०७ आहवनीयोपस्थानादिमन्त्राः

०६ आहवनीयोपस्थानादिमन्त्राः ...{Loading}...

९-१० गायत्री १४ अतिजगती १५ त्रिष्टुप्

आहवनीयोपस्थानम्


भास्करोक्त-विनियोगः

1आहवनीयम् उपतिष्ठते - अगन्मेति ॥

विश्वास-प्रस्तुतिः

अग॑न्म॒ सुवः॑ ।

Keith

We have come to the heaven;

मूलम्

अग॑न्म॒ सुवः॑ ।

पद-पाठः

अग॑न्म । सुवः॑ ।

भट्टभास्कर-टीका

सुवस्स्वर्गमगन्म गमिष्यामः, गम्यास्म वा, सर्वेपि वयं सपुत्रपौत्राः । छान्दसो लुङ्, ‘मन्त्रे घस’ इति च्लेर्लुक् ।

सायण-टीका

पञ्चम आप्यायनादिमन्त्रा वर्णिताः। षष्ठे सूर्योपस्थानादिमन्त्रा उच्‍यन्ते।

अगन्मेति। कल्पः - ‘अथात्रैव तिष्ठन्नाहवनीयमपतिष्ठते अगन्म सुवः सुवरगन्म संदृशस्ते मा छित्सि यत्ते तपस्तस्मै ते माऽऽ वृक्षीति’ इति।
आद्येन सुवःशब्देन कर्मफलभोगभूमिरभिधीयते।

विश्वास-प्रस्तुतिः

सुव॑र् अगन्म ।

Keith

to the heaven we have come.

मूलम्

सुव॑रगन्म ।

पद-पाठः

सुवः॑ । अ॒ग॒न्म॒ ।

भट्टभास्कर-टीका

स्वर्गे भोक्तव्यानि भुक्त्वा पश्चात्सुवः सुष्ठु अरणीयं आदित्यान्तरपुरुषं मुक्तिस्थानमगन्म गमिष्यामः गम्यास्म वा । स एव लुङ् । पूर्वाभिधानेन पूर्वस्मादस्याभ्यर्हितत्वं द्योतयति ।

सायण-टीका

द्वितीयेन सुवःशब्देन मोक्षद्वारभूत आदित्यलोकः। हे आहवनीय त्वत्प्रसादात्प्रथमं फलभोगस्थानं सपुत्रपात्रा वयं गम्यास्म। ततो मोक्षद्वारमादित्यलोकं गम्यास्म।

विश्वास-प्रस्तुतिः

स॒न्दृश॑स् ते॒ मा छि॑त्सि ।

Keith

May I not be cut off from seeing thee;

मूलम्

स॒न्दृश॑स्ते॒ मा छि॑त्सि ।

पद-पाठः

स॒न्दृश॒ इति॑ सम्-दृशः॑ । ते॒ । मा । छि॒त्सि॒ ।

भट्टभास्कर-टीका

तदर्थमहं तव सन्दृशः सन्दर्शनात् अनुध्यानलक्षणात् मा छित्सि आछेद्यो मा भूवम् । आत्माभिप्रायमेकवचनम् । आत्मनोऽच्छेदनस्य सवार्थसाधनत्वात् ।

सायण-टीका

तदर्थमहं तव संदृशः कटाक्षान्मा च्छित्सि विच्छिन्ने मा भूवम्।

विश्वास-प्रस्तुतिः

यत् ते॒ तप॒स् तस्मै॑ ते॒ मा ऽऽवृ॑क्षि ।

Keith

what heat is thine, to that of thee may I not be brought low.

मूलम्

यत्ते॒ तप॒स्तस्मै॑ ते॒ माऽऽवृ॑क्षि ।

पद-पाठः

यत् । ते॒ । तपः॑ । तस्मै॑ । ते॒ । मा । एति॑ । वृ॒क्षि॒ ।

भट्टभास्कर-टीका

किञ्च - यत्ते त्वदर्थं तपः कर्म यागादि तस्मै तदर्थं ते तव प्रसादात् तत एव वा सन्दृशः मा वृक्षि मा विवर्ज्यो भूयासम् । वृजी वर्जने । यद्वा - व्रश्चनीयो मा भूवं, त्वत्परिचरणव्यापारो यथा मा विच्छेदि तथानुध्यातुमर्हसीति ॥

