०६ ०५.२ विष्णुक्रमान्तम्

०५.२ विष्णुक्रमान्तम् ...{Loading}...

विष्णुक्रममन्त्रः १

भास्करोक्त-विनियोगः

9-12विष्णुक्रमान् क्रामति - विष्णोः क्रमोसीति ॥ ‘विष्णुमुखा वै देवाः’ इत्यादि ब्राह्मणम् ।

विश्वास-प्रस्तुतिः

विष्णो॒ᳵ क्रमो॑ऽस्य् - अभिमाति॒हा।

मूलम्

विष्णो॒ᳵ क्रमो॑ऽस्यभिमाति॒हा ।

पद-पाठः

विष्णोः॑ । क्रमः॑ । अ॒सि॒ । अ॒भि॒मा॒ति॒हेत्य॑भिमाति-हा ।

भट्टभास्कर-टीका

विष्णोर् भगवतस्त्रीन् लोकान् क्रामतः यः क्रमः पदविक्षेपः स एव त्वम् असि यो ममासि । विष्णोर् आत्मनश् चाभेदोपचाराद् एवम् उच्यते । ब्राह्मणं च भवति ‘विष्णुरेव भूत्वा यजमानः’ इत्यादि । ‘नोदात्तोपदेशस्य’ इति वृद्ध्यभावः ।

क्रमो विशेष्यते - अभिमातिहा अभिमातिः पाप्मा तस्य हन्ता त्वमसि, यतो विष्णोः क्रमोसि ।

यद्वा - यो विष्णोः क्रमोस्यभिमातिहा त्रिविक्रमरूपस्य भगवतः विष्णोः सर्वलोकाक्रमणक्षमः क्रमः पदविक्षेपः सर्वानिष्टहन्ता स एव त्वम् असि यो मदीयः क्रमः; ‘अतस्तादृशेन त्वयानुक्रमेण विक्रमणेनाभिजयामि सर्वमप्रतिबन्धेन । ‘वृत्तिसर्गतायनेषु क्रमः’ इत्यात्मनेपदम् ।

विश्वास-प्रस्तुतिः

गा॒य॒त्रेण॒ छन्द॑सा पृथि॒वीम् +++(विष्णुम्)+++ अनु॒ वि क्र॑मे।

Keith

Thou art the step of Visnu, smiting enmity; with the Gayatri metre I step across the earth;

मूलम्

गा॒य॒त्रेण॒ छन्द॑सा पृथि॒वीमनु॒ वि क्र॑मे ।

पद-पाठः

गा॒य॒त्रेण॑ । छन्द॑सा । पृ॒थि॒वीम् । अनु॑ । वीति॑ । क्र॒मे॒ ।

भट्टभास्कर-टीका

पूर्वं देवा गायत्र्यादिभिश् छन्दोभिः पृथिव्य्-आदीन् लोकान् अभ्यजयन्; अत इदमुच्यते - गायत्रेण छन्दसेति । गायत्र्याद्यात्मकत्वाच् च पृथिव्यादीनाम् । यथोक्तं - ‘गायत्री वै पृथिवी’ इत्यादि । तद्वदहमपि गायत्रेण छन्दसा पृथिवीमनुविक्रम इति । गायत्र्येव गायत्रम् । ‘छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानम्’ इत्यण्प्रत्ययः ।

पूर्वं विष्णुना क्रान्तां पृथिवीं पश्चादिदानीम् अहं विक्रम इत्यनोरर्थः ।

निर्भक्तः ...{Loading}...
विश्वास-प्रस्तुतिः

निर्भ॑क्त॒स् स यन् द्वि॒ष्मः ।

Keith

excluded is he whom we hate.

मूलम्

निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।

पद-पाठः

निर्भ॑क्त॒ इति॒ निः-भ॒क्तः॒ । सः । यम् । द्वि॒ष्मः ।

भट्टभास्कर-टीका

इत्थं यस्माद्विष्णुरेव भूत्वाहं विक्रमे त्वं च यथा विष्णोः क्रमोसि अतो निर्भक्तः स मया क्रान्तया इतः पृथिव्या स निर्भक्तः निर्वासितो विनाशितोस्तु यं द्विष्मः । उपक्रमे श्रुतत्वादभिमातिर्गम्यते । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । एतेनोत्तरे व्याख्याताः ।

