०२ आज्यग्रहणानुमन्त्रणादि

०१ आज्यग्रहणानुमन्त्रणादि ...{Loading}...

अनुष्टुप् । प्रजापतिर्ऋषिः


भास्करोक्त-विनियोगः

1अथ प्राजापत्यमेव काण्डं याजमानम् । तत्राज्यसान्नाय्ययोस् स्कन्नस्य स्वधां सम्भरति - सं त्वेत्यनुष्टुभा ॥

विश्वास-प्रस्तुतिः ...{Loading}...

सन् त्वा॑ सिञ्चामि॒ यजु॑षा
प्र॒जाम् आयु॒र् धन॑ञ् च ।+++(4)+++
बृह॒स्-पति॑-प्रसूतो॒
यज॑मान इ॒ह मा रि॑षत् ॥

सर्वाष् टीकाः ...{Loading}...
Keith

By the Yajus I pour on thee
Offspring, life, and wealth.
Instigated by Brhaspati may the sacrificer here come to no harm.

मूलम्

सन्त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धन॑ञ्च ।
बृह॒स्पति॑प्रसूतो॒ यज॑मान इ॒ह मा रि॑षत् ॥

पद-पाठः

समिति॑ । त्वा॒ । सि॒ञ्चा॒मि॒ । यजु॑षा । प्र॒जामिति॑ प्र-जाम् । आयुः॑ । धन॑म् । च॒ ॥ बृह॒स्पति॑प्रसूत॒ इति॒ बृह॒स्पति॑-प्र॒सू॒तः॒ । यज॑मानः । इ॒ह । मा॒ । रि॒ष॒त् ॥

भट्टभास्कर-टीका

संसिञ्चामि सह सिञ्चामि हे स्कन्न त्वां प्रजामायुर्धनञ्च प्रजादिभिस्सह त्वामेकत्र सिश्चामि यजुषाऽनेन मन्त्रेण । यजनसाधनं यजुः । अपेतस्कन्नत्वदोषं प्रजादिसावनं त्वामनेन सेचनेन करोमीत्यर्थः । बृहस्पतिप्रसूतः स्वयमेव बृहस्पतिना प्रसूतोऽनुज्ञातोऽहं करोमि, न पुनर्यथारुचि । तस्माद्यजमान इहास्मिन् स्कन्नापराधे मा रिषत् मा बाधि । रिष्यतेश्छान्दसोऽङ् पुषादिर्वा कर्तव्यः । बृहतां पतिः बृहस्पतिः । ‘तद्बृहतोः करपत्योः’ इति सुक् । तेन प्रसूत इति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । तत्र च ‘उभे वनस्पत्यादिषु युगपत्’ इति पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वम् । बृहच्छब्दः प्रायेण समासे आद्युदातः, अन्यत्रान्तोदात्तः ॥

सायण-टीका

तत्र प्रथमानुवाक आज्यग्रहणानुमन्त्रणमन्त्राः प्राधान्येनाभिधीयन्ते।
कल्पः — “सं त्वा सिञ्चामीति तत्सँ सिञ्चेदभि वा मन्त्रयेत” इति। तदिति स्कन्नमाज्यमुच्यते। यस्याऽऽज्यमनुत्पूतँ स्कन्देदित्यादिना स्कन्दनस्य प्रकृतत्वात्। यदि शुद्धप्रदेशे स्कन्देत्तदानीमनेन मन्त्रेण पुनः पात्रे प्रक्षिपेत्। अशुचिप्रदेशे स्कन्दने त्वभिमन्त्रणम्।

पाठस्तु -
सं त्वा सिञ्चामीति। हे स्कन्नाज्य बृहस्पतिप्रेरितोऽहं प्रजादीन्संपादयेयम। त्वामनेन यजुषा मन्त्रेण पात्रे सम्यक्सिञ्चामि। इह कर्मणि यजमानः स्कन्दनापराधेन मा रिषन्मा हिंस्यताम्। अयं मन्त्र आध्वर्यवः। अतो यजमानस्यान्यत्वेनोक्तिरविरुद्धा।

मूलम् (संयुक्तम्)

आज्य॑मसि स॒त्यम॑सि स॒त्यस्याध्य॑क्षमसि ह॒विर॑सि वैश्वान॒रव्ँ वै॑श्वदे॒वमुत्पू॑तशुष्मँ स॒त्यौजाः

_______
भास्करोक्त-विनियोगः

2-4आज्यमवेक्षते - आज्यमसीति यजुर्भिः ॥

विश्वास-प्रस्तुतिः

आज्य॑म् असि ।
स॒त्यम् अ॑सि ।
स॒त्यस्याध्य॑क्षम् असि ।

Keith

Thou art butter, thou art truth, thou art the overseer of truth,

मूलम्

आज्य॑मसि ।
स॒त्यम॑सि । स॒त्यस्याध्य॑क्षमसि ।

पद-पाठः

आज्य॑म् । अ॒सि॒ ।
स॒त्यम् । अ॒सि॒ ।
स॒त्यस्य॑ । अध्य॑क्ष॒मित्यधि॑-अ॒क्ष॒म् । अ॒सि॒ ।