सायण-टीका

ते त्वदर्थं यत्तपोऽस्माभिरनुष्ठास्यते तस्मै तपसे ते तवानुग्रहान्माऽऽवृक्षि आ समन्ताद्वृक्तो विच्छिन्नो मा भूवम्।

सूर्योपस्थानमन्त्राः


भास्करोक्त-विनियोगः

2आदित्यमुपतिष्ठते - सुभूरिति ॥

विश्वास-प्रस्तुतिः

सु॒-भूर् अ॑सि॒ श्रेष्ठो॑ रश्मी॒नाम् +++(← ‘नामन्यतरस्याम्’ इति स्वरः)+++ ।

Keith

Thou art good, the best of rays,

मूलम्

सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम् ।

पद-पाठः

सु॒भूरिति॑ सु-भूः । अ॒सि॒ । श्रेष्ठः॑ । र॒श्मी॒नाम् ।

भट्टभास्कर-टीका

सुष्टु भवति उदेतीति सुभूः शोभनभवनोसि सर्वबोधकामाभिमतत्वात् । सुष्ठु भावंयतीति वा सुभूः । ‘बहुलं संज्ञाछन्दसोः’ इति णिलुक्, ‘कृदुत्तरपदप्रकृतिस्वरत्वम्, बहुव्रीहित्वेन ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ईदृशोसि हे भगवन्निति ।

किञ्च - श्रेष्ठः प्रशस्यतरः श्रेष्ठो रश्मीनां रश्मिमतामग्निचन्द्रतारादीनां मध्ये, तेषामपि वा, प्रशस्यतमः । ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ।

सायण-टीका

सुभूरसीति। कल्पः - ‘अथाऽऽदित्यमुपतिष्ठते-सुभूरसि श्रेष्ठो रश्‍मीनामायुर्धा अस्यायुर्मे धेहि वर्चोधा असि वर्चो मयि धेहीति’ इति।

हे आदित्य त्वं सुभूरसि सुष्ठु भवत्युदेतीति सुभूः। रश्‍मीनां रश्‍मियुक्तानां चन्द्रादीनां मध्ये श्रेष्ठोऽसि।

विश्वास-प्रस्तुतिः

आ॒यु॒र्धा अ॒स्य्, आयु॑र् मे धेहि ।

Keith

thou art life-bestowing, bestow life
upon me

मूलम्

आ॒यु॒र्धा अ॒स्यायु॑र्मे धेहि ।

पद-पाठः

आ॒यु॒र्धा इत्या॑युः-धाः । अ॒सि॒ । आयुः॑ । मे॒ । धे॒हि॒ ।

भट्टभास्कर-टीका

आयुर्धाः आयुषो धाता दातासि । स त्वं मे मम आयुर्धेहि देहि ।

सायण-टीका

आयुषः स्थापयिताऽसि। अतो मय्यायुः स्थापय। एवं ब्रह्मवर्चसेऽपि योज्यम्।

विश्वास-प्रस्तुतिः

व॒र्चो॒-धा अ॑सि॒, वर्चो॒ मयि॑ धेहि ।

Keith

thou art radiance-bestowing, bestow radiance upon me.

मूलम्

व॒र्चो॒धा अ॑सि॒ वर्चो॒ मयि॑ धेहि ।

पद-पाठः

व॒र्चो॒धा इति॑ वर्चः-धाः । अ॒सि॒ । वर्चः॑ । मयि॑ । धे॒हि॒ ।

भट्टभास्कर-टीका

वर्चोधाः वर्चसो बलस्य धाता स्थापयिता चासि त्वं मयि वर्चो धेहि स्थापय ॥


भास्करोक्त-विनियोगः

सर्वतो भ्रातृव्यं निर्भजति - इदमहमिति ॥

मूलम् (संयुक्तम्)

इ॒दम॒हम॒मुम्भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो॑ऽस्यै दि॒वो॑ऽस्माद॒न्तरि॑क्षाद॒स्यै पृ॑थि॒व्या अ॒स्माद॒न्नाद्या॒न्निर्भ॑जामि॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मः । [17]

विश्वास-प्रस्तुतिः

इ॒दम् अ॒हम् अ॒मुम्+++(←नामनिर्देशः)+++ भ्रातृ॑व्यम्
आ॒भ्यो दि॒ग्भ्यो॑
ऽस्यै दि॒वो॑
ऽस्माद् अ॒न्तरि॑क्षाद्
अ॒स्यै पृ॑थि॒व्या +++(← उदात्तयणः … इति स्वरः)+++
अ॒स्माद् अ॒न्नाद्या॒न् निर्भ॑जामि

Keith

Here do I exclude my enemy, N. N., from these quarters, this sky, this atmosphere, this earth, this food.