सायण-टीका

विष्णोः क्रम इति। कल्पः - ‘अथोपोत्थाय दक्षिणेन पदा विष्णुक्रमान्क्रमते विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु वि क्रमे निर्भक्तः स यं द्विष्म इति चतुर्भिरनुच्छन्दसं तृतीये चतुर्थमनुवर्तयति न चतुर्थाय प्रक्रामति नाऽऽहवनीयमुपात्येति’ इति।

तृतीये पदेवस्थाय चतुर्थं मन्त्रं पठेत्। चतुर्थमन्त्राय प्रक्रमं न कुर्यात्किंतु मन्त्रमन्तरेण तूष्णीमेव चतुर्थं प्रक्रमं कुर्यात्। तं प्रक्रमं कुर्वन्नहवनीयं नातिक्रामेत्किंत्वाहवनीयात्पश्चादेव वेदिमध्ये चतुरः प्रक्रमान्समापयेत्।

द्वितीयादिमन्त्रपाठस्तु-
विष्णोः क्रम इति। अत्र यजमानः स्वात्मानं विष्णुत्वेन भावयेत्। चतुर्णां प्रक्रमाणां प्रदेशान्पृथिव्यादिलोकरूपत्वेन भावयेत्। गायत्र्यादिच्छन्दोभिमानिदेवतास्तेषां प्रक्रमाणामनुग्राहिकाः। अभिमातिशब्दो नरकप्रदं पापमाचष्टे। पाप्मा वा अभिमातिरिति श्रुतेः। हे प्रथमप्रक्रम त्वं पापघाती विष्णोः क्रमोऽसि। गायत्रीछन्दोदेवतयाऽनुगृहीतोऽहमेतत्प्रदेशरूपां पृथिवीमनसृत्य विक्रमे पादं प्रक्षिपामि।

यमभिमातिं वयं द्विष्मः सोऽभिमातिर्निर्भक्तोऽ-स्मात्प्रदेशान्निःसारितः। एवमुत्तरत्र योज्यम्। अभिशस्तिरन्यैरापादितोऽ-पवादः। रातिर्दानं द्रव्यलाभः। तन्निवारणमरातिस्तदिच्छन्तो विरोधिनोऽ-रातीयतः(न्त)। तृतीयप्रक्रमस्तान्हन्ति।

विष्णुक्रममन्त्रः २

विश्वास-प्रस्तुतिः

विष्णो॒ᳵ क्रमो॑ ऽस्य् अभिशस्ति॒हा। त्रैष्टु॑भेन॒ छन्द॑साऽन्तरि॑क्ष॒म् अनु॒ वि क्र॑मे।

Keith

Thou art the step of Visnu, smiting imprecations; with the Tristubh metre I step across the atmosphere;

मूलम्

विष्णो॒ᳵ क्रमो॑ऽस्यभिशस्ति॒हा त्रैष्टु॑भेन॒ छन्द॑सान्तरि॑क्ष॒मनु॒ वि क्र॑मे।

पद-पाठः

विष्णोः॑ । क्रमः॑ । अ॒सि॒ । अ॒भि॒श॒स्ति॒हेत्य॑भिशस्ति-हा । त्रैष्टु॑भेन । छन्द॑सा । अ॒न्तरि॑क्षम् । अनु॑ । वीति॑ । क्र॒मे॒ ।

भट्टभास्कर-टीका

अभिशस्तिरभिशंसनं अकृतगर्होक्तिः । त्रिष्टुब्जगत्यनुष्टुप्शब्देभ्य उत्सादित्वादञ्, ‘छन्दसः प्रत्ययविधाने’ इत्यस्य प्राग्दीव्यतीयत्वात् ।

निर्भक्तः ...{Loading}...
विश्वास-प्रस्तुतिः

निर्भ॑क्त॒स् स यन् द्वि॒ष्मः ।

Keith

excluded is he whom we hate.