भट्टभास्कर-टीका

अजेरञ्जेर्वा [आङ्पूरादजेरञ्जेर्वा क्यप्] अग्नेः प्रापणमसि प्रियतममिति यावत् ।

सत्यमसि सत्यस्य फलमसि । सद्विद्यमानं फलमसि [लं वा] तदर्हति । ‘छन्दसि च’ इति यः । अमोघमुच्यते । ब्रह्म वा सत्यम् । तदेवासि, विश्वमूलत्वात् ।

सत्यस्याध्यक्षमसि सत्यं त्वयाध्यक्ष्यते । सत्यं ब्रह्म अध्यक्षस्स्वामी । सत्यस्य वा प्रत्यक्षरूपं त्वमसि । अक्षेष्वधि अध्यक्षं, अक्षाणीन्द्रियाणि । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।

सायण-टीका

कल्पः — “आज्यमसि सत्यमसीत्यध्वर्युर्यजमानश्चाऽऽनिमील्यावेक्ष्यानुच्छ्वस न्तावाज्यमवेक्षेते” इति।

पाठस्तु-
आज्यमसीति। अत्र वैश्वानरमित्यादिभिश्चतुर्भिः पदैः प्रत्येकमन्वेतुमसीति पदमनुवर्तनीयम्। तथा सति तान्येतानि द्वाविंशतिवाक्यानि संपद्यन्ते। तैरेतैर्वाक्यैराज्यं प्रशस्यते। अजिधातोर्गत्यर्थादुत्पन्न आज्यशब्दः। आज्यमसि प्रापकमसि। घृतेन हि होमाधारो ज्वालन्नग्निः प्राप्यते। सद्विद्यमानं कर्मफलं तदर्हतीति सत्यम्। प्रसिद्धं ह्याज्यस्य कर्मफलसाधनत्वम्। सत्यस्याध्यक्षमसि सतां कर्म सत्यम्। ज्योतिष्टोमे प्रवर्तमाना यजमानसप्तदशा ऋत्विजः सन्तः। ते हि परस्परं द्रोहशङ्कामपनेतुं तानूनप्त्रसंज्ञकमाज्यं स्पृशन्ति। सोऽयं स्पर्शः सतां कर्म, तस्य कर्मणोऽध्यक्षं स्वामि।

विश्वास-प्रस्तुतिः

ह॒विर् अ॑सि वैश्वान॒रव्ँ वै॑श्वदे॒वम्
उत्पू॑तशुष्मँ स॒त्यौजाः॑।

Keith

thou art the oblation of Vaiśvanara, of the All-gods, with pure strength, of true might;

मूलम्

ह॒विर॑सि वैश्वान॒रव्ँ वै॑श्वदे॒वमुत्पू॑तशुष्मँ स॒त्यौजाः॑ ।

पद-पाठः

ह॒विः । अ॒सि॒ । वै॒श्वा॒न॒रम् । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । उत्पू॑तशुष्म॒मित्युत्पू॑त-शु॒ष्म॒म् । स॒त्यौजा॒ इति॑ स॒त्य-ओ॒जाः॒ ।

भट्टभास्कर-टीका

हविरसि - हविषां प्रधानमसि ।

सर्वप्रियतमत्वेन प्राधान्यं दर्शयितुमाह - वैश्वानरं विश्वेषां नराणां सम्बन्धीष्टसाधनत्वेन । वैश्वदेवं विश्वेषां देवानां सम्बन्धि भोज्यत्वेन होम्यत्वेन च । उत्पूतशुष्मं उत्पवनेनोद्दीपितबलं उद्भूतबलं वा । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्, तत्रापि ‘गतिरन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । सत्यौजाः सत्यबलं, न केवलं त्वमेव सत्यं अपि तु त्वद्बलमपि सत्यमिति भावः । छान्दसो लिङ्गव्यत्ययः । ईदृशं हविस्त्वमसीति हविषः प्राधान्यं गम्यते ॥

सायण-टीका

हविरसि प्राधान्येन हूयमानमसि। पुरोडाशादीनां हविषां नाशेऽप्याज्येनैव तत्कर्मशेषसमापनात्प्राधान्यं द्रष्टव्यम्। विश्वेषां नराणां संबन्धि वैश्वानरम्। विश्वेषां देवानां संबन्धि विश्वदेवम्। प्रसिद्धो भोज्यत्वेन हविष्ट्वेन चोभयसंबन्ध। उत्पूतशुष्ममुत्पवनेनोद्दीपितबलम्। सत्यौजाः सत्यबलम्। आज्यस्य हि बलमवितथम्। अग्न्युद्दीपनस्य प्रत्यक्षत एव दृश्यमानत्वात्।