मूलम्

इ॒दम॒हम॒मुम्भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो॑ऽस्यै दि॒वो॑ऽस्माद॒न्तरि॑क्षाद॒स्यै पृ॑थि॒व्या अ॒स्माद॒न्नाद्या॒न्निर्भ॑जामि

पद-पाठः

इ॒दम् । अ॒हम् । अ॒मुम् । भ्रातृ॑व्यम् । आ॒भ्यः । दि॒ग्भ्य इति॑ दिक्-भ्यः । अ॒स्यै॒ । दि॒वः । अ॒स्मा॒त् । अ॒न्तरि॑क्षात् । अ॒स्यै । पृ॒थि॒व्याः । अ॒स्मात् । अ॒न्नाद्या॒दित्य॑न्न-अद्या॑त् । निरिति॑ । भ॒जा॒मि॒ ।

भट्टभास्कर-टीका

इदमिति क्रियाविशेषणम् । इदं निर्भजाम ।

अमुमिति भ्रातृव्याणां सामान्येन निर्देशः । विशेषनामानि च त[भ]दन्तादीन्यत्र निर्देष्टव्यानि । अमुं भ्रातृव्यं सपत्नम् । ‘व्यन् सपत्ने’ ।

आभ्यस्सर्वाभ्योपि दिग्भ्यो निर्भजामीति भविष्यति । ‘ऊडिदम्’ इतीदमः पञ्चम्युदात्ता । ‘सावेकाचः’ इति दिग्भ्यः, अस्यास्तु ‘स्वरितो वानुदाते पदादौ’ इति संहितायामेकादेशस्य स्वरितत्वम् ।

अस्यै अस्या दिवः द्युलोकात् । पञ्चम्यर्थे चतुर्थी । पूर्ववद्विभक्तेरुदात्तत्वं; अन्वादेशाभावात् । पूर्वत्र इदमो विभक्त्युदात्तत्वमेव ।

अस्मादन्तरिक्षात् । गतम् ।

अस्यै पृथिव्या इति । ‘उदात्तयणः’ इति पञ्चम्युदात्ता ।

अस्मात् +++(अनन्वयोत्र)+++ प्तसिद्धादन्नाद्यात् अन्नस्यादनमन्नाद्यम्। अन्नमेव वात्तव्यमन्नाद्यम् । छान्दसो यत् । निर्भजामि निर्वासयामि ।

सायण-टीका

इदमहमिति। कल्पः - ‘अथैभ्यो लोकेभ्यो भ्रातृव्यं निर्भजति-इदमहममुं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिवोऽस्मादन्तरिक्षादस्यै पृथिव्या अस्मादन्नाद्या-न्निर्भजामि निर्भक्तः स यं द्विष्म इति’ इति।

यो भ्रातृव्यो मदीयो वैरी पृथिव्यादिलोकत्रये प्राच्यादिदिक्षु मम विरोधमाचरति मदीयमन्नाद्यं चापजिहीर्षति अमुं भ्रातृव्यं ततः पृथिव्यादेरिदं निर्भजामि शीघ्रमेव निःसारयामि।

निर्भक्तः ...{Loading}...
विश्वास-प्रस्तुतिः

निर्भ॑क्त॒स् स यन् द्वि॒ष्मः ।

Keith

excluded is he whom we hate.

