०४ भक्ष्यानुमन्त्रणादि

०३ भक्ष्यानुमन्त्रणादि ...{Loading}...

इडादिभागस्य भक्ष्यस्यानुमन्त्रणमन्त्राः
५ त्रिष्टुप् प्रजापतिर्ऋषिः


भास्करोक्त-विनियोगः

1प्राशित्रे ऽवदीयमाने जपति - अग्निर्मेति ॥

मूलम् (संयुक्तम्)

अ॒ग्निर्मा॒ दुरि॑ष्टात्पातु सवि॒ताऽघशँ॑सात्

विश्वास-प्रस्तुतिः

अ॒ग्निर् मा॒ दुरि॑ष्टात् पातु
सवि॒ता ऽघशँ॑सात् ।

Keith

May I Agni protect me from evil sacrifice,
Savitr from evil report.

मूलम्

अ॒ग्निर्मा॒ दुरि॑ष्टात्पातु
सवि॒ताऽघशँ॑सात् ।

पद-पाठः

अ॒ग्निः । मा॒ । दुरि॑ष्टा॒दिति॒ दुः-इ॒ष्टा॒त् । पा॒तु॒ । स॒वि॒ता । अ॒घशँ॑सा॒दित्य॒घ-शँ॒सा॒त् ।

भट्टभास्कर-टीका

दुरिष्टाद्दुष्टाद्यागाद्विगुणान्मामग्निः पातु तन्निमित्तदोषापनोदनेन मां रक्षतु । अव्ययपूर्वपदप्रकृतिस्वरत्वम् कर्मणि निष्ठायां वा ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् ।किञ्च - दुरिष्टं अयुक्तरूपं प्रयाजादि ततो मां पातु । यद्वा - दुरिष्टं यथा न भवति तथा मां पातु दुरिष्टाद्विनिवार्य मां रक्षतु ।

सविता चाघशंसात्पापरुचेः रक्षःप्रभृतेश्च पातु ॥

सायण-टीका

द्वितीयानुवाके हविरनुमन्त्रणमुक्तम्। तृतीयानुवाके भक्षस्येडादिभागस्या-नुमन्त्रणमुच्यते।

अग्निर्मेति। कल्पः - “प्राशित्रेऽवदीयमाने जपति अग्निर्मा दुरिष्टात्पातु सविताऽघशँ सादिति” इति।
मन्त्रवैकल्येन क्रियावैकल्येन वा यदिष्टं दुरिष्टं तत्तस्माद्दुरिष्टादग्निर्मां पातु। अघशंसात्पापरुचेरसुरादेः सविता मां पातु।


भास्करोक्त-विनियोगः

2यजमानोऽवदीयमाने जपति - यो म इति ॥

विश्वास-प्रस्तुतिः

यो मेऽन्ति॑ दू॒रे᳙ ऽराती॒यति॒
तम् ए॒तेन॑ जेषम् ।

Keith

Him who near or afar plots evil against me, with this may I conquer.

मूलम्

यो मेऽन्ति॑ दू॒रे॑ऽराती॒यति॒ तमे॒तेन॑ जेषम् ।

पद-पाठः

यः । मे॒ । अन्ति॑ । दू॒रे । अ॒रा॒ती॒यति॑ । तम् । ए॒तेन॑ । जे॒ष॒म् ।

भट्टभास्कर-टीका

यो मे ममान्ति अन्तिके दूरे वारातीयति अरातित्वमिच्छति, अरातिमात्मनो वास्माकमिच्छति तं राक्षसादिमनेन जेषं जयेयम् । जयतेर्लेटि ‘सिब्बहुलं लेटि’ शपो लुक्, ‘लेटोडाटौ’ ‘इतश्च लोपः’ । ‘कादिलोपे बहुलम्’ इत्यन्तिकस्य कलोपः ॥

सायण-टीका

यो मेऽन्तीति। कल्पः - “यजमानभागे यो मेऽन्ति दूरेऽरातीयति तमेतेन जेषमिति” इति।
यजमानभाग इत्यस्यावदीयमाने जपतीति शेषोऽनुवर्तते। यो राक्षसादिर्ममान्तिके दूरे वाऽरातीयति शत्रुत्वमिच्छति तं राक्षसादिकमेतेन यजमानभागेन जेषं जयेयम्।
कल्पः - “इडामाह्रियमाणामनुमन्त्रयते सुरूपवर्षवर्ण एहीति मघोनीत्यन्तः” इति।


भास्करोक्त-विनियोगः

3इडाम् आह्रियमाणाम् अनुमन्त्रयते - सुरूपवर्षवार्ण इति ॥

मूलम् (संयुक्तम्)