विश्वास-प्रस्तुतिः

सहो॑ऽसि।
सह॑मानम् असि।
सह॒स्वारा॑तीः ।
सह॑स्वारातीय॒तः ॥

Keith

thou art power,
overpowering;
overpower hostility,
overpower those who practise hostility;

मूलम्

सहो॑ऽसि॒ सह॑मानमसि॒ सह॒स्वारा॑तीः । सह॑स्वारातीय॒तः ॥

पद-पाठः

सहः॑ । अ॒सि॒ । सह॑मानम् । अ॒सि॒ । सह॑स्व । अरा॑तीः । सह॑स्व । अ॒रा॒ती॒य॒तः ।

भट्टभास्कर-टीका

5-6सहोसीत्यादिके त्रिपदे गायत्र्यौ । सहस्वारातीयत इति तृतीयः पादः । सहस्रवीर्यमसीत्यपरस्याः तृतीयः पादः । तत्र पूर्वा निरवसाना, अपरा सावसाना पृतन्यत इति ॥

सहोसि अभिभवनमसि शत्रूणाम् । सहमानमसि सदा शत्रूनभिभूय वर्तमानमसि । अदुपदेशाल्लसार्वधात्तुकानुदात्तत्वे धातुस्वरः । तादृक्त्वं सहस्वारातीः अस्मदमित्रानभिभवये धनानां दातारो न भवन्ति । रातेः कर्तरि क्तिन्, नञ्समासेऽव्ययपूर्पदप्रकृतिस्वरत्वम् ।

अरातीयतश्च सहस्व येस्माकमरातिमात्मानमिच्छन्ति अस्मान्वारातिभूतानात्मन इच्छन्ति तानपि सर्वानभिभव बलात्कृत्य नाशय । प्रथमे पक्षे ‘छन्दसि परेच्छायामपि’ इति क्यच्, सर्वत्र ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । आख्यातस्य पादादित्वान्निघाताभावः, समानवाक्ये पदात्परत्वाभावाद्वा । रातिः दाता ।

सायण-टीका

सहः शत्रूणामभिभवनसमर्थम्। सहमानं निरन्तरं तदभिभवेनैव वर्तमानम्। तादृक्त्वं सहस्वारातीरस्मदमित्रानभिभव। सहस्वारातीयतः, ये तु प्रत्यक्षं शात्रवं कर्तुमशक्ता मनसा शात्रवं कर्तुमिच्छन्ति तानप्यभिभव।

विश्वास-प्रस्तुतिः

सह॑स्व॒ पृत॑ना॒स्,
सह॑स्व पृतन्य॒तः ।
स॒हस्र॑वीर्यम् असि ॥

Keith

overpower enmity, overpower those who practise emnity; thou art of a thousandfold strength;

मूलम्

सह॑स्व॒ पृत॑ना॒स्सह॑स्व पृतन्य॒तः ।
स॒हस्र॑वीर्यमसि ॥

पद-पाठः

सह॑स्व । पृत॑नाः । सह॑स्व । पृ॒त॒न्य॒तः ॥ स॒हस्र॑वीर्य॒मिति॑ स॒हस्र॑-वी॒र्य॒म् । अ॒सि॒ ।

भट्टभास्कर-टीका

सहस्व पृतनाः अस्मद्विरोधिनः सर्वान् सङ्ग्रामानभिभव । पृतन्यतस्सङ्ग्रामं कर्तुमीच्छतश्च सर्वानभिभव । क्यचि ‘कव्यध्वरष्टतनस्य’ इति लोपः, पूर्ववद्विभक्त्युदात्तत्वम् । युयुत्सवस्सेनाः पृतनाः । किं बहुना - सहस्रवीर्यं बहुप्रकारशक्तिकमसि, अतस्संस्कर्तुमर्हसीति ॥

सायण-टीका

सहस्व पृतनाः शत्रुसेना अभिभव। सहस्व पृतन्यतः सेनाः संपादयितुमिच्छतः शत्रूनप्यभिभव। सहस्रवीर्यमसि यथोक्ताभिभवविशेषान्कर्तुं बहुप्रकारसामर्थ्योपेतं त्वमसि।

मूलम् (संयुक्तम्)

तन्मा॑ जि॒न्वाऽऽज्य॒स्याऽऽज्य॑मसि स॒त्यस्य॑ स॒त्यम॑सि स॒त्यायुः॑ [1]अ॒सि॒ स॒त्यशु॑ष्ममसि स॒त्येन॑ त्वा॒ऽभि घा॑रयामि॒ तस्य॑ ते भक्षीय