मूलम्

निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।

पद-पाठः

निर्भ॑क्त॒ इति॒ निः-भ॒क्तः॒ । सः । यम् । द्वि॒ष्मः ।

भट्टभास्कर-टीका

इत्थं यस्माद्विष्णुरेव भूत्वाहं विक्रमे त्वं च यथा विष्णोः क्रमोसि अतो निर्भक्तः स मया क्रान्तया इतः पृथिव्या स निर्भक्तः निर्वासितो विनाशितोस्तु यं द्विष्मः । उपक्रमे श्रुतत्वादभिमातिर्गम्यते । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । एतेनोत्तरे व्याख्याताः ।

सायण-टीका

विष्णोः क्रम इति। कल्पः - ‘अथोपोत्थाय दक्षिणेन पदा विष्णुक्रमान्क्रमते विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु वि क्रमे निर्भक्तः स यं द्विष्म इति चतुर्भिरनुच्छन्दसं तृतीये चतुर्थमनुवर्तयति न चतुर्थाय प्रक्रामति नाऽऽहवनीयमुपात्येति’ इति।

तृतीये पदेवस्थाय चतुर्थं मन्त्रं पठेत्। चतुर्थमन्त्राय प्रक्रमं न कुर्यात्किंतु मन्त्रमन्तरेण तूष्णीमेव चतुर्थं प्रक्रमं कुर्यात्। तं प्रक्रमं कुर्वन्नहवनीयं नातिक्रामेत्किंत्वाहवनीयात्पश्चादेव वेदिमध्ये चतुरः प्रक्रमान्समापयेत्।

द्वितीयादिमन्त्रपाठस्तु-
विष्णोः क्रम इति। अत्र यजमानः स्वात्मानं विष्णुत्वेन भावयेत्। चतुर्णां प्रक्रमाणां प्रदेशान्पृथिव्यादिलोकरूपत्वेन भावयेत्। गायत्र्यादिच्छन्दोभिमानिदेवतास्तेषां प्रक्रमाणामनुग्राहिकाः। अभिमातिशब्दो नरकप्रदं पापमाचष्टे। पाप्मा वा अभिमातिरिति श्रुतेः। हे प्रथमप्रक्रम त्वं पापघाती विष्णोः क्रमोऽसि। गायत्रीछन्दोदेवतयाऽनुगृहीतोऽहमेतत्प्रदेशरूपां पृथिवीमनसृत्य विक्रमे पादं प्रक्षिपामि।

यमभिमातिं वयं द्विष्मः सोऽभिमातिर्निर्भक्तोऽ-स्मात्प्रदेशान्निःसारितः। एवमुत्तरत्र योज्यम्। अभिशस्तिरन्यैरापादितोऽ-पवादः। रातिर्दानं द्रव्यलाभः। तन्निवारणमरातिस्तदिच्छन्तो विरोधिनोऽ-रातीयतः(न्त)। तृतीयप्रक्रमस्तान्हन्ति।

_______
भास्करोक्त-विनियोगः

4आत्मानम् अभिमृशति - सं ज्योतिषेति ॥

विश्वास-प्रस्तुतिः

सञ्ज्योति॑षाऽभूवम् ।

Keith

I have been united with the light.

मूलम्

सञ्ज्योति॑षाऽभूवम् ।

पद-पाठः

समिति॑ । ज्योति॑षा । अ॒भू॒व॒म् ।

भट्टभास्कर-टीका

ज्योतिषा दीप्त्याहं समभूवमेकीभूतोस्मीति । छान्दसो वा लुङ् । कृतकर्माहमादित्यस्य परमेण वा ज्योतिषा एकीभूयसमिति । यद्वा - ‘आशंसायां भूतवच्च’ इति भविष्यति लुङ् । इदानीमेव ज्योतिषा सम्भविष्यामीति ॥

सायण-टीका

सं ज्योतिषेति। कल्पः - ‘सं ज्योतिषाऽभूवमित्यात्मानं प्रत्यभिमृशते’ इति।
अहमादित्यज्योतिषा समभूवं संगतो भूयासम्।


भास्करोक्त-विनियोगः

5उदङ्पर्यावर्तते - ऐन्द्रीमिति ॥

विश्वास-प्रस्तुतिः

ऐ॒न्द्रीम् आ॒वृत॑म् अ॒न्वाव॑र्ते ।

पद-पाठः

ऐ॒न्द्रीम् । आ॒वृत॒मित्या॑-वृत॑म् । अ॒न्वाव॑र्त॒ इत्य॑नु-आव॑र्ते ।

Keith

I turn the turning of Indra.