मूलम्

निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।

पद-पाठः

निर्भ॑क्त॒ इति॒ निः-भ॒क्तः॒ । सः । यम् । द्वि॒ष्मः ।

भट्टभास्कर-टीका

इत्थं यस्माद्विष्णुरेव भूत्वाहं विक्रमे त्वं च यथा विष्णोः क्रमोसि अतो निर्भक्तः स मया क्रान्तया इतः पृथिव्या स निर्भक्तः निर्वासितो विनाशितोस्तु यं द्विष्मः । उपक्रमे श्रुतत्वादभिमातिर्गम्यते । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । एतेनोत्तरे व्याख्याताः ।

सायण-टीका

विष्णोः क्रम इति। कल्पः - ‘अथोपोत्थाय दक्षिणेन पदा विष्णुक्रमान्क्रमते विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु वि क्रमे निर्भक्तः स यं द्विष्म इति चतुर्भिरनुच्छन्दसं तृतीये चतुर्थमनुवर्तयति न चतुर्थाय प्रक्रामति नाऽऽहवनीयमुपात्येति’ इति।

तृतीये पदेवस्थाय चतुर्थं मन्त्रं पठेत्। चतुर्थमन्त्राय प्रक्रमं न कुर्यात्किंतु मन्त्रमन्तरेण तूष्णीमेव चतुर्थं प्रक्रमं कुर्यात्। तं प्रक्रमं कुर्वन्नहवनीयं नातिक्रामेत्किंत्वाहवनीयात्पश्चादेव वेदिमध्ये चतुरः प्रक्रमान्समापयेत्।

द्वितीयादिमन्त्रपाठस्तु-
विष्णोः क्रम इति। अत्र यजमानः स्वात्मानं विष्णुत्वेन भावयेत्। चतुर्णां प्रक्रमाणां प्रदेशान्पृथिव्यादिलोकरूपत्वेन भावयेत्। गायत्र्यादिच्छन्दोभिमानिदेवतास्तेषां प्रक्रमाणामनुग्राहिकाः। अभिमातिशब्दो नरकप्रदं पापमाचष्टे। पाप्मा वा अभिमातिरिति श्रुतेः। हे प्रथमप्रक्रम त्वं पापघाती विष्णोः क्रमोऽसि। गायत्रीछन्दोदेवतयाऽनुगृहीतोऽहमेतत्प्रदेशरूपां पृथिवीमनसृत्य विक्रमे पादं प्रक्षिपामि।

यमभिमातिं वयं द्विष्मः सोऽभिमातिर्निर्भक्तोऽ-स्मात्प्रदेशान्निःसारितः। एवमुत्तरत्र योज्यम्। अभिशस्तिरन्यैरापादितोऽ-पवादः। रातिर्दानं द्रव्यलाभः। तन्निवारणमरातिस्तदिच्छन्तो विरोधिनोऽ-रातीयतः(न्त)। तृतीयप्रक्रमस्तान्हन्ति।

विष्णुक्रममन्त्रः ३

विश्वास-प्रस्तुतिः

विष्णो॒ᳵ क्रमो॑ऽस्य् अरातीय॒तो ह॒न्ता
जाग॑तेन॒ छन्द॑सा॒ दिव॒म् अनु॒ वि क्र॑मे।

Keith

Thou art the step of Visnu, smiter of him who practiseth evil;
with the Jagati metre I step across the sky;

मूलम्

विष्णो॒ᳵ क्रमो॑ऽस्यरातीय॒तो ह॒न्ता जाग॑तेन॒ छन्द॑सा॒ दिव॒मनु॒ वि क्र॑मे।

पद-पाठः

विष्णोः॑ । क्रमः॑ । अ॒सि॒ । अ॒रा॒ती॒य॒तः । ह॒न्ता । जाग॑तेन । छन्द॑सा । दिव॑म् । अनु॑ । वीति॑ । क्र॒मे॒ ।

भट्टभास्कर-टीका

अरातीयतः अरातित्वमस्माकमिच्छतः, अरातिं वात्मन इच्छतः हन्ता हन्तुमर्हः । ‘अर्हे कृत्यतृचश्च’ इति तृच् । ‘शतुरनुमः’ इति षष्ठ्या उदात्तत्वम् । हननशीलो वा हन्ता । ताच्च्छीलिकस्तृन् छान्दसमन्तोदातत्वम् । अरातीयत इति द्वितीयाबहुवचनम् ।

निर्भक्तः ...{Loading}...
विश्वास-प्रस्तुतिः

निर्भ॑क्त॒स् स यन् द्वि॒ष्मः ।

Keith

excluded is he whom we hate.