विश्वास-प्रस्तुतिः

तन्मा॑ जि॒न्व+++(=प्रीणय)+++ ।

Keith

do thou quicken me;

मूलम्

तन्मा॑ जि॒न्व ।

पद-पाठः

तत् । मा॒ । जि॒न्व॒ ।

भट्टभास्कर-टीका

7-13अतः पराणि यजूंषि - तत्तादृक्स्वभावस्त्वं मां जिन्व प्रीणय ।

सायण-टीका

तन्मा जिन्व तत्तादृक्स्वभाव त्वं मां यागद्वारेण प्रीणय।

विश्वास-प्रस्तुतिः

आज्य॒स्याऽऽज्य॑म् असि ।

Keith

thou art of butter the butter;

मूलम्

आज्य॒स्याऽऽज्य॑मसि ।

पद-पाठः

आज्य॑स्य । आज्य॑म् । अ॒सि॒ ।

भट्टभास्कर-टीका

हे आज्य आज्यस्याप्याज्यमसि, यल्लौकिकमाज्यं तस्मादपि त्वमिष्टसाधनमाज्यं वैदिकमसि, त्वमिव यजमानस्य; त्वत्तो हि सर्वमाज्यमुत्पाद्यते वर्षादिद्वारेण ।

सायण-टीका

आज्यस्याऽऽज्यमसि लौकिकं यदाज्यं तदुत्पूतशुष्मं न भवति त्वं तत्पूतशुष्मत्वान्मुख्यमाज्यमसि।

विश्वास-प्रस्तुतिः

स॒त्यस्य॑ स॒त्यम् अ॑सि ।

Keith

thou art of truth the truth;

मूलम्

स॒त्यस्य॑ स॒त्यम॑सि ।

पद-पाठः

स॒त्यस्य॑ । स॒त्यम् । अ॒सि॒ ।

भट्टभास्कर-टीका

सत्यादपि सत्यमसि, कदाचिदपि फलव्यभिचाराभावात्; ‘यद्वा - सत्यान्तरस्यापि सत्यापयितृत्वाद्यागद्वरेण; त्वत्तोधिको नास्तीति भावः ।

सायण-टीका

सत्यस्य सत्यमसि लौकिकफलसाधनं कृष्यादिकं सत्यं तत्कदाचिद्वृष्ट्याद्यभावेन व्यभिचारान्न मुख्यं सत्यं त्वं तु कदाचिदप्यव्यभिचारान्मुख्यं सत्यमसि।

विश्वास-प्रस्तुतिः

स॒त्यायु॑र् असि ।

Keith

thou hast true life [1];

मूलम्

स॒त्यायु॑रसि ।

पद-पाठः

स॒त्यायु॒रिति॑ स॒त्य-आ॒युः॒ । अ॒सि॒ ।

भट्टभास्कर-टीका

सत्यायुरसि सत्यभूतमस्मिन्नायुरिति सत्यायुः । सत्यस्य वा आयुस्त्वमसि, त्वया सत्यं जीवतीति । दासीभारादिर्द्रष्टव्यः ।

सायण-टीका

सत्यायुरसि सत्यभूतमायुरस्मिन्निति सत्यायुः। आज्यनिष्पन्नेन कर्मणा भाविदेहे यदायुः प्राप्यते तन्‍न व्यभिचरतीत्यायुषः सत्यत्वम्।

विश्वास-प्रस्तुतिः

स॒त्यशु॑ष्मम्+++(=बलम्)+++ असि ।

Keith

thou hast true strength;

मूलम्

स॒त्यशु॑ष्ममसि ।

पद-पाठः

स॒त्यशु॑ष्म॒मिति॑ स॒त्य-शु॒ष्म॒म् । अ॒सि॒ ।

भट्टभास्कर-टीका

सत्यां सत्यस्य शुष्मं बलम् असि ।

सायण-टीका

सत्यशुष्ममसि सत्यबलमसि। अग्न्युद्दीपनबलं सत्यौजःशब्देन पूर्वमुक्तम्। इह तु फलप्रदानबलमुच्‍यते।

विश्वास-प्रस्तुतिः

स॒त्येन॑ त्वा॒ऽभि घा॑रयामि ।

Keith

with truth I besprinkle thee;

मूलम्

स॒त्येन॑ त्वा॒ऽभि घा॑रयामि ।

पद-पाठः

स॒त्येन॑ । त्वा॒ । अ॒भीति॑ । घा॒र॒या॒मि॒ ।

भट्टभास्कर-टीका

तत्त्वां सत्येन चक्षुषाभिघारयामि उपरि सिञ्चामि, ईषद्दृष्ट्यावेक्षे इति । ‘चक्षुर्वै सत्यम्’ इति ब्राह्मणम् । ‘ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि हवींष्यभिघारयति ‘इत्यादि च ।