मूलम्

ऐ॒न्द्रीमा॒वृत॑म॒न्वाव॑र्ते ।

भट्टभास्कर-टीका

ऐन्द्रीम् आवृतम् आवृत्तिं पर्यावृत्ति अहमन्वावर्तेनुगन्तास्मि । इन्द्रेण पूर्वकृतामनु पश्चादहमनुवर्ते । यद्वा - लक्षणेऽनोः कर्मप्रवचनीयत्वम्, ऐन्द्र्यावृत्त्या इयमावृत्तिर्लक्ष्यत इति । इन्द्र आदित्यः । ‘असौ वा आदित्य इन्द्रः’ इत्यादि ब्राह्मणम् ॥

सायण-टीका

ऐन्द्रीमिति। कल्पः - ‘दक्षिणमँसमभि पर्यावर्तत ऐन्द्रीमावृतमन्वावर्त इति’ इति।
परमैश्वर्ययोगादादित्य इन्द्रः। तदीयमावर्तनमन्वहमपि प्रादक्षिण्येनाऽऽवर्ते।


भास्करोक्त-विनियोगः

6उपीतष्ठते - समहमिति ॥

समहम् प्रजया ...{Loading}...
विश्वास-प्रस्तुतिः

सम् अ॒हम् प्र॒जया॑ +++(भूयासम्)+++ ।

Keith

May I be united with offspring,

मूलम्

सम॒हम्प्र॒जया॑ +++(भूयासम्)+++ ।

पद-पाठः

समिति॑ । अ॒हम् । प्र॒जयेति॑ प्र-जया॑ ।

भट्टभास्कर-टीका

ससाधनां क्रियामुपसर्ग आह । सा ‘सं ज्योतिषाभूवम्’ इति मन्त्रान्तरेऽनन्तरप्रकृतत्वात्भवतिक्रियेति विज्ञायते, गमनक्रिया वा । अहं प्रजया सम्भूयासम्, सङ्गंसीय वा ।


ससाधनां क्रियामुपसर्ग आह । अहं प्रजया अपत्यादिना सङ्गच्छेय ।

सायण-टीका

समहमिति। कल्पः - ‘अथोदङ्पर्यावर्तते समहं प्रजया सं मया प्रजा समहँ रायस्पोषेण सं मया रायस्पोष इति’ इति’ इति।
अहं प्रजया संगतो भूयासम्।

विश्वास-प्रस्तुतिः

सम् मया॑ प्र॒जा +++(भूयात्)+++ ।

Keith

offspring with me.

मूलम्

सम्मया॑ प्र॒जा +++(भूयात्)+++ ।

पद-पाठः

समिति॑ । मया॑ । प्र॒जेति॑ प्र-जा ।

भट्टभास्कर-टीका

प्रजा च मया सह सम्भूयात्, सङ्गंसीष्ट वा ।


प्रजा मया सञ्जच्छताम् ।

सायण-टीका

प्रजाऽपि मया संगता भूयात्।

विश्वास-प्रस्तुतिः

सम॒हँ रा॒यस्पोषे॑ण +++(भूयासम्)+++ ।

Keith

May I be united with increase of wealth,

मूलम्

सम॒हँ रा॒यस्पोषे॑ण +++(भूयासम्)+++ ।

पद-पाठः

समिति॑ । अ॒हम् । रा॒यः । पोषे॑ण ।

भट्टभास्कर-टीका

रायो धनस्य क्षेत्रपश्वादेः पोषेण पुष्ट्याहं सम्भूयासं, सङ्गंसीय वा ।


तथा रायो धनस्य पोषेणाहं सञ्गच्छेय ।

सायण-टीका

रायस्पोषेऽप्येवं योज्यम्।

विश्वास-प्रस्तुतिः

सम्मया॑ रा॒यस्पोषः॑ +++(भूयात्)+++ ।

Keith

increase of wealth with me.

