्सर्येण प्रथमं प्रवर्तन्त इति स दोषस्तदवस्थ इति शङ्कनीयम्। परिग्रहमन्त्रपाठेनैव देवसंकटस्य परिहृतत्वात्। यागस्योद्देशत्यागमात्रत्वाद्देवानामागमनमन्तरेणापि सोऽनुष्ठातुं शक्यते। योगसामर्थ्येन वा बहूनि शरीराणि स्वीकृत्य तत्र सर्वत्राऽऽगमिष्यन्ति। इत्थं च परिहारं भगवान्बा-दरायणो देवताधिकरणे विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनादिति सूत्रयामास। किं बहुनाऽस्य वाक्यस्य देवतापरिग्रहविध्यर्थवादत्वान्न किंचिद्देवानां संकटमस्ति।
विश्वास-प्रस्तुतिः
ए॒तद् वै दे॒वाना॑म् आ॒यत॑नय्ँ॒ यद् आ॑हव॒नीयो॑
ऽन्त॒राग्नी प॑शू॒नाङ्
गार्ह॑पत्यो मनु॒ष्या॑णाम्
अन्वाहार्य॒-पच॑नᳶ पितृ॒णाम्।
Keith
The Ahavaniya is the abode of the gods, between the fires of cattle, the Garhapatya of men, the Anvaharya pacana of the fathers.
मूलम्
ए॒तद्वै दे॒वाना॑मा॒यत॑नय्ँ॒यदा॑हव॒नीयो॑ऽन्त॒राग्नी प॑शू॒नाङ्गार्ह॑पत्यो मनु॒ष्या॑णामन्वाहार्य॒पच॑नᳶ पितृ॒णाम्।
पद-पाठः
ए॒तत् । वै । दे॒वाना॑म् । आ॒यत॑न॒मित्या॑-यत॑नम् ।
यत् । आ॒ह॒व॒नीय॒ इत्या॑-ह॒व॒नीयः॑ ।
अ॒न्त॒रा । अ॒ग्नी इति॑ । प॒शू॒नाम् ।
गार्ह॑पत्य॒ इति॒ गार्ह॑-प॒त्यः॒ । म॒नु॒ष्या॑णाम् ।
अ॒न्वा॒हा॒र्य॒पच॑न॒ इत्य॑न्वाहार्य-पच॑नः । पि॒तृ॒णाम् ।
भट्टभास्कर-टीका
अथ कुत्र का देवता परिगृह्यते इत्याह - एतद्वा इत्यादि । आहवनीयगार्हपत्ययोर्मध्यं पशूनामायतनम् । ‘अन्तरान्तरेण युङ्क्ते’ इति द्वितीया ।
गार्हपत्य इति । ‘गृहपतिना संयुक्ते ञ्यः’ इति ञ्यः । अन्वाहार्य ओदनः पच्यतेस्मिन्निति अन्वाहार्यपचनो दक्षिणाग्निः ।
पितॄणामिति । ‘नामन्यतरस्याम्’ इति षष्ठ्या उदात्तत्वम् ।
सायण-टीका
देवतापरिग्रहार्थानां देशविशेषाणां विधिमर्थवादेनोन्नयति-
एतद्वा इति।
वसून्रुद्रानादित्यानिन्द्रेण सह देवता इत्याहवनीयार्थमन्त्रलिङ्गादाहवनीयो देवानां स्थानम्। अन्तराऽग्नी पशव इति मन्त्रलिङ्गादाहवनीयगार्हपत्ययोर्मध्यं पशूनां स्थानम्। इह प्रजा विश्वरूपा रमन्तामिति मन्त्रलिङ्गाद्गार्हपत्यो मनुष्याणां स्थानम्। अन्वाहार्यः पच्यतेऽस्मिन्नित्यन्वाहार्यपचनो दक्षिणाग्निः। अयं पितृणामग्निरिति मन्त्रलिङ्गादसौ पितृणां स्थानम्।
विश्वास-प्रस्तुतिः
अ॒ग्निङ् गृ॑ह्णाति ।
स्व ए॒वायत॑ने दे॒वता॒ᳶ परि॑ [21] गृह्णाति ।
ताश् श्वो भू॒ते य॑जते ।
Keith
He takes the fire; verily he appropriates [1] the gods in their own abode; to them he sacrifices when the next day comes.