सायण-टीका

सत्येन त्वाऽभिघारयामि तादृशं त्वां चक्षुषा पश्यामीत्यर्थः। तथा च पौरोडाशिककाण्डे समाम्नायते - “ब्रह्मवादिनो वदन्ति। यदाज्येनान्यानि हवीँष्यभिघारयति। अथ केनाऽऽज्यमिति। सत्येनेति ब्रूयात्। सत्येनैवैनदभिघारयति” इति। चक्षुषः सत्यत्वमाधानब्राह्मणे प्रतिपादितम्। “अनृतं वै वाचा वदति। अनृतं मनसा ध्यायति। चक्षुर्वै सत्यम्। अद्रा३गित्याह। अदर्शमिति। तत्सत्यम्” इति।

विश्वास-प्रस्तुतिः

तस्य॑ ते भक्षीय ।

Keith

may I share thee that art such.

मूलम्

तस्य॑ ते भक्षीय ।

पद-पाठः

तस्य॑ । ते॒ । भ॒क्षी॒य॒ ।

भट्टभास्कर-टीका

तस्य ते तथा ईक्षितस्य ते तव भक्षीय अहं भजे, त्वया वियुक्तो मा भूवम् । पूर्वत्कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी ॥

सायण-टीका

तस्य ते भक्षीय तादृशं त्वां भजानि।


भास्करोक्त-विनियोगः

14- 17अथाज्यग्रहानुमन्त्रणमन्त्राः - यजूंषि तत्र चतुर्भिः जौहवम् अनुमन्त्रयते - पञ्चानां त्वेति ॥

मूलम् (संयुक्तम्)

पञ्चा॒नान्त्वा॒ वाता॑नाय्ँय॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नान्त्व॑र्तू॒नाय्ँय॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नान्त्वा॑ दि॒शाय्ँय॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नान्त्वा॑ पञ्चज॒नानाय्ँ॑य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि

विश्वास-प्रस्तुतिः

प॒ञ्चा॒नान् त्वा॒ वाता॑नाय्ँ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

Keith

For a prop, a support, of the five winds I take thee.

मूलम्

प॒ञ्चा॒नान्त्वा॒ वाता॑नाय्ँय॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

पद-पाठः

प॒ञ्चा॒नाम् । त्वा॒ । वाता॑नाम् । य॒न्त्राय॑ । ध॒र्त्राय॑ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका

पञ्चानां प्राच्याद्यूर्ध्वपर्यन्तपञ्चदिक्प्रभवाणां पुरोवातादीनां वातानां यन्त्राय यमनाय स्वस्वाधारेष्वविचलनस्थापनाय धर्त्राय जगद्धारणाय जगद्धाणकुशलाय वा त्वां गृह्णामि हे आज्य । एवं सर्वत्र । पञ्चानामित्यत्र ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ।

विश्वास-प्रस्तुतिः

प॒ञ्चा॒नान् त्व॑र्तू॒नाय्ँ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

Keith

For a prop, a support, of the five seasons I take thee.

मूलम्

प॒ञ्चा॒नान्त्व॑र्तू॒नाय्ँय॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

पद-पाठः

प॒ञ्चा॒नाम् । त्वा॒ । ऋ॒तू॒नाम् । य॒न्त्राय॑ । ध॒र्त्राय॑ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका

पञ्चानाम् ऋतूनाम्; ‘हेमन्तशिशिरयोश्शीतत्वसामान्यादेकत्वं विवक्षित्वोच्यते । ब्राह्मणं च भवति ‘पञ्च वा ऋतव आर्तवाः पञ्च’ इति । पूर्ववदुभयत्रापि नाम उदात्तत्वम् ।

[ यन्त्राय यमनाय स्वस्वाधारेष्वविचलनस्थापनाय धर्त्राय जगद्धारणाय जगद्धाणकुशलाय वा त्वां गृह्णामि हे आज्य ।]

सायण-टीका

पञ्चानां त्वेति।
कल्पः — ‘आज्यग्रहणं गृहीतं गृहीतमनुमन्त्रयते पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वा दिशां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामिति चतुर्भिर्जुह्वामष्टभिरुपभृति चरोस्त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि ब्रह्मणस्त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि सुवीर्याय त्वा गृह्णामि सुप्रजास्त्वाय त्वा गृह्णामि रायस्पोषाय त्वा गृह्णामि ब्रह्मवर्चसाय त्वा गृह्णामीति चतुर्भिर्ध्रुवायां भूरस्माकँ हविर्देवानामाशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामीत्यभिपूर्यमाणामनुमन्त्रयते कामाय त्वा गृह्णामीति’ इति।
प्राच्‍यादिषूर्ध्वान्तासु पञ्चसु दिक्षु वर्तमाना वायवः पञ्चसंख्याकाः।

विश्वास-प्रस्तुतिः

प॒ञ्चा॒नान् त्वा॑ दि॒शाय्ँ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

Keith

For a prop, a support, of the five quarters I take thee.