मूलम्

सम्मया॑ रा॒यस्पोषः॑ +++(भूयात्)+++ ।

पद-पाठः

समिति॑ । मया॑ । रा॒यः । पोषः॑ ।

भट्टभास्कर-टीका

रायस्पोषश्च मया सह सम्भूयात् सङ्गंसीष्ट वा ॥


रायश्च पोषश्च मया सङ्गच्छताम् । रायो विभक्त्युदात्तत्वं सत्वं चोक्तम् ॥


भास्करोक्त-विनियोगः

7समिधमादधाति - समिद्ध इति ॥

विश्वास-प्रस्तुतिः

समि॑द्धो अग्ने मे दीदिहि ।

Keith

Kindled, O Agni, shine for me;

मूलम्

समि॑द्धो अग्ने मे दीदिहि ।

पद-पाठः

समि॑द्ध॒ इति॒ सम्-इ॒द्धः॒ । अ॒ग्ने॒ । मे॒ । दी॒दि॒हि॒ ।

भट्टभास्कर-टीका

हे अग्ने समिद्धः अनया समिधा सम्यग्दीपितः । कर्मणि निष्ठा, श्वीदितो निष्ठायाम्’ इतीट्प्रतिषेधः, ‘गतिरनन्तरः’ इति पूर्वदप्रकृतिस्वरत्वम् । स त्वं मे मदर्थे दीदिहि दीप्यस्व । दीदितिर्दीप्तिकर्मा छान्दसः ।

सायण-टीका

समिद्ध इति। कल्पः - ‘अथाऽऽहवनीये समिधमादधाति समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासँ स्वाहेति’ इति।

अत्र समित्प्रक्षेपाय स्वाहेति शब्दोऽध्याहृतः।

विश्वास-प्रस्तुतिः

स॒मे॒द्धा+++(=सन्दीपयिता)+++ ते॑ अग्ने दीद्यासम् ।

Keith

kindling thee, O Agni, may I shine.

मूलम्

स॒मे॒द्धा ते॑ अग्ने दीद्यासम् ।

पद-पाठः

स॒मे॒द्धेति॑ सम्-ए॒द्धा । ते॒ । अ॒ग्ने॒ । दी॒द्या॒स॒म् ।

भट्टभास्कर-टीका

अहं च ते समेद्धा सन्दीपयिता । इडभावानुनासिकलोपौ छान्दसौ । सोहं त्वदर्थमेव दीद्यासं दीधिषीय । धातोरन्तलोपश्छान्दसः ॥

सायण-टीका

हेऽग्नेऽनया समिधा प्रदीप्तस्त्वं मे मदर्थं दीदिहि दीप्यस्व। तव दीपयिताऽहमपि त्वत्प्रसादाद्दीप्तो भूयासम्।


भास्करोक्त-विनियोगः

8उपतिष्ठते - वसुमानिति ॥

विश्वास-प्रस्तुतिः

वसु॑मान् य॒ज्ञो, वसी॑यान् भूयासम् ।

Keith

Be rich the sacrifice; may I be rich.

मूलम्

वसु॑मान् य॒ज्ञो वसी॑यान्भूयासम् ।

पद-पाठः

वसु॑मा॒निति॒ वसु॑-मा॒न् । य॒ज्ञः । वसी॑यान् । भू॒या॒स॒म् ।

भट्टभास्कर-टीका

अयं यज्ञः त्वत्प्रसादाद्वसुमान्धनवान् प्रशस्तैरेव बहुभिर्धनैस्तद्वान् । प्रसिद्धमिदम् । अहमपि त्वत्प्रसादाद्वसीयान् ततोपि वसुमत्तरोहं भूयासम् । वसुमच्छब्दादीयसुनि ‘विन्मतोर्लुक्’ ‘टेः’ इति टिलोपः ॥

सायण-टीका

वसुमानिति। कल्पः - ‘अथाऽऽहवनीयप्रुपतिष्ठते वसुमान्यज्ञो वसीयान्भूयासमिति’ इति।
अयं यज्ञस्त्वत्प्रसादाद्वसुमान्धनवान्। अहमपि त्वतप्रसादाद्वसीयान्वसुमत्तरो भूयासम्।


भास्करोक्त-विनियोगः

9-10गार्हपत्यमुपतिष्ठते - अग्न आयूंषीति गायत्रीभ्याम् ॥

१९ अग्न आयूंषि ...{Loading}...