मूलम्
अ॒ग्निङ्गृ॑ह्णाति ।
स्व ए॒वायत॑ने दे॒वता॒ᳶ परि॑ [21] गृह्णाति ।
ताश्श्वो भू॒ते य॑जते ।
पद-पाठः
अ॒ग्निम् । गृ॒ह्णा॒ति॒ ।
स्वे । ए॒व । आ॒यत॑न॒ इत्या॑-यत॑ने । दे॒वताः॑ । परीति॑ । गृ॒ह्णा॒ति॒ ।
ताः । श्वः । भू॒ते । य॒ज॒ते॒ ।
भट्टभास्कर-टीका
अग्निं गृह्णातीत्यादि गतम् ॥
सायण-टीका
देशविधिमन्त्रानुन्नीय तेषु देशेष्ववस्थितस्य देवतापरिग्रहं विदधाति-
अग्निं गृह्णातीति। स्पष्टोऽर्थः।
व्रतोपनयनम्
भास्करोक्त-विनियोगः
2अथ व्रतोपनयनं विधातुमाह - व्रतेन वा इत्यादि ॥
विश्वास-प्रस्तुतिः
व्र॒तेन॒ वै मेध्यो॒ ऽग्निर् व्र॒तप॑तिर्,
ब्राह्म॒णो व्र॑त॒-भृत् ।
Keith
By means of a vow is Agni, lord of vows, pure, the Brahman is a supporter of vows.
मूलम्
व्र॒तेन॒ वै मेध्यो॒ऽग्निर्व्र॒तप॑तिः
ब्रा॒ह्म॒णो व्र॑त॒भृत् ।
पद-पाठः
व्र॒तेन॑ । वै । मेध्यः॑ । अ॒ग्निः । व्र॒तप॑ति॒रिति॑ व्र॒त-प॒तिः॒ ।
ब्रा॒ह्म॒णः । व्र॒त॒भृदिति॑ व्रत-भृत् ।
भट्टभास्कर-टीका
यदि व्रतचारी यजमानस्स्यात्तदा अग्निर्व्रतपतिः व्रतस्य पाता मेध्यो मेधार्हो भवति । स्वयं च ब्राह्मणो व्रतभृत् व्रतधारी भवति; तस्माद्व्रतमुपेयादिति ।
सायण-टीका
मन्त्रेण यज्ञरूपव्रतस्वीकारं विधातुं प्रस्तौति-
व्रतेनेति। वक्ष्यमाणमन्त्रपाठरूपेण व्रतस्वीकारेणैव व्रतपतिरयमग्निर्मेध्यो यागयोग्यो भवति। ब्राह्मणश्च यजमानो व्रतधारी भवति।
विश्वास-प्रस्तुतिः
व्र॒तम् उ॑पै॒ष्यन् ब्रू॑या॒द्
“अग्ने॑ व्रतपते व्र॒तञ्च॑रिष्या॒मी"ति॑ ।
अ॒ग्निर् वै दे॒वानाव्ँ॑ व्र॒तप॑तिः ।
तस्मा॑ ए॒व प्र॑ति॒-प्रोच्य॑ व्र॒तम् आल॑भते ।
Keith
When about to undertake a vow he should say, ‘O Agni, lord of vows, I shall perform the vow.’ Agni is the lord of vows among the gods; verily after announcement to him he undertakes the vow.