मूलम्

प॒ञ्चा॒नान्त्वा॑ दि॒शाय्ँय॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

पद-पाठः

प॒ञ्चा॒नाम् । त्वा॒ । दि॒शाम् । य॒न्त्राय॑ । ध॒र्त्राय॑ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका

पञ्चानां त्वा दिशां प्राच्यादीनामूर्ध्वान्तानाम् । ‘सावेकाचः’ इति दिग्भ्यो विभक्तेरुदात्तत्वम् ।

[ यन्त्राय यमनाय स्वस्वाधारेष्वविचलनस्थापनाय धर्त्राय जगद्धारणाय जगद्धाणकुशलाय वा त्वां गृह्णामि हे आज्य ।]

सायण-टीका

ते चाग्निचयनाङ्गेषु मन्त्रेष्वेवमाम्नायन्ते - “यत्ते रुद्र पुरो धनुस्तद्वातो अनु वातु ते यत्ते रुद्र दक्षिणा धनुस्तद्वातो अनु वातु ते यत्ते रुद्र पश्चाद्धनुस्तद्वातो अनु वातु ते यत्ते रुद्रोत्तराद्धनुस्ताद्वातो अनु वातु ते यत्ते रुद्रोपरि धनुस्तद्वातो अनु वातु ते” इति। यद्वा शरीरमध्ये वर्तमानाः प्राणापानव्यानोदानसमानरूपाः पञ्च वातास्तेषां वातानां यन्त्राय स्वस्वव्यापारेषु नियमनाय धर्त्राय जगद्विधारणकुशलाय हे आज्य त्वां गृह्णामि। ऋतूनां पञ्चत्वमैतरेयब्राह्मणे प्रतिपादितम् - “द्वादशमासाः पञ्चर्तवो हेमन्तशिशिरयोः समासेन” इति। प्राच्यादीनामूर्ध्वान्तानां दिशां पञ्चत्वं प्रसिद्धम्।

विश्वास-प्रस्तुतिः

प॒ञ्चा॒नान् त्वा॑ पञ्चज॒नानाय्ँ॑ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

Keith

For a prop, a support, of the five five-peoples I take thee.

मूलम्

प॒ञ्चा॒नान्त्वा॑ पञ्चज॒नानाय्ँ॑य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

पद-पाठः

प॒ञ्चा॒नाम् । त्वा॒ । प॒ञ्च॒ज॒नाना॒मिति॑ पञ्च-ज॒नाना॑म् । य॒न्त्राय॑ । ध॒र्त्राय॑ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका

पञ्चानां पञ्चजनानां, देवमनुष्यासुररक्षोगन्धवाणां पञ्चजना इत्याख्या । ‘दिक्सङ्ख्ये संज्ञायाम्’ इति समासः । सप्तर्षिवत्प्रत्येकं संज्ञात्वात्पञ्चानामिति विशेष्यते ॥

  • [ यन्त्राय यमनाय स्वस्वाधारेष्वविचलनस्थापनाय धर्त्राय जगद्धारणाय जगद्धाणकुशलाय वा त्वां गृह्णामि हे आज्य ।]
सायण-टीका

पञ्चजनशब्दः समस्तो देवमनुष्यासुररक्षोगन्धर्वेषु रूढः। ते च देवादयः पञ्चसंख्याकाः। चरुशब्दः पाकाधारभूतां स्थालीमाचष्टे। सा च क्वचित्पञ्चबिलैर्युज्यते। तच्च पुरुषमेधावसाने कल्पसूत्रकार उदाजहार- “पञ्च-बिलस्य चरोर्विज्ञायत आज्य आग्नेयः पूर्वस्मिन्बिले, दधन्यैन्द्रो दक्षिणे, शृते प्रतिदुहि नीतमिश्रे वा वैश्वदेवः पश्चिमे, अप्सु मैत्रावरुण उत्तरे, पयसि बार्हस्पत्यो मध्यमे” इति।


भास्करोक्त-विनियोगः

18-25उत्तरैर् अष्टभिर् औप-भृतम् अनुमन्त्रयते।

विश्वास-प्रस्तुतिः

च॒रोस्+++(=पात्रस्य)+++ त्वा॒ पञ्च॑बिलस्य य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

Keith

For a prop, a support, of the pot with five holes I take thee.