सुरू॑पवर्षवर्ण॒ एही॒मान्भ॒द्रान्दुर्याँ॑ अ॒भ्येहि …

विश्वास-प्रस्तुतिः

सुरू॑प-वर्ष-वर्ण॒+++(य्)+++ एहि॑ ।

Keith

O thou of fair rain colour, come

मूलम्

सुरू॑पवर्षवर्ण॒ एहि॑ ।

पद-पाठः

सुरू॑पवर्षवर्ण॒ इति॒ सुरू॑प-व॒र्ष॒व॒र्णे॒ । एति॑ । इ॒हि॒ ।

भट्टभास्कर-टीका

शोभनरूपौ शोभनस्वभावौ वर्षवर्णौ यस्यास्सा तथोक्ता । ‘पशवो वा इडा’ ‘वृष्टिर्वा इडा’ इति पशुवृष्टिहेतुत्वादिडाया एवमुच्यते । पूर्वपदस्याद्युदात्तत्वं छान्दसम् । ईदृशी एहि आगच्छ ।

सायण-टीका

सुरूपेति मन्त्रादिः। मघोनीति मन्त्रान्तः।

पाठस्तु-

सुरूपवर्षेति। गोशरीरं (रस्य) धारयित्र्या इडाख्याया देवतायाः संबोधनं सुरूपवर्षवर्ण इति। शृङ्गपुच्छादिकं रूपम्। वर्षं वृर्ष्टिः। वर्णः शुक्लकृष्णकपिलत्वादिः। शोभना रूपवर्षवर्णा यस्याः सा तथोक्ता। शृङ्गादीनामतिदीर्घत्ववक्रत्वादिपरिहारेण दर्शनीयत्वं रूपस्य शोभनत्वम्। वर्षं द्विविधमुदकरूपं च। तत्रेडा स्वकीयात्पदाद्घृतं वर्षति। तथा च मन्त्र आम्नायते - “इडायाः पदे घृतवति स्वाहा” इति। “मानवी घृतपदी मैत्रवरुणी” इति। “इडायाः पदं घृतवच्चराचरम्” इति च। तथा ब्राह्मणमप्याम्नायते – “सा यत्र यत्र न्यक्रामत्ततो घृतमपीड्यत तस्माद्घृतपद्युच्यते” इति। वृष्टिर्वा इडा वृष्ट्यै वै निक्रमणे घृतं प्रजाः संजीवन्तीः पिबन्ति” इति च। तदिदं घृतरूपत्वं वर्षस्य शोभनत्वम्। कर्बुरादिसंकीर्णत्वपरिहारेण विस्पष्टं शुक्लकृष्णकपिलत्वादिकं वर्णस्य शोभनत्वम्।

विश्वास-प्रस्तुतिः

इ॒मान् भ॒द्रान् दुर्याँ॑+++(=यज्ञगृहान्)+++ अ॒भ्येहि॒ माम् अनु॑व्रता।

Keith

To this blessed home,
Approach me in devotion.

मूलम्

इ॒मान् भ॒द्रान्दुर्याँ॑ अ॒भ्येहि॒ माम् अनु॑व्रता।

पद-पाठः

इ॒मान् । भ॒द्रान् । दुर्या॑न् । अ॒भि । एति॑ । इ॒हि॒ । माम् । अनु॑व्र॒तेत्यनु॑-व्र॒ता॒ ।

भट्टभास्कर-टीका

इमान् मदीयान् भद्रान् कल्याणान् भजनीयान् दुर्यान् यज्ञगृहान् ‘गृहा वै दुर्यः’ इत्युक्तम् ।

किञ्च - मामनुव्रता अनुगुणा अभि-प्रेतानि साधयन्त्य् अभ्येह्य् आभिमुख्येनागच्छ ।

सायण-टीका

तथाविधे हे इडे, इमानस्मदीयान्भद्राञ्‍शास्त्रोक्तयज्ञसाधनसंपूर्णान् दुर्यान्यज्ञगृहान्प्रत्यागच्छ। ‘गृहा वै दुर्याः’ इति हि श्रूयते। किंच मामभिलक्ष्यानुव्रताऽस्मिन्यज्ञव्रतेऽनुकूला सती, एहि आगच्छ।

विश्वास-प्रस्तुतिः

न्य् उ॒ +++(वक्ष्यमाणानि)+++ शी॒र्षाणि॑ मृढ्वम् ।

Keith

Touch the heads.

मूलम्

न्यु॑ शी॒र्षाणि॑ मृढ्वम् ।

पद-पाठः

नीति॑ । उ॒ । शी॒र्षाणि॑ । मृ॒ड्ढ्व॒म् ।

भट्टभास्कर-टीका

असमानपदेपि रूर्दृश्यते । अस्माकं शीर्षाणि निमृढ्वं निर्दोषान् अस्मान् कुरुध्वम् इति यावत्, यथास्माकं शिरः क्षालितम् अनेनेति दोषा-शङ्कायां वक्तारो भवन्ति ।

निमृढ्वम् इति च एकवचनस्य स्थाने व्यत्ययेन बहुवचनम्, पूजार्थं वा वक्ष्यमाण-गो-भेदापेक्षम् । इति समुच्चयेवधारणार्थे वा ।

सायण-टीका

उशब्दः समुच्चये। अपि च हे इडाविशेषा यूयमस्मदीयानि शिरांसि निमृड्ढ्वं नितरां स्नेहपूर्वकाघ्राणादिना शोधयध्यम्।

मूलम् (संयुक्तम्)

इड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहि॒ रन्ति॑रसि॒ रम॑तिरसि सू॒नर्य॑सि

इड॒ एहि॑ ...{Loading}...
विश्वास-प्रस्तुतिः

इड॒+++(य्)+++ एहि॑+++(=आ+इ॑हि)+++ ।
अदि॑त॒ एहि॑ ।
सर॑स्व॒त्य् एहि॑+++(=आ+इ॑हि)+++ ।

Keith

O Ida, come hither; O Aditi, come hither; O Sarasvati, come hither.