अ᳓ग्न आ᳓यूंषि पवस
आ᳓ सुवो᳓र्जम् इ᳓षं च नः ।
आरे᳓+++(=दूरे)+++ बाधस्व दुच्छु᳓नाम्+++(=रक्षसाम्)+++ ॥

019 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः पवमानः
  • ऋषिः - शतं वैखानसाः
  • छन्दः - गायत्री
Thomson & Solcum

अ᳓ग्न आ᳓यूंषि पवस
आ᳓ सुवो᳓र्जम् इ᳓षं च नः
आरे᳓ बाधस्व दुछु᳓नाम्

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.


Morph
ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

ā́yūṁṣi ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:PL}

pavase ← √pū- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:MED}

ā́ ← ā́ (invariable)

ca ← ca (invariable)

íṣam ← íṣ- (nominal stem)
{case:ACC, gender:F, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

suva ← √sū- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ū́rjam ← ū́rj- (nominal stem)
{case:ACC, gender:F, number:SG}

āré ← āré (invariable)

bādhasva ← √bādhⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:MED}

duchúnām ← duchúnā- (nominal stem)
{case:ACC, gender:F, number:SG}

पद-पाठः

अग्ने॑ । आयूं॑षि । प॒व॒से॒ । आ । सु॒व॒ । ऊर्ज॑म् । इष॑म् । च॒ । नः॒ ।
आ॒रे । बा॒ध॒स्व॒ । दु॒च्छुना॑म् ॥

पद-पाठः-तैत्तिरीयः

अग्ने॑ । आयूँ॑षि । प॒व॒से॒ । एति॑ । सु॒व॒ । ऊर्ज॑म् । इष॑म् । च॒ । नः॒ ॥ आ॒रे । बा॒ध॒स्व॒ । दु॒च्छुना॑म् ॥

Hellwig Grammar
  • agnaagneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • āyūṃṣiāyus
  • [noun], accusative, plural, neuter
  • “life; longevity; āyus; life; āyus [word]; Āyus.”

  • pavasapavase
  • [verb], singular, Present indikative
  • “purify; filter; blow; purify; purge; sift.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • suvorjamsuva
  • [verb], singular, Present imperative
  • “give birth; urge; bestow; cause.”

  • suvorjamūrjamūrj
  • [noun], accusative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”

  • iṣaṃiṣamiṣ
  • [noun], accusative, singular, feminine
  • “refreshment; enjoyment; stores.”

  • ca
  • [adverb]
  • “and; besides; then; now; even.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

  • āre
  • [adverb]
  • “far.”

  • bādhasvabādh
  • [verb], singular, Present imperative
  • “afflict; annoy; chase away; tease; grieve; irritate.”

  • ducchunāmducchunā
  • [noun], accusative, singular, feminine
  • “calamity; misfortune.”

सायण-भाष्यम्

हे अग्ने पवमानरूप त्वमस्माकम् आयूंषि जीवनानि पवसे रक्षसि । नः अस्माकम् ‘ऊर्जम् अन्नरसम् इषम् अन्नं च सुव आभिमुख्येन प्रेरय । किंच दुच्छुनाम् । रक्षोनामैतत् । रक्षांसि आरे अस्मत्तो दूर एव बाधस्व संपीडय ॥

भट्टभास्कर-टीका

हे अग्ने आयूंषि जीवनान्यन्नानि वास्मदीयानि त्वं खलु पवसे शोधयसि, यथा वर्धन्ते, यथा वा न क्षीयन्ते । अत ऊर्जं रसं क्षीरादिकमिषमन्नं चास्मभ्यमासुव आभिमुख्येन सुव प्रेरय उत्पादयेत्यर्थः । आरे दूरे नीत्वा बाधस्व बाधय नाशय दुच्छुनाम् उपद्रवं ज्योगामयावित्वलक्षणम् । ‘उत यदीतासुर्भवति जीवत्येव’ इति ब्राह्मणम् ॥


हे अग्ने आयूंषि अन्नानि जीवनानि वा अस्मदीयानि त्वं खलु पवसे शोधय । यथा वर्धन्ते न क्षीयन्ते तथा कुर्विति भावः । नो ऽस्माकम् अन्नम् अदनीयं भक्ष्यभोज्यादिकं ऊर्जं क्षीराज्यादिकं रसं चानुजानीह्याभिमुख्येन प्रेरय उत्पादय, सर्वदा देहीति भावः ।
दुच्छुनां दौर्गत्यादिसर्वोपद्रवान् दूरे नीत्वा बाधस्व विनाशय ।


अग्ने आयूंषि पवस्व ऊर्जं रसं इषम् अन्नं च नः अस्मभ्यमासुव आनय दुच्छुनां दौर्गत्यं चास्माकमारे दूरे बाधस्वेति

Wilson

English translation:

Agni, you support our lives, send us nutriment and food, drive far off the rākṣasas.”