मूलम्

च॒रोस्त्वा॒ पञ्च॑बिलस्य य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

पद-पाठः

च॒रोः । त्वा॒ । पञ्च॑बिल॒स्येति॒ पञ्च॑-बि॒ल॒स्य॒ । य॒न्त्राय॑ । ध॒र्त्राय॑ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका

चरोः पञ्चबिलस्य आकाशस्य, सर्वेषां चरणाधारत्वाच्चरुः, दिशोस्य बिलानि पञ्च ।

  • [ यन्त्राय यमनाय स्वस्वाधारेष्वविचलनस्थापनाय धर्त्राय जगद्धारणाय जगद्धाणकुशलाय वा त्वां गृह्णामि हे आज्य ।]
सायण-टीका

तस्य पञ्चबिलस्य चरोर्नियमनायेति योज्यम्।

विश्वास-प्रस्तुतिः

ब्रह्म॑णस् त्वा॒ तेज॑से य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

Keith

For the brilliance of the Brahman, for a prop, a support, I take thee.

मूलम्

ब्रह्म॑णस्त्वा॒ तेज॑से य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

पद-पाठः

ब्रह्म॑णः । त्वा॒ । तेज॑से । य॒न्त्राय॑ । ध॒र्त्राय॑ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका

ब्रह्मणः ब्रह्मणां, जातावेकवचनम् । तेजसे तेजसः । ‘षष्ठ्यर्थे चतुर्थी वक्तव्या’ इति चतुर्थी । ब्राह्मणनां तेजसो यन्त्राय यत्यै धर्त्राय धृत्यै गृह्नामि ।

  • [ यन्त्राय यमनाय स्वस्वाधारेष्वविचलनस्थापनाय धर्त्राय जगद्धारणाय जगद्धाणकुशलाय वा त्वां गृह्णामि हे आज्य ।]
सायण-टीका

ब्रह्मणो ब्राह्मणजातेः। तेजो ब्रह्मवर्चसं तस्य यन्त्राय।

विश्वास-प्रस्तुतिः

क्ष॒त्रस्य॒ त्वौज॑से य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

Keith

For the might of the ruling class, for a prop, a support, I take thee [2].

मूलम्

क्ष॒त्रस्य॒ त्वौज॑से य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

पद-पाठः

क्ष॒त्रस्य॑ । त्वा॒ । ओज॑से । य॒न्त्राय॑ । ध॒र्त्राय॑ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका

क्षत्रस्य क्षत्रियाणामोजसे ओजसो बलस्य ।

  • [ यन्त्राय यमनाय स्वस्वाधारेष्वविचलनस्थापनाय धर्त्राय जगद्धारणाय जगद्धाणकुशलाय वा त्वां गृह्णामि हे आज्य ।]
सायण-टीका

क्षत्त्रियजातेरोजो युद्धसामार्थ्यम्।

विश्वास-प्रस्तुतिः

वि॒शे त्वा॑ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

  • [ यन्त्राय यमनाय स्वस्वाधारेष्वविचलनस्थापनाय धर्त्राय जगद्धारणाय जगद्धाणकुशलाय वा त्वां गृह्णामि हे आज्य ।]
Keith

For the people, for a prop, a support I take thee.

मूलम्

वि॒शे त्वा॑ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।

  • [ यन्त्राय यमनाय स्वस्वाधारेष्वविचलनस्थापनाय धर्त्राय जगद्धारणाय जगद्धाणकुशलाय वा त्वां गृह्णामि हे आज्य ।]
पद-पाठः

वि॒शे । त्वा॒ । य॒न्त्राय॑ । ध॒र्त्राय॑ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका

विशे विशां वैश्यानां पुष्ट्या इति शेषः, नृणां वा । यन्त्रायेत्यादि गतम् ।

सायण-टीका

वैश्‍यजातेः कृषिवाणिज्यादिषु नियमनम्।

विश्वास-प्रस्तुतिः

सु॒वीर्या॑य त्वा गृह्णामि ।

पद-पाठः

सु॒वीर्या॒येति॑ सु-वीर्या॑य । त्वा॒ । गृ॒ह्णा॒मि॒ ।

Keith

For excellence of strength I take thee.

मूलम्

सु॒वीर्या॑य त्वा गृह्णामि ।

भट्टभास्कर-टीका

सुवीर्याय सुष्ठुवीर्यत्वाय । ‘वीरवीर्यौ च’ इति बहुव्रीहिस्वरः प्रवर्तते, तत्पुरुषो वा ‘परादिश्छन्दसि बहुलम्’ इति ।

सायण-टीका

सुवीर्यं सर्वेषां स्वस्वव्यापारेषु सामर्थ्यातिशयः।

विश्वास-प्रस्तुतिः

सु॒प्र॒जा॒स्त्वाय॑ त्वा गृह्णामि ।

Keith

For wealth of offspring I take thee.

मूलम्

सु॒प्र॒जा॒स्त्वाय॑ त्वा गृह्णामि ।

पद-पाठः

सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः-त्वाय॑ । त्वा॒ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका

सुप्रजास्त्वाय यजमानस्य सर्वस्यैव वा शोभनापत्यत्वाय । ‘नित्यमसिच्प्रजामेधयोः’ इत्यसिच्समासान्तः । ऊडिदम्’ इति षष्ठ्या उदात्तत्वम्, ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् ।

सायण-टीका

सुप्रजास्त्वं शोभनापत्यत्वम्।

विश्वास-प्रस्तुतिः

रा॒यस्पोषा॑य त्वा गृह्णामि ।

Keith

For increase of wealth I take thee.