मूलम्

निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।

पद-पाठः

निर्भ॑क्त॒ इति॒ निः-भ॒क्तः॒ । सः । यम् । द्वि॒ष्मः ।

भट्टभास्कर-टीका

इत्थं यस्माद्विष्णुरेव भूत्वाहं विक्रमे त्वं च यथा विष्णोः क्रमोसि अतो निर्भक्तः स मया क्रान्तया इतः पृथिव्या स निर्भक्तः निर्वासितो विनाशितोस्तु यं द्विष्मः । उपक्रमे श्रुतत्वादभिमातिर्गम्यते । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । एतेनोत्तरे व्याख्याताः ।

सायण-टीका

विष्णोः क्रम इति। कल्पः - ‘अथोपोत्थाय दक्षिणेन पदा विष्णुक्रमान्क्रमते विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु वि क्रमे निर्भक्तः स यं द्विष्म इति चतुर्भिरनुच्छन्दसं तृतीये चतुर्थमनुवर्तयति न चतुर्थाय प्रक्रामति नाऽऽहवनीयमुपात्येति’ इति।

तृतीये पदेवस्थाय चतुर्थं मन्त्रं पठेत्। चतुर्थमन्त्राय प्रक्रमं न कुर्यात्किंतु मन्त्रमन्तरेण तूष्णीमेव चतुर्थं प्रक्रमं कुर्यात्। तं प्रक्रमं कुर्वन्नहवनीयं नातिक्रामेत्किंत्वाहवनीयात्पश्चादेव वेदिमध्ये चतुरः प्रक्रमान्समापयेत्।

द्वितीयादिमन्त्रपाठस्तु-
विष्णोः क्रम इति। अत्र यजमानः स्वात्मानं विष्णुत्वेन भावयेत्। चतुर्णां प्रक्रमाणां प्रदेशान्पृथिव्यादिलोकरूपत्वेन भावयेत्। गायत्र्यादिच्छन्दोभिमानिदेवतास्तेषां प्रक्रमाणामनुग्राहिकाः। अभिमातिशब्दो नरकप्रदं पापमाचष्टे। पाप्मा वा अभिमातिरिति श्रुतेः। हे प्रथमप्रक्रम त्वं पापघाती विष्णोः क्रमोऽसि। गायत्रीछन्दोदेवतयाऽनुगृहीतोऽहमेतत्प्रदेशरूपां पृथिवीमनसृत्य विक्रमे पादं प्रक्षिपामि।

यमभिमातिं वयं द्विष्मः सोऽभिमातिर्निर्भक्तोऽ-स्मात्प्रदेशान्निःसारितः। एवमुत्तरत्र योज्यम्। अभिशस्तिरन्यैरापादितोऽ-पवादः। रातिर्दानं द्रव्यलाभः। तन्निवारणमरातिस्तदिच्छन्तो विरोधिनोऽ-रातीयतः(न्त)। तृतीयप्रक्रमस्तान्हन्ति।

विष्णुक्रममन्त्रः ४

विश्वास-प्रस्तुतिः

विष्णो॒ᳵ क्रमो॑ऽसि शत्रूय॒तो ह॒न्ताऽऽनु॑ष्टुभेन॒ छन्द॑सा॒ दिशोऽनु॒ वि क्र॑मे॥

Keith

Thou art the step of Visnu, smiter of the hostile one;
with the Anustubh metre I stop across the quarters;

मूलम्

विष्णो॒ᳵ क्रमो॑ऽसि शत्रूय॒तो ह॒न्ताऽऽनु॑ष्टुभेन॒ छन्द॑सा॒ दिशोऽनु॒ वि क्र॑मे॥

पद-पाठः

विष्णोः॑ । क्रमः॑ । अ॒सि॒ । श॒त्रू॒य॒त इति॑ शत्रु-य॒तः । ह॒न्ता । आनु॑ष्टुभे॒नेत्यानु॑-स्तु॒भे॒न॒ । छन्द॑सा । दिशः॑ । अनु॑ । वीति॑ । क्र॒मे॒ ।

भट्टभास्कर-टीका

एवं शत्रूयत इत्यत्रापि +++(द्वितीयाबहुवचनम् ।)+++ वेदितव्यम् ॥

इति षष्ठे पञ्चमोनुवाकः ॥

सायण-टीका

शत्रुत्वं हिंसकत्वं, तदिच्छन्तो वैरिणः शत्रूयतः(न्तः)। चतुर्थप्रक्रमस्तान्हन्ति।