Jamison Brereton

O Agni, you bring (longer) lifespans through your purification; impel hither nourishment and refreshment to us.
Into the distance thrust misfortune.

Jamison Brereton Notes

Since pavase has an obj. ā́yūṃṣi, it would be desirable to have the preverb ā́, which has transitivizing function with this root. This is easily done: ā́yūṃṣi can be decomposed into ā́ā́yūṃṣi without change to the Saṃhitā text, though it is contra to the Pp.

This preverb in tmesis shows up apparently 2nd in the clause because it follows the zeroposition voc. ágne.

19-21 ...{Loading}...
Jamison Brereton Notes

On this tṛca see published introduction. It is so insistently Agni-focused (all three vss.

begin with a form of that stem, two as voc.) that the Anukramaṇī lists Agni as the deity of the three vss. But it is of course far more likely that Soma is being identified with Agni here.

The equation and poetic merging of these two ritual gods is found elsewhere, most notably in “the hardest hymn in the RV” (V.44), which is simultaneously applicable to both gods throughout its length. Their blending is shown here by the use of both Somian and Agnian vocab.: for the latter, see esp. puróhitaḥ (20b); for the former, the three forms of páva-, one each in each vs.: 19a pavase, 20a pávamānaḥ, 21a pavasva. Note that after this Agni tṛca the word sóma- doesn’t appear until vs. 29 and a likely identification with Indra (as well as comparison with the sun) intervenes.

Griffith

Agni, thou pourest life; send down upon us food and vigorous strength;
Drive thou misfortune far away,

Keith

O Agni, thou purifiest life [7];
Do thou give food and strength to us;
Far away drive ill-fortune.

मानसतरङ्गिणीकृत्

agni you purify our life, send to us swift strength. Prevent the misfortune from over taking us.

Geldner

O Agni, du läuterst uns Lebenskraft zu; weise uns Stärkung und Labung zu! Halte das Unheil weit ab!

Grassmann

Du flammst, o Agni, Leben aus, erzeuge Trank und Speise uns, Das Unheil stosse weit hinweg.

अधिमन्त्रम् (VC)
  • अग्निः
  • शतं वैखानसाः
  • गायत्री
  • षड्जः
आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे ज्ञानस्वरूप परमात्मन् ! आप (आयूंषि) हमारी आयु को (पवसे) पवित्र करते हैं (च) और (नः) हमारे लिए (इषम्) ऐश्वर्य और (ऊर्जम्) बल (आसुव)दें। तथा (दुच्छुनाम्) विघ्नकारी राक्षसों को हमसे (आरे) दूर (बाधस्व) करें॥१९॥

आर्यमुनि - भावार्थः

भावार्थभाषाः - इस मन्त्र में परमात्मा ने विघ्नकारी राक्षसों से बचने का उपदेश किया है कि हे पुरुषों ! तुम विघ्नकारी अवैदिक पुरुष जो राक्षस हैं, उनके हटाने में सदैव तत्पर रहो ॥१९॥

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) ज्ञानस्वरूप परमेश्वर ! त्वम् (आयूंषि) अस्माकं वयांसि (पवसे) पवित्रयसि (च) अथ च (नः) अस्मभ्यम् (इषम्) ऐश्वर्यं तथा (ऊर्जम्) बलं (आसुव) देहि। तथा (दुच्छुनाम्) विघ्नकारिराक्षसान् इतः (आरे बाधस्व) दूरीकुरु ॥१९॥

१९ अग्न आयूंषि ...{Loading}...

अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः ।
आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥

२१ अग्ने पवस्व ...{Loading}...

अ᳓ग्ने प᳓वस्व स्व्-अ᳓पा+++(←अपस्=कर्म)+++
अस्मे᳓ व᳓र्चः सुवी᳓र्यम् ।
द᳓धद् रयिं᳓ म᳓यि पो᳓षम् ॥