मूलम्

इड॒ एहि॑ ।
अदि॑त॒ एहि॑ ।
सर॑स्व॒त्येहि॑ ।

पद-पाठः

इडे॑ । एति॑ । इ॒हि॒ ।
अदि॑ते । एति॑ । इ॒हि॒ ।
सर॑स्वति । एति॑ । इ॒हि॒ ।

भट्टभास्कर-टीका

इडादयश् शब्दा गवां नामानि, यथा - ‘इडे रन्तेदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्येतनि ते अघ्निये नामानि’ इति । ताच्-छब्द्येनेडा स्तूयते ।

तत्र गवां भेदान् निमृढ्वम् इति बहुवचनम् उपपद्यते, हे इडादयो यूयमागत्य मां निमृढ्वमिति । यदा तु गोभिर् अभेदेनेडोच्यते हे इडादिरूपे इड इति तदा त्वेकवचनम् एव न्याय्यम् । इडा पशुसाधनीड्या वा । अदितिर् अदीना अखण्डनीया ।
सरस्वती सरणवती सरस्वतीसदृशा वा ।

सायण-टीका

त एवेडाविशेषा इडादिभिः सूनर्यन्तैः षड्भिर्नामविशेषैः स्पष्टी क्रियन्ते। इडादीनां गोनामविशेषत्वं सप्तमकाण्डे समाम्नातम् – ‘इडे रन्तेऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्येतानि ते अघ्‍निये नामानि’ (सं॰ का॰ ७ प्र॰ १ अ॰ ६) इति।
एतेषां प्रदर्शनार्थत्वाद्रमत्यादिकमपि द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

रन्ति॑र् असि ।

Keith

Thou art delight,

मूलम्

रन्ति॑रसि ।

पद-पाठः

रन्तिः॑ । अ॒सि॒ ।

भट्टभास्कर-टीका

रन्तिः रतिहेतुरसीहामुत्र च । क्तिचि ‘न क्तिचि दीर्घश्च’ इति टिलोपाभावः, वृषादिर्द्रष्टव्यः ।

विश्वास-प्रस्तुतिः

रम॑तिर् असि ।

Keith

thou art delighting,

मूलम्

रम॑तिरसि ।

पद-पाठः

रम॑तिः । अ॒सि॒ ।

भट्टभास्कर-टीका

रमतिः रमणीया । ‘रमेर्निन्’ इत्यतिप्रत्ययः ।

विश्वास-प्रस्तुतिः

सू॒-नर्य् अ॑सि ।

Keith

thou art fair.

मूलम्

सू॒नर्य॑सि ।

पद-पाठः

सू॒नरी॑ । अ॒सि॒ ।

भट्टभास्कर-टीका

सूनरी शोभनमनुष्या, मनुष्याणां सुखहेतुत्वात् । पृषोदरादिः ।
यद्वा - सुष्ठु नेत्री सूनरी । नृ नये, सुपूर्वात् ‘अच इः’ इतीप्रत्ययः, ‘कृदिकारादक्तिनः’ इति ङीष्, उपसर्गविकारश्छान्दसः, सर्वधानवधारणान्नावगृह्यते ।
यद्वा - रन्त्यादीन्यपि त्रीणि गवां नामधेयानि ।

मूलम् (संयुक्तम्)

जुष्टे॒ जुष्टि॑न्तेऽशी॒योप॑हूत उपह॒वं [8]ते॒ऽशी॒य॒ सा मे॑ स॒त्याशीर॒स्य य॒ज्ञस्य॑ भूयात्

विश्वास-प्रस्तुतिः

जुष्टे॒ जुष्टि॑न् ते ऽशीय।

Keith

O thou in whom joy is taken, may I attain joy from thee

मूलम्

जुष्टे॒ जुष्टि॑न्तेऽशीय।

पद-पाठः

जुष्टे॑ । जुष्टि॑म् । ते॒ । अ॒शी॒य॒ ।

भट्टभास्कर-टीका

हे जुष्टे प्रिये सर्वस्य सर्वेण वा सेविते ते जुष्टिं त्वया दत्तां प्रीतिं अशीय व्याप्नुयाम् । अश्नोतेर्लिङि शपो लुक् ।

सायण-टीका

हे जुष्टे प्रिये सेव्ये वा ते जुष्टिं त्वदीयां प्रीतिमशीय प्राप्नुयाम्।

विश्वास-प्रस्तुतिः

उप॑हूत+++(य्)+++ उपह॒वं ते॑ऽशीय ।

Keith

O thou who art invoked, may I obtain invocation [1] from thee.

