३५ १०

१० पिण्डपितृयज्ञः ...{Loading}...

विस्तारः (द्रष्टुं नोद्यम्)

(प्राजापत्यं काण्डम्)

पितृभ्यः पूर्वेद्युर् अमावास्यायाम्

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रँ ह॒त्वा, असु॑रान् परा॒भाव्य॒॑, सो॑ऽमावा॒स्या॒॑म् प्रत्याग॑च्छत्

मूलम्

इन्द्रो॑ वृ॒त्रँ ह॒त्वा, असु॑रान् परा॒भाव्य॒॑, सो॑ऽमावा॒स्या॑म् प्रत्याग॑च्छत् ।

भट्टभास्कर-टीका

1 इन्द्रो वृत्रं हत्वेत्यादि ॥ दर्शपूर्णर्णमासब्राह्माणशेषः । प्राजापत्यं काण्डम् । असुरान् पराभाव्य पराभूतान् कृत्वा, अमावास्यां प्रति अमावास्यां लक्षीकृत्य अमावास्यायामागच्छत् ।

सायण-टीका अथ दशमे पिण्डपितृयज्ञ उच्यते । तत्राऽऽदौ कालविशेषं विधत्ते-

इन्द्रो वृत्रँ हत्वा । असुरान्पराभाव्य । सोऽमावास्यां प्रत्यागच्छत् ।

इन्द्रः पुरा युद्धे वृत्रं हत्वा तदीयानसुरांश्च पराभूतान्कृत्वा पश्चादमावास्या-यागदिनं प्रति स्वगृहे समागच्छत् ।

विश्वास-प्रस्तुतिः

ते पि॒तर॑ᳶ पूर्वे॒द्युर् आग॑च्छन्
पि॒तॄन् य॒ज्ञो॑ ऽगच्छत्

मूलम्

ते पि॒तर॑ᳶ पूर्वे॒द्युर् आग॑च्छन् ।
पि॒तॄन् य॒ज्ञो॑ ऽगच्छत् ।

भट्टभास्कर-टीका

पूर्वेद्युः पितर आगताः । यज्ञश्च दर्शपूर्णमासाख्यः पितृनगच्छत् पितृभिस्सहावसत् ।

सायण-टीका

ते पितरः पूर्वेद्युरागच्छन् । पितॄन् यज्ञोऽगच्छत् ।

शुक्लप्रतिपदि ह्यमावास्यायागः क्रियते ततः पूर्वेद्युः पितर आगतास्तैः पितृभिः सह यज्ञोऽपि गतः ।

विश्वास-प्रस्तुतिः

तन् दे॒वाᳶ पुन॑र् अयाचन्त ।
तम् ए॑भ्यो॒ न पुन॑र् अददुः ।

मूलम्

तन् दे॒वाᳶ पुन॑र् अयाचन्त ।
तम् ए॑भ्यो॒ न पुन॑र् अददुः ।

विश्वास-प्रस्तुतिः

ते᳙ ऽब्रुव॒न् -

वरव्ँ॑ वृणामहै ।
अथ॑ व॒ᳶ पुन॑र् दास्यामः ।
अ॒स्मभ्य॑म् ए॒व पू॑र्वे॒द्युᳵ क्रि॑याता॒

इति॑ ॥ 56 ॥
तम् ए॑भ्य॒ᳶ पुन॑र् अददुः

मूलम्

ते॑ ऽब्रुव॒न् - “वरव्ँ॑ वृणामहै । अथ॑ व॒ᳶ पुन॑र् दास्यामः । अ॒स्मभ्य॑म् ए॒व पू॑र्वे॒द्युᳵ क्रि॑याता॒” इति॑ ॥ 56 ॥
तम् ए॑भ्य॒ᳶ पुन॑र् अददुः ।

भट्टभास्कर-टीका

तं देवा इत्यादि । गतम् ॥

सायण-टीका

तं देवाᳶ पुनरयाचन्त । तमेभ्यो न पुनरददुः ।
तेऽब्रुवन्वरं वृणामहै । अथ वᳶ पुनर्दास्यामः । अस्मभ्यमेव पूर्वेद्युᳶ क्रियाता इति ॥ 56 ॥
तमेभ्यः पुनरददुः ।

तं पितृभिः सहावस्थितं यज्ञं देवाः स्वार्थमयाचन्त पूर्वमस्मदीयो यज्ञ इदानीं भवत्समीपमागतः पुनरस्मभ्यमेव यज्ञो दातव्य इति । ततः पितरस्तमदत्त्वा तद्दानार्थमुत्कोचमपेक्षितवन्तः । पुर्वेद्युर्दर्शदिनेऽस्मदर्थं कर्म कर्तव्यम् । ततः प्रतिपद्यनुष्ठेयं दर्शपूर्णमासाख्यं यज्ञं दास्याम इति प्रत्यजानन् । ततो देवैस्तथेत्यङ्गीकृते तं यज्ञं दत्तंवन्तः ।

विश्वास-प्रस्तुतिः

तस्मा॑त् पि॒तृभ्य॑ᳶ पूर्वे॒द्युᳵ क्रि॑यते ।

मूलम्

तस्मा॑त् पि॒तृभ्य॑ᳶ पूर्वे॒द्युᳵ क्रि॑यते ।

विश्वास-प्रस्तुतिः

यत् पि॒तृभ्य॑ᳶ पूर्वे॒द्युᳵ क॒रोति॑
पि॒तृभ्य॑ ए॒व तद् य॒ज्ञन् नि॒ष्क्रीय॒
यज॑मान॒ᳶ प्रत॑नुते ।

मूलम्

यत्पि॒तृभ्य॑ᳶ पूर्वे॒द्युᳵ क॒रोति॑ । पि॒तृभ्य॑ ए॒व तद्य॒ज्ञन्नि॒ष्क्रीय॒ यज॑मान॒ᳶ प्रत॑नुते ।

भट्टभास्कर-टीका

2 तस्मादित्यादि ॥ पूर्वेद्युः पिण्डपितृयज्ञः पितृभ्यः क्रियते पूर्वेद्युः पितृभ्य एव कर्तव्यत्वेन देवैर्दत्तत्वात् । तस्मात्तेन पितृयज्ञेन पितृभ्यो यज्ञं दर्शपूर्णमासाख्यं निष्क्रीय उत्तरेद्युः प्रतनुते प्रकर्षेण विस्तारयति निर्बाधमारभते यजमानः ॥

सायण-टीका

तस्मात्पितृभ्यᳶ पूर्वेद्युᳶ क्रियते । यत्पितृभ्यᳶ पूर्वेद्युᳶ करोति । पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानᳶ प्रतनुते ।

तस्मात्पित्रर्थं कर्म पूर्वेद्युः पूर्वदिने कुर्यात् । तथा कृते तेन मूल्येन यज्ञं - पितृभ्यो निष्क्रीय यजमानस्तमनुष्ठातुं प्रवर्तते ।