मूलम्
व्र॒तमु॑पै॒ष्यन्ब्रू॑याद्
अग्ने॑ व्रतपते व्र॒तञ् च॑रिष्या॒मीति॑ ।
अ॒ग्निर्वै दे॒वानाव्ँ॑ व्र॒तप॑तिः ।
तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॑ व्र॒तमाल॑भते ।
पद-पाठः
व्र॒तम् । उ॒पै॒ष्यन्नित्यु॑प-ए॒ष्यन् । ब्रू॒या॒त् ।
अग्ने॑ । व्र॒त॒प॒त॒ इति॑ व्रत-प॒ते॒ । व्र॒तम् । च॒रि॒ष्या॒मि॒ । इति॑ ।
अ॒ग्निः । वै । दे॒वाना॑म् । व्र॒तप॑ति॒रिति॑ व्र॒त-प॒तिः॒ ।
तस्मै॑ । ए॒व । प्र॒ति॒प्रोच्येति॑ प्रति-प्रोच्य॑ । व्र॒तम् । एति॑ । ल॒भ॒ते॒ ।
भट्टभास्कर-टीका
व्रतमुपैष्यन्नित्यादि । व्रतपतिमग्निमामन्त्र्य तस्मै निवेद्य व्रतमारभते इति । ‘एत्येधत्यूठ्सु’ इति वृद्धिः ।
सायण-टीका
समन्त्रकव्रतस्वीकारं विधत्ते-
व्रतमुपैष्यन्निति। मन्त्रोऽयमतीतप्रश्ने मम नामेत्यनुवाके समाम्नातः।
मन्त्रगतं व्रतपतिशब्दं मन्त्रतात्पर्यं च व्याचष्टे – अग्निर्वा इति।
तिथिविशेषेण व्रतोपायनस्य कालविशेषं विधत्ते-
विश्वास-प्रस्तुतिः
ब॒र्हिषा ॑ पू॒र्णमा॑से व्र॒तम् उपै॑ति,
व॒त्सैर् अ॑मावा॒स्या॑याम्।
ए॒तद् ध्य् ए॒॑तयो॑र् आ॒यत॑नम् ।
Keith
At the full moon be undertakes his vow with the (strewing of the) straw, with the (driving away of the) calves at new moon; for that is their abode.
मूलम्
ब॒र्हिषा॑ पू॒र्णमा॑से व्र॒तमुपै॑ति
व॒त्सैर॑मावा॒स्या॑यामे॒तद्ध्ये॑तयो॑रा॒यत॑नम् ।
पद-पाठः
ब॒र्हिषा॑ । पू॒र्णमा॑स॒ इति॑ पू॒र्ण-मा॒से॒ । व्र॒तम् । उपेति॑ । ए॒ति॒ । ़ व॒त्सैः । अ॒मा॒वा॒स्या॑या॒मित्य॑मा-वा॒स्या॑याम् । ए॒तत् । हि । ए॒तयोः॑ । आ॒यत॑न॒मित्या॑-यत॑नम् ।
भट्टभास्कर-टीका
बर्हिषेत्यादि । बर्हिराहरणेन तत्कालेन सह, बर्हिराहरणानन्तरमिति यावत् । वत्सैर्वत्सानामपाकरणेन तत्कालेन सह वत्सेष्वपाकृतेष्वित्यर्थः । उक्तञ्च - ‘वत्सं संयोगे व्रतचोदना स्यात्’ । अयञ्च सन्नयतोसन्नयतश्च कालः । ‘कालस्सन्नयनपक्षे तल्लिङ्गसंयोगात्’ इति ॥
सायण-टीका
बर्हिषेति। बर्हिषा बर्हिराहरणेनोपलक्षिते काले वत्सैर्वत्सापाकरणेनोपलक्षिते काल इत्यर्थः। एतदुक्तं कालद्वयमेतयोस्तिथिविशेषगतयोर्व्रतस्वीकार-योरुचितं स्थानमिति शाखान्तरप्रसिद्धिः।
उपस्तरणम्
भास्करोक्त-विनियोगः
3अथोपस्तरणं विधातुमाह - उपस्तीर्य इत्यादि ॥