मूलम्

उप॑हूत उपह॒वं तेऽशीय ।

पद-पाठः

उप॑हूत॒ इत्युप॑-हू॒ते॒ । उ॒प॒ह॒वमित्यु॑प-ह॒वम् । ते॒ । अ॒शी॒य॒ ।

भट्टभास्कर-टीका

हे उपहूते अनुज्ञाते ते तव उपहवमनुज्ञामशीय । ‘ह्वस्सम्प्रसारणं च न्यभ्युपविषु’ इत्यप्, ‘थाथादिनोत्तरपदान्तोदात्तत्वम् ।

सायण-टीका

हे उपहूत इड एहीत्येवमागमनायास्माभिर-नुज्ञातेऽहमपि त उपहवं त्वदीयामनुज्ञामशीय प्राप्नुयाम्।

विश्वास-प्रस्तुतिः

सा मे॑ स॒त्या ऽऽशीर् अ॒स्य य॒ज्ञस्य॑ भूयात् ।

Keith

May the prayer of the sacrificer be fulfilled for me.

मूलम्

सा मे॑ स॒त्याशीर॒स्य य॒ज्ञस्य॑ भूयात् ।

पद-पाठः

सा । मे॒ । स॒त्या । आ॒शीरित्या॑-शीः । अ॒स्य । य॒ज्ञस्य॑ । भू॒या॒त् ।

भट्टभास्कर-टीका

सा ऽस्य यज्ञस्याशीः अस्य यज्ञस्य फलं मम सत्या यथाश्रुतिसिद्धिः भूयात् । ‘ऊडिदम्’ इतीदमष्षष्ठ्या विभक्तेरुदात्तत्वम् ।

सायण-टीका

अस्य यज्ञस्य येयमाशीः फलप्रार्थना सा मे सत्या भूयात्।

मूलम् (संयुक्तम्)

अरे॑डता॒ मन॑सा॒ तच्छ॑केयय्ँ य॒ज्ञो दिवँ॑ रोहतु ।

विश्वास-प्रस्तुतिः

अरे॑डता॒+++(←रेडृ अनादरे)+++ मन॑सा॒ तच् छ॑केयम् ।

Keith

With untroubled mind may I have strength for this.

मूलम्

अरे॑डता॒ मन॑सा॒ तच्छ॑केयम् ।

पद-पाठः

अरे॑डता । मन॑सा । तत् । श॒के॒य॒म् ।

भट्टभास्कर-टीका

अरेडतेत्येकपदा त्रिष्टुप् यजुरादिः यजुरन्ता -
उक्तैर्वक्ष्यमाणैश् च अरेडता अनादरमकुर्वता मनसा । रेडृ अनादरे । तत्फलं शकेयं त्वत्प्रसादात्साधयितुं शक्तो भूयासम् । ‘लिङ्याशिष्यङ्’ ।

सायण-टीका

अरेडताऽनादरमकुर्वता मनसा तत्फलं साधियतुं शकेयं त्वत्प्रसादाच्छक्तो भूयासम्।

विश्वास-प्रस्तुतिः

य॒ज्ञो दिवँ॑ रोहतु ।

Keith

May the sacrifice mount the sky,

मूलम्

य॒ज्ञो दिवँ॑ रोहतु ।

पद-पाठः

य॒ज्ञः । दिव॑म् । रो॒ह॒तु॒ ।

भट्टभास्कर-टीका

यज्ञोयमस्मदीयो दिवं रोहतु दिवौकसां तृप्तये भवतु ।

सायण-टीका

मयाऽनुष्ठितोऽयं यज्ञो निःश्रेणीमिव क्रमेण दिवमारोहतु। केनापि वैकल्यप्रतिबन्धेन भ्रंशो यज्ञस्यानारोहणं, भ्रंशाभावे तु यज्ञ आरोहत्येव।

विश्वास-प्रस्तुतिः

य॒ज्ञो दिव॑ङ् गच्छतु ।

Keith

may the sacrifice reach the sky.

मूलम्

य॒ज्ञो दिव॑ङ्गच्छतु ।

पद-पाठः

य॒ज्ञः । दिव॑म् । ग॒च्छ॒तु॒ ।

भट्टभास्कर-टीका

किञ्च - अयं यज्ञोस्मानपि दिवं गच्छतु गमयतु देहपातोत्तरकालमस्मान् दिवमारोहयतु । ‘बहुलमन्यत्रापि’ इति णिलुक् । यद्वा - हेतुकर्म[तुकर्तृ]निर्देशः, षड्भिर्हलैः कृषतीति यथा । सामर्थ्यात्तत्रेति चेदिहापि पूर्वेण गतत्वात् आनर्थक्याद्धेतुः प्रत्येष्यते ।

सायण-टीका

आरुह्य च यस्यां दिवि यज्ञहविर्भाजो निवसन्ति तां दिवं स्वर्गप्रदेशविशेषं गच्छतु।

विश्वास-प्रस्तुतिः

यो दे॑व॒यान॒ᳶ पन्था॒स्,
तेन॑ य॒ज्ञो दे॒वाँ अप्य् ए॑तु ।

Keith

The path that leadeth to the gods, along it may the sacrifice go to the gods.