मूलम्

रा॒यस्पोषा॑य त्वा गृह्णामि ।

पद-पाठः

रा॒यः । पोषा॑य । त्वा॒ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका

रायो धनस्य पोषाय पुष्ट्यै ।

सायण-टीका

रायस्पोषो धनस्पोषो धनपुष्टिः।

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒व॒र्च॒साय॑ त्वा गृह्णामि ।

Keith

For splendour I take thee.

मूलम्

ब्र॒ह्म॒व॒र्च॒साय॑ त्वा गृह्णामि ।

पद-पाठः

ब्र॒ह्म॒व॒र्च॒सायेति॑ ब्रह्म-व॒र्च॒साय॑ । त्वा॒ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका

ब्रह्मवर्चसाय ब्रह्मबलाय । ‘ब्रह्महस्तिभ्यां वर्चसः’ इत्यच्समासान्तः ॥

सायण-टीका

ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः। ब्रह्मणस्त्वा तेजस इत्यत्र शिष्टाङ्गीकृतसाधुवेषरूपं (तेजो) द्रष्टव्यम्। भूरस्माकमित्याद्यो मन्त्रः। हविर्देवानामिति द्वितीयः। आशिषो यजमानस्येति तृतीयः। अवशिष्टश्चतुर्थः।


भास्करोक्त-विनियोगः

26-27शेषेण ध्रौवम् अनुमत्रयते - भूरस्माकमिति ॥

मूलम् (संयुक्तम्)

भूर॒स्माकँ॑ ह॒विर्दे॒वाना॑मा॒शिषो॒ यज॑मानस्य दे॒वाना॑न्त्वा दे॒वता॑भ्यो गृह्णामि कामा॑य त्वा गृह्णामि ॥ [3]

विश्वास-प्रस्तुतिः

भूर् अ॒स्माकँ॑,
ह॒विर् दे॒वाना॑म्,
आ॒शिषो॒ यज॑मानस्य
दे॒वाना॑न् त्वा दे॒वता॑भ्यो गृह्णामि।

Keith

The earth ours, the oblation the gods, the benedictions the sacrificers’; for the divinities of the gods I take thee.

मूलम्

भूर॒स्माकँ॑ ह॒विर्दे॒वाना॑मा॒शिषो॒ यज॑मानस्य दे॒वाना॑न्त्वा दे॒वता॑भ्यो गृह्णामि।

पद-पाठः

भूः । अ॒स्माक॑म् ।
ह॒विः । दे॒वाना॑म् ।
आ॒शिष॒ इत्या॑-शिषः॑ । यज॑मानस्य ।
दे॒वाना॑म् । त्वा॒ । दे॒वता॑भ्यः । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका

अस्माकमेव सम्बन्धी भव, मास्मान् हासीः, अस्माकमेव श्रेयसे भव । भवतेर्लेटि शपो लुक्, ‘इतश्च लोपः’ ‘भूसुवोस्तिङि’ इति गुणाभावः ।

हविर्देवानां देवानां हविः भोज्यं भव पर्याप्नुहि । ब्राह्मणं च ‘यावदेका देवता कामयते’ इत्यादि ।

आशिषो यजमानस्य या यजमानस्याशिषः प्रार्थनाः तास्सर्वा भव सर्वासां सम्पादनसमर्थं भव ।

देवानां त्वा देवानामेव स्वभूतं त्वा देवताभ्यो गृह्नामि ।

सायण-टीका

हे आज्य त्वमस्माकं श्रेयसे भव। देवानां हविर्भव। यजमानस्य या आशिषस्तद्रूपं भव। देवानां तर्पकं त्वां देवार्थं गृह्णामि। आपस्तम्बस्य तु भूरस्माकमित्यादिरेक एव मन्त्रः।

विश्वास-प्रस्तुतिः

कामा॑य त्वा गृह्णामि ॥

Keith

For desire I take thee.

मूलम्

कामा॑य त्वा गृह्णामि ॥

पद-पाठः

कामा॑य । त्वा॒ । गृ॒ह्णा॒मि॒ ॥

भट्टभास्कर-टीका

कामाय त्वा गृह्णामि हविर्भागिन्यो देवता यथा यथा कामयन्ते तत्तदनुरूपं गृह्णामि ॥

इति षष्ठे प्रथमोनुवाकः ॥

सायण-टीका

हे आज्य हविर्भागिन्यो देवतास्त्वां यथा यथा कामयन्ते तथाविधकामाय त्वां गृह्णामि।