विश्वास-प्रस्तुतिः
उ॒प॒स्तीर्य॒ᳶ पूर्व॑श् चा॒ग्निर् अप॑र॒श् चेत्य् आ॑हुः ।
Keith
‘The fires, both in the front and at the back, must be bestrewed’, they say;
मूलम्
उ॒प॒स्तीर्य॒ᳶ पूर्व॑श्चा॒ग्निरप॑र॒श्चेत्या॑हुः ।
पद-पाठः
उ॒प॒स्तीर्य॒ इत्यु॑प-स्तीर्यः॑ । पूर्वः॑ । च॒ । अ॒ग्निः । अप॑रः । च॒ । इति॑ । आ॒हुः॒ ।
भट्टभास्कर-टीका
उपस्तीर्यः उपस्तरितव्यः । छान्दसः क्यप् । दर्भैः पूर्वेद्युरेवोभावग्नी उपस्तृणुयात् तयोस्समीपे परितस्स्तृणुयात् ।
सायण-टीका
अथोपस्तरणं विधत्ते। अध्वर्युर्यदा दर्भैराहवनीयमार्हपत्यौ परिस्तृणाति तदानीमच्छिद्रकाण्डपठितस्योभावग्नी उपस्तृणुत इत्यादिमन्त्रस्य यजमानेन जप उपस्तरणम्। अथवाऽध्वर्युकर्तृकं परिस्तरणम्।
तदिदमस्मिन्काण्डे विदधाति-
उपस्तीर्य इति। परोक्षकथनेन विधिः प्रशस्यते।
विश्वास-प्रस्तुतिः
म॒नु॒ष्याः॒॑ इन् न्वा(=नु+वा) उप॑स्तीर्णम् इ॒च्छन्ति॑ +++(गृहम्)+++
किम् उ॑ दे॒वा, येषा॒न् नवा॑वसानम्+++(=गृहम्)+++ ।
Keith
men [2] indeed desire what is bestrewed, and, how much more the gods whose is a new dwelling.
मूलम्
म॒नु॒ष्याः॑ [22] इन्न्वा उप॑स्तीर्णमि॒च्छन्ति॑ ।
किमु॑ दे॒वा, येषा॒न्नवा॑वसानम् ।
पद-पाठः
म॒नु॒ष्याः॑ । इत् । नु । वै । उप॑स्तीर्ण॒मित्युप॑-स्ती॒र्ण॒म् । इ॒च्छन्ति॑ ।
किम् । उ॒ । दे॒वाः । येषा॑म् । नवा॑वसान॒मिति॒ नव॑-अ॒व॒सा॒न॒म् ।
भट्टभास्कर-टीका
मनुष्या अपि खलूपस्तीर्णं समन्ताद् आच्छादितं निवासं गृहम् इच्च्छन्ति किम् पुनर् देवाः, येषाम् आयतनं नवावसानं नूतनाध्यवसायम् । यद्वा - अवसानं गृहम् । तेन कर्मधारये दासीभारादिर्द्रष्टव्यः ।
सायण-टीका
विहितमुपस्तरणमुपपादयति-
मनुष्या इदिति। इन्न्वा इति निपातत्रयसमुदायोऽपिशब्दार्थं ब्रूते। अत्यन्तदरिद्रा मनुष्या अपि शीतवातादिपरिहाराय तृणादिभिराच्छन्नं गृहमिच्छन्ति महाप्रभावा देवा उपस्तरणमिच्छन्तीति किमु वक्तव्यम्।
विश्वास-प्रस्तुतिः
उपा॑स्मि॒ञ् +++(तस्योपस्तीर्णे)+++ छ्वो य॒क्ष्यमा॑णे दे॒वता॑ वसन्ति
य ए॒वव्ँ वि॒द्वान् अ॒ग्निम् उ॑पस्तृ॒णाति॑ ।
Keith
With him, when sacrifice is to be made on the next day, do the gods dwell, who knowing this bestrews the fire.