मूलम्

यो दे॑व॒यान॒ᳶ पन्था॒स्तेन॑ य॒ज्ञो दे॒वाँ अप्ये॑तु ।

पद-पाठः

यः । दे॒व॒यान॒ इति॑ देव-यानः॑ । पन्थाः॑ । तेन॑ । य॒ज्ञः । दे॒वान् । अपीति॑ । ए॒तु॒ ।

भट्टभास्कर-टीका

इदनीं यज्ञस्य मार्ग उपदिश्यते - यो देवयानः पन्थाः येन पथा देवान् गच्छति देवत्वं वा प्राप्यते तेन पथायं यज्ञो देवानप्येतु तेन मार्गेण गत्वा देवाननुप्रविशतु ॥

सायण-टीका

तस्मिन्प्रदेशे गत्वा सभायामुपविष्टा देवा येन मार्गेण हविर्भोजनशालां गच्छन्ति तेनैव मार्गेणायं यज्ञो यज्ञसंबद्धहविर्देवानप्येतु प्राप्नोतु।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मास्व् इन्द्र॑ इन्द्रि॒यन् द॑धात्व्
अ॒स्मान् राय॑ उ॒त +++(उत्तरा)+++ य॒ज्ञास् स॑चन्ताम् +++(←समवाये)+++ ।
अ॒स्मासु॑ सन्त्व् आ॒शिष॒स्,
सा नᳶ॑ प्रि॒या सु॒प्रतू॑र्तिर् म॒घोनी॒॥

सर्वाष् टीकाः ...{Loading}...
Keith

On us may Indra bestow power;
Us may wealth and sacrifices attend
Ours be blessings;
To us be she dear, victorious, bountiful.

मूलम्

अ॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धात्व॒स्मान्राय॑ उ॒त य॒ज्ञास्स॑चन्ताम् ।
अ॒स्मासु॑ सन्त्वा॒शिष॒स्सा नᳶ॑ प्रि॒या सु॒प्रतू॑र्तिर्म॒घोनी॒॥

पद-पाठः

अ॒स्मासु॑ । इन्द्रः॑ । इ॒न्द्रि॒यम् । द॒धा॒तु॒ ।
अ॒स्मान् । रायः॑ । उ॒त । य॒ज्ञाः । स॒च॒न्ता॒म् ।
अ॒स्मासु॑ । स॒न्तु॒ । आ॒शिष॒ इत्या॑-शिषः॑ ।
सा । नः॒ । प्रि॒या । सु॒प्रतू॑र्ति॒रिति॑ सु-प्रतू॑र्तिः । म॒घोनी॑ ।

भट्टभास्कर-टीका

4अस्मास्विति त्रिपदोष्णिक् । त्रिष्टुप्ततः परा । यद्वा - मध्येज्योतिस्त्रिष्टुप् ॥
अस्मासु त्वत्-प्रसादभाक्षु इन्द्र इन्द्रियं वीर्यं दधातुअस्मान् रायो धनानि पश्वादीनि अपि च यज्ञाः उत्तरे च क्रतवः सचन्ताम् । षच समवाये । अस्मास्व् आशिषः अभिप्रेतान्यपि फलानि सन्तु भूतानि सन्तु । सा च त्वम् अस्माकं प्रिया तृप्तिहेतुः सुप्रतूर्तिः सुष्ठु प्रतरणिर् दुःखानाम् ।

यद्वा - सुष्ठु प्रकर्षेण च हिंसिका शत्रूणाम् । ‘नसत्तनिषत्त’ इति निपातनं निष्ठावद्भावात्क्तिनोपि भवति, ‘क्रत्वादयश्च’ इत्युत्तरपदाद्युदात्तत्वम् । मघोनी धनवती । ‘छन्दसीवनिपौ’ इति मत्वर्थीयो वनिः, ‘ऋन्नेभ्यः’ इति ङीप्, ‘श्वयुवमघोनाम्’ इति सम्प्रसारणम् । एवङ्गुणोस्माकं भव ॥

सायण-टीका

तेन यज्ञेन तुष्ट इन्द्रोऽस्मास्विन्द्रियं यज्ञान्तरानुष्ठानाय चक्षुरादिपाटवं दधातु स्थापयतु। तादृशानस्मान्‍रायो यज्ञसाधनानि धनानि यज्ञा उत करिष्यमाणा यज्ञा अपि सचन्तमाश्रयन्तम्। आशिषस्तद्यज्ञफलान्यस्मासु सन्तु। सा तादृशी त्वं नोऽस्मान्प्रति सुप्रतूर्तिः सुष्ठु प्रकर्षेण शत्रूणां हिंसिका मघोनी धनवती च भव।

विश्वास-प्रस्तुतिः

जुष्टि॑र् असि - जु॒षस्व॑ नः।
जुष्टा॑ नो ऽसि॒ - जुष्टि॑न् ते गमेयम् ।

Keith

Thou art joy, give joy to us;
thou art enjoyed by us [2], may I attain joy from thee.

मूलम्

जुष्टि॑रसि जु॒षस्व॑ नो॒ जुष्टा॑ नः [9]
अ॒सि॒ जुष्टि॑न्ते गमेयम् ।

पद-पाठः

जुष्टिः॑ । अ॒सि॒ । जु॒षस्व॑ । नः॒ । जुष्टा॑ । नः॒ । अ॒सि॒ । जुष्टि॑म् । ते॒ । ग॒मे॒य॒म् ।

भट्टभास्कर-टीका

+++(अत्र भाष्यपङ्क्तिः लुप्ता)+++

सायण-टीका

जुष्टिरसीति। कल्पः - “अवान्तरेडा प्राश्यमानामनुमन्त्रयते जुष्टिरसि जुषस्व नो जुष्टा नोऽसि जुष्टिं ते गमेयमिति” इति। हेऽवान्तरेडे त्वं जुष्टिरसि प्रीतिरूपाऽसि। नोऽस्माञ्‍जुषस्व प्रीणय। नोऽस्माभिर्जुष्टाऽसि सेविताऽसि। ते जुष्टिं त्वदीयां प्रीतिं गमेयं प्राप्नुयाम्।


भास्करोक्त-विनियोगः

5-6 अवान्तरेडां प्राश्यमानाम् अनुमन्त्रयते

मनो ज्योतिर् ...{Loading}...

मनो॒ ज्योति॑र् जुषता॒म्, आज्यव्ँ॒
विच्छि॑न्नय्ँ य॒ज्ञँ सम् इ॒मन् द॑धातु
बृह॒स्पति॑स् तनुताम् इ॒मन् नो॒,
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम्

मनो ज्योतिर् ...{Loading}...
Keith

Mind, light, rejoice in the oblation.
May be unite this scattered sacrifice;
May Brhaspati extend it;
May the All-gods rejoice herein.

मूलम्

मनो॒ ज्योति॑र्जुषता॒माज्यव्ँ॒विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धातु ।
बृह॒स्पति॑स्तनुतामि॒मन्नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥

पद-पाठः

मनः॑ । ज्योतिः॑ । जु॒ष॒ता॒म् । आज्य॑म् । विच्छि॑न्न॒मिति॒ वि-छि॒न्न॒म् । य॒ज्ञम् । समिति॑ । इ॒मम् । द॒धा॒तु॒ ॥ बृह॒स्पतिः॑ । त॒नु॒ता॒म् । इ॒मम् । नः॒ । विश्वे॑ । दे॒वाः । इ॒ह । मा॒द॒य॒न्ता॒म् ॥

भट्टभास्कर-टीका

हे अग्ने तव ज्योतिः कीदृशं मननीयम् ।

यद्वा - मनश् शेषमुद्वासितेन पीडितं यन् मननीयम् एवासीत्
नान्यत्वे[त्र]विद्यते तद् इदम् आज्यं जुषतां सेवतां अनेन कर्मणा पूर्ववत्समृद्धमस्तु ।

यद्वा - मनस् सदा मननीयं मनोहरं अग्न्याख्यं ज्योतिः उद्वासनापराधं चेतस्य् अकृत्वा जुषताम् आज्यम् इति । ततो विच्छिन्नम् उद्वासने तव यज्ञम् इमं सन्दधातु

बृहस्पतिश्च नः अस्माकमिमं यज्ञं तनुतां विश्वे देवाश्च इहास्मिन्कर्मणि मादयन्तां मोद(य)न्ताम् । मद तृप्तियोगे चुरादिः । बृहस्पतिशब्दश्च पारस्करादिः, वनस्पत्यादिश्च । तेन सुडागमः, पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं च ॥

सायण-टीका

मनो ज्योतिरिति।

कल्पः - “अथान्तर्वेद्यद्भिर्मार्जयते मनो ज्योतिर्जुषता-माज्यं विच्छिन्नं यज्ञँ समिमं दधातु। बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्तामिति” इति।

मनो ज्योतिर्मननीयोऽयमग्निस्तत्तदाहुतिष्वाज्यं सेवताम्। केनापि वैकल्येन विच्छिन्नमिमं यज्ञं वैकल्यपरिहारेण संदधातु। बृहस्पतिः स्वयमेव नोऽस्मदीयमिमं यज्ञ तनुताम्। विश्वे देवा इड यज्ञे मादयन्तां तृप्यन्तु।

विश्वास-प्रस्तुतिः

ब्रध्न॒+++(=पिङ्गल!)+++ पिन्व॑स्व।

Keith

Swell, O ruddy one.