मूलम्
उपा॑स्मि॒ञ् छ्वो य॒क्ष्यमा॑णे दे॒वता॑ वसन्ति,
य ए॒वव्ँ वि॒द्वान् अ॒ग्निम् उ॑पस्तृ॒णाति॑ ।
पद-पाठः
उपेति॑ । अ॒स्मि॒न् । श्वः । य॒क्ष्यमा॑णे । दे॒वताः॑ । व॒स॒न्ति॒ ।
यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । उ॒प॒स्तृ॒णातीत्यु॑प-स्तृ॒णाति॑ ।
भट्टभास्कर-टीका
उपास्मिन्नित्यादि । उपवसन्ति उपेत्य वसन्ति देवा अस्मिन्निति । विद्वान्वेदार्थवित् ॥
सायण-टीका
येषां देवानामिच्छानुसारेण तदा तदा तत्र तत्र नवावसानं नूतनगृहं निष्पाद्यते। यो यजमान एवं विद्वानग्निमुपस्तृणाति अस्मिन्यजमाने परेद्युर्यक्ष्यमाणे सति पुर्वेद्युस्तत्समीपे हविर्भुजो देवता निवसन्ति।
सायमाशः
भास्करोक्त-विनियोगः
4अथ सायमाशविषये विकल्पभेदानाह - यजमानेनेत्यादि ॥
विश्वास-प्रस्तुतिः
यज॑मानेन ग्रा॒म्याश् च॑ प॒शवो॑ ऽव॒रुध्या॑ आर॒ण्याश् चेत्य् आ॑हुः ।
यद् ग्रा॒म्यान् उ॑प॒वस॑ति॒ - तेन॑ ग्रा॒म्यान् अव॑ रुन्धे॒,
यद् आ॑र॒ण्यस्या॒श्ञाति॒ तेना॑र॒ण्यान् ।
Keith
‘The sacrificer should win both beasts of the wild and of the village’, they say; in that he refrains from those of the village, thereby be wins them; in that he eats of the wild, thereby he wins them of the wild.
मूलम्
यज॑मानेन ग्रा॒म्याश्च॑ प॒शवो॑ऽव॒रुध्या॑ आर॒ण्याश्चेत्या॑हुः ।
यद् ग्रा॒म्यानु॑प॒वस॑ति॒ तेन॑ ग्रा॒म्यानव॑ रुन्धे ।
यदा॑र॒ण्यस्या॒श्ञाति॒ तेना॑र॒ण्यान् ।
पद-पाठः
यज॑मानेन । ग्रा॒म्याः । च॒ । प॒शवः॑ । अ॒व॒रुध्या॒ इत्य॑व-रुध्याः॑ । आ॒र॒ण्याः । च॒ । इति॑ । आ॒हुः॒ ।
यत् । ग्रा॒म्यान् । उ॒प॒वस॒तीत्यु॑प-वस॑ति । तेन॑ । ग्रा॒म्यान् । अवेति॑ । रु॒न्द्धे॒ ।
यत् । आ॒र॒ण्यस्य॑ । अ॒श्ञाति॑ । तेन॑ । आ॒र॒ण्यान् ।
भट्टभास्कर-टीका
ग्राम्याणाम् अनशनेन अवरोधः आरण्यानां तन्-मांसाद्य्-अशनेन । तत्र गोश्वाजावि-पुरुष-गर्दभोष्ट्राः सप्त ग्राम्याः पशवः । द्विखुर-श्वापद-पक्षि-मत्स्य-सरीसृप-हस्ति-मर्कटादयः सप्तारण्याः ।
सायण-टीका
आरण्यं सायमाशेऽश्नातीति सूत्रकारेण यदारण्यधान्यभोजनमुक्तं तदिदं विधातुं प्रस्तौति-
यजमानेनेति। अत्रायं विचारः। किं ग्राम्यधान्यस्यान्नं भोक्तव्यमारण्यधान्यस्य वा भोजनमेव वा वर्जनीयमिति। तत्राऽऽरण्यधान्यभोजनपक्षामभ्युपेत्येतरपक्षद्वयमपोद्यते। पशवो हि द्विविधाः ग्राम्या आरण्याश्च। गवाश्वाजाविपुरुषगर्दभोष्ट्राः सप्त ग्राम्याः। द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेयाः सप्ताऽऽरण्याः त एत उभयेऽपि यजमानेनावरुध्याः संपादनीया इति। बुद्धिमन्त आहुः।
विश्वास-प्रस्तुतिः
यद् अना॑श्वान् उप॒वसे॑त् - पितृदेव॒त्य॑स् स्यात् ।
आ॒र॒ण्यस्या॑श्ञाति॒ - इ॒न्द्रि॒यं [23] वा आ॑र॒ण्यम्,
इ॒न्द्रि॒यम् ए॒वाऽऽत्मन् ध॑त्ते ।
Keith
If be were to fast without eating, the Pitrs would be his divinity [3]; he eats of the wild, the wild is power, and so he bestows power upon himself.