मूलम्

ब्रध्न॒ पिन्व॑स्व … दद॑तो मे॒ मा क्षा॑यि कुर्व॒तो मे॒ मोप॑दसत्।

पद-पाठः

ब्रध्न॑ । पिन्व॑स्व ।

भट्टभास्कर-टीका

7 ब्रध्नेति ॥ हे ब्रध्न बन्धक मनसां, त्वय्येव हि मनोस्माकं सर्वदा बद्धम् । ‘बन्धेर् ब्रधिबुधी च’ इति नक्प्रत्ययः । परिबृढस्यैवेयं संज्ञा । पिन्वस्व प्रीणय अस्मानृत्विजश्च ।

सायण-टीका

ब्रध्न पिन्वस्वेति।

कल्पः - ‘बर्हिषदं पुरोडाशमनुमन्त्रयते ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोप दसदिति’ इति।

यज्ञपुरुषवाची ब्रध्नशब्दः। ‘यज्ञो वै ब्रध्नः’ इति श्रुतेः हे ब्रध्न पिन्वस्वास्मानृत्विजश्च प्रीणय।

विश्वास-प्रस्तुतिः

दद॑तो मे॒ मा क्षा॑यि।
कु॒र्व॒तो मे॒ मोप॑दसत्।

Keith

May (my act) as I give be not destroyed; may (my act) as I work not perish.

मूलम्

दद॑तो मे॒ मा क्षा॑यि।
कु॒र्व॒तो मे॒ मोप॑दसत्।

पद-पाठः

दद॑तः । मे॒ । मा । क्षा॒यि॒ ।
कु॒र्व॒तः । मे॒ । मा । उपेति॑ । द॒स॒त् ।

भट्टभास्कर-टीका

ददतो मे मा क्षायि देयेन धनेन क्षयो मा गामि, अपि तूपचीयताम् । कुर्वतो मे मोपदसत् सामर्थ्यं श्रद्धा वा मोपक्षयं गमत्, अपि तु पुनःपुनर्वर्धताम् । दसु उपक्षये, लुङि पुषादित्वादङ् ॥

सायण-टीका

ददतो धनं प्रयच्छतो मम देयं धनं मा क्षीयतामपि तूपचीयताम्। यागं कुर्वतो मम सामर्थ्य मोपदसन्मोपक्षीयतामपि तु पुनः पुनर्वर्धताम्।


भास्करोक्त-विनियोगः

8अन्वाहार्यम् आसन्नम् अभिमन्त्रयते - प्रजापतेरिति ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑तेर्भा॒गो॑ऽस्यूर्ज॑स्वा॒न्पय॑स्वान् प्राणापा॒नौ मे॑ पाहि

Keith

Thou art the portion of Prajapati,

विश्वास-प्रस्तुतिः

प्र॒जाप॑तेर् भा॒गो॑ ऽसि ।

मूलम्

प्र॒जाप॑तेर्भा॒गो॑ऽसि ।

पद-पाठः

प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । भा॒गः । अ॒सि॒ ।

भट्टभास्कर-टीका

प्रजापतेर्भागोसि । ‘स वा एष प्राजापत्यो यदन्वाहार्यः’ इति । ‘पत्यावैश्वर्ये’ इति पतिशब्दे पूर्वपदप्रकृतिस्वरत्वम् । ‘कर्षात्वतः’ इति भागशब्दोन्तोदात्तः, ‘स्वरितो वानुदात्ते पदादौ’ इत्येकादेशस्य संहितायां स्वरितत्वम् ।

सायण-टीका

प्रजापतेरिति।
कल्पः - ‘अथान्वाहार्यं याचति तमन्तर्वेद्यासन्नमभिमन्त्रयते प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वाप्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानव्यानौ मे पाह्यक्षितोऽस्यक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिल्ँ लोक इति’ इति।
यद्यप्यन्वाहार्य ऋत्विजां भागस्तथाऽपि तेन प्रजापतेः परितोषात्तद्भागत्वमप्यविरुद्धम्।

विश्वास-प्रस्तुतिः

ऊर्ज॑स्वा॒न् पय॑स्वान् प्राणापा॒नौ मे॑ पाहि ।

Keith

full of strength and milk
Protect my expiration and inspiration;

मूलम्

ऊर्ज॑स्वा॒न्पय॑स्वान् प्राणापा॒नौ मे॑ पाहि ।

पद-पाठः

ऊर्ज॑स्वान् । पय॑स्वान् । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । मे॒ । पा॒हि॒ ।

भट्टभास्कर-टीका

ऊर्जस्वानन्नवान् पयस्वान् रसवान् स त्वं प्राणापानौ मम पाहि । मुखनासिकाभ्यां यो वायुर्निर्गच्छति स प्राणः, स च वायोस्तिर्यग्गमनशीलस्योर्ध्वगमनहेतुः जविव्यापारविशेषो वेदितव्यः । अपानो नामावाग्गमनो वायुः ।

सायण-टीका

स च भाग ऊर्जस्वान्बलवान्। तद्भोजिनां बलप्रदत्वात्। पयस्वान्क्षीरवत्स्वादुतमः। यद्वा क्षीरं पच्‍यमानत्वात्पयस्वान्। अत एव सूत्रकार आह – ‘क्षीरे भवतीत्येक’ इति। हेऽन्वाहार्य त्वं शरीरगतान्प्राणादिवायुभेदान्पाहि।
एक एव वायुः शरीरगतः शरीरगतः स्थानभेदात्कार्यभेदाच्च प्राणादिनामभिर्भिद्यते।
स्थानभेद कैश्चिदुक्तः —
“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः।
उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः” इति।
उच्छ्वासनिःश्वासौ प्राणव्यापारः। मलमूत्रयोरधःपातनमपानव्यापारः।

विश्वास-प्रस्तुतिः

स॒मा॒न॒व्या॒नौ मे॑ पाहि ।

Keith

protect my breathing together and cross-breathing;

मूलम्

स॒मा॒न॒व्या॒नौ मे॑ पाहि ।

पद-पाठः

स॒मा॒न॒व्या॒नाविति॑ समान-व्या॒नौ । मे॒ । पा॒हि॒ ।

भट्टभास्कर-टीका

समानो नाम सर्वसाधारणो हृदये स्थितो वायुः । व्यानो नाम मनो व्याप्य स्थितो नडीभिरन्नादिरसस्य नेता ।

विश्वास-प्रस्तुतिः

उ॒दा॒न॒व्या॒नौ मे॑ पा॒हि ।

Keith

protect my out-breathing and cross-breathing.

मूलम्

उ॒दा॒न॒व्या॒नौ मे॑ पा॒हि ।

पद-पाठः

उ॒दा॒न॒व्या॒नावित्यु॑दान-व्या॒नौ । मे॒ । पा॒हि॒ ।

भट्टभास्कर-टीका

उदान ऊर्ध्वगमनः शब्दस्योत्पादयिता । पुनर्व्यानग्रहणमनुक्तजीववृत्तिप्रकारोपसङ्ग्रहार्थम्, विविधनानात्मकत्वात्तेषाम् ।

सायण-टीका

भुक्तस्यान्नरसस्य शरीरे साम्येन नयनं समानव्यापारः। उद्गारादिरुदानव्यापारः। कृत्स्नासु शरीरनाडीषु व्याप्य प्राणापानवृत्योः संधिकाले शरीरस्य बलप्रदानं व्यानव्यापारः। अत एव च्छन्दोगा आमनन्ति – ‘यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः। अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः सा वाक्तस्मादप्राणन्ननपानन्वाचमभिव्याहरति। अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाऽग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानँ-स्तानि करोति’ इति। एवं बहुविधव्यापारहेतुत्वात्प्राधान्यं द्योतयितुं व्यानस्य द्विरुक्तिः। यद्वा नागकूर्मादिवायुविशेषाणामत्रान्तर्भामभिप्रेत्य पुनरप्युक्तिः।

अक्षितोऽसि ...{Loading}...
मूलम् (संयुक्तम्)

अक्षि॑तो॒ऽस्यक्षि॑त्यै त्वा॒ मा मे॑ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑न्लो॒के ॥

विश्वास-प्रस्तुतिः

अक्षि॑तोऽसि ।

Keith

Thou art imperishable,

मूलम्

अक्षि॑तोऽसि ।

पद-पाठः

अक्षि॑तः । अ॒सि॒ ।

भट्टभास्कर-टीका

अक्षितः अक्षीणोसि ।

विश्वास-प्रस्तुतिः

अक्षि॑त्यै त्वा +++(ददामि)+++।

Keith

for imperishableness thee;

मूलम्

अक्षि॑त्यै त्वा ।

पद-पाठः

अक्षि॑त्यै । त्वा॒ ।

भट्टभास्कर-टीका

अक्षित्यै इह चामुत्र चाक्षयाय त्वां ददामीति सामर्थ्यात् ।

विश्वास-प्रस्तुतिः

मा मे॑ क्षेष्ठा अ॒मुत्रा॒मुष्मिल्ँ॑ लो॒के ॥ [10]

Keith

mayst thou not perish for me, yonder, in yonder world.

मूलम्

मा मे॑ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑न्लो॒के ॥ [10]

पद-पाठः

मा । मे॒ । क्षे॒ष्ठाः॒ । अ॒मुत्र॑ । अ॒मुष्मि॑न् । लो॒के ॥

भट्टभास्कर-टीका

स त्वममुत्र परलोके अस्मि[मुष्मि]न्नैन्द्रे ब्राह्मे प्राजापत्ये वा मा क्षेष्ठाः परलोके क्षयं मा गमः । यद्वा - मे ममामुष्मिन् लोके यदाहं परलोके भविष्यामि तदा तत्र ममोपभोगार्थम् । इह हि कृत्वा परत्र भुञ्जते । ‘क्षीयते वा अमुष्मिन्लोके’ इत्यादि ब्राह्मणम् ॥

इति षष्ठे तृतीयोनुवाकः ॥

सायण-टीका

हेऽन्वाहार्य त्वमक्षितोऽक्षीणोऽसि। अपरिमितो निरुप्य इति ब्राह्मणोक्तेर्दक्षिणाग्नावन्वाहार्यं महान्तमपरिमितमोदनं पचतीति सूत्रकारोक्तेश्च।

तस्मात्परलोकेऽप्यक्षित्यै त्वां ददामीति शेषः। तेनाभिप्रायेण दीयमानत्वादमुत्र परलोके मम भोगाय मा क्षेष्ठाः क्षयं मा प्राप्नुहि। तस्मादहमप्यमुष्मिल्ँ लोके त्वां यथेच्छमनुभवामीति शेषः।