मूलम्
यदना॑श्वानुप॒वसे॑त्
पितृदेव॒त्य॑स्स्यात् ।
आ॒र॒ण्यस्या॑श्ञाति ।
इ॒न्द्रि॒यं [23] वा आ॑र॒ण्यम् ।
इ॒न्द्रि॒यमे॒वाऽऽत्मन्ध॑त्ते ।
पद-पाठः
यत् । अना॑श्वान् । उ॒प॒वसे॒दित्यु॑प-वसे॑त् ।
पि॒तृ॒दे॒व॒त्य॑ इति॑ पितृ-दे॒व॒त्यः॑ । स्या॒त् ।
आ॒र॒ण्यस्य॑ । अ॒श्ञा॒ति॒ ।
इ॒न्द्रि॒यम् । वै । आ॒र॒ण्यम् ।
इ॒न्द्रि॒यम् । ए॒व । आ॒त्मन् । ध॒त्ते॒ ।
भट्टभास्कर-टीका
यदनाश्वानित्यादि । यदि सायं किञ्चिदप्यनशित्वाग्निसमीपे वसेत् । ‘उपेयिवान्’ इत्यादौ निपातितः । पितृदेवत्यस्स्याद्यागः, तेषामनशनप्रियत्वात् । ‘देवतातात्तादर्थ्ये यत्’ । आरण्यस्येन्द्रियसाधनत्वात्तदशनेन तल्लाभ इत्यारण्याशनकल्पः प्रथमः ॥
सायण-टीका
यदि ग्राम्यान्व्रीह्यादीन्प्रत्युपवसेद्भोजनं वर्जयेत्तेन वर्जनेन ग्राम्यान्पशून्संपादयति। यदारण्यास्य नीवारादेरन्नं भुञ्जीत तेन भोजनेनाऽऽरण्यान्पशून्संपादयति। यद्यनाश्वानुभयविधभोजनवर्जमुपवासं कुर्यात्तदानीमयं व्रतविशेषः पितृदेवत्यो भवेत्। पितरो ह्यनश्नन्तं श्राद्धकर्तारमभिनन्दन्ति।
इदानीं विदधाति-
आरण्यस्येति। इन्द्रियाभिवृद्धिहेतुरारण्यधान्यम्।
भास्करोक्त-विनियोगः
5अथ द्वितीयोऽपामशनकल्पः - यदित्यादि ॥
विश्वास-प्रस्तुतिः
यद् अना॑श्वान् उप॒वसे॒त् - क्षोधु॑कस्+++(=बुभुक्षाशीलः)+++ स्यात् ।
यद् अ॑श्ञी॒याद् - रु॒द्रो॑ऽस्य प॒शून् अ॒भिम॑न्येत ।
Keith
If he were to fast without eating, he would be hungry; if he were to eat, Rudra would plan evil against his cattle;
मूलम्
यदना॑श्वानुप॒वसे॒त् क्षोधु॑कस्स्यात् ।
यद॑श्ञी॒याद् रु॒द्रो॑ऽस्य प॒शून॒भिम॑न्येत ।
पद-पाठः
यत् । अना॑श्वान् । उ॒प॒वसे॒दित्यु॑प-वसे॑त् ।
क्षोधु॑कः । स्या॒त् ।
यत् । अ॒श्ञी॒यात् । रु॒द्रः । अ॒स्य॒ । प॒शून् । अ॒भीति॑ । म॒न्ये॒त॒ ।
भट्टभास्कर-टीका
क्षोधुको बुभुक्षाशीलः दरिद्रो वा । छान्दस उकञ् ।
अभिमन्येताभिक्रुध्येत् ।
सायण-टीका
अथ पक्षान्तरं विधातुं भोजनयोर्दोषमाह- यदनाश्वानिति। क्षोधुकः क्षुधाशीलः।
अभिमन्येत हन्यात्।
विश्वास-प्रस्तुतिः
अ॒पो॑ऽश्ञाति॒ तन् नेवा॑शि॒तन् नेवान॑शित॒न् - न क्षोधु॑को॒ भव॑ति ।
नास्य॑ रु॒द्रᳶ प॒शून् अ॒भि म॑न्यते ।
Keith
he partakes of water; that is neither eaten nor not eaten; he is not hungry and Rudra does not plot evil against his cattle.
मूलम्
अ॒पो॑ऽश्ञाति॒
तन्नेवा॑शि॒तन्नेवान॑शितम् ।
न क्षोधु॑को॒ भव॑ति ।
नास्य॑ रु॒द्रᳶ प॒शून॒भि म॑न्यते ।
पद-पाठः
अ॒पः । अ॒श्ञा॒ति॒ ।
तत् । न । इ॒व॒ । अ॒शि॒तम् । न । इ॒व॒ । अन॑शितम् ।
न । क्षोधु॑कः । भव॑ति ।
न । अ॒स्य॒ । रु॒द्रः । प॒शून् । अ॒भीति॑ । म॒न्य॒ते॒ ।
भट्टभास्कर-टीका
नेवाशितमिति । नभावः । पीतवन्तमशितवन्तमाहुः । नेवानशितं, अपामशितत्वात् ॥
सायण-टीका
विधित्सितं पक्षान्तरं विदधति- अप इति।
उक्तं दोषद्वयमत्र परिहरति-
तन्नेवेति। अशितास्वप्स्वदनाभावादशितमिव न भवति, क्षुच्छान्तेरनशितमिव न भवति। अतो न दोषद्वयम्।
भास्करोक्त-विनियोगः
6अथानशनकल्पः तृतीयः - वज्र इति ॥
विश्वास-प्रस्तुतिः
वज्रो॒ वै य॒ज्ञः ।
क्षुत् खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यः ।
यद् अना॑श्वान् उप॒वस॑ति॒
वज्रे॑णै॒व सा॒क्षात् क्षुध॒म् भ्रातृ॑व्यँ हन्ति ॥ [24]
Keith
The sacrificer is a bolt, the enemy of man is hunger; in that he fasts without eating, he straightway smites with the bolt the enemy, hunger.
मूलम्
वज्रो॒ वै य॒ज्ञः ।
क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यः ।
यदना॑श्वानुप॒वस॑ति ।
वज्रे॑णै॒व सा॒क्षात् क्षुध॒म्भ्रातृ॑व्यँ हन्ति ॥ [24]
पद-पाठः
वज्रः॑ । वै । य॒ज्ञः ।
क्षुत् । खलु॑ । वै । म॒नु॒ष्य॑स्य । भ्रातृ॑व्यः ।
यत् । अना॑श्वान् । उ॒प॒वस॒तीत्यु॑प-वस॑ति ।
वज्रे॑ण । ए॒व । सा॒क्षादिति॑ स-अ॒क्षात् । क्षुध॑म् । भ्रातृ॑व्यम् । ह॒न्ति॒ ॥
भट्टभास्कर-टीका
क्षुल्लक्षणमनशनलक्षणेन यज्ञात्मना वज्रेण हन्तीति क्षोधुकत्वदोषाप्रसङ्गः । ‘व्यन् सपत्ने’ इति व्यन् ॥
इति षष्ठे सप्तमोनुवाकः ॥
सायण-टीका
अथोपवासपक्षं विधत्ते-
वज्रो वा इति। यज्ञस्य नरकपाताद्यनिष्टनिवारकत्वाद्वज्रत्वम्। क्षुधो वैरित्वं प्रसिद्धम्। यज्ञाङ्गभूतोपवासलक्षणेनानेन वज्रेणैव भाविजन्मनि प्राप्स्यमानं साक्षाद्भ्रातृव्यं मुख्यवैरिणं क्षुद्रूपं हन्ति। अनेन यज्ञेन जन्मान्तरेऽन्नबाहुल्यस्य लप्स्यमानत्वात्।